१५. उत्तराविमानवण्णना

अभिक्कन्तेन वण्णेनाति उत्तराविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन च समयेन पुण्णो नाम दुग्गतपुरिसो राजगहसेट्ठिं उपनिस्साय जीवति, तस्स भरिया उत्तरा, उत्तरा च नाम धीताति द्वे एव गेहमानुसका. अथेकदिवसं राजगहे ‘‘महाजनेन सत्ताहं नक्खत्तं कीळितब्ब’’न्ति घोसनं करिंसु. तं सुत्वा सेट्ठि पातोव आगतं पुण्णं ‘‘तात, अम्हाकं परिजनो नक्खत्तं कीळितुकामो, त्वं किं नक्खत्तं कीळिस्ससि, उदाहु भतिं करिस्ससी’’ति आह. ‘‘सामि, नक्खत्तं नाम सधनानं होति, मम पन गेहे स्वातनाय यागुतण्डुलानिपि नत्थि, किं मे नक्खत्तेन? गोणे लभन्तो कसितुं गमिस्सामी’ति. ‘‘तेन हि गोणे गण्हस्सू’’ति. सो बलवगोणे च भद्दनङ्गलञ्च गहेत्वा ‘‘भद्दे, नागरा नक्खत्तं कीळन्ति, अहं दलिद्दताय भतिं कातुं गमिस्सामि, मय्हम्पि ताव अज्ज दिगुणं निवापं पचित्वा भत्तं आहरेय्यासी’’ति भरियं वत्वा खेत्तं अगमासि.

सारिपुत्तत्थेरोपि सत्ताहं निरोधसमापन्नो ततो वुट्ठाय ‘‘कस्स नु खो अज्ज मया सङ्गहं कातुं वट्टती’’ति ओलोकेन्तो पुण्णं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘सद्धो नु खो एस, सक्खिस्सति वा मे सङ्गहं कातु’’न्ति ओलोकेन्तो तस्स सद्धभावञ्च सङ्गहं कातुं समत्थभावञ्च तप्पच्चया च तस्स महासम्पत्तिपटिलाभं ञत्वा पत्तचीवरं आदाय तस्स कसनट्ठानं गन्त्वा आवाटतीरे एकं गुम्बं ओलोकेन्तो अट्ठासि. पुण्णो थेरं दिस्वाव कसिं ठपेत्वा पञ्चपतिट्ठितेन थेरं वन्दित्वा ‘‘दन्तकट्ठेन अत्थो भविस्सती’’ति दन्तकट्ठं कप्पियं कत्वा अदासि. अथस्स थेरो पत्तञ्च परिस्सावनञ्च नीहरित्वा अदासि. सो ‘‘पानीयेन अत्थो भविस्सती’’ति तं आदाय पानीयं परिस्सावेत्वा अदासि.

थेरो चिन्तेसि ‘‘अयं परेसं पच्छिमगेहे वसति, सचस्स गेहद्वारं गमिस्सामि, इमस्स भरिया मं दट्ठुं न सक्खिस्सति, यावस्स भरिया भत्तं आदाय मग्गं पटिपज्जति, ताव इधेव भविस्सामी’’ति. सो तत्थेव थोकं वीतिनामेत्वा तस्सा मग्गारुळ्हभावं ञत्वा अन्तोनगराभिमुखो पायासि. सा अन्तरामग्गे थेरं दिस्वा चिन्तेसि ‘‘अप्पेकदाहं देय्यधम्मे सति अय्यं न पस्सामि, अप्पेकदा मे अय्यं पस्सन्तिया देय्यधम्मो न होति, अज्ज पन मे अय्यो च दिट्ठो, देय्यधम्मो चायं अत्थि, करिस्सति नु खो मे सङ्गह’’न्ति. सा भत्तभाजनं ओतारेत्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा ‘‘भन्ते, इदं लूखं वा पणीतं वाति अचिन्तेत्वा दासस्स वो सङ्गहं करोथा’’ति आह. अथ थेरो पत्तं उपनामेत्वा ताय एकेन हत्थेन भाजनं धारेत्वा एकेन हत्थेन ततो भत्तं ददमानाय उपड्ढभत्ते दिन्ने ‘‘अल’’न्ति हत्थेन पत्तं पिदहि. सा ‘‘भन्ते, एकोव पटिवीसो, न सक्का द्विधा कातुं, तुम्हाकं दासस्स इधलोकसङ्गहं अकत्वा परलोकसङ्गहं करोथ, निरवसेसमेव दातुकामाम्ही’’ति वत्वा सब्बमेवस्स पत्ते पतिट्ठापेत्वा ‘‘तुम्हेहि दिट्ठधम्मस्स भागिनी अस्स’’न्ति पत्थनं अकासि. थेरो ‘‘एवं होतू’’ति वत्वा ठितकोव अनुमोदनं कत्वा एकस्मिं उदकफासुकट्ठाने निसीदित्वा भत्तकिच्चं अकासि. सापि पटिनिवत्तित्वा तण्डुले परियेसित्वा भत्तं पचि.

पुण्णोपि अड्ढकरीसमत्तं ठानं कसित्वा जिघच्छं सहितुं असक्कोन्तो गोणे विस्सज्जेत्वा एकं रुक्खछायं पविसित्वा मग्गं ओलोकेन्तो निसीदि. अथस्स भरिया भत्तमादाय गच्छमाना तं दिस्वाव ‘‘एस जिघच्छापीळितो मं ओलोकेन्तो निसिन्नो, सचे मं ‘अतिविय चिरायी’ति तज्जेत्वा पतोदलट्ठिया पहरिस्सति, मया कतकम्मं निरत्थकं भविस्सति, पटिकच्चेवस्स आरोचेस्सामी’’ति चिन्तेत्वा एवमाह ‘‘सामि, अज्जेकदिवसं चित्तं पसादेहि, मा मया कतकम्मं निरत्थकं करि, अहं पातोव ते भत्तं आहरन्ती अन्तरामग्गे धम्मसेनापतिं दिस्वा तव भत्तं तस्स दत्वा पुन गेहं गन्त्वा भत्तं पचित्वा आगता, पसादेहि, सामि, चित्त’’न्ति. सो ‘‘किं वदेसि, भद्दे’’ति पुच्छित्वा पुन तमत्थं सुत्वा ‘‘भद्दे, साधु वत ते कतं मम भत्तं अय्यस्स ददमानाय, मयापिस्स अज्ज पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्न’’न्ति पसन्नमानसो तं वचनं अभिनन्दित्वा उस्सूरे लद्धभत्तताय किलन्तकायो तस्सा अङ्के सीसं कत्वा निद्दं ओक्कमि.

अथस्स पातोव कसितट्ठानं पंसुचुण्णं उपादाय सब्बं रत्तसुवण्णं हुत्वा कणिकारपुप्फरासि विय सोभमानं अट्ठासि. सो पबुद्धो ओलोकेत्वा भरियं आह ‘‘भद्दे, एतं मया कसितट्ठानं सब्बं मम सुवण्णं हुत्वा पञ्ञायति, किं नु खो मे अतिउस्सूरे लद्धभत्तताय अक्खीनि भमन्ती’’ति. ‘‘सामि, मय्हम्पि एवमेव पञ्ञायती’’ति. सो उट्ठाय तत्थ गन्त्वा एकं पिण्डं गहेत्वा नङ्गलसीसे पहरित्वा सुवण्णभावं ञत्वा ‘‘अहो अय्यस्स धम्मसेनापतिस्स दिन्नदाने अज्जेव विपाको दस्सितो, न खो पन सक्का एत्तकं धनं पटिच्छादेत्वा परिभुञ्जितु’’न्ति भरियाय आभतं भत्तपातिं सुवण्णस्स पूरेत्वा राजकुलं गन्त्वा रञ्ञा कतोकासो पविसित्वा राजानं अभिवादेत्वा ‘‘किं ताता’’ति वुत्ते ‘‘देव, अज्ज मया कसितट्ठानं सब्बं सुवण्णरासिमेव हुत्वा ठितं, सुवण्णं आहरापेतुं वट्टती’’ति आह. ‘‘कोसि त्व’’न्ति? ‘‘पुण्णो नामाह’’न्ति. ‘‘किं पन ते अज्ज कत’’न्ति? ‘‘धम्मसेनापतिस्स मे पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्नं, भरियायपि मे मय्हं आहटभत्तं तस्सेव दिन्न’’न्ति.

तं सुत्वा राजा ‘‘अज्जेव किर भो धम्मसेनापतिस्स दिन्नदाने विपाको दस्सितो’’ति वत्वा ‘‘तात, किं करोमी’’ति पुच्छि. ‘‘बहूनि सकटसहस्सानि पहिणित्वा सुवण्णं आहरापेथा’’ति. राजा सकटानि पहिणि. राजपुरिसेसु ‘‘रञ्ञो सन्तक’’न्ति गण्हन्तेसु गहितं गहितं मत्तिकाव होति. तेहि गन्त्वा रञ्ञो आरोचिते ‘‘ताता, तुम्हेहि किन्ति वत्वा गहित’’न्ति पुट्ठा ‘‘तुम्हाकं सन्तक’’न्ति आहंसु. तेन हि, ताता, पुन गच्छथ, ‘‘पुण्णस्स सन्तक’’न्ति वत्वा गण्हथाति. ते तथा करिंसु गहितं गहितं सुवण्णमेव अहोसि. तं सब्बं आहरित्वा राजङ्गणे रासिं अकंसु, असीतिहत्थुब्बेधो रासि अहोसि. राजा नागरे सन्निपातापेत्वा आह ‘‘इमस्मिं नगरे अत्थि कस्सचि एत्तकं सुवण्ण’’न्ति? ‘‘नत्थि, देवा’’ति. ‘‘किं पनस्स दातुं वट्टती’’ति? ‘‘सेट्ठिच्छत्तं, देवा’’ति. राजा ‘‘बहुधनसेट्ठि नाम होतू’’ति महन्तेन भोगेन सद्धिं तस्स सेट्ठिच्छत्तं अदासि.

अथ नं सो आह ‘‘मयं, देव, एत्तकं कालं परकुले वसिम्हा, वसनट्ठानं नो देथा’’ति. तेन हि पस्स, एस गुम्बो पञ्ञायति, एतं हरापेत्वा गेहं कारेहीति पुराणसेट्ठिस्स गेहट्ठानं आचिक्खि. सो तस्मिं ठाने कतिपाहेनेव गेहं कारापेत्वा गेहपवेसनमङ्गलञ्च छत्तमङ्गलञ्च एकतोव करोन्तो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं अदासि. अथस्स सत्था दानानुमोदनं करोन्तो अनुपुब्बिं कथं कथेसि. धम्मकथावसाने पुण्णसेट्ठि च भरिया चस्स धीता च उत्तराति तयोपि जना सोतापन्ना अहेसुं.

अपरभागे राजगहसेट्ठि पुण्णसेट्ठिनो धीतरं अत्तनो पुत्तस्स वारेसि. सो ‘‘नाहं दस्सामी’’ति वुत्तो ‘‘मा एवं करोतु, एत्तकं कालं अम्हे निस्साय वसन्तेनेव ते सम्पत्ति लद्धा, देतु मे पुत्तस्स ते धीतर’’न्ति आह. सो ‘‘मिच्छादिट्ठिका तुम्हे, मम धीता तीहि रतनेहि विना वसितुं न सक्कोति, नेवस्स धीतरं दस्सामी’’ति आह. अथ नं बहू सेट्ठिगहपतिकादयो कुलपुत्ता ‘‘मा तेन सद्धिं विस्सासं भिन्दि, देहिस्स धीतर’’न्ति याचिंसु. सो तेसं वचनं सम्पटिच्छित्वा आसाळ्हिपुण्णमाय धीतरं अदासि. सा पतिकुलं गतकालतो पट्ठाय भिक्खुं वा भिक्खुनिं वा उपसङ्कमितुं दानं वा दातुं धम्मं वा सोतुं नालत्थ, एवं अड्ढतियेसु मासेसु वीतिवत्तेसु अत्तनो सन्तिके ठिते परिचारिके पुच्छि ‘‘इदानि कित्तकं अन्तोवस्सं अवसिट्ठ’’न्ति? ‘‘अड्ढमासो, अय्ये’’ति. सा मातापितूनं सासनं पहिणि ‘‘कस्मा मं एवरूपे बन्धनागारे पक्खिपिंसु, वरं तुम्हेहि मं लक्खणाहतं कत्वा परेसं दासिं सावेतुं, न एवरूपस्स मिच्छादिट्ठिकस्स कुलस्स दातुं, आगतकालतो पट्ठाय भिक्खुदस्सनादीसु एकम्पि पुञ्ञं कातुं न लभामी’’ति. अथस्सा पिता ‘‘दुक्खिता वत मे धीता’’ति अनत्तमनतं पवेदेत्वा पञ्चदस कहापणसहस्सानि पेसेसि, ‘‘इमस्मिं नगरे सिरिमा नाम गणिका अत्थि, देवसिकं सहस्सं गण्हाति, इमेहि कहापणेहि तं आनेत्वा सामिकस्स निय्यादेत्वा सयं यथारुचि पुञ्ञानि करोतू’’ति सासनञ्च पहिणि. उत्तरा तथा कत्वा सामिकेन सिरिमं दिस्वा ‘‘किमिद’’न्ति वुत्ते ‘‘सामि, इमं अड्ढमासं मम सहायिका तुम्हे परिचरतु, अहं पन इमं अड्ढमासं दानञ्चेव दातुकामा धम्मञ्च सोतुकामा’’ति आह. सो तं अभिरूपं इत्थिं दिस्वा उप्पन्नसिनेहो ‘‘साधू’’ति सम्पटिच्छि.

उत्तरापि खो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा ‘‘भन्ते, इमं अड्ढमासं अञ्ञत्थ अगन्त्वा इधेव भिक्खा गहेतब्बा’’ति सत्थु पटिञ्ञं गहेत्वा ‘‘इतो दानि पट्ठाय याव महापवारणा, ताव सत्थारं उपट्ठातुं धम्मञ्च सोतुं लभिस्सामी’’ति तुट्ठमानसा ‘‘एवं यागुं पचथ, एवं भत्तं पचथ, एवं पूवं पचथा’’ति महानसे सब्बकिच्चानि संविदहन्ती विचरति. अथस्सा सामिको ‘‘स्वे महापवारणा भविस्सती’’ति महानसाभिमुखो वातपाने ठत्वा ‘‘किं नु खो करोन्ती सा अन्धबाला विचरती’’ति ओलोकेत्वा तं सेदकिलिन्नं छारिकाय ओकिण्णं अङ्गारमसिमक्खितं तथा संविदहित्वा विचरमानं दिस्वा ‘‘अहो अन्धबाला एवरूपे ठाने इमं सिरिसम्पत्तिं नानुभवति, ‘‘मुण्डकसमणे उपट्ठहिस्सामी’ति तुट्ठचित्ता विचरती’’ति हसित्वा अपगञ्छि.

तस्मिं अपगते तस्स सन्तिके ठिता सिरिमा ‘‘किं नु खो ओलोकेत्वा एस हसती’’ति तेनेव वातपानेन ओलोकेन्ती उत्तरं दिस्वा ‘‘इमं ओलोकेत्वा इमिना हसितं, अद्धा इमस्स एताय सद्धिं सन्थवो अत्थी’’ति चिन्तेसि. सा किर अड्ढमासं तस्मिं गेहे बाहिरकइत्थी हुत्वा वसमानापि तं सम्पत्तिं अनुभवमाना अत्तनो बाहिरकइत्थिभावं अजानित्वा ‘‘अहं घरसामिनी’’ति सञ्ञमकासि. सा उत्तराय आघातं बन्धित्वा ‘‘दुक्खमस्सा उप्पादेस्सामी’’ति पासादा ओरुय्ह महानसं पविसित्वा पूवपचनट्ठाने पक्कुथितं सप्पिं कटच्छुना आदाय उत्तराभिमुखं पायासि. उत्तरा तं आगच्छन्तिं दिस्वा ‘‘मम सहायिकाय मय्हं उपकारो कतो, चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचको, मम पन सहायिकाय गुणोव महन्तो, अहम्पि एतं निस्साय दानञ्च दातुं धम्मञ्च सोतुं लभिं, सचे मम एतिस्साय उपरि कोधो अत्थि, इदं सप्पि मं दहतु, सचे नत्थि, मा मं दहतू’’ति तं मेत्ताय फरि. ताय तस्सा मत्थके आसिञ्चितम्पि पक्कुथितसप्पि सीतोदकं विय अहोसि. अथ नं ‘‘इदं सीतलं भविस्सती’’ति पुन कटच्छुकं पूरेत्वा आदाय आगच्छन्तिं उत्तराय दासियो दिस्वा ‘‘अरे दुब्बिनीते न त्वं अम्हाकं अय्याय उपरि पक्कसप्पिं आसिञ्चितुं अनुच्छविका’’ति सन्तज्जेन्तियो इतो चितो च उट्ठाय हत्थेहि च पादेहि च पोथेत्वा भूमियं पातेसुं, उत्तरा वारेन्तीपि वारेतुं नासक्खि. अथ सा उपरि ठत्वा सब्बा दासियो पटिबाहित्वा ‘‘किस्स ते एवरूपं भारियं कम्मं कत’’न्ति सिरिमं ओवदित्वा उण्होदकेन न्हापेत्वा सतपाकतेलेन अब्भञ्जि.

तस्मिं खणे सा अत्तनो बाहिरकित्थिभावं ञत्वा चिन्तेसि ‘‘मया भारियं कम्मं कतं सामिकस्स हसितमत्तकारणा इमिस्सा उपरि पक्कसप्पिं आसिञ्चन्तिया, अयं ‘गण्हथ न’न्ति दासियो न आणापेत्वा मं विहेठनकालेपि सब्बा दासियो पटिबाहित्वा मय्हं कत्तब्बमेव अकासि. सचाहं इमं न खमापेस्सामि, मुद्धा मे सत्तधा फलेय्या’’ति तस्सा पादमूले निपज्जित्वा ‘‘अय्ये, खमाहि मे दोस’’न्ति आह. ‘‘अहं सप्पितिका धीता, पितरि मे खमापिते खमिस्सामी’’ति. ‘‘होतु, अय्ये, पितरम्पि ते पुण्णसेट्ठिं खमापेस्सामी’’ति. ‘‘पुण्णो मम वट्टे जनकपिता, विवट्टे जनकपितरि खमापिते पन अहं खमिस्सामी’’ति. ‘‘को पन ते विवट्टे जनकपिता’’ति? ‘‘सम्मासम्बुद्धो’’ति. ‘‘मय्हं तेन सद्धिं विस्सासो नत्थि, अहं किं करिस्सामी’’ति? ‘‘सत्था स्वे भिक्खुसङ्घं आदाय इधागमिस्सति, त्वं यथालद्धं सक्कारं गहेत्वा इधेव आगन्त्वा तं खमापेही’’ति. सा ‘‘साधु, अय्ये’’ति उट्ठाय अत्तनो गेहं गन्त्वा पञ्चसतपरिचारिकित्थियो आणापेत्वा नानाविधानि खादनीयभोजनीयानि चेव सूपेय्यानि च सम्पादेत्वा पुनदिवसे तं सक्कारं आदाय उत्तराय गेहं आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स पत्ते पतिट्ठापेतुं अविसहन्ती अट्ठासि, तं सब्बं गहेत्वा उत्तराव संविदहि.

सिरिमापि सत्थु भत्तकिच्चावसाने सद्धिं परिवारेन सत्थु पादमूले निपज्जि. अथ नं सत्था पुच्छि ‘‘को ते अपराधो’’ति. ‘‘भन्ते मया हिय्यो इदं नाम कतं, अथ मे सहायिका मं विहेठयमाना दासियो निवारेत्वा मय्हं उपकारमेव अकासि. साहं इमिस्सा गुणं जानित्वा इमं खमापेसिं, अथ मं एसा ‘तुम्हेसु खमापितेसु खमिस्सामी’ति आहा’’ति. ‘‘एवं किर उत्तरे’’ति. ‘‘आम, भन्ते, सीसे मे सहायिकाय पक्कसप्पि आसित्त’’न्ति. ‘‘अथ तया किं चिन्तित’’न्ति? ‘‘चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचको, मम सहायिकाय गुणोव महन्तो, अहञ्हि एतं निस्साय दानञ्च दातुं धम्मञ्च सोतुं अलत्थं, सचे मे इमिस्सा उपरि कोधो अत्थि, इदं मं दहतु, नो चे, मा दहतू’’ति एवं चिन्तेत्वा इमं मेत्ताय फरिं, भन्तेति. सत्था ‘‘साधु साधु, उत्तरे, एवं कोधं जिनितुं वट्टति. कोधनो हि नाम अक्कोधेन, अक्कोसको अनक्कोसन्तेन, परिभासको अपरिभासन्तेन, थद्धमच्छरी अत्तनो सन्तकस्स दानेन, मुसावादी सच्चवचनेन जिनितब्बो’’ति इममत्थं दस्सेन्तो –

‘‘अक्कोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेनालिकवादिन’’न्ति. (ध. प. २२३) –

इमं गाथं वत्वा गाथापरियोसाने चतुसच्चकथं अभासि. सच्चपरियोसाने उत्तरा सकदागामिफले पतिट्ठहि, सामिको च ससुरो च सस्सु च सोतापत्तिफलं सच्छिकरिंसु, सिरिमापि पञ्चसतपरिवारा सोतापन्ना अहोसि. अपरभागे उत्तरा कालं कत्वा तावतिंसभवने उप्पज्जि. अथायस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेनेव देवचारिकं चरन्तो उत्तरं देवधीतरं दिस्वा –

१२४. ‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१२५. ‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१२६. ‘‘पुच्छामि तं देवि महानुभावे,

मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा,

वण्णो च ते सब्बदिसा पभासती’’ति. – पटिपुच्छि;

१२७. ‘‘सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं’’.

१२८. ‘‘इस्सा च मच्छेरमथो पळासो, नाहोसि मय्हं घरमावसन्तिया;

अक्कोधना भत्तु वसानुवत्तिनी, उपोसथे निच्चहमप्पमत्ता.

१२९. ‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

१३०. ‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

१३१. ‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

१३२. ‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

१३३. ‘‘साहं सकेन सीलेन, यससा च यसस्सिनी;

अनुभोमि सकं पुञ्ञं, सुखिता चम्हिनामया.

१३४. ‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१३५. ‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमहं अकासिं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति. –

देवतापिस्स विस्सज्जेसि.

१२६. मम च, भन्ते, वचनेन भगवतो पादे सिरसा वन्देय्यासि ‘‘उत्तरा नाम भन्ते, उपासिका भगवतो पादे सिरसा वन्दती’’ति. अनच्छरियं खो पनेतं, भन्ते, यं मं भगवा अञ्ञतरस्मिं सामञ्ञफले ब्याकरेय्य, तं भगवा सकदागामिफले ब्याकासीति.

१२८. तत्थ इस्सा च मच्छेरमथो पळासो, नाहोसि मय्हं घरमावसन्तियाति या च अगारमज्झे वसन्तीनं अञ्ञासं इत्थीनं सम्पत्तिआदिविसया परसम्पत्तिउसूयनलक्खणा इस्सा, यञ्च तावकालिकादिवसेनापि किञ्चि याचन्तानं अदातुकामताय अत्तसम्पत्तिनिगूहनलक्खणं मच्छरियं, यो च कुलपदेसादिना परेहि युगग्गाहलक्खणो पळासो उप्पज्जति, सो तिविधोपि पापधम्मो गेहे ठिताय मय्हं सतिपि पच्चयसमवाये नाहोसि न उप्पज्जि. अक्कोधनाति खन्तिमेत्तानुद्दयसम्पन्नताय अकुज्झनसभावा. भत्तु वसानुवत्तिनीति पुब्बुट्ठानपच्छानिपातनादिना सामिकस्स अनुकूलभावेन वसे वत्तनसीला, मनापचारिनीति अत्थो. उपोसथे निच्चहमप्पमत्ताति अहं उपोसथसीलरक्खणे निच्चं अप्पमत्ता अप्पमादविहारिनी.

१२९. तमेव उपोसथे अप्पमादं दस्सेन्ती येसु दिवसेसु तं रक्खितब्बं, यादिसं यथा च रक्खितब्बं, तं दस्सेतुं ‘‘चातुद्दसि’’न्तिआदिमाह. तत्थ चातुद्दसिं पञ्चदसिन्ति पक्खस्साति सम्बन्धो, अच्चन्तसंयोगे चेतं उपयोगवचनं. या च पक्खस्स अट्ठमीति एत्थ चाति वचनसेसो. पाटिहारियपक्खञ्चाति पटिहरणकपक्खञ्च, चातुद्दसीपञ्चदसीअट्ठमीनं यथाक्कमं आदितो अन्ततो चाति पवेसननिक्खमनवसेन उपोसथसीलस्स पटिहरितब्बं पक्खञ्च, तेरसी पाटिपदा सत्तमी नवमी चाति अत्थो. अट्ठङ्गसुसमागतन्ति पाणातिपातावेरमणीआदीहि अट्ठहङ्गेहि एव सुट्ठु समागतं समन्नागतं.

१३०. उपवसिस्सन्ति उपवसिं. अतीतत्थे हि इदं अनागतवचनं. केचि पन ‘‘उपवसिं’’इच्चेव पठन्ति. सदाति सप्पटिहारिकेसु सब्बेसु उपोसथदिवसेसु. सीलेसूति उपोसथसीलेसु साधेतब्बेसु. निप्फादेतब्बे हि इदं भुम्मं. संवुताति कायवाचाचित्तेहि संवुता. सदाति वा सब्बकालं. सीलेसूति निच्चसीलेसु. संवुताति कायवाचाहि संवुता.

१३१. इदानि तं निच्चसीलं दस्सेतुं ‘‘पाणातिपाता विरता’’तिआदि वुत्तं. तत्थ पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. पाणस्स अतिपातो पाणवधो पाणघातो पाणातिपातो, अत्थतो पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारपवत्ता वधकचेतना. ततो पाणातिपाता. विरताति ओरता, निवत्ताति अत्थो.

मुसावादाति मुसा नाम विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो वा कायपयोगो वा, विसंवादनाधिप्पायेन परस्स विसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अथ वा मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापेतुकामस्स तथा विञ्ञत्तिसमुट्ठापिका चेतना. ततो मुसावादा सञ्ञता ओरता, विरताति अत्थो. च-सद्दो सम्पिण्डनत्थो.

थेय्याति थेय्यं वुच्चति थेनभावो, चोरिकाय परस्सहरणन्ति अत्थो. अत्थतो परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना थेय्यं. ततो थेय्या सञ्ञता, आरकाति वा सम्बन्धो.

अतिचाराति अतिच्च चारो अतिचारो, लोकमरियादं अतिक्कमित्वा अगमनीयट्ठाने कामवसेन चारो मिच्छाचारोति अत्थो. अगमनीयट्ठानं नाम – पुरिसानं मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डाति दस, धनक्कीता छन्दवासिनी भोगवासिनी पटवासिनी ओदपत्तकिनी ओभटचुम्बटा दासी च भरिया कम्मकारी च भरिया धजाहटा मुहुत्तिकाति दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं अञ्ञपुरिसा अगमनीयट्ठानं, इदमेव इध अधिप्पेतं. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारपवत्ता अगमनीयट्ठानवीतिक्कमचेतना अतिचारो. तस्मा अतिचारा.

मज्जपानाति मज्जं वुच्चतिमदनीयट्ठेन सुरा च मेरयञ्च, पिवन्ति तेनाति पानं, मज्जस्स पानं मज्जपानं. याय दुस्सील्यचेतनाय मज्जसङ्खातं पिट्ठसुरा, पूवसुरा, ओदनियसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्चभेदं सुरं वा, पुप्फासवो, फलासवो, मध्वासवो, गुळासवो, सम्भारसंयुत्तोति पञ्चभेदं मेरयं वा बीजतो पट्ठाय कुसग्गेनापि पिवति, सा चेतना मज्जपानं. तस्मा मज्जपाना आरका विरता.

१३२. एवं ‘‘पाणातिपाता विरता’’तिआदिना पहातब्बधम्मवसेन विभजित्वा दस्सितं निच्चसीलं पुन समादातब्बतावसेन एकतो कत्वा दस्सेन्ती ‘‘पञ्चसिक्खापदे रता’’ति आह. तत्थ सिक्खापदन्ति सिक्खितब्बपदं, सिक्खाकोट्ठासेति अत्थो. अथ वा झानादयो सब्बेपि कुसला धम्मा सिक्खितब्बतो सिक्खा, पञ्चसु पन सीलङ्गेसु यंकिञ्चि अङ्गं तासं सिक्खानं पतिट्ठानट्ठेन पदन्ति सिक्खानं पदत्ता सिक्खापदं, पञ्च सीलङ्गानि. तस्मिं पञ्चविधे सिक्खापदे रता अभिरताति पञ्चसिक्खापदे रता. अरियसच्चान कोविदाति परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन दुक्खसमुदयनिरोधमग्गसङ्खातेसु चतूसु अरियसच्चेसु कुसला निपुणा, पटिविद्धचतुसच्चाति अत्थो. गोतमस्साति भगवन्तं गोत्तेन कित्तेति. यसस्सिनोति कित्तिमतो, परिवारवतो वा.

१३३. साहन्ति सा यथावुत्तगुणा अहं. सकेन सीलेनाति अनुस्सुकितादिना अत्तनो सभावसीलेन च उपोसथसीलादिसमादानसीलेन च कारणभूतेन. तञ्हि सत्तानं कम्मस्सकताय हितसुखावहताय च विसेसतो ‘‘सक’’न्ति वुच्चति. तेनेवाह –

‘‘तञ्हि तस्स सकं होति, तञ्च आदाय गच्छति;

तञ्चस्स अनुगं होति, छायाव अनपायिनी’’ति. (सं. नि. १.११५);

यससा च यसस्सिनीति ‘‘उत्तरा उपासिका सीलाचारसम्पन्ना अनुस्सुकी अमच्छरी अक्कोधना’’तिआदिना ‘‘आगतफला विञ्ञातसासना’’तिआदिना च यथाभूतगुणाधिगतेन जलतले तेलेन विय समन्ततो पत्थटेन कित्तिसद्देन यसस्सिनी कित्तिमती, तेन वा सीलगुणेन इध अधिगतेन यसपरिवारेन यसस्सिनी सम्पन्नपरिवारा. अनुभोमि सकं पुञ्ञन्ति यथूपचितं अत्तनो पुञ्ञं पच्चनुभोमि. यस्स हि पुञ्ञफलं अनुभूयति, फलूपचारेन तं पुञ्ञम्पि अनुभूयतीति वुच्चति. अथ वा पुथुज्जनभावतो सुचरितफलम्पि ‘‘पुञ्ञ’’न्ति वुच्चति. यथाह ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’ति. सुखिता चम्हिनामयाति दिब्बसुखेन च फलसुखेन च सुखिता चम्हि भवामि, कायिकचेतसिकदुक्खाभावतो अनामया अरोगा.

१३६. मम चाति च-सद्दो समुच्चयत्थो. तेन ‘‘मम वचनेन च वन्देय्यासि, न तव सभावेनेवा’’ति वन्दनं समुच्चिनोति. अनच्छरियन्तिआदिना अत्तनो अरियसाविकाभावस्स पाकटभावं दस्सेति. तं भगवातिआदि सङ्गीतिकारवचनं. सेसं वुत्तनयमेवाति.

उत्तराविमानवण्णना निट्ठिता.