५. चुन्दसुत्तवण्णना
७५. पञ्चमे मल्लेसूति एवंनामके जनपदे. महता भिक्खुसङ्घेनाति गुणमहत्तसङ्ख्यामहत्तेहि महता. सो हि भिक्खुसङ्घो सीलादिगुणविसेसयोगेनपि महा तत्थ सब्बपच्छिमकस्स सोतापन्नभावतो, सङ्ख्यामहत्तेनपि महा अपरिच्छिन्नगणनत्ता. आयुसङ्खारोस्सज्जनतो पट्ठाय हि आगतागता भिक्खू न पक्कमिंसु. चुन्दस्साति एवंनामकस्स. कम्मारपुत्तस्साति सुवण्णकारपुत्तस्स. सो किर अड्ढो महाकुटुम्बिको भगवतो पठमदस्सनेनेव सोतापन्नो हुत्वा अत्तनो अम्बवने सत्थुवसनानुच्छविकं गन्धकुटिं, भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानउपट्ठानसालाकुटिमण्डपचङ्कमनादिके च सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोट्ठकयुत्तं विहारं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यादेसि. तं सन्धाय वुत्तं – ‘‘तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने’’ति.
पटियादापेत्वाति सम्पादेत्वा. ‘‘सूकरमद्दवन्ति सूकरस्स मुदुसिनिद्धं पवत्तमंस’’न्ति महाअट्ठकथायं वुत्तं. केचि पन ‘‘सूकरमद्दवन्ति न सूकरमंसं, सूकरेहि मद्दितवंसकळीरो’’ति वदन्ति. अञ्ञे ‘‘सूकरेहि मद्दितप्पदेसे जातं अहिछत्तक’’न्ति. अपरे पन ‘‘सूकरमद्दवं नाम एकं रसायन’’न्ति भणिंसु. तञ्हि चुन्दो कम्मारपुत्तो ‘‘अज्ज भगवा परिनिब्बायिस्सती’’ति सुत्वा ‘‘अप्पेव नाम नं परिभुञ्जित्वा चिरतरं तिट्ठेय्या’’ति सत्थु चिरजीवितुकम्यताय अदासीति वदन्ति.
तेन मं परिविसाति तेन ममं भोजेहि. कस्मा भगवा एवमाह? परानुद्दयताय. तञ्च कारणं पाळियं वुत्तमेव. तेन अभिहटभिक्खाय परेसं अपरिभोगारहतो च तथा वत्तुं वट्टतीति दस्सितं होति. तस्मिं किर सूकरमद्दवे द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवता ओजं पक्खिपिंसु. तस्मा तं अञ्ञो कोचि सम्मा जीरापेतुं न सक्कोति, तमत्थं पकासेन्तो सत्था परूपवादमोचनत्थं ‘‘नाहं तं, चुन्द, पस्सामी’’तिआदिना सीहनादं नदि. ये हि परे उपवदेय्युं ‘‘अत्तना परिभुत्तावसेसं नेव भिक्खूनं, न अञ्ञेसं मनुस्सानं अदासि, आवाटे निखणापेत्वा विनासेसी’’ति, ‘‘तेसं वचनोकासो मा होतू’’ति परूपवादमोचनत्थं सीहनादं नदि.
तत्थ सदेवकेतिआदीसु सह देवेहीति सदेवको, सह मारेनाति समारको, सह ब्रह्मुनाति सब्रह्मको, सह समणब्राह्मणेहीति सस्समणब्राह्मणी, पजातत्ता पजा, सह देवमनुस्सेहीति सदेवमनुस्सा. तस्मिं सदेवके लोके…पे… सदेवमनुस्साय. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकवसेन, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो. अपरो नयो – सदेवकवचनेन अरूपावचरलोको गहितो, समारकवचनेन छकामावचरदेवलोको, सब्रह्मकवचनेन रूपी ब्रह्मलोको, सस्समणब्राह्मणवचनेन चतुपरिसवसेन सम्मुतिदेवेहि सह मनुस्सलोको, अवसेससत्तलोको वा गहितोति वेदितब्बो.
भुत्ताविस्साति भुत्तवतो. खरोति फरुसो. आबाधोति विसभागरोगो. पबाळ्हाति बलवतियो. मारणन्तिकाति मरणन्ता मरणसमीपपापनसमत्था. सतो सम्पजानो अधिवासेसीति सतिं उपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि. अविहञ्ञमानोति वेदनानुवत्तनवसेन असल्लक्खितधम्मो विय अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो विय अधिवासेसि. भगवतो हि वेळुवगामकेयेव ता वेदना उप्पन्ना, समापत्तिबलेन पन विक्खम्भिता याव परिनिब्बानदिवसा न उप्पज्जिंसु दिवसे दिवसे समापत्तीहि पटिपणामनतो. तं दिवसं पन परिनिब्बायितुकामो ‘‘कोटिसहस्सहत्थीनं बलं धारेन्तानं वजिरसङ्घातसमानकायानं अपरिमितकालं उपचितपुञ्ञसम्भारानम्पि भवे सति एवरूपा वेदना पवत्तन्ति, किमङ्गं पन अञ्ञेस’’न्ति सत्तानं संवेगजननत्थं समापत्तिं न समापज्जि, तेन वेदना खरा वत्तिंसु. आयामाति एहि याम.
चुन्दस्स भत्तं भुञ्जित्वातिआदिका अपरभागे धम्मसङ्गाहकेहि ठपिता गाथा. तत्थ भुत्तस्स च सूकरमद्दवेनाति भुत्तस्स उदपादि, न पन भुत्तपच्चया. यदि हि अभुत्तस्स उप्पज्जिस्सा, अतिखरो अभविस्सा, सिनिद्धभोजनं पन भुत्तत्ता तनुका वेदना अहोसि, तेनेव पदसा गन्तुं असक्खि. एतेन य्वायं ‘‘यस्स तं परिभुत्तं सम्मा परिणामं गच्छेय्य अञ्ञत्र तथागतस्सा’’ति सीहनादो नदितो, तस्स सात्थकता दस्सिता. बुद्धानञ्हि अट्ठाने गज्जितं नाम नत्थि. यस्मा तं परिभुत्तं भगवतो न किञ्चि विकारं उप्पादेसि, कम्मेन पन लद्धोकासेन उप्पादियमानं विकारं अप्पमत्तताय उपसमेन्तो सरीरे बलं उप्पादेसि, येन यथा वक्खमानं तिविधं पयोजनं सम्पादेसि, तस्मा सम्मदेव तं परिणामं गतं, मारणन्तिकत्ता पन वेदनानं अविञ्ञातं अपाकटं अहोसीति. विरिच्चमानोति अभिण्हं पवत्तलोहितविरेचनोव समानो. अवोचाति अत्तना इच्छितट्ठाने परिनिब्बानत्थाय एवमाह.
कस्मा पन भगवा एवं रोगे उप्पन्ने कुसिनारं अगमासि, किं अञ्ञत्थ न सक्का परिनिब्बायितुन्ति? परिनिब्बायितुं नाम न कत्थचि न सक्का, एवं पन चिन्तेसि – मयि कुसिनारं गते महासुदस्सनसुत्तदेसनाय (दी. नि. २.२४१) अट्ठुप्पत्ति भविस्सति, ताय या देवलोके अनुभवितब्बसदिसा सम्पत्ति मनुस्सलोके मया अनुभूता, तं द्वीहि भाणवारेहि पटिमण्डेत्वा देसेस्सामि, तं सुत्वा बहू जना कुसलं कत्तब्बं मञ्ञिस्सन्ति. सुभद्दोपि कत्थ मं उपसङ्कमित्वा पञ्हं पुच्छित्वा विस्सज्जनपरियोसाने सरणेसु पतिट्ठाय पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं भावेत्वा मयि धरन्तेयेव अरहत्तं पत्वा पच्छिमसावको नाम भविस्सति. अञ्ञत्थ मयि परिनिब्बुते धातुनिमित्तं महाकलहो भविस्सति, लोहितं नदी विय सन्दिस्सति. कुसिनारायं पन परिनिब्बुते दोणब्राह्मणो तं विवादं वूपसमेत्वा धातुयो विभजित्वा दस्सतीति इमानि तीणि कारणानि पस्सन्तो भगवा महता उस्साहेन कुसिनारं अगमासि.
इङ्घाति चोदनत्थे निपातो. किलन्तोस्मीति परिस्सन्तो अस्मि. तेन यथावुत्तवेदनानं बलवभावं एव दस्सेति. भगवा हि अत्तनो आनुभावेन तदा पदसा अगमासि, अञ्ञेसं पन यथा पदुद्धारम्पि कातुं न सक्का, तथा वेदना तिखिणा खरा कटुका वत्तिंसु. तेनेवाह ‘‘निसीदिस्सामी’’ति.
इदानीति अधुना. लुळितन्ति मद्दितं विय आकुलं. आविलन्ति आलुलं. अच्छोदकाति तनुपसन्नसलिला. सातोदकाति मधुरतोया. सीतोदकाति सीतलजला. सेतोदकाति निक्कद्दमा. उदकञ्हि सभावतो सेतवण्णं, भूमिवसेन कद्दमाविलताय च अञ्ञादिसं होति, ककुधापि नदी विमलवालिका समोकिण्णा सेतवण्णा सन्दति. तेन वुत्तं ‘‘सेतोदका’’ति. सुपतित्थाति सुन्दरतित्था. रमणीयाति मनोहरभूमिभागताय रमितब्बा यथावुत्तउदकसम्पत्तिया च मनोरमा.
किलन्तोस्मि चुन्दक, निपज्जिस्सामीति तथागतस्स हि –
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति. –
एवं वुत्तेसु दससु हत्थिकुलेसु काळावकसङ्खातानं यं दसन्नं पकतिहत्थीनं बलं, तं एकस्स गङ्गेय्यस्साति एवं दसगुणिताय गणनाय पकतिहत्थीनं कोटिसहस्सबलप्पमाणं सरीरबलं. तं सब्बम्पि तस्मिं दिवसे पच्छाभत्ततो पट्ठाय चङ्गवारे पक्खित्तउदकं विय परिक्खयं गतं. पावाय तिगावुते कुसिनारा. एतस्मिं अन्तरे पञ्चवीसतिया ठानेसु निसीदित्वा महन्तं उस्साहं कत्वा आगच्छन्तो सूरियत्थङ्गमनवेलाय भगवा कुसिनारं पापुणीति एवं ‘‘रोगो नाम सब्बं आरोग्यं मद्दन्तो आगच्छती’’ति इममत्थं दस्सेन्तो सदेवकस्स लोकस्स संवेगकरं वाचं भासन्तो ‘‘किलन्तोस्मि, चुन्दक, निपज्जिस्सामी’’ति आह.
सीहसेय्यन्ति एत्थ कामभोगीसेय्या पेतसेय्या तथागतसेय्या सीहसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेय्यं कप्पेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगीसेय्या. ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. चतुत्थज्झानं तथागतसेय्या. ‘‘सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम. तेन वुत्तं – ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेसी’’ति. पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, गोप्फकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जन्ति, सेय्या फासुका न होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जन्ति, सेय्या फासुका होति. तस्मा एवं निपज्जि.
गन्त्वान बुद्धोति इमा गाथा अपरभागे धम्मसङ्गाहकेहि ठपिता. तत्थ नदिकन्ति नदिं. अप्पटिमोध लोकेति अप्पटिमो इध इमस्मिं सदेवके लोके. न्हत्वा च पिवित्वा चुदतारीति गत्तानं सीतिकरणवसेन न्हत्वा च पानीयं पिवित्वा च नदितो उत्तरि. तदा किर भगवति न्हायन्ते अन्तोनदियं मच्छकच्छपा, उदकं, उभोसु तीरेसु वनसण्डो, सब्बो च सो भूमिभागोति सब्बं सुवण्णवण्णमेव अहोसि. पुरक्खतोति गुणविसिट्ठसत्तुत्तमगरुभावतो सदेवकेन लोकेन पूजासम्मानवसेन पुरक्खतो. भिक्खुगणस्स मज्झेति भिक्खुसङ्घस्स मज्झे. तदा भिक्खू भगवतो वेदनानं अधिमत्तभावं विदित्वा आसन्ना हुत्वा समन्ततो परिवारेत्वाव गच्छन्ति. सत्थाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि सत्तानं अनुसासनतो सत्था. पवत्ता भगवा इध धम्मेति भाग्यवन्ततादीहि भगवा इध सीलादिसासनधम्मे पवत्ता, धम्मे वा चतुरासीतिधम्मक्खन्धसहस्सानि पवत्ता पवत्तेता. अम्बवनन्ति तस्सा एव नदिया तीरे अम्बवनं. आमन्तयि चुन्दकन्ति तस्मिं किर खणे आयस्मा आनन्दो उदकसाटिकं पीळेन्तो ओहीयि, चुन्दकत्थेरो समीपे अहोसि. तस्मा तं भगवा आमन्तयि. पमुखे निसीदीति वत्तसीसेन सत्थु पुरतो निसीदि ‘‘किं नु खो सत्था आणापेती’’ति. एत्तावता धम्मभण्डागारिको अनुप्पत्तो. एवं अनुप्पत्तं अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि.
उपदहेय्याति उप्पादेय्य, विप्पटिसारस्स उप्पादको कोचि पुरिसो सिया अपि भवेय्य. अलाभाति ये अञ्ञेसं दानं ददन्तानं दानानिसंससङ्खाता लाभा होन्ति, ते अलाभा. दुल्लद्धन्ति पुञ्ञविसेसेन लद्धम्पि मनुस्सत्तं दुल्लद्धं. यस्स तेति यस्स तव. उत्तण्डुलं वा अतिकिलिन्नं वा को तं जानाति, कीदिसम्पि पच्छिमं पिण्डपातं भुञ्जित्वा तथागतो परिनिब्बुतो, अद्धा तेन यं वा तं वा दिन्नं भविस्सतीति. लाभाति दिट्ठधम्मिकसम्परायिका दानानिसंससङ्खाता लाभा. सुलद्धन्ति तुय्हं मनुस्सत्तं सुलद्धं. सम्मुखाति सम्मुखतो, न अनुस्सवेन न परम्परायाति अत्थो. मेतन्ति मे एतं मया एतं. द्वेमेति द्वे इमे. समसमफलाति सब्बाकारेन समानफला.
ननु च यं सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा तथागतो अभिसम्बुद्धो, तं किलेसानं अप्पहीनकाले दानं, इदं पन चुन्दस्स दानं खीणासवकाले, कस्मा एतानि समफलानीति? परिनिब्बानसमताय समापत्तिसमताय अनुस्सरणसमताय च. भगवा हि सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा सउपादिसेसाय निब्बानधातुया परिनिब्बुतो, चुन्देन दिन्नं भुञ्जित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति एवं परिनिब्बानसमतायपि समफलानि. अभिसम्बुज्झनदिवसे च अग्गमग्गस्स हेतुभूता चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जि, परिनिब्बानदिवसेपि सब्बा ता समापज्जि. एवं समापत्तिसमतायपि समफलानि. वुत्तञ्हेतं भगवता –
‘‘यस्स चेतं पिण्डपातं परिभुञ्जित्वा अनुत्तरं अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो’’तिआदि. –
सुजाता च अपरभागे अस्सोसि ‘‘न किर सा रुक्खदेवता, बोधिसत्तो किरेस, तं किर पिण्डपातं परिभुञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सत्तसत्ताहं किरस्स तेन यापना अहोसी’’ति. तस्सा इदं सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरन्तिया बलवपीतिसोमनस्सं उदपादि. चुन्दस्सपि अपरभागे ‘‘अवसानपिण्डपातो किर मया दिन्नो, धम्मसीसं किर मया गहितं, मय्हं किर पिण्डपातं परिभुञ्जित्वा सत्था अत्तना चिरकालाभिपत्थिताय अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो’’ति सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरतो बलवपीतिसोमनस्सं उदपादि. एवं अनुस्सरणसमतायपि समफलानि द्वेपि पिण्डपातदानानीति वेदितब्बानि.
आयुसंवत्तनिकन्ति दीघायुकसंवत्तनिकं. उपचितन्ति पसुतं उप्पादितं. यससंवत्तनिकन्ति परिवारसंवत्तनिकं. आधिपतेय्यसंवत्तनिकन्ति सेट्ठभावसंवत्तनिकं.
एतमत्थं विदित्वाति एतं दानस्स महप्फलतञ्चेव सीलादिगुणेहि अत्तनो च अनुत्तरदक्खिणेय्यभावं अनुपादापरिनिब्बानञ्चाति तिविधम्पि अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ददतो पुञ्ञं पवड्ढतीति दानं देन्तस्स चित्तसम्पत्तिया च दक्खिणेय्यसम्पत्तिया च दानमयं पुञ्ञं उपचीयति, महप्फलतरञ्च महानिसंसतरञ्च होतीति अत्थो. अथ वा ददतो पुञ्ञं पवड्ढतीति देय्यधम्मं परिच्चजन्तो परिच्चागचेतनाय बहुलीकताय अनुक्कमेन सब्बत्थ अनापत्तिबहुलो सुविसुद्धसीलं रक्खित्वा समथविपस्सनञ्च भावेतुं सक्कोतीति तस्स दानादिवसेन तिविधम्पि पुञ्ञं अभिवड्ढतीति एवमेत्थ अत्थो वेदितब्बो. संयमतोति सीलसंयमेन संयमन्तस्स, संवरे ठितस्साति अत्थो. वेरं न चीयतीति पञ्चविधवेरं न पवड्ढति, अदोसपधानत्ता वा अधिसीलस्स कायवाचाचित्तेहि सयंमन्तो सुविसुद्धसीलो खन्तिबहुलताय केनचि वेरं न करोति, कुतो तस्स उपचयो. तस्मा तस्स संयमतो संयमन्तस्स, संयमहेतु वा वेरं न चीयति. कुसलो च जहाति पापकन्ति कुसलो पन ञाणसम्पन्नो सुविसुद्धसीले पतिट्ठितो अट्ठतिंसाय आरम्मणेसु अत्तनो अनुरूपं कम्मट्ठानं गहेत्वा उपचारप्पनाभेदं झानं सम्पादेन्तो पापकं लामकं कामच्छन्दादिअकुसलं विक्खम्भनवसेन जहाति परिच्चजति. सो तमेव झानं पादकं कत्वा सङ्खारेसु खयवयं पट्ठपेत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं उस्सुक्कापेत्वा अरियमग्गेन अनवसेसं पापकं लामकं अकुसलं समुच्छेदवसेन जहाति. रागदोसमोहक्खया स निब्बुतोति सो एवं पापकं पजहित्वा रागादीनं खया अनवसेसकिलेसनिब्बानेन, ततो परं खन्धनिब्बानेन च निब्बुतो होतीति एवं भगवा चुन्दस्स च दक्खिणसम्पत्तिं, अत्तनो च दक्खिणेय्यसम्पत्तिं निस्साय पीतिवेगविस्सट्ठं उदानं उदानेसि.
पञ्चमसुत्तवण्णना निट्ठिता.