३. महादुक्खक्खन्धसुत्तवण्णना

१६३. एवं मे सुतन्ति महादुक्खक्खन्धसुत्तं. तत्थ विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन तयो तयो एव, ततो उद्धं सम्बहुलाति वुच्चन्ति. इध सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. पिण्डाय पाविसिंसूति पविट्ठा, ते पन न ताव पविट्ठा, पविसिस्सामाति निक्खन्तत्ता पन पविसिंसूति वुत्ता. यथा गामं गमिस्सामीति निक्खन्तपुरिसो तं गामं अप्पत्तोपि ‘‘कुहिं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. परिब्बाजकानं आरामोति जेतवनतो अविदूरे अञ्ञतित्थियानं परिब्बाजकानं आरामो अत्थि, तं सन्धाय एवमाहंसु. समणो, आवुसोति, आवुसो, तुम्हाकं सत्था समणो गोतमो. कामानं परिञ्ञन्ति कामानं पहानं समतिक्कमं पञ्ञपेति. रूपवेदनासुपि एसेव नयो.

तत्थ तित्थिया सकसमयं जानन्ता कामानं परिञ्ञं पञ्ञपेय्युं पठमज्झानं वदमाना, रूपानं परिञ्ञं पञ्ञपेय्युं अरूपभवं वदमाना, वेदनानं परिञ्ञं पञ्ञपेय्युं असञ्ञभवं वदमाना. ते पन ‘‘इदं नाम पठमज्झानं अयं रूपभवो अयं अरूपभवो’’तिपि न जानन्ति. ते पञ्ञपेतुं असक्कोन्तापि केवलं ‘‘पञ्ञपेम पञ्ञपेमा’’ति वदन्ति. तथागतो कामानं परिञ्ञं अनागामिमग्गेन पञ्ञपेति, रूपवेदनानं अरहत्तमग्गेन. ते एवं महन्ते विसेसे विज्जमानेपि इध नो, आवुसो, को विवेसोतिआदिमाहंसु.

तत्थ इधाति इमस्मिं पञ्ञापने. धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स वा गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेथ, तं किन्नामाति वदन्ति. दुतियपदेपि एसेव नयो. इति वेमज्झे भिन्नसुवण्णं विय सासनेन सद्धिं अत्तनो लद्धिवचनमत्तेन समधुरं ठपयिंसु. नेव अभिनन्दिंसूति एवमेतन्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति नयिदं एवन्ति नप्पटिसेधेसुं. कस्मा? ते किर तित्थिया नाम अन्धसदिसा, जानित्वा वा अजानित्वा वा कथेय्युन्ति नाभिनन्दिंसु, परिञ्ञन्ति वचनेन ईसकं सासनगन्धो अत्थीति नप्पटिक्कोसिंसु. जनपदवासिनो वा ते सकसमयपरसमयेसु न सुट्ठु कुसलातिपि उभयं नाकंसु.

१६५. न चेव सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरिञ्च विघातन्ति असम्पायनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानं नाम हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ यथाति कारणवचनं, तन्ति निपातमत्तं. यस्मा अविसये पञ्हो पुच्छितो होतीति अत्थो. सदेवकेति सह देवेहि सदेवके. समारकादीसुपि एसेव नयो. एवं तीणि ठानानि लोके पक्खिपित्वा द्वे पजायाति पञ्चहिपि सत्तलोकमेव परियादियित्वा एतस्मिं सदेवकादिभेदे लोके तं देवं वा मनुस्सं वा न पस्सामीति दीपेति. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा अतथागतोपि अतथागतसावकोपि आराधेय्य परितोसेय्य. अञ्ञथा आराधनं नाम नत्थीति दस्सेति.

१६६. इदानि अत्तनो तेसं पञ्हानं वेय्याकरणेन चित्ताराधनं दस्सेन्तो को च, भिक्खवेतिआदिमाह. कामगुणाति कामयितब्बट्ठेन कामा. बन्धनट्ठेन गुणा. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं द्विगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो. ‘‘अन्तं अन्तगुणं (खु. पा. ३ द्वत्तिंसाकारे; दी. नि. २.३७७) कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसेव अधिप्पेतो, तेन वुत्तं ‘‘बन्धनट्ठेन गुणा’’ति. चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. एतेनुपायेन सोतविञ्ञेय्यादीसुपि अत्थो वेदितब्बो. इट्ठाति परियिट्ठा वा होन्तु मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कमनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसंहिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसंहिता. रजनीयाति रज्जनिया, रागुप्पत्तिकारणभूताति अत्थो.

१६७. यदि मुद्दायातिआदीसु मुद्दाति अङ्गुलिपब्बेसु सञ्ञं ठपेत्वा हत्थमुद्दा. गणनाति अच्छिद्दगणना. सङ्खानन्ति पिण्डगणना. याय खेत्तं ओलोकेत्वा इध एत्तका वीही भविस्सन्ति, रुक्खं ओलोकेत्वा इध एत्तकानि फलानि भविस्सन्ति, आकासं ओलोकेत्वा इमे आकासे सकुणा एत्तका नाम भविस्सन्तीति जानन्ति.

कसीति कसिकम्मं. वणिज्जाति जङ्घवणिज्जथलवणिज्जादिवणिप्पथो. गोरक्खन्ति अत्तनो वा परेसं वा गावो रक्खित्वा पञ्चगोरसविक्कयेन जीवनकम्मं. इस्सत्थो वुच्चति आवुधं गहेत्वा उपट्ठानकम्मं. राजपोरिसन्ति आवुधेन राजकम्मं कत्वा उपट्ठानं. सिप्पञ्ञतरन्ति गहितावसेसं हत्थिअस्ससिप्पादि. सीतस्स पुरक्खतोति लक्खं विय सरस्स सीतस्स पुरतो, सीतेन बाधीयमानोति अत्थो. उण्हेपि एसेव नयो. डंसादीसु डंसाति पिङ्गलमक्खिका. मकसाति सब्बमक्खिका, सरीसपाति ये केचि सरित्वा गच्छन्ति. रिस्समानोति रुप्पमानो, घट्टियमानो. मीयमानोति मरमानो. अयं, भिक्खवेति, भिक्खवे, अयं मुद्दादीहि जीविककप्पनं आगम्म सीतादिपच्चयो आबाधो. कामानं आदीनवोति कामेसु उपद्दवो, उपस्सग्गोति अत्थो. सन्दिट्ठिकोति पच्चक्खो सामं पस्सितब्बो. दुक्खक्खन्धोति दुक्खरासि. कामहेतूतिआदीसु पच्चयट्ठेन कामा अस्स हेतूति कामहेतु. मूलट्ठेन कामा निदानमस्साति कामनिदानो. लिङ्गविपल्लासेन पन कामनिदानन्ति वुत्तो. कारणट्ठेन कामा अधिकरणं अस्साति कामाधिकरणो. लिङ्गविपल्लासेनेव पन कामाधिकरणन्ति वुत्तो. कामानमेव हेतूति इदं नियमवचनं, कामपच्चया उप्पज्जतियेवाति अत्थो.

उट्ठहतोति आजीवसमुट्ठापकवीरियेन उट्ठहन्तस्स. घटतोति तं वीरियं पुब्बेनापरं घटेन्तस्स. वायमतोति वायामं परक्कमं पयोगं करोन्तस्स. नाभिनिप्फज्जन्तीति न निप्फज्जन्ति, हत्थं नाभिरुहन्ति. सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति. किलमतीति काये उप्पन्नदुक्खेन किलमति. परिदेवतीति वाचाय परिदेवति. उरत्ताळिन्ति उरं ताळेत्वा. कन्दतीति रोदति. सम्मोहं आपज्जतीति विसञ्ञी विय सम्मूळ्हो होति. मोघन्ति तुच्छं. अफलोति निप्फलो. आरक्खाधिकरणन्ति आरक्खकारणा. किन्तीति केन नु खो उपायेन. यम्पि मेति यम्पि मय्हं कसिकम्मादीनि कत्वा उप्पादितं धनं अहोसि. तम्पि नो नत्थीति तम्पि अम्हाकं इदानि नत्थि.

१६८. पुन चपरं, भिक्खवे, कामहेतूतिआदिनापि कारणं दस्सेत्वाव आदीनवं दीपेति. तत्थ कामहेतूति कामपच्चया राजानोपि राजूहि विवदन्ति. कामनिदानन्ति भावनपुंसकं, कामे निदानं कत्वा विवदन्तीति अत्थो. कामाधिकरणन्तिपि भावनपुंसकमेव, कामे अधिकरणं कत्वा विवदन्तीति अत्थो. कामानमेव हेतूति गामनिगमनगरसेनापतिपुरोहितट्ठानन्तरादीनं कामानमेव हेतु विवदन्तीति अत्थो. उपक्कमन्तीति पहरन्ति. असिचम्मन्ति असिञ्चेव खेटकफलकादीनि च. धनुकलापं सन्नय्हित्वाति धनुं गहेत्वा सरकलापं सन्नय्हित्वा. उभतोब्यूळन्ति उभतो रासिभूतं. पक्खन्दन्तीति पविसन्ति. उसूसूति कण्डेसु. विज्जोतलन्तेसूति विपरिवत्तन्तेसु. ते तत्थाति ते तस्मिं सङ्गामे.

अद्दावलेपना उपकारियोति चेत्थ मनुस्सा पाकारपादं अस्सखुरसण्ठानेन इट्ठकाहि चिनित्वा उपरि सुधाय लिम्पन्ति. एवं कता पाकारपादा उपकारियोति वुच्चन्ति. ता तिन्तेन कललेन सित्ता अद्दावलेपना नाम होन्ति. पक्खन्दन्तीति तासं हेट्ठा तिखिणअयसूलादीहि विज्झीयमानापि पाकारस्स पिच्छिलभावेन आरोहितुं असक्कोन्तापि उपधावन्तियेव. छकणकायाति कुथितगोमयेन. अभिवग्गेनाति सतदन्तेन. तं अट्ठदन्ताकारेन कत्वा ‘‘नगरद्वारं भिन्दित्वा पविसिस्सामा’’ति आगते उपरिद्वारे ठिता तस्स बन्धनयोत्तानि छिन्दित्वा तेन अभिवग्गेन ओमद्दन्ति.

१६९. सन्धिम्पि छिन्दन्तीति घरसन्धिम्पि छिन्दन्ति. निल्लोपन्ति गामे पहरित्वा महाविलोपं करोन्ति. एकागारिकन्ति पण्णासमत्तापि सट्ठिमत्तापि परिवारेत्वा जीवग्गाहं गहेत्वा आहरापेन्ति. परिपन्थेपि तिट्ठन्तीति पन्थदूहनकम्मं करोन्ति. अड्ढदण्डकेहीति मुग्गरेहि पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जियउक्खलिकम्मकारणं, तं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुथित्वा उपरि उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं, तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगळवाटपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वल्लित्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति.

राहुमुखन्ति राहुमुखकम्मकारणं, तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति. कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति. लोहितं पग्घरित्वा मुखं पूरेति. जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं, तं करोन्ता गीवतो पट्ठाय चम्मबद्धे कन्तित्वा गोप्फके ठपेन्ति. अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मबद्धे अक्कमित्वा अक्कमित्वा पतति. चीरकवासिकन्ति चीरकवासिककम्मकारणं, तं करोन्ता तथेव चम्मबद्धे कन्तित्वा कटियं ठपेन्ति. कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति. उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च जाणूसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति. सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं. तं कालेन कालं सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कारणा नाम नत्थि.

बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति. चम्मसंसन्हारूनि पग्घरित्वा सवन्ति. अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्दे अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविज्झन्ति. पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपन्ति. मंसरासियेव होति, अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति. पलालवट्टिं विय कत्वा पन वेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातकेहि सुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिसङ्खलिकमेव करोन्ति. सम्परायिकोति सम्पराये दुतियत्तभावे विपाकोति अत्थो.

१७०. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं. निब्बानञ्हि आगम्म कामेसु छन्दरागो विनीयति चेव पहीयति च, तस्मा निब्बानं छन्दरागविनयो छन्दरागप्पहानन्ति च वुत्तं. सामं वा कामे परिजानिस्सन्तीति सयं वा ते कामे तीहि परिञ्ञाहि परिजानिस्सन्ति. तथत्तायाति तथभावाय. यथापटिपन्नोति याय पटिपदाय पटिपन्नो.

१७१. खत्तियकञ्ञा वातिआदि अपरित्तेन विपुलेन कुसलेन गहितपटिसन्धिकं वत्थालङ्कारादीनि लभनट्ठाने निब्बत्तं दस्सेतुं वुत्तं. पन्नरसवस्सुद्देसिकाति पन्नरसवस्सवया. दुतियपदेपि एसेव नयो. वयपदेसं कस्मा गण्हाति? वण्णसम्पत्तिदस्सनत्थं. मातुगामस्स हि दुग्गतकुले निब्बत्तस्सापि एतस्मिं काले थोकं थोकं वण्णायतनं पसीदति. पुरिसानं पन वीसतिवस्सकाले पञ्चवीसतिवस्सकाले पसन्नं होति. नातिदीघातिआदीहि छदोसविरहितं सरीरसम्पत्तिं दीपेति. वण्णनिभाति वण्णोयेव.

जिण्णन्ति जराजिण्णं. गोपानसिवङ्कन्ति गोपानसी विय वङ्कं. भोग्गन्ति भग्गं, इमिनापिस्स वङ्कभावमेव दीपेति. दण्डपरायणन्ति दण्डपटिसरणं दण्डदुतियं. पवेधमानन्ति कम्पमानं. आतुरन्ति जरातुरं. खण्डदन्तन्ति जिण्णभावेन खण्डितदन्तं. पलितकेसन्ति पण्डरकेसं. विलूनन्ति लुञ्चित्वा गहितकेसं विय खल्लाटं. खलितसिरन्ति महाखल्लाटसीसं. वलिनन्ति सञ्जातवलिं. तिलकाहतगत्तन्ति सेतकाळतिलकेहि विकिण्णसरीरं. आबाधिकन्ति ब्याधिकं. दुक्खितन्ति दुक्खपत्तं.

बाळ्हगिलानन्ति अधिमत्तगिलानं. सिवथिकाय छड्डितन्ति आमकसुसाने पातितं. सेसमेत्थ सतिपट्ठाने वुत्तमेव. इधापि निब्बानंयेव छन्दरागविनयो.

१७३. नेव तस्मिं समये अत्तब्याबाधायाति तस्मिं समये अत्तनोपि दुक्खत्थाय न चेतेति. अब्याबज्झंयेवाति निद्दुक्खमेव.

१७४. यं, भिक्खवे, वेदना अनिच्चाति, भिक्खवे, यस्मा वेदना अनिच्चा, तस्मा अयं अनिच्चादिआकारोव वेदनाय आदीनवोति अत्थो, निस्सरणं वुत्तप्पकारमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महादुक्खक्खन्धसुत्तवण्णना निट्ठिता.