२. अट्ठकनागरसुत्तवण्णना
१७. एवं मे सुतन्ति अट्ठकनागरसुत्तं. तत्थ बेलुवगामकेति वेसालिया दक्खिणपस्से अविदूरे बेलुवगामको नाम अत्थि, तं गोचरगामं कत्वाति अत्थो. दसमोति सो हि जातिगोत्तवसेन चेव सारप्पत्तकुलगणनाय च दसमे ठाने गणीयति, तेनस्स दसमोत्वेव नामं जातं. अट्ठकनागरोति अट्ठकनगरवासी. कुक्कुटारामोति कुक्कुटसेट्ठिना कारितो आरामो.
१८. तेन भगवता…पे… अक्खातोति एत्थ अयं सङ्खेपत्थो, यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता, तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितआमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानिपि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता, अरीनं हतत्ता पच्चयादीनञ्च अरहत्ता अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता, किलेसारीनं हतत्ता अरहता, सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति एवं चतुवेसारज्जवसेन चतूहि कारणेहि थोमितेन. अत्थि नु खो एको धम्मो अक्खातोति.
१९. अभिसङ्खतन्ति कतं उप्पादितं. अभिसञ्चेतयितन्ति चेतयितं पकप्पितं. सो तत्थ ठितोति सो तस्मिं समथविपस्सनाधम्मे ठितो. धम्मरागेन धम्मनन्दियाति पदद्वयेहि समथविपस्सनासु छन्दरागो वुत्तो. समथविपस्सनासु हि सब्बेन सब्बं छन्दरागं परियादियितुं सक्कोन्तो अरहा होति, असक्कोन्तो अनागामी होति. सो समथविपस्सनासु छन्दरागस्स अप्पहीनत्ता चतुत्थज्झानचेतनाय सुद्धावासे निब्बत्तति, अयं आचरियानं समानकथा.
वितण्डवादी पनाह ‘‘तेनेव धम्मरागेनाति वचनतो अकुसलेन सुद्धावासे निब्बत्तती’’ति सो ‘‘सुत्तं आहरा’’ति वत्तब्बो, अद्धा अञ्ञं अपस्सन्तो इदमेव आहरिस्सति, ततो वत्तब्बो ‘‘किं पनिदं सुत्तं नेय्यत्थं नीतत्थ’’न्ति, अद्धा नीतत्थन्ति वक्खति. ततो वत्तब्बो – एवं सन्ते अनागामिफलत्थिकेन समथविपस्सनासु छन्दरागो कत्तब्बो भविस्सति, छन्दरागे उप्पादिते अनागामिफलं पटिविद्धं भविस्सति ‘‘मा सुत्तं मे लद्ध’’न्ति यं वा तं वा दीपेहि. पञ्हं कथेन्तेन हि आचरियस्स सन्तिके उग्गहेत्वा अत्थरसं पटिविज्झित्वा कथेतुं वट्टति, अकुसलेन हि सग्गे, कुसलेन वा अपाये पटिसन्धि नाम नत्थि. वुत्तञ्हेतं भगवता –
‘‘न, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो, अथ खो, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो’’ति –
एवं पञ्ञापेतब्बो. सचे सञ्जानाति सञ्जानातु, नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो.
यथा च पन इमस्मिं सुत्ते, एवं महामालुक्योवादेपि महासतिपट्ठानेपि कायगतासतिसुत्तेपि समथविपस्सना कथिता. तत्थ इमस्मिं सुत्ते समथवसेन गच्छतोपि विपस्सनावसेन गच्छतोपि समथधुरमेव धुरं, महामालुक्योवादे विपस्सनाव धुरं, महासतिपट्ठानं पन विपस्सनुत्तरं नाम कथितं, कायगतासतिसुत्तं समथुत्तरन्ति.
अयं खो गहपति…पे… एकधम्मो अक्खातोति एकधम्मं पुच्छितेन अयम्पि एकधम्मोति एवं पुच्छावसेन कथितत्ता एकादसपि धम्मा एकधम्मो नाम जातो. महासकुलुदायिसुत्तस्मिञ्हि एकूनवीसति पब्बानि पटिपदावसेन एकधम्मो नाम जातानि, इध एकादसपुच्छावसेन एकधम्मोति आगतानि. अमतुप्पत्तियत्थेन वा सब्बानिपि एकधम्मोति वत्तुं वट्टति.
२१. निधिमुखं गवेसन्तोति निधिं परियेसन्तो. सकिदेवाति एकपयोगेन. कथं पन एकपयोगेनेव एकादसन्नं निधीनं अधिगमो होतीति. इधेकच्चो अरञ्ञे निधिं गवेसमानो चरति, तमेनं अञ्ञतरो अत्थचरको दिस्वा ‘‘किं भो चरसी’’ति पुच्छति. सो ‘‘जीवितवुत्तिं परियेसामी’’ति आह. इतरो ‘‘तेन हि सम्म आगच्छ, एतं पासाणं पवत्तेही’’ति आह. सो तं पवत्तेत्वा उपरूपरि ठपिता वा कुच्छिया कुच्छिं आहच्च ठिता वा एकादस कुम्भियो पस्सेय्य, एवं एकपयोगेन एकादसन्नं निधीनं अधिगमो होति.
आचरियधनं परियेसिस्सन्तीति अञ्ञतित्थिया हि यस्स सन्तिके सिप्पं उग्गण्हन्ति, तस्स सिप्पुग्गहणतो पुरे वा पच्छा वा अन्तरन्तरे वा गेहतो नीहरित्वा धनं देन्ति. येसं गेहे नत्थि, ते ञातिसभागतो परियेसन्ति, तथा अलभमाना भिक्खम्पि चरित्वा देन्तियेव. तं सन्धायेतं वुत्तं.
किमङ्गं पनाहन्ति बाहिरका ताव अनिय्यानिकेपि सासने सिप्पमत्तदायकस्स धनं परियेसन्ति; अहं पन एवंविधे निय्यानिकसासने एकादसविधं अमतुप्पत्तिपटिपदं देसेन्तस्स आचरियस्स पूजं किं न करिस्सामि, करिस्सामियेवाति वदति. पच्चेकदुस्सयुगेन अच्छादेसीति एकमेकस्स भिक्खुनो एकेकं दुस्सयुगमदासीति अत्थो. समुदाचारवचनं पनेत्थ एवरूपं होति, तस्मा अच्छादेसीति वुत्तं. पञ्चसतविहारन्ति पञ्चसतग्घनिकं पण्णसालं कारेसीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अट्ठकनागरसुत्तवण्णना निट्ठिता.