४. चूळदुक्खक्खन्धसुत्तवण्णना
१७५. एवं मे सुतन्ति चूळदुक्खक्खन्धसुत्तं. तत्थ सक्केसूति एवंनामके जनपदे. सो हि जनपदो सक्यानं राजकुमारानं वसनट्ठानत्ता सक्यात्वेव सङ्ख्यं गतो. सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगताव. कपिलवत्थुस्मिन्ति एवंनामके नगरे. तञ्हि कपिलस्स इसिनो निवासट्ठाने कतत्ता कपिलवत्थूति वुत्तं, तं गोचरगामं कत्वा. निग्रोधारामेति निग्रोधो नाम सक्को, सो ञातिसमागमकाले कपिलवत्थुं आगते भगवति अत्तनो आरामे विहारं कारेत्वा भगवतो निय्यातेसि, तस्मिं विहरतीति अत्थो. महानामोति अनुरुद्धत्थेरस्स भाता भगवतो चुळपितुपुत्तो. सुद्धोदनो सुक्कोदनो सक्कोदनो धोतोदनो अमितोदनोति इमे पञ्च जना भातरो. अमिता नाम देवी तेसं भगिनी. तिस्सत्थेरो तस्सा पुत्तो. तथागतो च नन्दत्थेरो च सुद्धोदनस्स पुत्ता, महानामो च अनुरुद्धत्थेरो च सुक्कोदनस्स. आनन्दत्थेरो अमितोदनस्स, सो भगवतो कनिट्ठो. महानामो महल्लकतरो सकदागामी अरियसावको.
दीघरत्तन्ति मय्हं सकदागामिफलुप्पत्तितो पट्ठाय चिररत्तं जानामीति दस्सेति. लोभधम्माति लोभसङ्खाता धम्मा, नानप्पकारकं लोभंयेव सन्धाय वदति. इतरेसुपि द्वीसु एसेव नयो. परियादाय तिट्ठन्तीति खेपेत्वा तिट्ठन्ति. इदञ्हि परियादानं नाम ‘‘सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं सब्बं रथकायं सब्बं पत्तिकायं परियादियित्वा जीवन्तंयेव नं ओसज्जेय्य’’न्ति (सं. नि. १.१२६) एत्थ गहणे आगतं. ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’ति (सं. नि. ३.१०२) एत्थ खेपने. इधापि खेपने अधिप्पेतं. तेन वुत्तं ‘‘परियादियित्वाति खेपेत्वा’’ति.
येन मे एकदा लोभधम्मापीति येन मय्हं एकेकस्मिं काले लोभधम्मापि चित्तं परियादाय तिट्ठन्तीति पुच्छति. अयं किर राजा ‘‘सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्ती’’ति सञ्ञी अहोसि, अयं ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति, अप्पहीनकं उपादाय पहीनकम्पि पुन पच्छतोवावत्ततीति सञ्ञी होति. अरियसावकस्स एवं सन्देहो उप्पज्जतीति? आम उप्पज्जति. कस्मा? पण्णत्तिया अकोविदत्ता. ‘‘अयं किलेसो असुकमग्गवज्झो’’ति इमिस्सा पण्णत्तिया अकोविदस्स हि अरियसावकस्सपि एवं होति. किं तस्स पच्चवेक्खणा नत्थीति? अत्थि. सा पन न सब्बेसं परिपुण्णा होति. एको हि पहीनकिलेसमेव पच्चवेक्खति. एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव. इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टति. इति यस्स पच्चवेक्खणा न परिपुण्णा, तस्स मग्गवज्झकिलेसपण्णत्तियं अकोविदत्ता एवं होति.
१७६. सो एव खो तेति सोयेव लोभो दोसो मोहो च तव सन्ताने अप्पहीनो, त्वं पन पहीनसञ्ञी अहोसीति दस्सेति. सो च हि तेति सो तुय्हं लोभदोसमोहधम्मो. कामेति दुविधे कामे. न परिभुञ्जेय्यासीति मयं विय पब्बजेय्यासीति दस्सेति.
१७७. अप्पस्सादाति परित्तसुखा. बहुदुक्खाति दिट्ठधम्मिकसम्परायिकदुक्खमेवेत्थ बहुकं. बहुपायासाति दिट्ठधम्मिकसम्परायिको उपायासकिलेसोयेवेत्थ बहु. आदीनवोति दिट्ठधम्मिकसम्परायिको उपद्दवो. एत्थ भिय्योति एतेसु कामेसु अयं आदीनवोयेव बहु. अस्सादो पन हिमवन्तं उपनिधाय सासपो विय अप्पो, परित्तको. इति चेपि महानामाति महानाम एवं चेपि अरियसावकस्स. यथाभूतन्ति यथासभावं. सम्मा नयेन कारणेन पञ्ञाय सुट्ठु दिट्ठं होतीति दस्सेति. तत्थ पञ्ञायाति विपस्सनापञ्ञाय, हेट्ठामग्गद्वयञाणेनाति अत्थो. सो चाति सो एव मग्गद्वयेन दिट्ठकामादीनवो अरियसावको. पीतिसुखन्ति इमिना सप्पीतिकानि द्वे झानानि दस्सेति. अञ्ञं वा ततो सन्ततरन्ति ततो झानद्वयतो सन्ततरं अञ्ञं उपरिझानद्वयञ्चेव मग्गद्वयञ्च. नेव ताव अनावट्टी कामेसु होतीति अथ खो सो द्वे मग्गे पटिविज्झित्वा ठितोपि अरियसावको उपरि झानानं वा मग्गानं वा अनधिगतत्ता नेव ताव कामेसु अनावट्टी होति, अनावट्टिनो अनाभोगो न होति. आवट्टिनो साभोगोयेव होति. कस्मा? चतूहि झानेहि विक्खम्भनप्पहानस्स, द्वीहि मग्गेहि समुच्छेदप्पहानस्स अभावा.
मय्हम्पि खोति न केवलं तुय्हेव, अथ खो मय्हम्पि. पुब्बेव सम्बोधाति मग्गसम्बोधितो पठमतरमेव. पञ्ञाय सुदिट्ठं होतीति एत्थ ओरोधनाटका पजहनपञ्ञा अधिप्पेता. पीतिसुखं नाज्झगमन्ति सप्पीतिकानि द्वे झानानि न पटिलभिं. अञ्ञं वा ततो सन्ततरन्ति इध उपरि झानद्वयं चेव चत्तारो च मग्गा अधिप्पेता. पच्चञ्ञासिन्ति पटिअञ्ञासिं.
१७९. एकमिदाहं महानाम समयन्ति कस्मा आरद्धं? अयं पाटियेक्को अनुसन्धि. हेट्ठा कामानं अस्सादोपि आदीनवोपि कथितो, निस्सरणं न कथितं, तं कथेतुं अयं देसना आरद्धा. कामसुखल्लिकानुयोगो हि एको अन्तो अत्तकिलमथानुयोगो एकोति इमेहि अन्तेहि मुत्तं मम सासनन्ति उपरि फलसमापत्तिसीसेन सकलसासनं दस्सेतुम्पि अयं देसना आरद्धा.
गिज्झकूटे पब्बतेति तस्स पब्बतस्स गिज्झसदिसं कूटं अत्थि, तस्मा गिज्झकूटोति वुच्चति. गिज्झा वा तस्स कूटेसु निवसन्तीतिपि गिज्झकूटोति वुच्चति. इसिगिलिपस्सेति इसिगिलिपब्बतस्स पस्से. काळसिलायन्ति काळवण्णे पिट्ठिपासाणे. उब्भट्ठका होन्तीति उद्धंयेव ठितका होन्ति अनिसिन्ना. ओपक्कमिकाति उब्भट्ठकादिना अत्तनो उपक्कमेन निब्बत्तिता. निगण्ठो, आवुसोति अञ्ञं कारणं वत्तुं असक्कोन्ता निगण्ठस्स उपरि पक्खिपिंसु. सब्बञ्ञू सब्बदस्सावीति सो अम्हाकं सत्था अतीतानागतपच्चुप्पन्नं सब्बं जानाति पस्सतीति दस्सेति. अपरिसेसं ञाणदस्सनं पटिजानातीति सो अम्हाकं सत्था अपरिसेसं धम्मं जानन्तो अपरिसेससङ्खातं ञाणदस्सनं पटिजानाति, पटिजानन्तो च एवं पटिजानाति ‘‘चरतो च मे तिट्ठतो च…पे… पच्चुपट्ठित’’न्ति. तत्थ सततन्ति निच्चं. समितन्ति तस्सेव वेवचनं.
१८०. किं पन तुम्हे, आवुसो, निगण्ठा जानाथ एत्तकं वा दुक्खं निज्जिण्णन्ति इदं भगवा पुरिसो नाम यं करोति, तं जानाति. वीसतिकहापणे इणं गहेत्वा दस दत्वा ‘‘दस मे दिन्ना दस अवसिट्ठा’’ति जानाति, तेपि दत्वा ‘‘सब्बं दिन्न’’न्ति जानाति. खेत्तस्स ततियभागं लायित्वा ‘‘एको भागो लायितो, द्वे अवसिट्ठा’’ति जानाति. पुन एकं लायित्वा ‘‘द्वे लायिता, एको अवसिट्ठो’’ति जानाति. तस्मिम्पि लायिते ‘‘सब्बं निट्ठित’’न्ति जानाति, एवं सब्बकिच्चेसु कतञ्च अकतञ्च जानाति, तुम्हेहिपि तथा ञातब्बं सियाति दस्सेति. अकुसलानं धम्मानं पहानन्ति इमिना अकुसलं पहाय कुसलं भावेत्वा सुद्धन्तं पत्तो निगण्ठो नाम तुम्हाकं सासने अत्थीति पुच्छति.
एवं सन्तेति तुम्हाकं एवं अजाननभावे सति. लुद्दाति लुद्दाचारा. लोहितपाणिनोति पाणे जीविता वोरोपेन्ता लोहितेन मक्खितपाणिनो. पाणं हि हनन्तस्सपि यस्स लोहितेन पाणि न मक्खियति, सोपि लोहितपाणीत्वेव वुच्चति. कुरूरकम्मन्ताति दारुणकम्मा. मातरि पितरि धम्मिकसमणब्राह्मणादीसु च कतापराधा. मागविकादयो वा कक्खळकम्मा.
न खो, आवुसो, गोतमाति इदं निगण्ठा ‘‘अयं अम्हाकं वादे दोसं देति, मयम्पिस्स दोसं आरोपेमा’’ति मञ्ञमाना आरभिंसु. तस्सत्थो, ‘‘आवुसो, गोतम यथा तुम्हे पणीतचीवरानि धारेन्ता सालिमंसोदनं भुञ्जन्ता देवविमानवण्णाय गन्धकुटिया वसमाना सुखेन सुखं अधिगच्छथ, न एवं सुखेन सुखं अधिगन्तब्बं. यथा पन मयं उक्कुटिकप्पधानादीहि नानप्पकारणं दुक्खं अनुभवाम, एवं दुक्खेन सुखं अधिगन्तब्ब’’न्ति. सुखेन च हावुसोति इदं सचे सुखेन च सुखं अधिगन्तब्बं सिया. राजा अधिगच्छेय्याति दस्सनत्थं वुत्तं. तत्थ मागधोति मगधरट्ठस्स इस्सरो. सेनियोति तस्स नामं. बिम्बीति अत्तभावस्स नामं. सो तस्स सारभूतो दस्सनीयो पासादिको अत्तभावसमिद्धिया बिम्बिसारोति वुच्चति. सुखविहारितरोति इदं ते निगण्ठा रञ्ञो तीसु पासादेसु तिविधवयेहि नाटकेहि सद्धिं सम्पत्तिअनुभवनं सन्धाय वदन्ति. अद्धाति एकंसेन. सहसा अप्पटिसङ्खाति साहसं कत्वा, अप्पच्चवेक्खित्वाव यथा रत्तो रागवसेन दुट्ठो दोसवसेन मूळ्हो मोहवसेन भासति, एवमेवं वाचा भासिताति दस्सेति.
तत्थ पटिपुच्छिस्सामीति तस्मिं अत्थे पुच्छिस्सामि. यथा वो खमेय्याति यथा तुम्हाकं रुच्चेय्य. पहोतीति सक्कोति.
अनिञ्जमानोति अचलमानो. एकन्तसुखं पटिसंवेदीति निरन्तरसुखं पटिसंवेदी. ‘‘अहं खो, आवुसो, निगण्ठा पहोमि…पे… एकन्तसुखं पटिसंवेदी’’ति इदं अत्तनो फलसमापत्तिसुखं दस्सेन्तो आह. एत्थ च कथापतिट्ठापनत्थं राजवारे सत्त आदिं कत्वा पुच्छा कता. सत्त रत्तिन्दिवानि नप्पहोतीति हि वुत्ते छ पञ्च चत्तारीति सुखं पुच्छितुं होति. सुद्धवारे पन सत्ताति वुत्ते पुन छ पञ्च चत्तारीति वुच्चमानं अनच्छरियं होति, तस्मा एकं आदिं कत्वा देसना कता. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळदुक्खक्खन्धसुत्तवण्णना निट्ठिता.