६. उपालिसुत्तवण्णना
५६. एवं मे सुतन्ति उपालिसुत्तं. तत्थ नाळन्दायन्ति नालन्दाति एवंनामके नगरे तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि, सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यादेसि, सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्तेव सङ्खं गतो. तस्मिं पावारिकम्बवने विहरतीति अत्थो. दीघतपस्सीति दीघत्ता एवंलद्धनामो. पिण्डपातपटिक्कन्तोति पिण्डपाततो पटिक्कन्तो. सासने विय किं पन बाहिरायतने पिण्डपातोति वोहारो अत्थीति, नत्थि.
पञ्ञपेतीति दस्सेति ठपेति. दण्डानि पञ्ञपेतीति इदं निगण्ठसमयेन पुच्छन्तो आह. कायदण्डं वचीदण्डं मनोदण्डन्ति एत्थ पुरिमदण्डद्वयं ते अचित्तकं पय्यपेन्ति. यथा किर वाते वायन्ते साखा चलति, उदकं चलति, न च तत्थ चित्तं अत्थि, एवं कायदण्डोपि अचित्तकोव होति. यथा च वाते वायन्ते तालपण्णादीनि सद्दं करोन्ति, उदकानि सद्दं करोन्ति, न च तत्थ चित्तं अत्थि, एवं वचीदण्डोपि अचित्तकोव होतीति इमं दण्डद्वयं अचित्तकं पञ्ञपेन्ति. चित्तं पन मनोदण्डन्ति पञ्ञपेन्ति. अथस्स भगवा वचनं पतिट्ठपेतुकामो ‘‘किं पन तपस्सी’’तिआदिमाह.
तत्थ कथावत्थुस्मिन्ति एत्थ कथायेव कथावत्थु. कथायं पतिट्ठपेसीति अत्थो. कस्मा पन भगवा एवमकासि? पस्सति हि भगवा ‘‘अयं इमं कथं आदाय गन्त्वा अत्तनो सत्थु महानिगण्ठस्स आरोचेस्सति, तासञ्च परिसति, उपालि गहपति निसिन्नो, सो इमं कथं सुत्वा मम वादं आरोपेतुं आगमिस्सति, तस्साहं धम्मं देसेस्सामि, सो तिक्खत्तुं सरणं गमिस्सति, अथस्स चत्तारि सच्चानि पकासेस्सामि, सो सच्चपकासनावसाने सोतापत्तिफले पतिट्ठहिस्सति, परेसं सङ्गहत्थमेव हि मया पारमियो पूरिता’’ति. इममत्थं पस्सन्तो एवमकासि.
५७. कम्मानि पञ्ञपेसीति इदं निगण्ठो बुद्धसमयेन पुच्छन्तो आह. कायकम्मं वचीकम्मं मनोकम्मन्ति एत्थ कायद्वारे आदानगहणमुञ्चनचोपनपत्ता अट्ठकामावचरकुसलचेतना द्वादसाकुसलचेतनाति वीसतिचेतना कायकम्मं नाम. कायद्वारे आदानादीनि अपत्वा वचीद्वारे वचनभेदं पापयमाना उप्पन्ना तायेव वीसतिचेतना वचीकम्मं नाम. उभयद्वारे चोपनं अप्पत्वा मनोद्वारे उप्पन्ना एकूनतिंसकुसलाकुसलचेतना मनोकम्मं नाम. अपिच सङ्खेपतो तिविधं कायदुच्चरितं कायकम्मं नाम, चतुब्बिधं वचीदुच्चरितं वचीकम्मं नाम, तिविधं मनोदुच्चरितं मनोकम्मं नाम. इमस्मिञ्च सुत्ते कम्मं धुरं, अनन्तरसुत्ते ‘‘चत्तारिमानि पुण्ण कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति (म. नि. २.८१) एवमागतेपि चेतना धुरं. यत्थ कत्थचि पवत्ता चेतना ‘‘कण्हं कण्हविपाक’’न्तिआदिभेदं लभति. निद्देसवारे चस्स ‘‘सब्याबज्झं कायसङ्खारं अभिसङ्खरोती’’तिआदिना नयेन सा वुत्ताव. कायद्वारे पवत्ता पन इध कायकम्मन्ति अधिप्पेतं, वचीद्वारे पवत्ता वचीकम्मं, मनोद्वारे पवत्ता मनोकम्मं. तेन वुत्तं – ‘‘इमस्मिं सुत्ते कम्मं धुरं, अनन्तरसुत्ते चेतना’’ति. कम्मम्पि हि भगवा कम्मन्ति पञ्ञपेति यथा इमस्मिंयेव सुत्ते. चेतनम्पि, यथाह – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोती’’ति (अ. नि. ६.६३). कस्मा पन चेतना कम्मन्ति वुत्ता? चेतनामूलकत्ता कम्मस्स.
एत्थ च अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, कुसलं पत्वा मनोकम्मं. तथा हि मातुघातादीनि चत्तारि कम्मानि कायेनेव उपक्कमित्वा कायेनेव करोति, निरये कप्पट्ठिकसङ्घभेदकम्मं वचीद्वारेन करोति. एवं अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति नाम. एका पन झानचेतना चतुरासीतिकप्पसहस्सानि सग्गसम्पत्तिं आवहति, एका मग्गचेतना सब्बाकुसलं समुग्घातेत्वा अरहत्तं गण्हापेति. एवं कुसलं पत्वा मनोकम्मं महन्तन्ति वदन्तो न किलमति नाम. इमस्मिं पन ठाने भगवा अकुसलं पत्वा मनोकम्मं महासावज्जं वदमानो नियतमिच्छादिट्ठिं सन्धाय वदति. तेनेवाह – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महासावज्जानी’’ति (अ. नि. १.३१०).
इदानि निगण्ठोपि तथागतेन गतमग्गं पटिपज्जन्तो किञ्चि अत्थनिप्फत्तिं अपस्सन्तोपि ‘‘किं पनावुसो, गोतमा’’तिआदिमाह.
५८. बालकिनियाति उपालिस्स किर बालकलोणकारगामो नाम अत्थि, ततो आयं गहेत्वा मनुस्सा आगता, सो ‘‘एथ भणे, अम्हाकं सत्थारं महानिगण्ठं पस्सिस्सामा’’ति ताय परिसाय परिवुतो तत्थ अगमासि. तं सन्धाय वुत्तं ‘‘बालकिनिया परिसाया’’ति, बालकगामवासिनियाति अत्थो. उपालिपमुखायाति उपालिजेट्ठकाय. अपिच बालकिनियाति बालवतिया बालुस्सन्नायातिपि अत्थो. उपालिपमुखायाति उपालिगहपतियेव तत्थ थोकं सप्पञ्ञो, सो तस्सा पमुखो जेट्ठको. तेनापि वुत्तं ‘‘उपालिपमुखाया’’ति. हन्दाति वचसायत्थे निपातो. छवोति लामको. ओळारिकस्साति महन्तस्स. उपनिधायाति उपनिक्खिपित्वा. इदं वुत्तं होति, कायदण्डस्स सन्तिके निक्खिपित्वा ‘‘अयं नु खो महन्तो, अयं महन्तो’’ति एवं ओलोकियमानो छवो मनोदण्डो किं सोभति, कुतो सोभिस्सति, न सोभति, उपनिक्खेपमत्तम्पि नप्पहोतीति दीपेति. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति नाटपुत्तमालपति.
६०. न खो मेतं, भन्ते, रुच्चतीति, भन्ते, एतं मय्हं न रुच्चति. मायावीति मायाकारो. आवट्टनिमायन्ति आवट्टेत्वा गहणमायं. आवट्टेतीति आवट्टेत्वा परिक्खिपित्वा गण्हाति. गच्छ त्वं गहपतीति कस्मा महानिगण्ठो गहपतिं यावततियं पहिणतियेव? दीघतपस्सी पन पटिबाहतेव? महानिगण्ठेन हि भगवता सद्धिं एकं नगरं उपनिस्साय विहरन्तेनपि न भगवा दिट्ठपुब्बो. यो हि सत्थुवादपटिञ्ञो होति, सो तं पटिञ्ञं अप्पहाय बुद्धदस्सने अभब्बो. तस्मा एस बुद्धदस्सनस्स अलद्धपुब्बत्ता दसबलस्स दस्सनसम्पत्तिञ्च निय्यानिककथाभावञ्च अजानन्तो यावततियं पहिणतेव. दीघतपस्सी पन कालेन कालं भगवन्तं उपसङ्कमित्वा तिट्ठतिपि निसीदतिपि पञ्हम्पि पुच्छति, सो तथागतस्स दस्सनसम्पत्तिम्पि निय्यानिककथाभावम्पि जानाति. अथस्स एतदहोसि – ‘‘अयं गहपति पण्डितो, समणस्स गोतमस्स सन्तिके गन्त्वा दस्सनेपि पसीदेय्य, निय्यानिककथं सुत्वापि पसीदेय्य. ततो न पुन अम्हाकं सन्तिकं आगच्छेय्या’’ति. तस्मा यावततियं पटिबाहतेव.
अभिवादेत्वाति वन्दित्वा. तथागतञ्हि दिस्वा पसन्नापि अप्पसन्नापि येभुय्येन वन्दन्तियेव, अप्पका न वन्दन्ति. कस्मा? अतिउच्चे हि कुले जातो अगारं अज्झावसन्तोपि वन्दितब्बोयेवाति. अयं पन गहपति पसन्नत्ताव वन्दि, दस्सनेयेव किर पसन्नो. आगमा नु ख्विधाति आगमा नु खो इध.
६१. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति, भगवन्तं आलपति. सच्चे पतिट्ठायाति थुसरासिम्हि आकोटितखाणुको विय अचलन्तो वचीसच्चे पतिट्ठहित्वा. सिया नोति भवेय्य अम्हाकं.
६२. इधाति इमस्मिं लोके. अस्साति भवेय्य. सीतोदकपटिक्खित्तोति निगण्ठा सत्तसञ्ञाय सीतोदकं पटिक्खिपन्ति. तं सन्धायेतं वुत्तं. मनोसत्ता नाम देवाति मनम्हि सत्ता लग्गा लगिता. मनोपटिबद्धोति यस्मा मनम्हि पटिबद्धो हुत्वा कालङ्करोति, तस्मा मनोसत्तेसु देवेसु उपपज्जतीति दस्सेति. तस्स हि पित्तजररोगो भविस्सति. तेनस्स उण्होदकं पिवितुं वा हत्थपादादिधोवनत्थाय वा गत्तपरिसिञ्चनत्थाय वा उपनेतुं न वट्टति, रोगो बलवतरो होति. सीतोदकं वट्टति, रोगं वूपसमेति. अयं पन उण्होदकमेव पटिसेवति, तं अलभमानो ओदनकञ्जिकं पटिसेवति. चित्तेन पन सीतोदकं पातुकामो च परिभुञ्जितुकामो च होति. तेनस्स मनोदण्डो तत्थेव भिज्जति. सो कायदण्डं वचीदण्डं रक्खामीति सीतोदकं पातुकामो वा परिभुञ्जितुकामो वा सीतोदकमेव देथाति वत्तुं न विसहति. तस्स एवं रक्खितापि कायदण्डवचीदण्डा चुतिं वा पटिसन्धिं वा आकड्ढितुं न सक्कोन्ति. मनोदण्डो पन भिन्नोपि चुतिम्पि पटिसन्धिम्पि आकड्ढतियेव. इति नं भगवा दुब्बलकायदण्डवचीदण्डा छवा लामका, मनोदण्डोव बलवा महन्तोति वदापेसि.
तस्सपि उपासकस्स एतदहोसि. ‘‘मुच्छावसेन असञ्ञिभूतानञ्हि सत्ताहम्पि अस्सासपस्सासा नप्पवत्तन्ति, चित्तसन्ततिपवत्तिमत्तेनेव पन ते मताति न वुच्चन्ति. यदा नेसं चित्तं नप्पवत्तति, तदा ‘मता एते नीहरित्वा ते झापेथा’ति वत्तब्बतं आपज्जन्ति. कायदण्डो निरीहो अब्यापारो, तथा वचीदण्डो. चित्तेनेव पन तेसं चुतिपि पटिसन्धिपि होति. इतिपि मनोदण्डोव महन्तो. भिज्जित्वापि चुतिपटिसन्धिआकड्ढनतो एसेव महन्तो. अम्हाकं पन महानिगण्ठस्स कथा अनिय्यानिका’’ति सल्लक्खेसि. भगवतो पन विचित्तानि पञ्हपटिभानानि सोतुकामो न ताव अनुजानाति.
न खो ते सन्धियतीति न खो ते घटियति. पुरिमेन वा पच्छिमन्ति ‘‘कायदण्डो महन्तो’’ति इमिना पुरिमेन वचनेन इदानि ‘‘मनोदण्डो महन्तो’’ति इदं वचनं. पच्छिमेन वा पुरिमन्ति तेन वा पच्छिमेन अदुं पुरिमवचनं न घटियति.
६३. इदानिस्स भगवा अञ्ञानिपि कारणानि आहरन्तो ‘‘तं किं मञ्ञसी’’तिआदिमाह. तत्थ चातुयामसंवरसंवुतोति न पाणमतिपातेति, न पाणमतिपातयति, न पाणमतिपातयतो समनुञ्ञो होति. न अदिन्नं आदियति, न अदिन्नं आदियापेति, न अदिन्नं आदियतो समनुञ्ञो होति. न मुसा भणति, न मुसा भणापेति, न मुसा भणतो समनुञ्ञो होति. न भावितमासीसति, न भावितमासीसापेति, न भावितमासीसतो समनुञ्ञो होतीति इमिना चतुकोट्ठासेन संवरेन संवुतो. एत्थ च भावितन्ति पञ्चकामगुणा.
सब्बवारिवारितोति वारितसब्बउदको, पटिक्खित्तसब्बसीतोदकोति अत्थो. सो हि सीतोदके सत्तसञ्ञी होति, तस्मा न तं वलञ्जेति. अथ वा सब्बवारिवारितोति सब्बेन पापवारणेन वारितपापो. सब्बवारियुत्तोति सब्बेन पापवारणेन युत्तो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो. सब्बवारिफुटोति सब्बेन पापवारणेन फुटो. खुद्दके पाणे सङ्घातं आपादेतीति खुद्दके पाणे वधं आपादेति. सो किर एकिन्द्रियं पाणं दुविन्द्रियं पाणन्ति पञ्ञपेति. सुक्खदण्डक-पुराणपण्णसक्खर-कथलानिपि पाणोतेव पञ्ञपेति. तत्थ खुद्दकं उदकबिन्दु खुद्दको पाणो, महन्तं महन्तोति सञ्ञी होति. तं सन्धायेतं वुत्तं. किस्मिं पञ्ञपेतीति कत्थ कतरस्मिं कोट्ठासे पञ्ञपेति. मनोदण्डस्मिन्ति मनोदण्डकोट्ठासे, भन्तेति. अयं पन उपासको भणन्तोव सयम्पि सल्लक्खेसि – ‘‘अम्हाकं महानिगण्ठो ‘असञ्चेतनिकं कम्मं अप्पसावज्जं, सञ्चेतनिकं महासावज्ज’न्ति पञ्ञपेत्वा चेतनं मनोदण्डोति पञ्ञपेति, अनिय्यानिका एतस्स कथा, भगवतोव निय्यानिका’’ति.
६४. इद्धाति समिद्धा. फीताति अतिसमिद्धा सब्बपालिफुल्ला विय. आकिण्णमनुस्साति जनसमाकुला. पाणाति हत्थिअस्सादयो तिरच्छानगता चेव इत्थिपुरिसदारकादयो मनुस्सजातिका च. एकं मंसखलन्ति एकं मंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. इद्धिमाति आनुभावसम्पन्नो. चेतोवसिप्पत्तोति चित्ते वसीभावप्पत्तो. भस्मं करिस्सामीति छारिकं करिस्सामि. किञ्हि सोभति एका छवा नाळन्दाति इदम्पि भणन्तो सो गहपति – ‘‘कायपयोगेन पञ्ञासम्पि मनुस्सा एकं नाळन्दं एकं मंसखलं कातुं न सक्कोन्ति, इद्धिमा पन एको एकेनेव मनोपदोसेन भस्मं कातुं समत्थो. अम्हाकं महानिगण्ठस्स कथा अनिय्यानिका, भगवतोव कथा निय्यानिका’’ति सल्लक्खेसि.
६५. अरञ्ञं अरञ्ञभूतन्ति अगामकं अरञ्ञमेव हुत्वा अरञ्ञं जातं. इसीनं मनोपदोसेनाति इसीनं अत्थाय कतेन मनोपदोसेन तं मनोपदोसं असहमानाहि देवताहि तानि रट्ठानि विनासितानि. लोकिका पन इसयो मनं पदोसेत्वा विनासयिंसूति मञ्ञन्ति. तस्मा इमस्मिं लोकवादे ठत्वाव इदं वादारोपनं कतन्ति वेदितब्बं.
तत्थ दण्डकीरञ्ञादीनं एवं अरञ्ञभूतभावो जानितब्बो – सरभङ्गबोधिसत्तस्स ताव परिसाय अतिवेपुल्लतं गताय किसवच्छो नाम तापसो महासत्तस्स अन्तेवासी विवेकवासं पत्थयमानो गणं पहाय गोधावरीतीरतो कलिङ्गरट्ठे दण्डकीरञ्ञो कुम्भपुरं नाम नगरं उपनिस्साय राजुय्याने विवेकमनुब्रूहयमानो विहरति. तस्स सेनापति उपट्ठाको होति.
तदा च एका गणिका रथं अभिरुहित्वा पञ्चमातुगामसतपरिवारा नगरं उपसोभयमाना विचरति. महाजनो तमेव ओलोकयमानो परिवारेत्वा विचरति, नगरवीथियो नप्पहोन्ति. राजा वातपानं विवरित्वा ठितो तं दिस्वा का एसाति पुच्छि. तुम्हाकं नगरसोभिनी देवाति. सो उस्सूयमानो ‘‘किं एताय सोभति, नगरं सयं सोभिस्सती’’ति तं ठानन्तरं अच्छिन्दापेसि.
सा ततो पट्ठाय केनचि सद्धिं सन्थवं कत्वा ठानन्तरं परियेसमाना एकदिवसं राजुय्यानं पविसित्वा चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्नं तापसं दिस्वा चिन्तेसि – ‘‘किलिट्ठो वतायं तापसो अनञ्जितमण्डितो, दाठिकाहि परुळ्हाहि मुखं पिहितं, मस्सुना उरं पिहितं, उभो कच्छा परुळ्हा’’ति. अथस्सा दोमनस्सं उप्पज्जि – ‘‘अहं एकेन किच्चेन विचरामि, अयञ्च मे काळकण्णी दिट्ठो, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति उदकदन्तकट्ठं आहरापेत्वा दन्तकट्ठं खादित्वा तापसस्स सरीरे पिण्डं पिण्डं खेळं पातेत्वा दन्तकट्ठं जटामत्थके खिपित्वा मुखं विक्खालेत्वा उदकं तापसस्स मत्थकस्मिंयेव सिञ्चित्वा – ‘‘येहि मे अक्खीहि काळकण्णी दिट्ठो, तानि धोतानि कलिपवाहितो’’ति निक्खन्ता.
तंदिवसञ्च राजा सतिं पटिलभित्वा – ‘‘भो कुहिं नगरसोभिनी’’ति पुच्छि. इमस्मिंयेव नगरे देवाति. पकतिट्ठानन्तरं तस्सा देथाति ठानन्तरं दापेसि. सा पुब्बे सुकतकम्मं निस्साय लद्धं ठानन्तरं तापसस्स सरीरे खेळपातनेन लद्धन्ति सञ्ञमकासि.
ततो कतिपाहस्सच्चयेन राजा पुरोहितस्स ठानन्तरं गण्हि. सो नगरसोभिनिया सन्तिकं गन्त्वा ‘‘भगिनि किन्ति कत्वा ठानन्तरं पटिलभी’’ति पुच्छि. ‘‘किं ब्राह्मण अञ्ञं कातब्बं अत्थि, राजुय्याने अनञ्जितकाळकण्णी कूटजटिलो एको अत्थि, तस्स सरीरे खेळं पातेहि, एवं ठानन्तरं लभिस्ससी’’ति आह. सो ‘‘एवं करिस्सामि भगिनी’’ति तत्थ गन्त्वा ताय कथितसदिसमेव सब्बं कत्वा निक्खमि. राजापि तंदिवसमेव सतिं पटिलभित्वा – ‘‘कुहिं, भो, ब्राह्मणो’’ति पुच्छि. इमस्मिंयेव नगरे देवाति. ‘‘अम्हेहि अनुपधारेत्वा कतं, तदेवस्स ठानन्तरं देथा’’ति दापेसि. सोपि पुञ्ञबलेन लभित्वा ‘‘तापसस्स सरीरे खेळपातनेन लद्धं मे’’ति सञ्ञमकासि.
ततो कतिपाहस्सच्चयेन रञ्ञो पच्चन्तो कुपितो. राजा पच्चन्तं वूपसमेस्सामीति चतुरङ्गिनिया सेनाय निक्खमि. पुरोहितो गन्त्वा रञ्ञो पुरतो ठत्वा ‘‘जयतु महाराजा’’ति वत्वा – ‘‘तुम्हे, महाराज, जयत्थाय गच्छथा’’ति पुच्छि. आम ब्राह्मणाति. एवं सन्ते राजुय्याने अनञ्जितकाळकण्णी एको कूटजटिलो वसति, तस्स सरीरे खेळं पातेथाति. राजा तस्स वचनं गहेत्वा यथा गणिकाय च तेन च कतं, तथेव सब्बं कत्वा ओरोधेपि आणापेसि – ‘‘एतस्स कूटजटिलस्स सरीरे खेळं पातेथा’’ति. ततो ओरोधापि ओरोधपालकापि तथेव अकंसु. अथ राजा उय्यानद्वारे रक्खं ठपापेत्वा ‘‘रञ्ञा सद्धिं निक्खमन्ता सब्बे तापसस्स सरीरे खेळं अपातेत्वा निक्खमितुं न लभन्ती’’ति आणापेसि. अथ सब्बो बलकायो च सेनियो च तेनेव नियामेन तापसस्स उपरि खेळञ्च दन्तकट्ठानि च मुखविक्खालित उदकञ्च पापयिंसु, खेळो च दन्तकट्ठानि च सकलसरीरं अवत्थरिंसु.
सेनापति सब्बपच्छा सुणित्वा ‘‘मय्हं किर सत्थारं भवन्तं पुञ्ञक्खेत्तं सग्गसोपानं एवं घट्टयिंसू’’ति उसुमजातहदयो मुखेन अस्ससन्तो वेगेन राजुय्यानं आगन्त्वा तथा ब्यसनपत्तं इसिं दिस्वा कच्छं बन्धित्वा द्वीहि हत्थेहि दन्तकट्ठानि अपवियूहित्वा उक्खिपित्वा निसीदापेत्वा उदकं आहरापेत्वा न्हापेत्वा सब्बओसधेहि चेव चतुज्जातिगन्धेहि च सरीरं उब्बट्टेत्वा सुखुमसाटकेन पुञ्छित्वा पुरतो अञ्जलिं कत्वा ठितो एवमाह ‘‘अयुत्तं, भन्ते, मनुस्सेहि कतं, एतेसं किं भविस्सती’’ति. देवता सेनापति तिधा भिन्ना, एकच्चा ‘‘राजानमेव नासेस्सामा’’ति वदन्ति, एकच्चा ‘‘सद्धिं परिसाय राजान’’न्ति, एकच्चा ‘‘रञ्ञो विजितं सब्बं नासेस्सामा’’ति. इदं वत्वा पन तापसो अप्पमत्तकम्पि कोपं अकत्वा लोकस्स सन्तिउपायमेव आचिक्खन्तो आह ‘‘अपराधो नाम होति, अच्चयं पन देसेतुं जानन्तस्स पाकतिकमेव होती’’ति.
सेनापति नयं लभित्वा रञ्ञो सन्तिकं गन्त्वा राजानं वन्दित्वा आह – ‘‘तुम्हेहि, महाराज, निरापराधे महिद्धिके तापसे अपरज्झन्तेहि भारियं कम्मं कतं, देवता किर तिधा भिन्ना एवं वदन्ती’’ति सब्बं आरोचेत्वा – ‘‘खमापिते किर, महाराज, पाकतिकं होति, रट्ठं मा नासेथ, तापसं खमापेथा’’ति आह. राजा अत्तनि दोसं कतं दिस्वापि एवं वदति ‘‘न तं खमापेस्सामी’’ति. सेनापति यावततियं याचित्वा अनिच्छन्तमाह – ‘‘अहं, महाराज, तापसस्स बलं जानामि, न सो अभूतवादी, नापि कुपितो, सत्तानुद्दयेन पन एवमाह खमापेथ नं महाराजा’’ति. न खमापेमीति. तेन हि सेनापतिट्ठानं अञ्ञस्स देथ, अहं तुम्हाकं आणापवत्तिट्ठाने न वसिस्सामीति. त्वं येनकामं गच्छ, अहं मय्हं सेनापतिं लभिस्सामीति. ततो सेनापति तापसस्स सन्तिकं आगन्त्वा वन्दित्वा ‘‘कथं पटिपज्जामि, भन्ते’’ति आह. सेनापति ये ते वचनं सुणन्ति, सब्बे सपरिक्खारे सधने सद्विपदचतुप्पदे गहेत्वा सत्तदिवसब्भन्तरे बहि रज्जसीमं गच्छ, देवता अतिविय कुपिता धुवं रट्ठम्पि अरट्ठं करिस्सन्तीति. सेनापति तथा अकासि.
राजा गतमत्तोयेव अमित्तमथनं कत्वा जनपदं वूपसमेत्वा आगम्म जयखन्धावारट्ठाने निसीदित्वा नगरं पटिजग्गापेत्वा अन्तोनगरं पाविसि. देवता पठमंयेव उदकवुट्ठिं पातयिंसु. महाजनो अत्तमनो अहोसि ‘‘कूटजटिलं अपरद्धकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढियेव, अमित्ते निम्मथेसि, आगतदिवसेयेव देवो वुट्ठो’’ति. देवता पुन सुमनपुप्फवुट्ठिं पातयिंसु, महाजनो अत्तमनतरो अहोसि. देवता पुन मासकवुट्ठिं पातयिंसु. ततो कहापणवुट्ठिं, ततो कहापणत्थं न निक्खमेय्युन्ति मञ्ञमाना हत्थूपगपादूपगादिकतभण्डवुट्ठिं पातेसुं. महाजनो सत्तभूमिकपासादे ठितोपि ओतरित्वा आभरणानि पिळन्धन्तो अत्तमनो अहोसि. ‘‘अरहति वत कूटजटिलके खेळपातनं, तस्स उपरि खेळपातितकालतो पट्ठाय अम्हाकं रञ्ञो वड्ढि जाता, अमित्तमथनं कतं, आगतदिवसेयेव देवो वस्सि, ततो सुमनवुट्ठि मासकवुट्ठि कहापणवुट्ठि कतभण्डवुट्ठीति चतस्सो वुट्ठियो जाता’’ति अत्तमनवाचं निच्छारेत्वा रञ्ञो कतपापे समनुञ्ञो जातो.
तस्मिं समये देवता एकतोधारउभतोधारादीनि नानप्पकारानि आवुधानि महाजनस्स उपरि फलके मंसं कोट्टयमाना विय पातयिंसु. तदनन्तरं वीतच्चिके वीतधूमे किंसुकपुप्फवण्णे अङ्गारे, तदनन्तरं कूटागारप्पमाणे पासाणे, तदनन्तरं अन्तोमुट्ठियं असण्ठहनिकं सुखुमवालिकं वस्सापयमाना असीतिहत्थुब्बेधं थलं अकंसु. रञ्ञो विजितट्ठाने किसवच्छतापसो सेनापति मातुपोसकरामोति तयोव मनुस्सभूता अरोगा अहेसुं. सेसानं तस्मिं कम्मे असमङ्गीभूतानं तिरच्छानानं पानीयट्ठाने पानीयं नाहोसि, तिणट्ठाने तिणं. ते येन पानीयं येन तिणन्ति गच्छन्ता अप्पत्तेयेव सत्तमे दिवसे बहिरज्जसीमं पापुणिंसु. तेनाह सरभङ्गबोधिसत्तो –
‘‘किसञ्हि वच्छं अवकिरिय दण्डकी,
उच्छिन्नमूलो सजनो सरट्ठो;
कुक्कुळनामे निरयम्हि पच्चति,
तस्स फुलिङ्गानि पतन्ति काये’’ति. (जा. २.१७.७०);
एवं ताव दण्डकीरञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.
कलिङ्गरट्ठे पन नाळिकिररञ्ञे रज्जं कारयमाने हिमवति पञ्चसततापसा अनित्थिगन्धा अजिनजटवाकचीरधरा वनमूलफलभक्खा हुत्वा चिरं वीतिनामेत्वा लोणम्बिलसेवनत्थं मनुस्सपथं ओतरित्वा अनुपुब्बेन कलिङ्गरट्ठे नाळिकिररञ्ञो नगरं सम्पत्ता. ते जटाजिनवाकचीरानि सण्ठपेत्वा पब्बजितानुरूपं उपसमसिरिं दस्सयमाना नगरं भिक्खाय पविसिंसु. मनुस्सा अनुप्पन्ने बुद्धुप्पादे तापसपब्बजिते दिस्वा पसन्ना निसज्जट्ठानं संविधाय हत्थतो भिक्खाभाजनं गहेत्वा निसीदापेत्वा भिक्खं सम्पादेत्वा अदंसु. तापसा कतभत्तकिच्चा अनुमोदनं अकंसु. मनुस्सा सुत्वा पसन्नचित्ता ‘‘कुहिं भदन्ता गच्छन्ती’’ति पुच्छिंसु. यथाफासुकट्ठानं, आवुसोति. भन्ते, अलं अञ्ञत्थ गमनेन, राजुय्याने वसथ, मयं भुत्तपातरासा आगन्त्वा धम्मकथं सोस्सामाति. तापसा अधिवासेत्वा उय्यानं अगमंसु. नागरा भुत्तपातरासा सुद्धवत्थनिवत्था ‘‘धम्मकथं सोस्सामा’’ति सङ्घा गणा गणीभूता उय्यानाभिमुखा अगमंसु. राजा उपरिपासादे ठितो ते तथा गच्छमाने दिस्वा उपट्ठाकं पुच्छि ‘‘किं एते भणे नागरा सुद्धवत्था सुद्धुत्तरासङ्गा हुत्वा उय्यानाभिमुखा गच्छन्ति, किमेत्थ समज्जं वा नाटकं वा अत्थी’’ति? नत्थि देव, एते तापसानं सन्तिके धम्मं सोतुकामा गच्छन्तीति. तेन हि भणे अहम्पि गच्छिस्सामि, मया सद्धिं गच्छन्तूति. सो गन्त्वा तेसं आरोचेसि – ‘‘राजापि गन्तुकामो, राजानं परिवारेत्वाव गच्छथा’’ति. नागरा पकतियापि अत्तमना तं सुत्वा – ‘‘अम्हाकं राजा अस्सद्धो अप्पसन्नो दुस्सीलो, तापसा धम्मिका, ते आगम्म राजापि धम्मिको भविस्सती’’ति अत्तमनतरा अहेसुं.
राजा निक्खमित्वा तेहि परिवारितो उय्यानं गन्त्वा तापसेहि सद्धिं पटिसन्थारं कत्वा एकमन्तं निसीदि. तापसा राजानं दिस्वा परिकथाय कुसलस्सेकस्स तापसस्स ‘‘रञ्ञो धम्मं कथेही’’ति सञ्ञमदंसु, सो तापसो परिसं ओलोकेत्वा पञ्चसु वेरेसु आदीनवं पञ्चसु च सीलेसु आनिसंसं कथेन्तो –
‘‘पाणो न हन्तब्बो, अदिन्नं नादातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भासितब्बा, मज्जं न पातब्बं, पाणातिपातो नाम निरयसंवत्तनिको होति तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, तथा अदिन्नादानादीनि. पाणातिपातो निरये पच्चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेन अप्पायुकसंवत्तनिको होति, अदिन्नादानं अप्पभोगसंवत्तनिकं, मिच्छाचारो बहुसपत्तसंवत्तनिको, मुसावादो अभूतब्भक्खानसंवत्तनिको, मज्जपानं उम्मत्तकभावसंवत्तनिक’’न्ति –
पञ्चसु वेरेसु इमं आदीनवं कथेसि.
राजा पकतियापि अस्सद्धो अप्पसन्नो दुस्सीलो, दुस्सीलस्स च सीलकथा नाम दुक्कथा, कण्णे सूलप्पवेसनं विय होति. तस्मा सो चिन्तेसि – ‘‘अहं ‘एते पग्गण्हिस्सामी’ति आगतो, इमे पन मय्हं आगतकालतो पट्ठाय मंयेव घट्टेन्ता विज्झन्ता परिसमज्झे कथेन्ति, करिस्सामि नेसं कात्तब्ब’’न्ति. सो धम्मकथापरियोसाने ‘‘आचरिया स्वे मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा अगमासि. सो दुतियदिवसे महन्ते महन्ते कोळुम्बे आहरापेत्वा गूथस्स पूरापेत्वा कदलिपत्तेहि नेसं मुखानि बन्धापेत्वा तत्थ तत्थ ठपापेसि, पुन बहलमधुकतेलनागबलपिच्छिल्लादीनं कूटे पूरेत्वा निस्सेणिमत्थके ठपापेसि, तत्थेव च महामल्ले बद्धकच्छे हत्थेहि मुग्गरे गाहापेत्वा ठपेत्वा आह ‘‘कूटतापसा अतिविय मं विहेठयिंसु, तेसं पासादतो ओतरणकाले कूटेहि पिच्छिल्लं सोपानमत्थके विस्सज्जेत्वा सीसे मुग्गरेहि पोथेत्वा गले गहेत्वा सोपाने खिपथा’’ति. सोपानपादमूले पन चण्डे कुक्कुरे बन्धापेसि.
तापसापि ‘‘स्वे राजगेहे भुञ्जिस्सामा’’ति अञ्ञमञ्ञं ओवदिंसु – ‘‘मारिसा राजगेहं नाम सासङ्कं सप्पटिभयं, पब्बजितेहि नाम छद्वारारम्मणे सञ्ञतेहि भवितब्बं, दिट्ठदिट्ठे आरम्मणे निमित्तं न गहेतब्बं, चक्खुद्वारे संवरो पच्चुपट्ठपेतब्बो’’ति.
पुनदिवसे भिक्खाचारवेलं सल्लक्खेत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसगतं कत्वा जटाकलापं सण्ठपेत्वा भिक्खाभाजनं गहेत्वा पटिपाटिया राजनिवेसनं अभिरुळ्हा. राजा आरुळ्हभावं ञत्वा गूथकोळुम्बमुखतो कदलिपत्तं नीहरापेसि. दुग्गन्धो तापसानं नासपुटं पहरित्वा मत्थलुङ्गपातनाकारपत्तो अहोसि. महातापसो राजानं ओलोकेसि. राजा – ‘‘एत्थ भोन्तो यावदत्थं भुञ्जन्तु चेव हरन्तु च, तुम्हाकमेतं अनुच्छविकं, हिय्यो अहं तुम्हे पग्गण्हिस्सामीति आगतो, तुम्हे पन मंयेव घट्टेन्तो विज्झन्ता परिसमज्झे कथयित्थ, तुम्हाकमिदं अनुच्छविकं, भुञ्जथा’’ति महातापसस्स उलुङ्केन गूथं उपनामेसि. महातापसो धी धीति वदन्तो पटिनिवत्ति. ‘‘एत्तकेनेव गच्छिस्सथ तुम्हे’’ति सोपाने कूटेहि पिच्छिल्लं विस्सज्जापेत्वा मल्लानं सञ्ञमदासि. मल्ला मुग्गरेहि सीसानि पोथेत्वा गीवाय गहेत्वा सोपाने खिपिंसु, एकोपि सोपाने पतिट्ठातुं नासक्खि, पवट्टमाना सोपानपादमूलंयेव पापुणिंसु. सम्पत्ते सम्पत्ते चण्डकुक्कुरा पटपटाति लुञ्चमाना खादिंसु. योपि नेसं उट्ठहित्वा पलायति, सोपि आवाटे पतति, तत्रापि नं कुक्कुरा अनुबन्धित्वा खादन्तियेव. इति नेसं कुक्कुरा अट्ठिसङ्खलिकमेव अवसेसयिंसु. एवं सो राजा तपसम्पन्ने पञ्चसते तापसे एकदिवसेनेव जीविता वोरोपेसि.
अथस्स रट्ठे देवता पुरिमनयेनेव पुन नववुट्ठियो पातेसुं. तस्स रज्जं सट्ठियोजनुब्बेधेन वालिकथलेन अवच्छादियित्थ. तेनाह सरभङ्गो बोधिसत्तो –
‘‘यो सञ्ञते पब्बजिते अवञ्चयि,
धम्मं भणन्ते समणे अदूसके;
तं नाळिकेरं सुनखा परत्थ,
सङ्गम्म खादन्ति विफन्दमान’’न्ति. (जा. २.१७.७१);
एवं कालिङ्गारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो.
अतीते पन बाराणसिनगरे दिट्ठमङ्गलिका नाम चत्तालीसकोटिविभवस्स सेट्ठिनो एका धीता अहोसि दस्सनीया पासादिका. सा रूपभोगकुलसम्पत्तिसम्पन्नताय बहूनं पत्थनीया अहोसि. यो पनस्सा वारेय्यत्थाय पहिणाति, तं तं दिस्वानस्स जातियं वा हत्थपादादीसु वा यत्थ कत्थचि दोसं आरोपेत्वा ‘‘को एस दुज्जातो दुस्सण्ठितो’’तिआदीनि वत्वा – ‘‘नीहरथ न’’न्ति नीहरापेत्वा ‘‘एवरूपम्पि नाम अद्दसं, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति अक्खीनि धोवति. तस्सा दिट्ठं दिट्ठं विप्पकारं पापेत्वा नीहरापेतीति दिट्ठमङ्गलिका त्वेव सङ्खा उदपादि, मूलनामं अन्तरधायि.
सा एकदिवसं गङ्गाय उदककीळं कीळिस्सामीति तित्थं सज्जापेत्वा पहूतं खादनीयभोजनीयं सकटेसु पूरापेत्वा बहूनि गन्धमालादीनि आदाय पटिच्छन्नयानं आरुय्ह ञातिगणपरिवुता गेहम्हा निक्खमि. तेन च समयेन महापुरिसो चण्डालयोनियं निब्बत्तो बहिनगरे चम्मगेहे वसति, मातङ्गोत्वेवस्स नामं अहोसि. सो सोळसवस्सुद्देसिको हुत्वा केनचिदेव करणीयेन अन्तोनगरं पविसितुकामो एकं नीलपिलोतिकं निवासेत्वा एकं हत्थे बन्धित्वा एकेन हत्थेन पच्छिं, एकेन घण्डं गहेत्वा ‘‘उस्सरथ अय्या, चण्डालोह’’न्ति जानापनत्थं तं वादेन्तो नीचचित्तं पच्चुपट्ठपेत्वा दिट्ठदिट्ठे मनुस्से नमस्समानो नगरं पविसित्वा महापथं पटिपज्जि.
दिट्ठमङ्गलिका घण्डसद्दं सुत्वा साणिअन्तरेन ओलोकेन्ती दूरतोव तं आगच्छन्तं दिस्वा ‘‘किमेत’’न्ति पुच्छि. मातङ्गो अय्येति. ‘‘किं वत, भो, अकुसलं अकरम्ह, कस्सायं निस्सन्दो, विनासो नु खो मे पच्चुपट्ठितो, मङ्गलकिच्चेन नाम गच्छमाना चण्डालं अद्दस’’न्ति सरीरं कम्पेत्वा जिगुच्छमाना खेळं पातेत्वा धातियो आह – ‘‘वेगेन उदकं आहरथ, चण्डालो दिट्ठो, अक्खीनि चेव नाम गहितमुखञ्च धोविस्सामी’’ति धोवित्वा रथं निवत्तापेत्वा सब्बपटियादानं गेहं पेसेत्वा पासादं अभिरुहि. सुरासोण्डादयो चेव तस्सा उपट्ठाकमनुस्सा च ‘‘कुहिं, भो दिट्ठमङ्गलिका, इमायपि वेलाय नागच्छती’’ति पुच्छन्ता तं पवत्तिं सुत्वा – ‘‘महन्तं वत, भो, सुरामंसगन्धमालादिसक्कारं चण्डालं निस्साय अनुभवितुं न लभिम्ह, गण्हथ चण्डाल’’न्ति गतट्ठानं गवेसित्वा निरापराधं मातङ्गपण्डितं तज्जित्वा – ‘‘अरे मातङ्ग तं निस्साय इदञ्चिदञ्च सक्कारं अनुभवितुं न लभिम्हा’’ति केसेसु गहेत्वा भूमियं पातेत्वा जाणुकप्परपासाणादीहि कोट्टेत्वा मतोति सञ्ञाय पादे गहेत्वा कड्ढन्ता सङ्कारकूटे छड्डेसुं.
महापुरिसो सञ्ञं पटिलभित्वा हत्थपादे परामसित्वा – ‘‘इदं दुक्खं कं निस्साय उप्पन्न’’न्ति चिन्तेन्तो – ‘‘न अञ्ञं कञ्चि, दिट्ठमङ्गलिकं निस्साय उप्पन्न’’न्ति ञत्वा ‘‘सचाहं पुरिसो, पादेसु नं निपातेस्सामी’’ति चिन्तेत्वा वेधमानो दिट्ठमङ्गलिकाय कुलद्वारं गन्त्वा – ‘‘दिट्ठमङ्गलिकं लभन्तो वुट्ठहिस्सामि, अलभन्तस्स एत्थेव मरण’’न्ति गेहङ्गणे निपज्जि. तेन च समयेन जम्बुदीपे अयं धम्मता होति – यस्स चण्डालो कुज्झित्वा गब्भद्वारे निपन्नो मरति, ये च तस्मिं गब्भे वसन्ति, सब्बे चण्डाला होन्ति. गेहमज्झम्हि मते सब्बे गेहवासिनो, द्वारम्हि मते उभतो अनन्तरगेहवासिका, अङ्गणम्हि मते इतो सत्त इतो सत्ताति चुद्दसगेहवासिनो सब्बे चण्डाला होन्तीति. बोधिसत्तो पन अङ्गणे निपज्जि.
सेट्ठिस्स आरोचेसुं – ‘‘मातङ्गो ते सामि गेहङ्गणे पतितो’’ति गच्छथ भणे, किं कारणाति वत्वा एकमासकं दत्वा उट्ठापेथाति. ते गन्त्वा ‘‘इमं किर मासकं गहेत्वा उट्ठहा’’ति वदिंसु. सो – ‘‘नाहं मासकत्थाय निपन्नो, दिट्ठमङ्गलिकाय स्वाहं निपन्नो’’ति आह. दिट्ठमङ्गलिकाय को दोसोति? किं तस्सा दोसं न पस्सथ, निरपराधो अहं तस्सा मनुस्सेहि ब्यसनं पापितो, तं लभन्तोव वुट्ठहिस्सामि, अलभन्तो न वुट्ठहिस्सामीति.
ते गन्त्वा सेट्ठिस्स आरोचेसुं. सेट्ठि धीतु दोसं ञत्वा ‘‘गच्छथ, एकं कहापणं देथा’’ति पेसेति. सो ‘‘न इच्छामि कहापणं, तमेव इच्छामी’’ति आह. तं सुत्वा सेट्ठि च सेट्ठिभरिया च – ‘‘एकायेव नो पियधीता, पवेणिया घटको अञ्ञो दारकोपि नत्थी’’ति संवेगप्पत्ता – ‘‘गच्छथ ताता, कोचि अम्हाकं असहनको एतं जीवितापि वोरोपेय्य, एतस्मिञ्हि मते सब्बे मयं नट्ठा होम, आरक्खमस्स गण्हथा’’ति परिवारेत्वा आरक्खं संविधाय यागुं पेसयिंसु, भत्तं धनं पेसयिंसु, एवं सो सब्बं पटिक्खिपि. एवं एको दिवसो गतो; द्वे, तयो, चत्तारो, पञ्च दिवसा गता.
ततो सत्तसत्तगेहवासिका उट्ठाय – ‘‘न सक्कोम मयं तुम्हे निस्साय चण्डाला भवितुं, अम्हे मा नासेथ, तुम्हाकं दारिकं दत्वा एतं उट्ठापेथा’’ति आहंसु. ते सतम्पि सहस्सम्पि सतसहस्सम्पि पहिणिंसु, सो पटिक्खिपतेव. एवं छ दिवसा गता. सत्तमे दिवसे उभतो चुद्दसगेहवासिका सन्निपतित्वा – ‘‘न मयं चण्डाला भवितुं सक्कोम, तुम्हाकं अकामकानम्पि मयं एतस्स दारिकं दस्सामा’’ति आहंसु.
मातापितरो सोकसल्लसमप्पिता विसञ्ञी हुत्वा सयने निपतिंसु. उभतो चुद्दसगेहवासिनो पासादं आरुय्ह सुपुप्फितकिंसुकसाखं उच्छिन्दन्ता विय तस्सा सब्बाभरणानि ओमुञ्चित्वा नखेहि सीमन्तं कत्वा केसे बन्धित्वा नीलसाटकं निवासापेत्वा हत्थे नीलपिलोतिकखण्डं वेठेत्वा कण्णेसु तिपुपट्टके पिळन्धापेत्वा तालपण्णपच्छिं दत्वा पासादतो ओतारापेत्वा द्वीसु बाहासु गहेत्वा – ‘‘तव सामिकं गहेत्वा याही’’ति महापुरिसस्स अदंसु.
नीलुप्पलम्पि अतिभारोति अनुक्खित्तपुब्बा सुखुमालदारिका ‘‘उट्ठाहि सामि, गच्छामा’’ति आह. बोधिसत्तो निपन्नकोव आह ‘‘नाहं उट्ठहामी’’ति. अथ किन्ति वदामीति. ‘‘उट्ठेहि अय्य मातङ्गा’’ति एवं मं वदाहीति. सा तथा अवोच. न तुय्हं मनुस्सा उट्ठानसमत्थं मं अकंसु, बाहाय मं गहेत्वा उट्ठापेहीति. सा तथा अकासि. बोधिसत्तो उट्ठहन्तो विय परिवट्टेत्वा भूमियं पतित्वा – ‘‘नासितं, भो, दिट्ठमङ्गलिकाय पठमं मनुस्सेहि कोट्टापेत्वा, इदानि सयं कोट्टेती’’ति विरवित्थ. सा किं करोमि अय्याति? द्वीहि हत्थेहि गहेत्वा उट्ठापेहीति. सा तथा उट्ठापेत्वा निसीदापेत्वा गच्छाम सामीति. गच्छा नाम अरञ्ञे होन्ति, मयं मनुस्सा, अतिकोट्टितोम्हि तुय्हं मनुस्सेहि, न सक्कोमि पदसा गन्तुं, पिट्ठिया मं नेहीति. सा ओनमित्वा पिट्ठिं अदासि. बोधिसत्तो अभिरुहि. कुहिं नेमि सामीति? बहिनगरं नेहीति. सा पाचीनद्वारं गन्त्वा – ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि. कतरट्ठानं एतन्ति? पाचीनद्वारं सामीति. पाचीनद्वारे चण्डालपुत्ता वसितुं न लभन्तीति अत्तनो वसनट्ठानं अनाचिक्खित्वाव सब्बद्वारानि आहिण्डापेसि. कस्मा? भवग्गपत्तमस्सा मानं पातेस्सामीति. महाजनो उक्कुट्ठिमकासि – ‘‘ठपेत्वा तुम्हादिसं अञ्ञो एतिस्सा मानं भेदको नत्थी’’ति.
सा पच्छिमद्वारं पत्वा ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि. कतरट्ठानं एतन्ति? पच्छिमद्वारं सामीति. इमिना द्वारेन निक्खमित्वा चम्मगेहं ओलोकेन्ती गच्छाति. सा तत्थ गन्त्वा आह ‘‘इदं चम्मगेहं तुम्हाकं वसनट्ठानं सामी’’ति? आमाति पिट्ठितो ओतरित्वा चम्मगेहं पाविसि.
तत्थ सत्तट्ठदिवसे वसन्तो सब्बञ्ञुतगवेसनधीरो एत्तकेसु दिवसेसु न च जातिसम्भेदमकासि. ‘‘महाकुलस्स धीता सचे मं निस्साय महन्तं यसं न पापुणाति, न चम्हाहं चतुवीसतिया बुद्धानं अन्तेवासिको. एतिस्सा पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं करिस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘अगारमज्झेवसन्तो न सक्खिस्सामि, पब्बजित्वा पन सक्खिस्सामी’’ति. चिन्तेत्वा तं आमन्तेसि – ‘‘दिट्ठमङ्गलिके मयं पुब्बे एकचरा कम्मं कत्वापि अकत्वापि सक्का जीवितुं, इदानि पन दारभरणं पटिपन्नम्ह, कम्मं अकत्वा न सक्का जीवितुं, त्वं यावाहं आगच्छामि, ताव मा उक्कण्ठित्था’’ति अरञ्ञं पविसित्वा सुसानादीसु नन्तकानि सङ्कड्ढित्वा निवासनपारुपनं कत्वा समणपब्बज्जं पब्बजित्वा एकचरो लद्धकायविवेको कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेत्वा ‘‘इदानि सक्का दिट्ठमङ्गलिकाय अवस्सयेन मया भवितु’’न्ति बाराणसिअभिमुखो गन्त्वा चीवरं पारुपित्वा भिक्खं चरमानो दिट्ठमङ्गलिकाय गेहाभिमुखो अगमासि.
सा तं द्वारे ठितं दिस्वा असञ्जानन्ती – ‘‘अतिच्छथ, भन्ते, चण्डालानं वसनट्ठानमेत’’न्ति आह. बोधिसत्तो तत्थेव अट्ठासि. सा पुनप्पुनं ओलोकेन्ती सञ्जानित्वा हत्थेहि उरं पहरित्वा विरवमाना पादमूले पतित्वा आह – ‘‘यदि ते सामि एदिसं चित्तं अत्थि, कस्मा मं महता यसा परिहापेत्वा अनाथं अकासी’’ति. नानप्पकारं परिदेवं परिदेवित्वा अक्खीनि पुञ्छमाना उट्ठाय भिक्खाभाजनं गहेत्वा अन्तोगेहे निसीदापेत्वा भिक्खं अदासि. महापुरिसो भत्तकिच्चं कत्वा आह – ‘‘दिट्ठमङ्गलिके मा सोचि मा परिदेवि, अहं तुय्हं पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्चं कारेतुं समत्थो, त्वं पन एकं मम वचनं करोहि, नगरं पविसित्वा ‘न मय्हं सामिको चण्डालो, महाब्रह्मा मय्हं सामिको’ति उग्घोसयमाना सकलनगरं चराही’’ति.
एवं वुत्ते दिट्ठमङ्गलिका – ‘‘पकतियापि अहं सामि मुखदोसेनेव ब्यसनं पत्ता, न सक्खिस्सामेवं वत्तु’’न्ति आह. बोधिसत्तो – ‘‘किं पन तया मय्हं अगारे वसन्तस्स अलिकवचनं सुतपुब्बं, अहं तदापि अलिकं न भणामि, इदानि पब्बजितो किं वक्खामि, सच्चवादी पुरिसो नामाह’’न्ति वत्वा – ‘‘अज्ज पक्खस्स अट्ठमी, त्वं ‘इतो सत्ताहस्सच्चयेन उपोसथदिवसे मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’ति सकलनगरे उग्घोसेही’’ति वत्वा पक्कामि.
सा सद्दहित्वा हट्ठतुट्ठा सूरा हुत्वा सायंपातं नगरं पविसित्वा तथा उग्घोसेसि. मनुस्सा पाणिना पाणिं पहरन्ता – ‘‘पस्सथ, अम्हाकं दिट्ठमङ्गलिका चण्डालपुत्तं महाब्रह्मानं करोती’’ति हसन्ता केळिं करोन्ति. सा पुनदिवसेपि तथेव सायंपातं पविसित्वा – ‘‘इदानि छाहच्चयेन, पञ्चाह-चतूह-तीह-द्वीह-एकाहच्चयेन मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’’ति उग्घोसेसि.
ब्राह्मणा चिन्तयिंसु – ‘‘अयं दिट्ठमङ्गलिका अतिसूरा हुत्वा कथेति, कदाचि एवं सिया, एथ मयं दिट्ठमङ्गलिकाय वसनट्ठानं पटिजग्गामा’’ति चम्मगेहस्स बाहिरभागं समन्ता तच्छापेत्वा वालिकं ओकिरिंसु. सापि उपोसथदिवसे पातोव नगरं पविसित्वा ‘‘अज्ज मय्हं सामिको आगमिस्सती’’ति उग्घोसेसि. ब्राह्मणा चिन्तयिंसु – ‘‘अयं भो न दूरं अपदिस्सति, अज्ज किर महाब्रह्मा आगमिस्सति, वसनट्ठानं संविदहामा’’ति चम्मगेहं समज्जापेत्वा हरितूपलित्तं अहतवत्थेहि परिक्खिपित्वा महारहं पल्लङ्कं अत्थरित्वा उपरि चेलवितानं बन्धित्वा गन्धमालदामानि ओसारयिंसु. तेसं पटिजग्गन्तानंयेव सूरियो अत्थं गतो.
महापुरिसो चन्दे उग्गतमत्ते अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय कामावचरचित्तेन परिकम्मं कत्वा इद्धिचित्तेन द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा वेहासं अब्भुग्गन्त्वा चन्दविमानस्स अन्तो पविसित्वा वनन्ततो अब्भुस्सक्कमानं चन्दं भिन्दित्वा चन्दविमानं ओहाय पुरतो हुत्वा ‘‘महाजनो मं पस्सतू’’ति अधिट्ठासि. महाजनो दिस्वा – ‘‘सच्चं, भो, दिट्ठमङ्गलिकाय वचनं, आगच्छन्तं महाब्रह्मानं पूजेस्सामा’’ति गन्धमालं आदाय दिट्ठमङ्गलिकाय घरं परिवारेत्वा अट्ठासि. महापुरिसो मत्थकमत्थकेन सत्तवारे बाराणसिं अनुपरिगन्त्वा महाजनेन दिट्ठभावं ञत्वा द्वादसयोजनिकं अत्तभावं विजहित्वा मनुस्सप्पमाणमेव मापेत्वा महाजनस्स पस्सन्तस्सेव चम्मगेहं पाविसि. महाजनो दिस्वा – ‘‘ओतिण्णो नो महाब्रह्मा, साणिं आहरथा’’ति निवेसनं महासाणिया परिक्खिपित्वा परिवारेत्वा ठितो.
महापुरिसोपि सिरिसयनमज्झे निसीदि. दिट्ठमङ्गलिका समीपे अट्ठासि. अथ नं पुच्छि ‘‘उतुसमयो ते दिट्ठमङ्गलिके’’ति. आम अय्याति. मया दिन्नं पुत्तं गण्हाहीति अङ्गुट्ठकेन नाभिमण्डलं फुसि. तस्सा परामसनेनेव गब्भो पतिट्ठासि. महापुरिसो – ‘‘एत्तावता ते दिट्ठमङ्गलिके पादधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, त्वं तिट्ठा’’ति वत्वा ब्रह्मत्तभावं मापेत्वा पस्सन्तस्सेव महाजनस्स निक्खमित्वा वेहासं अब्भुग्गन्त्वा चण्डमण्डलमेव पविट्ठो. सा ततो पट्ठाय ब्रह्मपजापती नाम जाता. पादधोवनउदकं लभन्तो नाम नत्थि.
ब्राह्मणा – ‘‘ब्रह्मपजापतिं अन्तोनगरे वसापेस्सामा’’ति सुवण्णसिविकाय आरोपेत्वा याव सत्तमकोटिया अपरिसुद्धजातिकस्स सिविकं गहेतुं न अदंसु. सोळस जातिमन्तब्राह्मणा गण्हिंसु. सेसा गन्धपुप्फादीहि पूजेत्वा नगरं पविसित्वा – ‘‘न सक्का, भो, उच्छिट्ठगेहे ब्रह्मपजापतिया वसितुं, वत्थुं गहेत्वा गेहं करिस्साम, याव पन तं करीयति, ताव मण्डपेव वसतू’’ति मण्डपे वसापेसुं. ततो पट्ठाय चक्खुपथे ठत्वा वन्दितुकामा कहापणं दत्वा वन्दितुं लभन्ति, सवनूपचारे वन्दितुकामा सतं दत्वा लभन्ति, आसन्ने पकतिकथं सवनट्ठाने वन्दितुकामा पञ्चसतानि दत्वा लभन्ति, पादपिट्ठियं सीसं ठपेत्वा वन्दितुकामा सहस्सं दत्वा लभन्ति, पादधोवनउदकं पत्थयमाना दससहस्सानि दत्वा लभन्ति. बहिनगरतो अन्तोनगरे याव मण्डपा आगच्छन्तिया लद्धधनंयेव कोटिसतमत्तं अहोसि.
सकलजम्बुदीपो सङ्खुभि, ततो सब्बराजानो ‘‘ब्रह्मपजापतिया पादधोवनेन अभिसेकं करिस्सामा’’ति सतसहस्सं पेसेत्वा लभिंसु. मण्डपे वसन्तिया एव गब्भवुट्ठानं अहोसि. महापुरिसं पटिच्च लद्धकुमारो पासादिको अहोसि लक्खणसम्पन्नो. महाब्रह्मुनो पुत्तो जातोति सकल जम्बुदीपो एककोलाहलो अहोसि. कुमारस्स खीरमणिमूलं होतूति ततो ततो आगतधनं कोटिसहस्सं अहोसि. एत्तावता निवेसनम्पि निट्ठितं. कुमारस्स नामकरणं करिस्सामाति निवेसनं सज्जेत्वा कुमारं गन्धोदकेन न्हापेत्वा अलङ्करित्वा मण्डपे जातत्ता मण्डब्योत्वेव नामं अकंसु.
कुमारो सुखेन संवड्ढमानो सिप्पुग्गहणवयपत्तोति सकलजम्बुदीपे सिप्पजाननका तस्स सन्तिके आगन्त्वा सिप्पं सिक्खापेन्ति. कुमारो मेधावी पञ्ञवा सुतं सुतं मुतं आवुणन्तो विय गण्हाति, गहितगहितं सुवण्णघटे पक्खित्ततेलं विय तिट्ठति. यावता वाचुग्गता परियत्ति अत्थि, तेन अनुग्गहिता नाम नाहोसि. ब्राह्मणा तं परिवारेत्वा चरन्ति, सोपि ब्राह्मणभत्तो अहोसि. गेहे असीतिब्राह्मणसहस्सानि निच्चभत्तं भुञ्जन्ति. गेहम्पिस्स सत्तद्वारकोट्ठकं महन्तं अहोसि. गेहे मङ्गलदिवसे जम्बुदीपवासीहि पेसितधनं कोटिसहस्समत्तं अहोसि.
बोधिसत्तो आवज्जेसि – ‘‘पमत्तो नु खो कुमारो अप्पमत्तो’’ति. अथस्स तं पवत्तिं ञत्वा – ‘‘ब्राह्मणभत्तो जातो, यत्थ दिन्नं महप्फलं होति, तं न जानाति, गच्छामि नं दमेमी’’ति चीवरं पारुपित्वा भिक्खाभाजनं गहेत्वा – ‘‘द्वारकोट्ठका अतिसम्बाधा, न सक्का कोट्ठकेन पविसितु’’न्ति आकासेनागन्त्वा असीतिब्राह्मणसहस्सानं भुञ्जनट्ठाने आकासङ्गणे ओतरि. मण्डब्यकुमारोपि सुवण्णकटच्छुं गाहापेत्वा – ‘‘इध सूपं देथ इध ओदन’’न्ति परिविसापेन्तो बोधिसत्तं दिस्वा दण्डकेन घट्टितआसिविसो विय कुपित्वा इमं गाथमाह –
‘‘कुतो नु आगच्छसि दुम्मवासी,
ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे,
को रे तुवं होसि अदक्खिणेय्यो’’ति. (जा. १.१५.१);
अथ नं महासत्तो अकुज्झित्वाव ओवदन्तो आह –
‘‘अन्नं तवेदं पकतं यसस्सि,
तं खज्जरे भुञ्जरे पिय्यरे च;
जानासि मं त्वं परदत्तूपजीविं,
उत्तिट्ठ पिण्डं लभतं सपाको’’ति. (जा. १.१५.२);
सो नयिदं तुम्हादिसानं पटियत्तन्ति दस्सेन्तो आह –
‘‘अन्नं ममेदं पकतं ब्राह्मणानं,
अत्थत्थितं सद्दहतो ममेदं;
अपेहि एत्तो किमिधट्ठितोसि,
न मादिसा तुय्हं ददन्ति जम्मा’’ति. (जा. १.१५.३);
अथ बोधिसत्तो ‘‘दानं नाम सगुणस्सपि निग्गुणस्सपि यस्स कस्सचि दातब्बं, यथा हि निन्नेपि थलेपि पतिट्ठापितं बीजं पथवीरसं आपोरसञ्च आगम्म सम्पज्जति, एवं निप्फलं नाम नत्थि, सुखेत्ते वपितबीजं विय गुणवन्ते महप्फलं होती’’ति दस्सेतुं इमं गाथमाह –
‘‘थले च निन्ने च वपन्ति बीजं,
अनूपखेत्ते फलमासमाना;
एताय सद्धाय ददाहि दानं,
अप्पेव आराधये दक्खिणेय्ये’’ति. (जा. १.१५.४);
अथ कुमारो कोधाभिभूतो – ‘‘केनिमस्स मुण्डकस्स पवेसो दिन्नो’’ति द्वाररक्खादयो तज्जेत्वा –
‘‘खेत्तानि मय्हं विदितानि लोके,
येसाहं बीजानि पतिट्ठपेमि;
ये ब्राह्मणा जातिमन्तूपपन्ना,
तानीध खेत्तानि सुपेसलानी’’ति. (जा. १.१५.५) –
गाथं वत्वा ‘‘इमं जम्मं वेणुपदरेन पोथेत्वा गीवायं गहेत्वा सत्तपि द्वारकोट्ठके अतिक्कमित्वा बहि नीहरथा’’ति आह. अथ नं महापुरिसो आह –
‘‘गिरिं नखेन खणसि, अयो दन्तेभि खादसि;
जातवेदं पदहसि, यो इसिं परिभाससी’’ति. (जा. १.१५.९);
एवञ्च पन वत्वा – ‘‘सचे म्यायं हत्थे वा पादे वा गण्हापेत्वा दुक्खं उप्पादेय्य, बहुं अपुञ्ञं पसवेय्या’’ति सत्तानुद्दयताय वेहासं अब्भुग्गन्त्वा अन्तरवीथियं ओतरि. भगवा सब्बञ्ञुतं पत्तो तमत्थं पकासेन्तो इमं गाथमाह –
‘‘इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;
अन्तलिक्खस्मिं पक्कामि, ब्राह्मणानं उदिक्खत’’न्ति. (जा. १.१५.१०);
तावदेव नगररक्खिकदेवतानं जेट्ठकदेवराजा मण्डब्यस्स गीवं परिवत्तेसि. तस्स मुखं परिवत्तेतित्वा पच्छामुखं जातं, अक्खीनि परिवत्तानि, मुखेन खेळं वमति, सरीरं थद्धं सूले आरोपितं विय अहोसि. असीतिसहस्सा परिचारकयक्खा असीतिब्राह्मणसहस्सानि तथेव अकंसु. वेगेन गन्त्वा ब्रह्मपजापतिया आरोचयिंसु. सा तरमानरूपा आगन्त्वा तं विप्पकारं दिस्वा गाथमाह –
‘‘आवेधितं पिट्ठितो उत्तमङ्गं,
बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स,
को मे इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.११);
अथस्सा आरोचेसुं –
‘‘इधागमा समणो दुम्मवासी,
ओतल्लको पंसुपिसाचकोव,
सङ्कारचोळं पटिमुञ्च कण्ठे,
सो ते इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.१२);
सा सुत्वाव अञ्ञासि – ‘‘मय्हं यसदायको अय्यो अनुकम्पाय पुत्तस्स पमत्तभावं ञत्वा आगतो भविस्सती’’ति. ततो उपट्ठाके पुच्छि –
‘‘कतमं दिसं अगमा भूरिपञ्ञो,
अक्खाथ मे माणवा एतमत्थं;
गन्त्वान तं पटिकरेमु अच्चयं,
अप्पेव नं पुत्त लभेमु जीवित’’न्ति. (जा. १.१५.१३);
ते आहंसु –
‘‘वेहायसं अगमा भूरिपञ्ञो,
पथद्धुनो पन्नरसेव चन्दो;
अपिचापि सो पुरिमदिसं अगच्छि,
सच्चप्पटिञ्ञो इसि साधुरूपो’’ति. (जा. १.१५.१४);
महापुरिसोपि अन्तरवीथियं ओतिण्णट्ठानतो पट्ठाय – ‘‘मय्हं पदवळञ्जं हत्थिअस्सादीनं वसेन मा अन्तरधायित्थ, दिट्ठमङ्गलिकायेव नं पस्सतु, मा अञ्ञे’’ति अधिट्ठहित्वा पिण्डाय चरित्वा यापनमत्तं मिस्सकोदनं गहेत्वा पटिक्कमनसालायं निसिन्नो भुञ्जित्वा थोकं भुत्तावसेसं भिक्खाभाजनेयेव ठपेसि. दिट्ठमङ्गलिकापि पासादा ओरुय्ह अन्तरवीथिं पटिपज्जमाना पदवळञ्जं दिस्वा – ‘‘इदं मय्हं यसदायकस्स अय्यस्स पद’’न्ति पदानुसारेनागन्त्वा वन्दित्वा आह – ‘‘तुम्हाकं, भन्ते, दासेन कतापराधं मय्हं खमथ, न हि तुम्हे कोधवसिका नाम, देथ मे पुत्तस्स जीवित’’न्ति.
एवञ्च पन वत्वा –
‘‘आवेधितं पिट्ठितो उत्तमङ्गं,
बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स,
को मे इमं पुत्तमकासि एव’’न्ति. (जा. १.१५.१५) –
गाथं अभासि. महापुरिसो आह – ‘‘न मयं एवरूपं करोम, पब्बजितं पन हिंसन्ते दिस्वा पब्बजितेसु सगारवाहि भूतयक्खदेवताहि कतं भविस्सती’’ति.
केवलं, भन्ते, तुम्हाकं मनोपदोसो मा होतु, देवताहि कतं होतु, सुखमापया, भन्ते, देवता, अपिचाहं, भन्ते, कथं पटिपज्जामीति. तेन हि ओसधं ते कथेस्सामि, मम भिक्खाभाजने भुत्तावसेसं भत्तमत्थि, तत्थ थोकं उदकं आसिञ्चित्वा थोकं गहेत्वा तव पुत्तस्स मुखे पक्खिप, अवसेसं उदकचाटियं आलोळेत्वा असीतिया ब्राह्मणसहस्सानं मुखे पक्खिपाति. सा एवं करिस्सामीति भत्तं गहेत्वा महापुरिसं वन्दित्वा गन्त्वा तथा अकासि.
मुखे पक्खित्तमत्ते जेट्ठकदेवराजा – ‘‘सामिम्हि सयं भेसज्जं करोन्ते अम्हेहि न सक्का किञ्चि कातु’’न्ति कुमारं विस्सज्जेसि. सोपि खिपित्वा किञ्चि दुक्खं अप्पत्तपुब्बो विय पकतिवण्णो अहोसि. अथ नं माता अवोच – ‘‘पस्स तात तव कुलुपकानं हिरोत्तप्परहितानं विप्पकारं, समणा पन न एवरूपा होन्ति, समणे तात भोजेय्यासी’’ति. ततो सेसकं उदकचाटियं आलुळापेत्वा ब्राह्मणानं मुखे पक्खिपापेसि. यक्खा तावदेव विस्सज्जेत्वा पलायिंसु. ब्राह्मणा खिपित्वा खिपित्वा उट्ठहित्वा किं अम्हाकं मुखे पक्खित्तन्ति पुच्छिंसु. मातङ्गइसिस्स उच्छिट्ठभत्तन्ति. ते ‘‘चण्डालस्स उच्छिट्ठकं खादापितम्हा, अब्राह्मणा दानिम्हा जाता, इदानि नो ब्राह्मणा ‘असुद्धब्राह्मणा इमे’ति सम्भोगं न दस्सन्ती’’ति ततो पलायित्वा मज्झरट्ठं गन्त्वा मज्झराजस्स नगरे अग्गासनिका ब्राह्मणा नाम मयन्ति राजगेहे भुञ्जन्ति.
तस्मिं समये बोधिसत्तो पापनिग्गहं करोन्तो मानजातिके निम्मदयन्तो विचरति. अथेको ‘‘जातिमन्ततापसो नाम मया सदिसो नत्थी’’ति अञ्ञेसु सञ्ञम्पि न करोति. बोधिसत्तो तं गङ्गातीरे वसमानं दिस्वा ‘‘माननिग्गहमस्स करिस्सामी’’ति तत्थ अगमासि. तं जातिमन्ततापसो पुच्छि – ‘‘किं जच्चो भव’’न्ति? चण्डालो अहं आचरियाति. अपेहि चण्डाल अपेहि चण्डाल, हेट्ठागङ्गाय वस, मा उपरिगङ्गाय उदकं उच्छिट्ठमकासीति.
बोधिसत्तो – ‘‘साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामी’’ति हेट्ठागङ्गाय वसन्तो ‘‘गङ्गाय उदकं पटिसोतं सन्दतू’’ति अधिट्ठासि. जातिमन्ततापसो पातोव गङ्गं ओरुय्ह उदकं आचमति, जटा धोवति. बोधिसत्तो दन्तकट्ठं खादन्तो पिण्डं पिण्डं खेळं उदके पातेति. दन्तकट्ठकुच्छिट्ठकम्पि तत्थेव पवाहेति. यथा चे तं अञ्ञत्थ अलग्गित्वा तापसस्सेव जटासु लग्गति, तथा अधिट्ठासि. खेळम्पि दन्तकट्ठम्पि तापसस्स जटासुयेव पतिट्ठाति.
तापसो चण्डालस्सिदं कम्मं भविस्सतीति विप्पटिसारी हुत्वा गन्त्वा पुच्छि – ‘‘इदं, भो चण्डाल, गङ्गाय उदकं तया पटिसोतगामिकत’’न्ति? आम आचरिय. तेन हि त्वं हेट्ठागङ्गाय मा वस, उपरिगङ्गाय वसाति. साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामीति तत्थ वसन्तो इद्धिं पटिप्पस्सम्भेसि, उदकं यथागतिकमेव जातं. पुन तापसो तदेव ब्यसनं पापुणि. सो पुन गन्त्वा बोधिसत्तं पुच्छि, – ‘‘भो चण्डाल, त्वमिदं गङ्गाय उदकं कालेन पटिसोतगामिं कालेन अनुसोतगामिं करोसी’’ति? आम आचरिय. चण्डाल, ‘‘त्वं सुखविहारीनं पब्बजितानं सुखेन वसितुं न देसि, सत्तमे ते दिवसे सत्तधा मुद्धा फलतू’’ति. साधु अचरिय, अहं पन सूरियस्स उग्गन्तुं न दस्सामीति.
अथ महासत्तो चिन्तेसि – ‘‘एतस्स अभिसापो एतस्सेव उपरि पतिस्सति, रक्खामि न’’न्ति सत्तानुद्दयताय पुनदिवसे इद्धिया सूरियस्स उग्गन्तुं न अदासि. इद्धिमतो इद्धिविसयो नाम अचिन्तेय्यो, ततो पट्ठाय अरुणुग्गं न पञ्ञायति, रत्तिन्दिवपरिच्छेदो नत्थि, कसिवणिज्जादीनि कम्मानि पयोजेन्तो नाम नत्थि.
मनुस्सा – ‘‘यक्खावट्टो नु खो अयं भूतदेवट्टोनागसुपण्णावट्टो’’ति उपद्दवप्पत्ता ‘‘किं नु खो कातब्ब’’न्ति चिन्तेत्वा ‘‘राजकुलं नाम महापञ्ञं, लोकस्स हितं चिन्तेतुं सक्कोति, तत्थ गच्छामा’’ति राजकुलं गन्त्वा तमत्थं आरोचेसुं. राजा सुत्वा भीतोपि अभीताकारं कत्वा – ‘‘मा ताता भायथ, इमं कारणं गङ्गातीरवासी जातिमन्ततापसो जानिस्सति, तं पुच्छित्वा निक्कङ्खा भविस्सामा’’ति कतिपयेहेव अत्थचरकेहि मनुस्सेहि सद्धिं तापसं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं पुच्छि. तापसो आह – ‘‘आम महाराज, एको चण्डालो अत्थि, सो इमं गङ्गाय उदकं कालेन अनुसोतगामिं कालेन पतिसोतगामिं करोति, मया तदत्थं किञ्चि कथितं अत्थि, तं पुच्छथ, सो जानिस्सती’’ति.
राजा मातङ्गइसिस्स सन्तिकं गन्त्वा – ‘‘तुम्हे, भन्ते, अरुणस्स उग्गन्तुं न देथा’’ति पुच्छि. आम, महाराजाति. किं कारणा भन्तेति? जातिमन्ततापसकारणा, महाराज, जातिमन्ततापसेन आगन्त्वा मं वन्दित्वा खमापितकाले दस्सामि महाराजाति. राजा गन्त्वा ‘‘एथ आचरिय, तापसं खमापेथा’’ति आह. नाहं, महाराज, चण्डालं वन्दामीति. मा आचरिय, एवं करोथ, जनपदस्स मुखं पस्सथाति. सो पुन पटिक्खिपियेव. राजा बोधिसत्तं उपसङ्कमित्वा ‘‘आचरियो खमापेतुं न इच्छिती’’ति आह. अखमापिते अहं सूरियं न मुञ्चामीति. राजा ‘‘अयं खमापेतुं न इच्छति, अयं अखमापिते सूरियं न मुञ्चति, किं अम्हाकं तेन तापसेन, लोकं ओलोकेस्सामा’’ति ‘‘गच्छथ, भो, तापससन्तिकं, तं हत्थेसु च पादेसु च गहेत्वा मातङ्गइसिस्स पादमूले नेत्वा निपज्जापेत्वा खमापेथ एतस्स जनपदानुद्दयतं पटिच्चा’’ति आह. ते राजपुरिसा गन्त्वा तं तथा कत्वा आनेत्वा मातङ्गइसिस्स पादमूले निपज्जापेत्वा खमापेसुं.
अहं नाम खमितब्बं खमामि, अपिच खो पन एतस्स कथा एतस्सेव उपरि पतिस्सति. मया सूरिये विस्सज्जिते सूरियरस्मि एतस्स मत्थके पतिस्सति, अथस्स सत्तधा मुद्धा फलिस्सति. तञ्च खो पनेस ब्यसनं मा पापुणातु, एथ तुम्हे एतं गलप्पमाणे उदके ओतारेत्वा महन्तं मत्तिकापिण्डमस्स सीसे ठपेथ. अथाहं सूरियं विस्सज्जिस्सामि. सूरियरस्मि मत्तिकापिण्डे पतित्वा तं सत्तधा भिन्दिस्सति. अथेस मत्तिकापिण्डं छड्डेत्वा निमुज्जित्वा अञ्ञेन तित्थेन उत्तरतु, इति नं वदथ, एवमस्स सोत्थि भविस्सतीति. ते मनुस्सा ‘‘एवं करिस्सामा’’ति तथा कारेसुं. तस्सापि तथेव सोत्थि जाता. सो ततो पट्ठाय – ‘‘जाति नाम अकारणं, पब्बजितानं अब्भन्तरे गुणोव कारण’’न्ति जातिगोत्तमानं पहाय निम्मदो अहोसि.
इति जातिमन्ततापसे दमिते महाजनो बोधिसत्तस्स थामं अञ्ञासि, महाकोलाहलं जातं. राजा अत्तनो नगरं गमनत्थाय बोधिसत्तं याचि. महासत्तो पटिञ्ञं दत्वा तानि च असीतिब्राह्मणसहस्सानि दमेस्सामि, पटिञ्ञञ्च मोचेस्सामीति मज्झराजस्स नगरं अगमासि. ब्राह्मणा बोधिसत्तं दिस्वाव – भो, ‘‘अयं सो, भो महाचोरो, आगतो, इदानेव सब्बे एते मय्हं उच्छिट्ठकं खादित्वा अब्राह्मणा जाताति अम्हे पाकटे करिस्सति, एवं नो इधापि आवासो न भविस्सति, पटिकच्चेव मारेस्सामा’’ति राजानं पुन उपसङ्कमित्वा आहंसु – ‘‘तुम्हे, महाराज, एतं चण्डालपब्बजितं मा साधुरूपोति मञ्ञित्थ, एस गरुकमन्तं जानाति, पथविं गहेत्वा आकासं करोति, आकासं पथविं, दूरं गहेत्वा सन्तिकं करोति, सन्तिकं दूरं, गङ्गं निवत्तेत्वा उद्धगामिनिं करोति, इच्छन्तो पथविं उक्खिपित्वा पातेतुं मञ्ञे सक्कोति. परस्स वा चित्तं नाम सब्बकालं न सक्का गहेतुं, अयं इध पतिट्ठं लभन्तो तुम्हाकं रज्जम्पि नासेय्य, जीवितन्तरायम्पि वंसुपच्छेदम्पि करेय्य, अम्हाकं वचनं करोथ, महाराज, अज्जेव इमं मारेतुं वट्टती’’ति.
राजानो नाम परपत्तिया होन्ति, इति सो बहूनं कथावसेन निट्ठं गतो. बोधिसत्तो पन नगरे पिण्डाय चरित्वा उदकफासुकट्ठाने मिस्सकोदनं भुञ्जित्वा राजुय्यानं गन्त्वा निरापराधताय निरासङ्को मङ्गलसिलापट्टे निसीदि. अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरितुं समत्थञाणस्स अनावज्जनताय मुहुत्तमत्तके काले सति नप्पहोति, राजा अञ्ञं अजानापेत्वा सयमेव गन्त्वा निरावज्जनताय पमादेन निसिन्नं महापुरिसं असिना पहरित्वा द्वे भागे अकासि. इमस्स रञ्ञो विजिते अट्ठमं लोहकूटवस्सं, नवमं कललवस्सं वस्सि. इति इमस्सापि रट्ठे नव वुट्ठियो पतिता. सो च राजा सपरिसो महानिरये निब्बत्तो. तेनाह संकिच्चपण्डितो –
‘‘उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहूति’’. (जा. २.१९.९६) –
एवं मज्झारञ्ञस्स अरञ्ञभूतभावो वेदितब्बो. मातङ्गस्स पन इसिनो वसेन तदेव मातङ्गारञ्ञन्ति वुत्तं.
६६. पञ्हपटिभानानीति पञ्हब्याकरणानि. पच्चनीकं कतब्बन्ति पच्चनीकं कातब्बं. अमञ्ञिस्सन्ति विलोमभागं गण्हन्तो विय अहोसिन्ति अत्थो.
६७. अनुविच्चकारन्ति अनुविचारेत्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्तं होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते – ‘‘किं अयं उपालि दिट्ठदिट्ठमेव सरणं गच्छती’’ति? गरहा उप्पज्जिस्सति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा – ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? एवं नो महन्तभावो आवि भविस्सतीति च, सचे तस्स ‘‘किमहं एतेसं सरणं गतो’’ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्कमिस्सतीति च. ‘‘तेनाह पटाकं परिहरेय्यु’’न्ति.
६८. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देति. इदानि मं सरणं गतकारणमत्तेनव मा इमेसं देय्यधम्मं, उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति. सुतमेतं, भन्तेति कुतो सुतं? निगण्ठानं सन्तिका, ते किर कुलघरेसु एवं पकासेन्ति – ‘‘मयं ‘यस्स कस्सचि सम्पत्तस्स दातब्ब’न्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति वदती’’ति. तं सन्धाय अयं गहपति ‘‘सुतमेत’’न्ति आह.
६९. अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गतिपरायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं, आलम्बनट्ठेन आलम्बनरज्जुसदिसं. इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो. असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानं नामेभं मय्हं गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञो, महागोविन्दमहायञ्ञो महासुदस्सनमहायञ्ञो, वेस्सन्तरमहायञ्ञोति अनेकमहायञ्ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं. दानञ्हि लोके सक्कसम्पत्तिं देति, मारसम्पत्तिं देति, ब्रह्मसम्पत्तिं देति, चक्कवत्तिसम्पत्तिं देति, सावकपारमीञाणं, पच्चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिं दानगुणपटिसंयुत्तं कथं.
यस्मा पन दानं ददन्तो सीलं समादातुं सक्कोति, तस्मा तदनतरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं, सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले, भूरिदत्तनागराजकाले, चम्पेय्यनागराजकाले, सीलवनागराजकाले, मातुपोसकहत्थिराजकाले, छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो, सीलसदिसा पतिट्ठा, आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि. सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिं सीलगुणपटिसंयुत्तं कथं.
इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिं सग्गगुणपटिसंयुत्तं कथं. सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि (म. नि. ३.२५५).
एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय – ‘‘अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं – ‘‘अप्पस्सादा कामा वुत्ता मया बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (पाचि. ४१७; म. नि. १.२३५) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवोति दोसो. ओकारोति अवकारो लामकभावो. संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं. यथाह ‘‘किलिस्सन्ति वत, भो, सत्ता’’ति (म. नि. २.३५१).
एवं कामादीनवेन तज्जित्वा नेक्खम्मे आनिसंसं पकासेसि. कल्लचित्तन्ति अरोगचित्तं. सामुक्कंसिकाति सामं उक्कंसिका अत्तनायेव गहेत्वा उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्ञेसन्ति अत्थो. का पनेसाति, अरियसच्चदेसना? तेनेवाह – ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति.
विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं विगतत्ता वीतमलं. धम्मचक्खुन्ति उपरि ब्रह्मायुसुत्ते तिण्णं मग्गानं, चूळराहुलोवादे आसवक्खयस्सेतं नामं. इध पन सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति.
दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. एस नयो सेसपदेसुपि. तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो. विगता कथंकथा अस्साति विगतकथंकथो. वेसारज्जप्पत्तोति वेसारज्जं पत्तो. कत्थ? सत्थु सासने. नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो.
७०. चित्तेन सम्पटिच्छमानो अभिनन्दित्वा, वाचाय पसंसमानो अनुमोदित्वा. आवरामीति थकेमि पिदहामि. अनावटन्ति न आवरितं विवटं उग्घाटितं.
७१. अस्सोसि खो दीघतपस्सीति सो किर तस्स गतकालतो पट्ठाय – ‘‘पण्डितो गहपति, समणो च गोतमो दस्सनसम्पन्नो निय्यानिककथो, दस्सनेपि तस्स पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसीदित्वा सरणं गमिस्सति, गतो नु खो सरणं गहपति न ताव गतो’’ति ओहितसोतोव हुत्वा विचरति. तस्मा पठमंयेव अस्सोसि.