८. कोसम्बियसुत्तवण्णना
४९१. एवं मे सुतन्ति कोसम्बियसुत्तं. तत्थ कोसम्बियन्ति एवंनामके नगरे. तस्स किर नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्खं अगमासि. कुसम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्तातिपि एके. घोसितारामेति घोसितसेट्ठिना कारिते आरामे.
पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो केदारपरिच्छिन्नं सुभिक्खं रट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामकं पविसिंसु, गोपालकानञ्च तदा पहतपायसो पटियत्तो होति, ततो पायसं लभित्वा भुञ्जिंसु. अथ सो पुरिसो पहूतपायसं भुञ्जित्वा जिरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिम्हि पटिसन्धिं गहेत्वा कुक्कुरो जातो. सो गोपालकस्स पियो अहोसि मनापो, गोपालको च पच्चेकबुद्धं उपट्ठासि. पच्चेकबुद्धोपि भत्तकिच्चावसाने कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति.
सो गोपालके असन्निहिते भत्तवेलाय सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रस्स घोसकदेवपुत्तोत्वेव नामं अहोसि. सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ सो अत्तनो पुत्ते जाते सत्तक्खत्तुं मारापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितुअच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि पावारिकसेट्ठीति द्वे सेट्ठिनो सन्ति. इमेहि सद्धिं तयो अहेसुं.
तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थाय मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकमहाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं – ‘‘यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा भोजनीयं वा ददेय्या’’ति. देवता इसीनं अज्झासयं विदित्वा इमेसं सङ्गहं करिस्सामीति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि – ‘‘देवताय अम्हाकं परिभोगउदकं दिन्नं, इदं पन अगामकं महाअरञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्या’’ति. देवता इसीनं उपसंकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि. इसयो चिन्तयिंसु – ‘‘देवताय अम्हाकं परिभोगउदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स, सचे नो अत्तानं दस्सेय्या’’ति.
देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. ते आहंसु – ‘‘देवते, महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासी’’ति? भन्ते, नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढउपोसथकम्मं निस्साय हि देवताय सा सम्पत्ति लद्धा.
अनाथपिण्डिकस्स किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभनमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारिका दासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि, कम्मकारो आह – ‘‘अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एत’’न्ति? तस्स सा आचिक्खि – ‘‘अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासी’’ति. एवं अम्माति? आम सामीति. इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति न होतीति महासेट्ठिं पुच्छ अम्माति? ताय गन्त्वा पुच्छितो महासेट्ठि आह – ‘‘सकलउपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होतू’’ति. कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गन्त्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढउपोसथकम्मनिस्सन्देन महावट्टनिअटवियं निग्रोधरुक्खे देवपुत्तो हुत्वा निब्बत्ति. सो तं पवत्तिं इसीनं आरोचेसि.
इसयो तुम्हेहि मयं बुद्धो, धम्मो, सङ्घोति असुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धोति? आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति? सावत्थिं निस्साय जेतवने, भन्तेति. इसयो तिट्ठथ ताव तुम्हे मयं सत्थारं पस्सिस्सामाति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बिनगरं सम्पापुणिंसु. महासेट्ठिनो, ‘‘इसयो आगता’’ति पच्चुग्गमनं कत्वा, ‘‘स्वे अम्हाकं भिक्खं गण्हथ, भन्ते’’ति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो भुञ्जित्वाव गच्छामाति आपुच्छिंसु. तुम्हे, भन्ते, अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ. इमस्मिं पन वारे हिय्यो आगन्त्वा अज्जेव गच्छामाति वदथ, किमिदन्ति? आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो विदितुं, तेन मयं तुरिता गच्छामाति. तेन हि, भन्ते, मयम्पि गच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामाति निक्खमित्वा एकस्मिं ठाने द्वेपि दिवसानि अवसित्वा तुरितगमनेनेव सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. सत्थु मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.
तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुन्नदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायकानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु. पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा, ‘‘अम्हाकं जनपदं आगमनाय पटिञ्ञं देथा’’ति पादमूले निपज्जिंसु. भगवा, ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति आह. एत्तावता पटिञ्ञा दिन्ना नाम होतीति गहपतयो सल्लक्खेत्वा दिन्ना नो भगवता पटिञ्ञाति दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने ठाने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा, ‘‘लोके बुद्धो उप्पन्नो’’ति कथयिंसु. तयोपि जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो वसनत्थाय विहारे कारापयिंसु. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनो नाम अहोसि. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं – ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.
भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता. हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता. विरुद्धभूतं वादन्ति विवादं, तं आपन्नाति विवादापन्ना. मुखसत्तीहीति वाचासत्तीहि. वितुदन्ताति विज्झन्ता. ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपेन्तीति ते अत्थञ्च कारणञ्च दस्सेत्वा नेव अञ्ञमञ्ञं जानापेन्ति. सचेपि सञ्ञापेतुं आरभन्ति, तथापि सञ्ञत्तिं न उपेन्ति, जानितुं न इच्छन्तीति अत्थो. निज्झत्तियापि एसेव नयो. एत्थ च निज्झत्तीति सञ्ञत्तिवेवचनमेवेतं. कस्मा पनेते भण्डनजाता अहेसुन्ति? अप्पमत्तकेन कारणेन.
द्वे किर भिक्खू एकस्मिं आवासे वसन्ति विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको भिक्खु एकदिवसं वच्चकुटिं पविट्ठो आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. विनयधरो पच्छा पविट्ठो तं उदकं दिस्वा निक्खमित्वा तं भिक्खुं पुच्छि, आवुसो, तया इदं उदकं ठपितन्ति? आम, आवुसोति. त्वमेत्थ आपत्तिभावं न जानासीति? आम न जानामीति. होति, आवुसो, एत्थ आपत्तीति. सचे होति देसेस्सामीति. सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि ते आपत्तीति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि.
विनयधरो अत्तनो निस्सितकानं, ‘‘अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा – ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे ‘अनापत्ती’ति वत्वा इदानि ‘आपत्ती’ति वदति, मुसावादी एसो’’ति. ते गन्त्वा, ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु, तं सन्धायेतं वुत्तं.
भगवन्तं एतदवोचाति एतं, ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता’’तिआदिवचनं अवोच. तञ्च खो नेव पियकम्यताय न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय. सामग्गिकारको किरेस भिक्खु, तस्मास्स एतदहोसि – ‘‘यथा इमे भिक्खू विवादं आरद्धा, न सक्का मया, नापि अञ्ञेन भिक्खुना समग्गा कातुं, अप्पेव नाम सदेवके लोके अप्पटिपुग्गलो भगवा सयं वा गन्त्वा, अत्तनो वा सन्तिकं पक्कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या’’ति अत्थकामताय हितकामताय गन्त्वा अवोच.
४९२. छयिमे, भिक्खवे, धम्मा सारणीयाति हेट्ठा कलहभण्डनवसेन देसना आरद्धा. इमस्मिं ठाने छ सारणीया धम्मा आगताति एवमिदं कोसम्बियसुत्तं यथानुसन्धिनाव गतं होति. तत्थ सारणीयाति सरितब्बयुत्ता अद्धाने अतिक्कन्तेपि न पमुस्सितब्बा. यो ते धम्मे पूरेति, तं सब्रह्मचारीनं पियं करोन्तीति पियकरणा. गरुं करोन्तीति गरुकरणा. सङ्गहायाति सङ्गहणत्थाय. अविवादायाति अविवादनत्थाय. सामग्गियाति समग्गभावत्थाय. एकीभावायाति एकीभावत्थाय निन्नानाकरणाय. संवत्तन्तीति भवन्ति. मेत्तं कायकम्मन्ति मेत्तचित्तेन कत्तब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि भिक्खूनं वसेन आगतानि, गिहीसुपि लब्भन्तियेव. भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं पत्तपटिग्गहणं आसनपञ्ञापनं अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम.
भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापदं, कम्मट्ठानकथनं धम्मदेसना तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनञ्च, ‘‘चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, पदीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेत्वा छन्दजाता उस्साहजाता वेय्यावच्चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम.
भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा, ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम. गिहीनं ‘‘अय्या सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम.
आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावूपगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनवन्दनबीजनदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्तं पन परिपुच्छन्तस्स, कुहिं अम्हाकं देवत्थेरो, अम्हाकं तिस्सत्थेरो कदा नु खो आगमिस्सतीति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा सुप्पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. देवत्थेरो, तिस्सत्थेरो अरोगो होतु अप्पाबाधोति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.
लाभाति चीवरादयो लद्धपच्चया. धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्ना. अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि. अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पुग्गलपटिविभत्तञ्च. तत्थ, ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन विभजनं आमिसपटिविभत्तं नाम. ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम. तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम.
सीलवन्तेहि सब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं, यं यं पणीतं लब्भति, तं तं नेव लाभेन लाभं जिगीसनामुखेन गिहीनं देति, न अत्तना परिभुञ्जति; पटिग्गण्हन्तोव सङ्घेन साधारणं होतूति गहेत्वा गण्डिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति. इदं पन सारणीयधम्मं को पूरेति, को न पूरेतीति? दुस्सीलो ताव न पूरेति. न हि तस्स सन्तकं सीलवन्ता गण्हन्ति. परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति.
तत्रिदं वत्तं – यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति. सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति, तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं. एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं. अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं परिभुञ्जितब्बं, ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति.
अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, नो असिक्खिताय परिसाय. सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति, अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, न अतिरेकं. अयञ्च पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरति, न ततो ओरं. सचे हि द्वादसमेपि वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति, सङ्घत्थेरो च कस्सेसो पत्तोति? सारणीयधम्मपूरकस्साति वुत्ते – ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वा भुञ्जित्वा च रित्तपत्तं ठपेति. अथ सो भिक्खु रित्तपत्तं दिस्वा, ‘‘मय्हं असेसेत्वाव परिभुञ्जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादस वस्सानि पूरेतब्बो होति, तित्थियपरिवाससदिसो हेस. सकिं खण्डे जाते पुन पूरेतब्बोव. यो पन, ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारी परिभुञ्जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति.
एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति, सो मनुस्सानं पियो होति, सुलभपच्चयो; पत्तगतमस्स दीयमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्कं आपज्जन्ति.
तत्रिमानि वत्थूनि – लेणगिरिवासी तिस्सत्थेरो किर महागिरिगामं उपनिस्साय वसति. पञ्ञास महाथेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता गिरिगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु. थेरो पविसन्तो ते दिस्वा पुच्छि – ‘‘लद्धं, भन्ते’’ति? विचरिम्हा, आवुसोति. सो अलद्धभावं ञत्वा आह – ‘‘यावाहं, भन्ते, आगच्छामि, ताव इधेव होथा’’ति. मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति. नेवासिका नाम, भन्ते, पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभावं जानन्तीति. थेरा आगमिंसु. थेरो गामं पाविसि. धुरगेहेयेव महाउपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि. सो तं आदाय थेरानं सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते’’ति सङ्घत्थेरमाह. थेरो, ‘‘अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि. थेरो ओलोकनाकारेनेव ञत्वा – ‘‘धम्मेन समेन लद्धपिण्डपातो, निक्कुक्कुच्चा गण्हथ भन्ते’’तिआदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि.
अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु – ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति. झानलाभीसि, आवुसोति? एतम्पि मे, भन्ते, नत्थीति. ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे धम्मस्स पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति. साधु साधु, सप्पुरिस, अनुच्छविकमिदं तुय्हन्ति. इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु.
अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा, ‘‘इमस्मिं ठाने किं वरभण्ड’’न्ति पुच्छति. द्वे साटका, भन्तेति. एते मय्हं पापुणिस्सन्तीति. तं सुत्वा अमच्चो रञ्ञो आरोचेसि – ‘‘एको दहरो एवं वदती’’ति. ‘‘दहरस्सेवं चित्तं, महाथेरानं पन सुखुमसाटका वट्टन्ती’’ति वत्वा, ‘‘महाथेरानं दस्सामी’’ति ठपेसि. तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्ञेव आरोहन्ति. दहरस्स दानकाले पन हत्थं आरुळ्हा. सो तस्स हत्थे ठपेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा, ‘‘कदा, भन्ते, इमं धम्मं पटिविज्झित्था’’ति आह. सो परियायेनपि असन्तं अवदन्तो, ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह. ननु, भन्ते, पुब्बेव अवचुत्थाति? आम, महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति. साधु साधु, भन्ते, अनुच्छविकमिदं तुम्हाकन्ति वन्दित्वा पक्कामि. इदं भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु.
ब्राह्मणतिस्सभये पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु. थेरी पच्चूसकाले, ‘‘अतिविय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह. ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं. सा सुत्वा, ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलाय पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. रुक्खे अधिवत्था देवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा, ‘‘अय्ये, अञ्ञत्थ मा गच्छथ, निच्चं इधेव एथा’’ति आह. थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि. सो, ‘‘महन्तं भयं, न सक्का इध यापेतुं, परतीरं गमिस्सामाति अत्तद्वादसमोव अत्तनो वसनट्ठाना निक्खन्तो थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो. थेरी, ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा, किं अय्याति पुच्छि. सो तं पवत्तिं आचिक्खि. सा, ‘‘अज्ज एकदिवसं विहारेयेव वसित्वा स्वेव गमिस्सथा’’ति आह. थेरा विहारं अगमंसु.
थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा, ‘‘इमं पिण्डपातं परिभुञ्जथा’’ति आह. थेरो, ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि. धम्मिको ताता पिण्डपातो कुक्कुच्चं अकत्वा परिभुञ्जथाति. वट्टिस्सति थेरीति. सा पत्तं गहेत्वा आकासे खिपि, पत्तो आकासे अट्ठासि. थेरो, ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव, थेरीति वत्वा भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो, ‘भो पिण्डपातिक भिक्खुनीभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भेतुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं आरुहि.
रुक्खदेवतापि, ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न नं निवत्तेस्सामि, सचे पन न परिभुञ्जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह पत्तं, भन्ते, देथाति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञापेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो, द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि. इदं देवता उस्सुक्कं आपज्जन्तीति एत्थ वत्थु, तत्र हि थेरी सारणीयधम्मपूरिका अहोसि.
अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पन पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरवण्णा गावी विय सबलं नाम होति. यस्स पन अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागबिन्दुचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो भुजिस्सानि. बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि अपरामट्ठत्ता, ‘‘इदं नाम त्वं आपन्नपुब्बो’’ति केनचि परामट्ठुं असक्कुणेय्यत्ता च अपरामट्ठानि. उपचारसमाधिं वा अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगतो विहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति. सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं, तं सन्धायेतं वुत्तं.
यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति. दुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगतोति समानदिट्ठिभावं उपगतो हुत्वा विहरति. अग्गन्ति जेट्ठकं. सब्बगोपानसियो सङ्गण्हातीति सङ्गाहिकं. सब्बगोपानसीनं सङ्घाटं करोतीति सङ्घाटनिकं. सङ्घाटनियन्ति अत्थो. यदिदं कूटन्ति यमेतं कूटागारकण्णिकासङ्खातं कूटं नाम. पञ्चभूमिकादिपासादा हि कूटबद्धाव तिट्ठन्ति. यस्मिं पतिते मत्तिकं आदिं कत्वा सब्बे पतन्ति. तस्मा एवमाह. एवमेव खोति यथा कूटं कूटागारस्स, एवं इमेसम्पि सारणीयधम्मानं या अयं अरिया दिट्ठि, सा अग्गा च सङ्गाहिका च सङ्घाटनिया चाति दट्ठब्बा.
४९३. कथञ्च, भिक्खवे, यायं दिट्ठीति एत्थ, भिक्खवे, यायं सोतापत्तिमग्गदिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयायाति वुत्ता, सा कथं केन कारणेन निय्यातीति अत्थो. परियुट्ठितचित्तोव होतीति एत्तावतापि परियुट्ठितचित्तोयेव नाम होतीति अत्थो. एस नयो सब्बत्थ. सुप्पणिहितं मे मानसन्ति मय्हं चित्तं सुट्ठु ठपितं. सच्चानं बोधायाति चतुन्नं सच्चानं बोधत्थाय. अरियन्तिआदीसु तं ञाणं यस्मा अरियानं होति, न पुथुज्जनानं, तस्मा अरियन्ति वुत्तं. येसं पन लोकुत्तरधम्मोपि अत्थि, तेसंयेव होति, न अञ्ञेसं, तस्मा लोकुत्तरन्ति वुत्तं. पुथुज्जनानं पन अभावतो असाधारणं पुथुज्जनेहीति वुत्तं. एस नयो सब्बवारेसु.
४९४. लभामि पच्चत्तं समथन्ति अत्तनो चित्ते समथं लभामीति अत्थो. निब्बुतियम्पि एसेव नयो. एत्थ च समथोति एकग्गता. निब्बुतीति किलेसवूपसमो.
४९५. तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया.
४९६. धम्मतायाति सभावेन. धम्मता एसाति सभावो एस. वुट्ठानं पञ्ञायतीति सङ्घकम्मवसेन वा देसनाय वा वुट्ठानं दिस्सति. अरियसावको हि आपत्तिं आपज्जन्तो गरुकापत्तीसु कुटिकारसदिसं, लहुकापत्तीसु सहसेय्यादिसदिसं अचित्तकापत्तिंयेव आपज्जति, तम्पि असञ्चिच्च, नो सञ्चिच्च, आपन्नं न पटिच्छादेति. तस्मा अथ खो नं खिप्पमेवातिआदिमाह. दहरोति तरुणो. कुमारोति न महल्लको. मन्दोति चक्खुसोतादीनं मन्दताय मन्दो. उत्तानसेय्यकोति अतिदहरताय उत्तानसेय्यको, दक्खिणेन वा वामेन वा पस्सेन सयितुं न सक्कोतीति अत्थो. अङ्गारं अक्कमित्वाति इतो चितो च पसारितेन हत्थेन वा पादेन वा फुसित्वा. एवं फुसन्तानं पन मनुस्सानं न सीघं हत्थो झायति, तथा हि एकच्चे हत्थेन अङ्गारं गहेत्वा परिवत्तमाना दूरम्पि गच्छन्ति. दहरस्स पन हत्थपादा सुखुमाला होन्ति, सो फुट्ठमत्तेनेव दय्हमानो चिरीति सद्दं करोन्तो खिप्पं पटिसंहरति, तस्मा इध दहरोव दस्सितो. महल्लको च दय्हन्तोपि अधिवासेति, अयं पन अधिवासेतुं न सक्कोति. तस्मापि दहरोव दस्सितो. देसेतीति आपत्तिपटिग्गाहके सभागपुग्गले सति एकं दिवसं वा रत्तिं वा अनधिवासेत्वा रत्तिं चतुरङ्गेपि तमे सभागभिक्खुनो वसनट्ठानं गन्त्वा देसेतियेव.
४९७. उच्चावचानीति उच्चनीचानि. किं करणीयानीति किं करोमीति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मं नाम चीवरस्स करणं रजनं चेतिये सुधाकम्मं उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं, अथ वा चेतिये सुधाकम्मादि उच्चकम्मं नाम. तत्थेव कसावपचनउदकानयनकुच्छकरण निय्यासबन्धनादि अवचकम्मं नाम. उस्सुक्कं आपन्नो होतीति उस्सुक्कभावं कत्तब्बतं पटिपन्नो होति. तिब्बापेक्खो होतीति बहलपत्थनो होति. थम्बञ्च आलुम्पतीति तिणञ्च आलुम्पमाना खादति. वच्छकञ्च अपचिनातीति वच्छकञ्च अपलोकेति. तरुणवच्छा हि गावी अरञ्ञे एकतो आगतं वच्छकं एकस्मिं ठाने निपन्नं पहाय दूरं न गच्छति, वच्छकस्स आसन्नट्ठाने चरमाना तिणं आलुम्पित्वा गीवं उक्खिपित्वा एकन्तं वच्छकमेव च विलोकेति, एवमेव सोतापन्नो उच्चावचानि किं करणीयानि करोन्तो तन्निन्नो होति, असिथिलपूरको तिब्बच्छन्दो बहलपत्थनो हुत्वाव करोति.
तत्रिदं वत्थु – महाचेतिये किर सुधाकम्मे करियमाने एको अरियसावको एकेन हत्थेन सुधाभाजनं, एकेन कुच्छं गहेत्वा सुधाकम्मं करिस्सामीति चेतियङ्गणं आरुळ्हो. एको कायदळ्हिबहुलो भिक्खु गन्त्वा थेरस्स सन्तिके अट्ठासि. थेरो अञ्ञस्मिं सति पपञ्चो होतीति तस्मा ठाना अञ्ञं ठानं गतो. सोपि भिक्खु तत्थेव अगमासि. थेरो पुन अञ्ञं ठानन्ति एवं कतिपयट्ठाने आगतं, – ‘‘सप्पुरिस महन्तं चेतियङ्गणं किं अञ्ञस्मिं ठाने ओकासं न लभथा’’ति आह. न इतरो पक्कामीति.
४९८. बलताय समन्नागतोति बलेन समन्नागतो. अट्ठिं कत्वाति अत्थिकभावं कत्वा, अत्थिको हुत्वाति अत्थो. मनसिकत्वाति मनस्मिं करित्वा. सब्बचेतसा समन्नाहरित्वाति अप्पमत्तकम्पि विक्खेपं अकरोन्तो सकलचित्तेन समन्नाहरित्वा. ओहितसोतोति ठपितसोतो. अरियसावका हि पियधम्मस्सवना होन्ति, धम्मस्सवनग्गं गन्त्वा निद्दायमाना वा येन केनचि सद्धिं सल्लपमाना वा विक्खित्तचित्ता वा न निसीदन्ति, अथ खो अमतं परिभुञ्जन्ता विय अतित्ताव होन्ति धम्मस्सवने, अथ अरुणं उग्गच्छति. तस्मा एवमाह.
५००. धम्मता सुसमन्निट्ठा होतीति सभावो सुट्ठु समन्नेसितो होति. सोतापत्तिफलसच्छिकिरियायाति करणवचनं, सोतापत्तिफलसच्छिकतञाणेनाति अत्थो. एवं सत्तङ्गसमन्नागतोति एवं इमेहि सत्तहि महापच्चवेक्खणञाणेहि समन्नागतो. अयं ताव आचरियानं समानकथा. लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थि.
वितण्डवादी पन एकचित्तक्खणिको नाम मग्गो नत्थि, ‘‘एवं भावेय्य सत्त वस्सानी’’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होन्ति. किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्तीति वदति. सो सुत्तं आहराति वत्तब्बो, अद्धा अञ्ञं सुत्तं अपस्सन्तो, ‘‘इदमस्स पठमं ञाणं अधिगतं होति, इदमस्स दुतियं ञाणं…पे… इदमस्स सत्तमं ञाणं अधिगतं होती’’ति इममेव आहरित्वा दस्सेस्सति. ततो वत्तब्बो किं पनिदं सुत्तं नेय्यत्थं नीतत्थन्ति. ततो वक्खति – ‘‘नीतत्थत्थं, यथासुत्तं तथेव अत्थो’’ति. सो वत्तब्बो – ‘‘धम्मता सुसमन्निट्ठा होति सोतापत्तिफलसच्छिकिरियायाति एत्थ को अत्थो’’ति? अद्धा सोतापत्तिफलसच्छिकिरियायत्थोति वक्खति. ततो पुच्छितब्बो, ‘‘मग्गसमङ्गी फलं सच्छिकरोति, फलसमङ्गी’’ति. जानन्तो, ‘‘फलसमङ्गी सच्छिकरोती’’ति वक्खति. ततो वत्तब्बो, – ‘‘एवं सत्तङ्गसमन्नागतो खो, भिक्खवे, अरियसावको सोतापत्तिफलसमन्नागतो होतीति इध मग्गं अभावेत्वा मण्डूको विय उप्पतित्वा अरियसावको फलमेव गण्हिस्सति. मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियसन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होती’’ति. ‘‘इमानि सत्त ञाणानि अरियसावकस्स पच्चवेक्खणञाणानेव, लोकुत्तरमग्गो बहुचित्तक्खणिको नाम नत्थि, एकचित्तक्खणिकोयेवा’’ति सञ्ञापेतब्बो. सचे सञ्जानाति सञ्जानातु. नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
कोसम्बियसुत्तवण्णना निट्ठिता.