७. सुभूतिसुत्तवण्णना

५७. सत्तमे सुभूतीति तस्स थेरस्स नामं. सो हि आयस्मा पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं उपचितपुञ्ञसम्भारो इमस्मिं बुद्धुप्पादे उळारविभवे गहपतिकुले उप्पन्नो भगवतो धम्मदेसनं सुत्वा संवेगजातो घरा निक्खम्म पब्बजित्वा कताधिकारत्ता घटेन्तो वायमन्तो न चिरस्सेव छळभिञ्ञो जातो, ब्रह्मविहारभावनाय पन उक्कंसपारमिप्पत्तिया ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूती’’ति (अ. नि. १.२०१) अरणविहारे भगवता एतदग्गे ठपितो. सो एकदिवसं सायन्हसमयं दिवाट्ठानतो विहारङ्गणं ओतिण्णो चतुपरिसमज्झे भगवन्तं धम्मं देसेन्तं दिस्वा ‘‘देसनापरियोसाने वुट्ठहित्वा वन्दिस्सामी’’ति कालपरिच्छेदं कत्वा भगवतो अविदूरे अञ्ञतरस्मिं रुक्खमूले निसिन्नो फलसमापत्तिं समापज्जि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सुभूति…पे… समापज्जित्वा’’ति.

तत्थ दुतियज्झानतो पट्ठाय रूपावचरसमाधि सब्बोपि अरूपावचरसमाधि अवितक्कसमाधि एव. इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘‘अवितक्कसमाधी’’ति अधिप्पेतो. दुतियज्झानादीहि पहीना मिच्छावितक्का न ताव सुप्पहीना अच्चन्तपहानाभावतो, अरियमग्गेन पन पहीना एव पुन पहानकिच्चाभावतो. तस्मा अग्गमग्गपरियोसानभूतो अरहत्तफलसमाधि सब्बेसं मिच्छावितक्कानं पहानन्ते उप्पन्नत्ता विसेसतो ‘‘अवितक्कसमाधी’’ति वत्तब्बतं अरहति, पगेव चतुत्थज्झानपादको. तेन वुत्तं – ‘‘इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘अवितक्कसमाधी’ति अधिप्पेतो’’ति.

एतमत्थं विदित्वाति एतं आयस्मतो सुभूतिस्स सब्बमिच्छावितक्कसब्बसंकिलेसपहानसङ्खातं अत्थं सब्बाकारतो जानित्वा तदत्थदीपकं इमं उदानं उदानेसि.

तत्थ यस्स वितक्का विधूपिताति येन अरियपुग्गलेन, यस्स वा अरियपुग्गलस्स कामवितक्कादयो सब्बेपि मिच्छावितक्का विधूपिता अरियमग्गञाणेन सन्तापिता समुच्छिन्ना. अज्झत्तं सुविकप्पिता असेसाति नियकज्झत्तसङ्खाते अत्तनो सन्ताने उप्पज्जनारहा सुविकप्पिता सुट्ठु विकप्पिता असेसतो, किञ्चिपि असेसेत्वा सुसमुच्छिन्नाति अत्थो. तं सङ्गमतिच्च अरूपसञ्ञीति एत्थ न्ति निपातमत्तं. अथ वा हेतुअत्थो तंसद्दो. यस्मा अनवसेसेन मिच्छावितक्का समुच्छिन्ना, तस्मा रागसङ्गादिकं पञ्चविधं सङ्गं, सब्बम्पि वा किलेससङ्गं अतिच्च अतिक्कमित्वा अतिक्कमनहेतु रूपसभावाभावतो रुप्पनसङ्खातस्स च विकारस्स तत्थ अभावतो निब्बिकारहेतुभावतो वा ‘‘अरूप’’न्ति लद्धनामं निब्बानं आरम्मणं कत्वा पवत्ताहि मग्गफलसञ्ञाहि अरूपसञ्ञी. चतुयोगातिगतोति कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगोति चत्तारो योगे यथारहं चतूहिपि मग्गेहि अतिक्कमित्वा गतो. न जातु मेतीति मकारो पदसन्धिकरो, जातु एकंसेनेव पुनब्भवाय न एति, आयतिं पुनब्भवाभिनिब्बत्ति तस्स नत्थीति अत्थो. ‘‘न जाति मेती’’तिपि पठन्ति, सो एवत्थो. इति भगवा आयस्मतो सुभूतिस्स अरहत्तफलसमापत्तिविहारं अनुपादिसेसनिब्बानञ्च आरब्भ पीतिवेगविस्सट्ठं उदानं उदानेसि.

सत्तमसुत्तवण्णना निट्ठिता.