३. पठमसत्तसुत्तवण्णना
६३. ततिये कामेसूति वत्थुकामेसु. अतिवेलन्ति वेलं अतिक्कमित्वा. सत्ताति अयोनिसोमनसिकारबहुलताय विज्जमानम्पि आदीनवं अनोलोकेत्वा अस्सादमेव सरित्वा सज्जनवसेन सत्ता, आसत्ता लग्गाति अत्थो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरणेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिज्झनेन गिद्धा गेधं आपन्ना. गधिताति रागमुच्छिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा. मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहं आपन्ना. अज्झोपन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता. सम्मत्तकजाताति कामेसु पातब्यतं आपज्जन्ता अप्पसुखवेदनाय सम्मत्तका सुट्ठु मत्तका जाता. ‘‘सम्मोदकजाता’’तिपि पाठो, जातसम्मोदना उप्पन्नपहंसाति अत्थो. सब्बेहिपि पदेहि तेसं तण्हाधिपन्नतंयेव वदति. एत्थ च पठमं ‘‘कामेसू’’ति वत्वा पुनपि ‘‘कामेसू’’ति वचनं तेसं सत्तानं तदधिमुत्तिदीपनत्थं. तेन सब्बिरियापथेसु कामगुणसमङ्गिनो हुत्वा तदा विहरिंसूति दस्सेति.
तस्मिञ्हि समये ठपेत्वा अरियसावके सब्बे सावत्थिवासिनो उस्सवं घोसेत्वा यथाविभवं आपानभूमिं सज्जेत्वा भुञ्जन्ता पिवन्ता आवि चेव रहो च कामे परिभुञ्जन्ता इन्द्रियानि परिचारेन्ता कामेसु पातब्यतं आपज्जिंसु. भिक्खू सावत्थियं पिण्डाय चरन्ता तत्थ तत्थ गेहे आरामुय्यानादीसु च मनुस्से उस्सवं घोसेत्वा कामनिन्ने तथा पटिपज्जन्ते दिस्वा ‘‘विहारं गन्त्वा सण्हसुखुमं धम्मं लभिस्सामा’’ति भगवतो एतमत्थं आरोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू…पे… कामेसु विहरन्ती’’ति.
एतमत्थं विदित्वाति एतं तेसं मनुस्सानं आपानभूमिरमणीयेसु महापरिळाहेसु अनेकानत्थानुबन्धेसु घोरासय्हकटुकफलेसु कामेसु अनादीनवदस्सितं सब्बाकारतो विदित्वा कामानञ्चेव किलेसानञ्च आदीनवविभावनं इमं उदानं उदानेसि.
तत्थ कामेसु सत्ताति वत्थुकामेसु किलेसकामेन रत्ता मत्ता सत्ता विसत्ता लग्गा लग्गिता संयुत्ता. कामसङ्गसत्ताति तायेव कामसत्तिया वत्थुकामेसु रागसङ्गेन चेव दिट्ठिमानदोसअविज्जासङ्गेहि च सत्ता आसत्ता. संयोजने वज्जमपस्समानाति कम्मवट्टं विपाकवट्टेन, भवादिके वा भवन्तरादीहि, सत्ते वा दुक्खेहि संयोजनतो बन्धनतो संयोजननामके कामरागादिकिलेसजाते संयोजनीयेसु धम्मेसु अस्सादानुपस्सिताय वट्टदुक्खमूलभावादिकं वज्जं दोसं आदीनवं अपस्सन्ता. न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तन्ति एवं आदीनवदस्सनाभावेन संयोजनसभावेसु सङ्गेसु, संयोजनसङ्खातेहि वा सङ्गेहि तेसं विसयेसु तेभूमकधम्मेसु सत्ता विपुलविसयताय अनादिकालताय च विपुलं वित्थिण्णं महन्तञ्च कामादिओघं, संसारोघमेव वा न कदाचि तरेय्युं, एकंसेनेव तस्स ओघस्स पारं न गच्छेय्युन्ति अत्थो.
ततियसुत्तवण्णना निट्ठिता.