४. दुतियसत्तसुत्तवण्णना

६४. चतुत्थे अन्धीकताति कामा नाम अनन्धम्पि अन्धं करोन्ति.

यथाह –

‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;

अन्धतमं तदा होति, यं लोभो सहते नर’’न्ति. (इतिवु. ८८; महानि. ५; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) –

तस्मा कामेन अनन्धापि अन्धा कताति अन्धीकता. सेसं अनन्तरसुत्ते वुत्तनयमेव. तत्थ हि मनुस्सानं पवत्ति भिक्खूहि दिस्वा भगवतो आरोचिता, इध भगवता सामंयेव दिट्ठाति अयमेव विसेसो. सत्था सावत्थितो निक्खमित्वा जेतवनं गच्छन्तो अन्तरामग्गे अचिरवतियं नदियं मच्छबन्धेहि ओड्डितं कुमिनं पविसित्वा निक्खन्तुं असक्कोन्ते बहू मच्छे पस्सि, ततो अपरभागे एकं खीरपकं वच्छं गोरवं कत्वा अनुबन्धित्वा थञ्ञपिपासाय गीवं पसारेत्वा मातु अन्तरसत्थियं मुखं उपनेन्तं पस्सि. अथ भगवा विहारं पविसित्वा पादे पक्खालेत्वा पञ्ञत्तवरबुद्धासने निसिन्नो पच्छिमं वत्थुद्वयं पुरिमस्स उपमानभावेन गहेत्वा इमं उदानं उदानेसि.

तत्थ कामन्धाति वत्थुकामेसु किलेसकामेन अन्धा विचक्खुका कता. जालसञ्छन्नाति सकत्तभावपरत्तभावेसु अज्झत्तिकबाहिरायतनेसु, तन्निस्सितेसु च धम्मेसु अतीतादिवसेन अनेकभेदभिन्नेसु हेट्ठुपरियवसेन अपरापरं उप्पत्तिया अन्तोगधानं अनत्थावहतो च जालभूताय तण्हाय सुखुमच्छिद्देन जालेन परिवुतो विय उदकरहदो सञ्छन्ना पलिगुण्ठिता अज्झोत्थटा. तण्हाछदनछादिताति तण्हासङ्खातेन छदनेन सेवालपणकेन विय उदकं छादिता, पटिच्छन्ना पिहिताति अत्थो. पदद्वयेनापि कामच्छन्दनीवरणनिवारितकुसलचित्ताचारतं दस्सेति.

पमत्तबन्धुना बद्धाति किलेसमारेन देवपुत्तमारेन च बद्धा. यदग्गेन हि किलेसमारेन बद्धा, तदग्गेन देवपुत्तमारेनपि बद्धा नाम होन्ति. वुत्तञ्हेतं –

‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो;

तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति. (सं. नि. १.१५१; महाव. ३३);

नमुचि कण्हो पमत्तबन्धूति तीणि मारस्स नामानि. देवपुत्तमारोपि हि किलेसमारो विय अनत्थेन पमत्ते सत्ते बन्धतीति पमत्तबन्धु. ‘‘पमत्ता बन्धने बद्धा’’तिपि पठन्ति. तत्थ बन्धनेति कामगुणबन्धनेति अत्थो. बद्धाति नियमिता. यथा किं? मच्छाव कुमिनामुखे यथा नाम मच्छबन्धकेन ओड्डितस्स कुमिनस्स मुखे पविट्ठा मच्छा तेन बद्धा हुत्वा मरणमन्वेन्ति पापुणन्ति, एवमेव मारेन ओड्डितेन कामगुणबन्धनेन बद्धा इमे सत्ता जरामरणमन्वेन्ति. वच्छो खीरपकोव मातरं यथा खीरपायी तरुणवच्छो अत्तनो मातरं अन्वेति अनुगच्छति, न अञ्ञं एवं मारबन्धनबद्धा सत्ता संसारे परिब्भमन्ता मरणमेव अन्वेन्ति अनुगच्छन्ति, न अजरं अमरणं निब्बानन्ति अधिप्पायो.

चतुत्थसुत्तवण्णना निट्ठिता.