९. बहुवेदनीयसुत्तवण्णना

८८. एवं मे सुतन्ति बहुवेदनीयसुत्तं. तत्थ पञ्चकङ्गो थपतीति पञ्चकङ्गोति तस्स नामं. वासिफरसुनिखादनदण्डमुग्गरकाळसुत्तनाळिसङ्खातेहि वा अङ्गेहि समन्नागतत्ता सो पञ्चङ्गोति पञ्ञातो. थपतीति वड्ढकीजेट्ठको. उदायीति पण्डितउदायित्थेरो.

८९. परियायन्ति कारणं. द्वेपानन्दाति द्वेपि, आनन्द. परियायेनाति कारणेन. एत्थ च कायिकचेतसिकवसेन द्वे वेदितब्बा. सुखादिवसेन तिस्सो, इन्द्रियवसेन सुखिन्द्रियादिका पञ्च, द्वारवसेन चक्खुसम्फस्सजादिका छ, उपविचारवसेन ‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरती’’तिआदिका अट्ठारस, छ गेहस्सितानि सोमनस्सानि, छ नेक्खम्मसितानि सोमनस्सानि, छ गेहस्सितानि दोमनस्सानि, छ नेक्खम्मसितानि दोमनस्सानि, छ गेहस्सिता उपेक्खा, छ नेक्खम्मसिताति एवं छत्तिंस, ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठवेदनासतं वेदितब्बं.

९०. पञ्च खो इमे, आनन्द, कामगुणाति अयं पाटिएक्को अनुसन्धि. न केवलम्पि द्वे आदिं कत्वा वेदना भगवता पञ्ञत्ता, परियायेन एकापि वेदना कथिता. तं दस्सेन्तो पञ्चकङ्गस्स थपतिनो वादं उपत्थम्भेतुं इमं देसनं आरभि.

अभिक्कन्ततरन्ति सुन्दरतरं. पणीततरन्ति अतप्पकतरं. एत्थ च चतुत्थज्झानतो पट्ठाय अदुक्खमसुखा वेदना, सापि सन्तट्ठेन पणीतट्ठेन च सुखन्ति वुत्ता. छ गेहस्सितानि सुखन्ति वुत्तानि. निरोधो अवेदयितसुखवसेन सुखं नाम जातो. पञ्चकामगुणवसेन हि अट्ठसमापत्तिवसेन च उप्पन्नं वेदयितसुखं नाम. निरोधो अवेदयितसुखं नाम. इति वेदयितसुखं वा होतु अवेदयितसुखं वा, तं निद्दुक्खभावसङ्खातेन सुखट्ठेन एकन्तसुखमेव जातं.

९१. यत्थ यत्थाति यस्मिं यस्मिं ठाने. सुखं उपलब्भतीति वेदयितसुखं वा अवेदयितसुखं वा उपलब्भति. तं तं तथागतो सुखस्मिं पञ्ञपेतीति तं सब्बं तथागतो निद्दुक्खभावं सुखस्मिंयेव पञ्ञपेतीति. इध भगवा निरोधसमापत्तिं सीसं कत्वा नेय्यपुग्गलवसेन अरहत्तनिकूटेनेव देसनं निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

बहुवेदनीयसुत्तवण्णना निट्ठिता.