६. पाटलिगामियसुत्तवण्णना
७६. छट्ठे मगधेसूति मगधरट्ठे. महताति इधापि गुणमहत्तेनपि अपरिच्छिन्नसङ्ख्यत्ता गणनमहत्तेनपि महता भिक्खुसङ्घेन. पाटलिगामोति एवंनामको मगधरट्ठे एको गामो. तस्स किर गामस्स मापनदिवसे गामग्गहणट्ठाने द्वे तयो पाटलङ्कुरा पथवितो उब्भिज्जित्वा निक्खमिंसु. तेन तं ‘‘पाटलिगामो’’त्वेव वोहरिंसु. तदवसरीति तं पाटलिगामं अवसरि अनुपापुणि. कदा पन भगवा पाटलिगामं अनुपापुणि? हेट्ठा वुत्तनयेन सावत्थियं धम्मसेनापतिनो चेतियं कारापेत्वा ततो निक्खमित्वा राजगहे वसन्तो तत्थ आयस्मतो महामोग्गल्लानस्स च चेतियं कारापेत्वा ततो निक्खमित्वा अम्बलट्ठिकायं वसित्वा अतुरितचारिकावसेन जनपदचारिकं चरन्तो तत्थ तत्थ एकरत्तिवासेन वसित्वा लोकं अनुग्गण्हन्तो अनुक्कमेन पाटलिगामं अनुपापुणि.
पाटलिगामियाति पाटलिगामवासिनो उपासका. ते किर भगवतो पठमदस्सनेन केचि सरणेसु, केचि सीलेसु, केचि सरणेसु च सीलेसु च पतिट्ठिता. तेन वुत्तं ‘‘उपासका’’ति. येन भगवा तेनुपसङ्कमिंसूति पाटलिगामे किर अजातसत्तुनो लिच्छविराजूनञ्च मनुस्सा कालेन कालं गन्त्वा गेहसामिके गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति. तेन पाटलिगामवासिनो मनुस्सा निच्चुपद्दुता ‘‘एतेसञ्चेव आगतकाले वसनट्ठानं भविस्सती’’ति एकपस्से इस्सरानं भण्डप्पटिसामनट्ठानं, एकपस्से वसनट्ठानं, एकपस्से आगन्तुकानं अद्धिकमनुस्सानं, एकपस्से दलिद्दानं कपणमनुस्सानं, एकपस्से गिलानानं वसनट्ठानं भविस्सतीति सब्बेसं अञ्ञमञ्ञं अघट्टेत्वा वसनप्पहोनकं नगरमज्झे महासालं कारेसुं, तस्सा नामं आवसथागारन्ति. तं दिवसञ्च निट्ठानं अगमासि. ते तत्थ गन्त्वा हत्थकम्मसुधाकम्मचित्तकम्मादिवसेन सुपरिनिट्ठितं सुसज्जितं देवविमानसदिसं तं द्वारकोट्ठकतो पट्ठाय ओलोकेत्वा ‘‘इदं आवसथागारं अतिविय मनोरमं सस्सिरिकं, केन नु खो पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेसुं, तस्मिंयेव च खणे ‘‘भगवा तं गामं अनुप्पत्तो’’ति अस्सोसुं. तेन ते उप्पन्नपीतिसोमनस्सा ‘‘अम्हेहि भगवा गन्त्वापि आनेतब्बो सिया, सो पन सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्ज मयं भगवन्तं इध वसापेत्वा पठमं परिभुञ्जापेस्साम तथा भिक्खुसङ्घं, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं मङ्गलं वदापेस्साम, धम्मं कथापेस्साम. इति तीहि रतनेहि परिभुत्ते पच्छा अम्हाकञ्च परेसञ्च परिभोगो भविस्सति, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा एतदत्थमेव भगवन्तं उपसङ्कमिंसु. तस्मा एवमाहंसु – ‘‘अधिवासेतु नो, भन्ते भगवा, आवसथागार’’न्ति.
येन आवसथागारं तेनुपसङ्कमिंसूति किञ्चापि तं तं दिवसमेव परिनिट्ठितत्ता देवविमानं विय सुसज्जितं सुपटिजग्गितं, बुद्धारहं पन कत्वा न पञ्ञत्तं, ‘‘बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा, अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो रुचिं जानित्वाव पञ्ञापेस्सामा’’ति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु, इदानि भगवतो रुचिं जानित्वा तथा पञ्ञापेतुकामा येन आवसथागारं तेनुपसङ्कमिंसु. सब्बसन्थरिं आवसथागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरित्वा सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वत्तती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं न पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवादिं कत्वा हत्थत्थरणादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं. तेन वुत्तं – ‘‘सब्बसन्थरिं आवसथागारं सन्थरित्वा’’ति.
आसनानञ्हि मज्झट्ठाने ताव मङ्गलथम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकाविचित्तं वितानं बन्धित्वा गन्धदामपुप्फदामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा तिंसहत्थमत्तट्ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कअपस्सयमञ्चपीठादीनि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा सालाय पाचीनपस्सं अत्तनो निसज्जायोग्गं कारेसुं. तं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति.
उदकमणिकन्ति महाकुच्छिकं उदकचाटिं. एवं भगवा भिक्खुसङ्घो च यथारुचिया हत्थपादे धोविस्सन्ति, मुखं विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठपेसुं. तेन वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति.
तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डदीपिकासु योधकरूपविलासखचितरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु तेलप्पदीपं जालयित्वा. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते पाटलिगामिया उपासका न केवलं आवसथागारमेव, अथ खो सकलस्मिम्पि गामे वीथियो सज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे कदलियो च ठपापेत्वा सकलगामं दीपमालाहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपके दारके खीरं पायेथ, दहरकुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर तेहि काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय, महति सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवलाहकेन पटिच्छादेन्तो विय, कञ्चनगिरिमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताजालेन परिक्खिपन्तो विय, सकलचक्कवाळसिनेरुयुगन्धरमहापथविं चालेत्वा गहितनिग्रोधपल्लवसमानवण्णं सुरत्तवरपंसुकूलं पारुपित्वा वनगहनतो निक्खन्तकेसरसीहो विय, समन्ततो उदयपब्बतकूटतो पुण्णचन्दो विय, बालसूरियो विय च अत्तना निसिन्नचारुमण्डपतो निक्खमि.
अथस्स कायतो मेघमुखतो विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलसाखाविटपे विय समन्ततो रुक्खे करिंसु. तावदेव अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते च नं परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवुतो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, नक्खत्तपरिवारितो विय पुण्णचन्दो, रत्तपदुमवनसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकपरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. महाकस्सपप्पमुखा पन महाथेरा मेघवण्णं पंसुकूलचीवरं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.
इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो, अनुपमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन पाटलिगामिनं मग्गं पटिपज्जि.
अथस्स पुरत्थिमकायतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, तथा पच्छिमकायतो दक्खिणपस्सतो वामपस्सतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, उपरिकेसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीवराजवण्णा असिता घनबुद्धरस्मियो उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसुं, हेट्ठापादतलेहि पवाळवण्णा रस्मियो उट्ठहित्वा घनपथवियं असीतिहत्थट्ठानं अग्गहेसुं, दन्ततो अक्खीनं सेतट्ठानतो, नखानं मंसविमुत्तट्ठानतो ओदाता घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, रत्तपीतवण्णानं सम्भिन्नट्ठानतो मञ्जेट्ठवण्णा रस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, सब्बत्थकमेव पभस्सरा रस्मियो उट्ठहिंसु. एवं समन्ता असीतिहत्थट्ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावमाना कञ्चनदण्डदीपिकादीहि निच्छरित्वा आकासं पक्खन्दमाना महापदीपजाला विय, चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता विय च दिसोदिसं पक्खन्दिंसु. याहि सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो सुवण्णरसधाराहि आसिञ्चियमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातेन समुद्धतकिंसुककणिकारकोविळारपुप्फचुण्णसमोकिण्णा विय, चीनपिट्ठचुण्णसम्परिरञ्जिता विय च विरोचिंसु.
भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभापरिक्खेपसमुज्जलं द्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितं सरीरं अब्भमहिकादिउपक्किलेसविमुत्तं समुज्जलन्ततारकावभासितं विय, गगनतलं विकसितं विय पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंससूरियानं द्वत्तिंसचन्दिमानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहीति सम्मदेव परिपूरिताहि समतिंसपारमिताहि अलङ्कतं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नेन दानेन रक्खितेन सीलेन कतेन कल्याणकम्मेन एकस्मिं अत्तभावे समोसरित्वा विपाकं दातुं ओकासं अलभमानेन सम्बाधप्पत्तं विय निब्बत्तितं नावासहस्सभण्डं एकं नावं आरोपनकालो विय, सकटसहस्सभण्डं एकं सकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं सम्भिन्नमुखद्वारे एकतो रासिभूतकालो विय अहोसि.
इमाय बुद्धसिरिया ओभासमानस्सपि भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु. तथा पच्छतो वामपस्से दक्खिणपस्से जातिकुसुमचम्पकवनमालिकारत्तुप्पलनीलुप्पलबकुलसिन्दुवारादिपुप्फानि चेव नीलपीतादिवण्णसुगन्धचुण्णानि च चातुद्दीपिकमहामेघविस्सट्ठा सलिलवुट्ठियो विय विप्पकिरिंसु. पञ्चङ्गिकतूरियनिग्घोसा च बुद्धधम्मसङ्घगुणासंयुत्ता थुतिघोसा च सब्बा दिसा पूरयमाना मुखसम्भासा विय अहेसुं. देवसुपण्णनागयक्खगन्धब्बमनुस्सानं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेहि गमनवण्णनं वत्तुं वट्टति. तत्रियं मुखमत्तं –
‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;
अहेठयन्तो पाणानि, याति लोकविनायको.
‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो;
गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.
‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठा पादतलं मुदु;
समं सम्फुसते भूमिं, रजसानुपलिम्पति.
‘‘निन्नं ठानं उन्नमति, गच्छन्ते लोकनायके;
उन्नतञ्च समं होति, पथवी च अचेतना.
‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका;
सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.
‘‘नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपं;
अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.
‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;
न चापि सणिकं याति, गच्छमानो समाहितो.
‘‘उद्धं अधो च तिरियं, दिसञ्च विदिसं तथा;
न पेक्खमानो सो याति, युगमत्तंवपेक्खति.
‘‘नागविक्कन्तचारो सो, गमने सोभते जिनो;
चारुं गच्छति लोकग्गो, हासयन्तो सदेवके.
‘‘उसभराजाव सोभन्तो, चारुचारीव केसरी;
तोसयन्तो बहू सत्ते, गामं सेट्ठो उपागमी’’ति. –
वण्णकालो नाम किरेस. एवंविधेसु कालेसु भगवतो सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं, चुण्णियपदेहि गाथाबन्धेहि यत्तकं सक्कोति, तत्तकं वत्तब्बं. ‘‘दुक्कथित’’न्ति वा ‘‘अतित्थेन पक्खन्दो’’ति वा न वत्तब्बो. अपरिमाणवण्णा हि बुद्धा भगवन्तो, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था. सकलम्पि हि कप्पं वण्णेन्ता परियोसापेतुं न सक्कोन्ति, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतप्पटियत्तं पाटलिगामं पाविसि, पविसित्वा भगवा पसन्नचित्तेन जनेन पुप्फगन्धधूमवासचुण्णादीहि पूजियमानो आवसथागारं पाविसि. तेन वुत्तं – ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमी’’ति.
पादे पक्खालेत्वाति यदिपि भगवतो पादे रजोजल्लं न उपलिम्पति, तेसं पन उपासकानं कुसलाभिवुद्धिं आकङ्खन्तो परेसं दिट्ठानुगतिं आपज्जनत्थञ्च भगवा पादे पक्खालेति. अपिच उपादिन्नकसरीरं नाम सीतं कातब्बम्पि होतीति एतदत्थम्पि भगवा न्हानपादधोवनादीनि करोतियेव. भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलेन पलिवेठेत्वा पीठे ठपिता रत्तसुवण्णघनपटिमा विय अतिविरोचित्थ.
अयं पनेत्थ पोराणानं वण्णभणनमग्गो –
‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो;
ओभासयन्तो लोकग्गो, निसीदि वरमासने.
‘‘तहिं निसिन्नो नरदम्मसारथि,
देवातिदेवो सतपुञ्ञलक्खणो;
बुद्धासने मज्झगतो विरोचति,
सुवण्णनिक्खं विय पण्डुकम्बले.
‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;
विरोचति वीतमलो, मणिवेरोचनो यथा.
‘‘महासालोव सम्फुल्लो, मेरुराजावलङ्कतो;
सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा.
‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;
देवानं पारिछत्तोव, सब्बफुल्लो विरोचती’’ति.
पाटलिगामिये उपासके आमन्तेसीति यस्मा तेसु उपासकेसु बहू जना सीलेसु पतिट्ठिता, तस्मा पठमं ताव सीलविपत्तिया आदीनवं पकासेत्वा पच्छा सीलसम्पदाय आनिसंसं दस्सेतुं, ‘‘पञ्चिमे गहपतयो’’तिआदिना धम्मदेसनत्थं आमन्तेसि.
तत्थ दुस्सीलोति निस्सीलो. सीलविपन्नोति विपन्नसीलो भिन्नसंवरो. एत्थ च ‘‘दुस्सीलो’’ति पदेन पुग्गलस्स सीलाभावो वुत्तो. सो पनस्स सीलाभावो दुविधो असमादानेन वा समादिन्नस्स भेदेन वाति. तेसु पुरिमो न तथा सावज्जो, यथा दुतियो सावज्जतरो. यथाधिप्पेतादीनवनिमित्तं सीलाभावं पुग्गलाधिट्ठानाय देसनाय दस्सेतुं, ‘‘सीलविपन्नो’’ति वुत्तं. तेन ‘‘दुस्सीलो’’ति पदस्स अत्थं दस्सेति. पमादाधिकरणन्ति पमादकारणा. इदञ्च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव. गहट्ठो हि येन सिप्पट्ठानेन जीविकं कप्पेति यदि कसिया यदि वाणिज्जाय यदि गोरक्खेन, पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स कम्मं विनस्सति. माघातकाले पन पाणातिपातादीनि करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति. पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति.
पापको कित्तिसद्दोति गहट्ठस्स ‘‘असुको अमुककुले जातो दुस्सीलो पापधम्मो परिच्चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति परिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति. पब्बजितस्स ‘‘असुको नाम थेरो सत्थु सासने पब्बजित्वा नासक्खि सीलानि रक्खितुं, न बुद्धवचनं गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो’’ति एवं पापको कित्तिसद्दो अब्भुग्गच्छति.
अविसारदोति गहट्ठो ताव अवस्सं बहूनं सन्निपातट्ठाने ‘‘कोचि मम कम्मं जानिस्सति, अथ मं निन्दिस्सति, राजकुलस्स वा दस्सेस्सती’’ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति. पब्बजितोपि बहुभिक्खुसङ्घे सन्निपतिते ‘‘अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञतो चावेत्वा निक्कड्ढिस्सती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्कोति. एकच्चो पन दुस्सीलोपि समानो सुसीलो विय चरति, सोपि अज्झासयेन मङ्कु होतियेव.
सम्मूळ्हो कालं करोतीति दुस्सीलस्स हि मरणमञ्चे निपन्नस्स दुस्सीलकम्मानि समादाय पवत्तितट्ठानानि आपाथं आगच्छन्ति. सो उम्मीलेत्वा इधलोकं, निमीलेत्वा परलोकं पस्सति. तस्स चत्तारो अपाया कम्मानुरूपं उपट्ठहन्ति, सत्तिसतेन पहरियमानो विय अग्गिजालाभिघातेन झायमानो विय च होति. सो ‘‘वारेथ, वारेथा’’ति विरवन्तोव मरति. तेन वुत्तं – ‘‘सम्मूळ्हो कालं करोती’’ति.
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणा. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. अपायन्तिआदि सब्बं निरयवेवचनं. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसङ्खाता अया अपेतत्ता, सुखानं वा अयस्स, आगमनस्स वा अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कतकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता, दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता पेतमहिद्धिकानम्पि विज्जमानत्ता. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेनट्ठेन ‘‘अपायो’’ चेव ‘‘दुग्गति’’ च सब्बसम्पत्तिसमुस्सयेहि विनिपतितत्ता ‘‘विनिपातो’’ति च वुच्चति. निरयग्गहणेन अवीचिआदिकं अनेकप्पकारं निरयमेव दीपेति. उपपज्जतीति निब्बत्तति.
आनिसंसकथा वुत्तविपरियायेन वेदितब्बा. अयं पन विसेसो – सीलवाति समादानवसेन सीलवा. सीलसम्पन्नोति परिसुद्धं परिपुण्णञ्च कत्वा सीलस्स समादानेन सीलसम्पन्नो. भोगक्खन्धन्ति भोगरासिं. सुगतिं सग्गं लोकन्ति एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव. तत्थ सुन्दरा गति सुगति, रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति.
पाटलिगामिये उपासके बहुदेव रत्तिं धम्मिया कथायाति अञ्ञायपि पाळिमुत्ताय धम्मकथाय चेव आवसथानुमोदनकथाय च. तदा हि भगवा यस्मा अजातसत्तुना तत्थ पाटलिपुत्तनगरं मापेन्तेन अञ्ञेसु गामनिगमजनपदराजधानीसु ये सीलाचारसम्पन्ना कुटुम्बिका, ते आनेत्वा धनधञ्ञघरवत्थुखेत्तवत्थादीनि चेव परिहारञ्च दापेत्वा निवेसियन्ति. तस्मा पाटलिगामिया उपासका आनिसंसदस्साविताय विसेसतो सीलगरुका सब्बगुणानञ्च सीलस्स अधिट्ठानभावतो तेसं पठमं सीलानिसंसे पकासेत्वा ततो परं आकासगङ्गं ओतारेन्तो विय, पथवोजं आकड्ढन्तो विय, महाजम्बुं मत्थके गहेत्वा चालेन्तो विय, योजनिकमधुकण्डं चक्कयन्तेन पीळेत्वा मधुरसं पायमानो विय पाटलिगामिकानं उपासकानं हितसुखावहं पकिण्णककथं कथेन्तो ‘‘आवासदानं नामेतं गहपतयो महन्तं पुञ्ञं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन च परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्ते पन धम्मरतनेनपि परिभुत्तोयेव होति. एवं तीहि रतनेहि परिभुत्ते अपरिमेय्यो च विपाको, अपिच आवासदानस्मिं दिन्ने सब्बदानं दिन्नमेव होति, भूमट्ठकपण्णसालाय वा साखामण्डपस्स वा सङ्घं उद्दिस्स कतस्स आनिसंसो परिच्छिन्दितुं न सक्का. आवासदानानुभावेन हि भवे निब्बत्तमानस्सपि सम्पीळितगब्भवासो नाम न होति, द्वादसहत्थो ओवरको वियस्स मातुकुच्छि असम्बाधोव होती’’ति एवं नानानयेहि विचित्तं बहुं धम्मकथं कथेत्वा –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
एवं अयम्पि आवासदाने आनिसंसोति बहुदेव रत्तिं अतिरेकतरं दियड्ढयामं आवासदानानिसंसकथं कथेसि. तत्थ इमा गाथा ताव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं नारोहति. सन्दस्सेत्वातिआदीनि वुत्तत्थानेव.
अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता. यस्स दानि कालं मञ्ञथाति यस्स गमनस्स तुम्हे कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति. कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय. तियामरत्तिञ्हि तत्थ निसीदित्वा वीतिनामेन्तानं तेसं सरीरे आबाधो उप्पज्जेय्याति, भिक्खुसङ्घेपि च विप्पभातसयननिसज्जाय ओकासो लद्धुं वट्टति, इति उभयानुकम्पाय उय्योजेसीति. सुञ्ञागारन्ति पाटियेक्कं सुञ्ञागारं नाम तत्थ नत्थि. तेन किर गहपतयो तस्सेव आवसथागारस्स एकपस्से पटसाणिया परिक्खिपापेत्वा कप्पियमञ्चं पञ्ञापेत्वा तत्थ कप्पियपच्चत्थरणं अत्थरित्वा उपरि सुवण्णरजततारकागन्धमालादिपटिमण्डितं वितानं बन्धित्वा तेलप्पदीपं आरोपेसुं ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समितुकामो इध निपज्जेय्य, एवं नो इदं आवसथागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तं सन्धाय वुत्तं ‘‘सुञ्ञागारं पाविसी’’ति. तत्थ पादधोवनट्ठानतो पट्ठाय याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्वा थोकं अट्ठासि, इदं तत्थ ठानं. भगवा द्वे यामे धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना. उपासके उय्योजेत्वा धम्मासनतो ओरुय्ह यथावुत्ते ठाने सीहसेय्यं कप्पेसि. एवं तं ठानं भगवता चतूहि इरियापथेहि परिभुत्तं अहोसीति.
सुनिधवस्सकाराति सुनिधो च वस्सकारो च द्वे ब्राह्मणा. मगधमहामत्ताति मगधरञ्ञो महाअमच्चा, मगधरट्ठे वा महामत्ता महतिया इस्सरियमत्ताय समन्नागताति महामत्ता. पाटलिगामे नगरं मापेन्तीति पाटलिगामसङ्खाते भूमिपदेसे नगरं मापेन्ति. वज्जीनं पटिबाहायाति लिच्छविराजूनं आयमुखप्पच्छिन्दनत्थं. सहस्ससहस्सेवाति एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा. वत्थूनीति घरवत्थूनि. चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्ञो राजमहामत्तानञ्च निवेसनानि मापेतुं वत्थुविज्जापाठकानं चित्तानि नमन्ति. ते किर अत्तनो सिप्पानुभावेन हेट्ठापथवियं तिंसहत्थमत्ते ठाने ‘‘इध नागग्गाहो, इध यक्खग्गाहो, इध भूतग्गाहो, इध पासाणो वा खाणुको वा अत्थी’’ति जानन्ति. ते तदा सिप्पं जप्पेत्वा देवताहि सद्धिं सम्मन्तयमाना विय मापेन्ति.
अथ वा नेसं सरीरे देवता अधिमुच्चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति. ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति. सद्धकुलानं सद्धा देवता तथा करोन्ति, अस्सद्धकुलानं अस्सद्धा देवता. किंकारणा? सद्धानञ्हि एवं होति ‘‘इध मनुस्सा निवेसनं मापेन्ता पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वदापेस्सन्ति, अथ मयं सीलवन्तानं दस्सनं धम्मकथं पञ्हविस्सज्जनं अनुमोदनं सोतुं लभिस्साम, मनुस्सा च दानं दत्वा अम्हाकं पत्तिं दस्सन्ती’’ति. अस्सद्धा देवतापि ‘‘अत्तनो इच्छानुरूपं तेसं पटिपत्तिं पस्सितुं, कथञ्च सोतुं लभिस्सामा’’ति तथा करोन्ति.
तावतिंसेहीति यथा हि एकस्मिं कुले एकं पण्डितमनुस्सं, एकस्मिञ्च विहारे एकं बहुस्सुतं भिक्खुं उपादाय ‘‘असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता’’ति सद्दो अब्भुग्गच्छति, एवमेव सक्कं देवराजानं, विस्सकम्मञ्च देवपुत्तं उपादाय ‘‘तावतिंसा पण्डिता’’ति सद्दो अब्भुग्गतो. तेनाह ‘‘तावतिंसेही’’ति. सेय्यथापीतिआदिना देवेहि तावतिंसेहि सद्धिं मन्तेत्वा विय सुनिधवस्सकारा नगरं मापेन्तीति दस्सेति.
यावता, आनन्द, अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि. यावता वणिप्पथोति यत्तकं वाणिजानं आहटभण्डस्स रासिवसेन कयविक्कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि. इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं नगरं अग्गं भविस्सति जेट्ठकं पामोक्खं. पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डभण्डिकानं मोचनट्ठानन्ति वुत्तं होति. सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सन्ति, अञ्ञत्थ विक्कयं अगच्छन्तापि इधेव विक्कयं गच्छिस्सन्ति, तस्मा इधेव पुटं भिन्दिस्सन्तीति अत्थो. आयानम्पि हि चतूसु द्वारेसु चत्तारि, सभायं एकन्ति एवं दिवसे दिवसे पञ्चसतसहस्सानि तत्थ उट्ठहिस्सन्ति. तानि सभावानि आयानीति दस्सेति.
अग्गितो वातिआदीसु समुच्चयत्थो वासद्दो, अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो. तस्स हि एको कोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुं न सक्खिस्सन्ति, एकं कोट्ठासं गङ्गा गहेत्वा गमिस्सति, एको इमिना अकथितं अमुस्स, अमुना अकथितं इमस्स वदन्तानं पिसुणवाचानं वसेन भिन्नानं मनुस्सानं अञ्ञमञ्ञभेदेन विनस्सिस्सति. एवं वत्वा भगवा पच्चूसकाले गङ्गातीरं गन्त्वा कतमुखधोवनो भिक्खाचारवेलं आगमयमानो निसीदि.
सुनिधवस्सकारापि ‘‘अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको, सो अम्हे उपगते पुच्छिस्सति ‘सत्था किर पाटलिगामं अगमासि, किं तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति. ‘उपसङ्कमिम्हा’ति च वुत्ते ‘निमन्तयित्थ, न निमन्तयित्था’ति पुच्छिस्सति. ‘न निमन्तयिम्हा’ति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति, इदञ्चापि मयं अकतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्कमन्ति, तं मयं नगरमङ्गलं वाचापेस्सामा’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु. तेन वुत्तं – ‘‘अथ खो सुनिधवस्सकारा’’तिआदि.
पुब्बण्हसमयन्ति पुब्बण्हे काले. निवासेत्वाति गामपवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा. पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा.
सीलवन्तेत्थाति सीलवन्तो एत्थ अत्तनो वसनट्ठाने. सञ्ञतेति कायवाचाचित्तेहि सञ्ञते. तासं दक्खिणमादिसेति सङ्घस्स दिन्ने चत्तारो पच्चये तासं घरदेवतानं आदिसेय्य पत्तिं ददेय्य. पूजिता पूजयन्तीति ‘‘इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, एवम्पि नो पत्तिं देन्ती’’ति आरक्खं सुसंविहितं करोन्ति सुट्ठु आरक्खं करोन्ति. मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता ‘‘एते मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि चतुपञ्चछमासन्तरं नो बलिकम्मं करोन्ती’’ति मानेन्ति उप्पन्नपरिस्सयं हरन्ति. ततो नन्ति ततो तं पण्डितजातिकं पुरिसं. ओरसन्ति उरे ठपेत्वा वड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्नपरिस्सयहरणत्थमेवस्स यथा वायमति, एवं अनुकम्पन्तीति अत्थो. भद्रानि पस्सतीति सुन्दरानि पस्सति.
अनुमोदित्वाति तेहि तदा पसुतपुञ्ञस्स अनुमोदनवसेन तेसं धम्मकथं कत्वा. सुनिधवस्सकारापि ‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे’’ति भगवतो वचनं सुत्वा देवतानं पत्तिं अदंसु. तं गोतमद्वारं नाम अहोसीति तस्स नगरस्स येन द्वारेन भगवा निक्खमि, तं गोतमद्वारं नाम अहोसि. गङ्गाय पन उत्तरणत्थं अनोतिण्णत्ता गोतमतित्थं नाम नाहोसि. पूराति पुण्णा. समतित्तिकाति तटसमं उदकस्स तित्ता भरिता. काकपेय्याति तीरे ठितकाकेहि पातुं सक्कुणेय्यउदका. द्वीहिपि पदेहि उभतोकूलसमं परिपुण्णभावमेव दस्सेति. उळुम्पन्ति पारगमनत्थाय दारूनि सङ्घाटेत्वा आणियो कोट्टेत्वा कतं. कुल्लन्ति वेळुदण्डादिके वल्लिआदीहि बन्धित्वा कतं.
एतमत्थं विदित्वाति एतं महाजनस्स गङ्गोदकमत्तस्सपि केवलं तरितुं असमत्थतं, अत्तनो पन भिक्खुसङ्घस्स च अतिगम्भीरवित्थतं संसारमहण्णवं तरित्वा ठितभावञ्च सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तत्थ अण्णवन्ति सब्बन्तिमेन परिच्छेदेन योजनमत्तं गम्भीरस्स च वित्थतस्स च उदकट्ठानस्सेतं अधिवचनं. सरन्ति सरित्वा गमनतो इध नदी अधिप्पेता. इदं वुत्तं होति – ये गम्भीरवित्थतं संसारण्णवं तण्हासरितञ्च तरन्ति, ते अरियमग्गसङ्खातं सेतुं कत्वान विसज्ज पल्ललानि अनामसित्वाव उदकभरितानि निन्नट्ठानानि, अयं पन इदं अप्पमत्तकं उदकं तरितुकामो कुल्लञ्हि जनो पबन्धति कुल्लं बन्धितुं आयासं आपज्जति. तिण्णा मेधाविनो जनाति अरियमग्गञाणसङ्खाताय मेधाय समन्नागतत्ता मेधाविनो बुद्धा च बुद्धसावका च विना एव कुल्लेन तिण्णा परतीरे पतिट्ठिताति.
छट्ठसुत्तवण्णना निट्ठिता.