८. गणिकासुत्तवण्णना
५८. अट्ठमे द्वे पूगाति द्वे गणा. अञ्ञतरिस्सा गणिकायाति अञ्ञतराय नगरसोभिनिया. सारत्ताति सुट्ठु रत्ता. पटिबद्धचित्ताति किलेसवसेन बद्धचित्ता. राजगहे किर एकस्मिं छणदिवसे बहू धुत्तपुरिसा गणबन्धनेन विचरन्ता एकमेकस्स एकमेकं वेसिं आनेत्वा उय्यानं पविसित्वा छणकीळं कीळिंसु. ततो परम्पि द्वे तयो छणदिवसे तं तंयेव वेसिं आनेत्वा छणकीळं कीळिंसु. अथापरस्मिं छणदिवसे अञ्ञेपि धुत्ता तथेव छणकीळं कीळितुकामा वेसियो आनेन्ता पुरिमधुत्तेहि पुब्बे आनीतं एकं वेसिं आनेन्ति. इतरे तं दिस्वा ‘‘अयं अम्हाकं परिग्गहो’’ति आहंसु. तेपि तथेव आहंसु. ‘‘एवं अम्हाकं परिग्गहो, अम्हाकं परिग्गहो’’ति कलहं वड्ढेत्वा पाणिप्पहारादीनि अकंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन राजगहे द्वे पूगा’’तिआदि. तत्थ उपक्कमन्तीति पहरन्ति. मरणम्पि निगच्छन्तीति बलवूपक्कमेहि मरणं उपगच्छन्ति, इतरेपि मरणमत्तं मरणप्पमाणदुक्खं पापुणन्ति.
एतमत्थं विदित्वाति एतं कामेसु गेधं विवादमूलं सब्बानत्थमूलन्ति सब्बाकारतो विदित्वा. इमं उदानन्ति अन्तद्वये च मज्झिमाय पटिपत्तिया आदीनवानिसंसविभावनं इमं उदानं उदानेसि.
तत्थ यञ्च पत्तन्ति यं रूपादिपञ्चकामगुणजातं पत्तं ‘‘नत्थि कामेसु दोसो’’ति दिट्ठिं पुरक्खत्वा वा अपुरक्खत्वा वा एतरहि लद्धं अनुभुय्यमानं. यञ्च पत्तब्बन्ति यञ्च कामगुणजातमेव ‘‘भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, पटिसेवितब्बा कामा, यो कामे परिभुञ्जति, सो लोकं वड्ढेति, यो लोकं वड्ढेति, सो बहुं पुञ्ञं पसवती’’ति दिट्ठिं उपनिस्साय तं अनिस्सज्जित्वा कतेन कम्मुना अनागते पत्तब्बं अनुभवितब्बञ्च. उभयमेतं रजानुकिण्णन्ति एतं उभयं पत्तं पत्तब्बञ्च रागरजादीहि अनुकिण्णं. सम्पत्ते हि वत्थुकामे अनुभवन्तो रागरजेन वोकिण्णो होति, तत्थ पन संकिलिट्ठचित्तस्स फले आयतिं आपन्ने दोमनस्सुप्पत्तिया दोसरजेन वोकिण्णो होति, उभयत्थापि मोहरजेन वोकिण्णो होति. कस्स पनेतं रजानुकिण्णन्ति आह – ‘‘आतुरस्सानुसिक्खतो’’ति कामपत्थनावसेन किलेसातुरस्स, तस्स च फलेन दुक्खातुरस्स च उभयत्थापि पटिकाराभिलासाय किलेसफले अनुसिक्खतो.
तथा यञ्च पत्तन्ति यं अचेलकवतादिवसेन पत्तं अत्तपरितापनं. यञ्च पत्तब्बन्ति यं मिच्छादिट्ठिकम्मसमादानहेतु अपायेसु पत्तब्बं फलं. उभयमेतं रजानुकिण्णन्ति तदुभयं दुक्खरजानुकिण्णं. आतुरस्साति कायकिलमथेन दुक्खातुरस्स. अनुसिक्खतोति मिच्छादिट्ठिं, तस्सा समादायके पुग्गले च अनुसिक्खतो.
ये च सिक्खासाराति येहि यथासमादिन्नं सीलब्बतादिसङ्खातं सिक्खं सारतो गहेत्वा ‘‘इमिना संसारसुद्धी’’ति कथिता. तेनाह – सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसाराति. तत्थ यं ‘‘न करोमी’’ति ओरमति, तं सीलं, विसभोजनकिच्छाचरणादिकं वतं, साकभक्खतादिजीविका जीवितं, मेथुनविरति ब्रह्मचरियं, एतेसं अनुतिट्ठनं उपट्ठानं, भूतपिण्डकपरिभण्डादिवसेन खन्धदेवसिवादिपरिचरणं वा उपट्ठानं, एवमेतेहि यथावुत्तेहि सीलादीहि संसारसुद्धि होतीति तानि सारतो गहेत्वा ठिता समणब्राह्मणा सिक्खासारा सीलब्बतं जीवितं ब्रह्मचरियं ‘‘उपट्ठानसारा’’ति वेदितब्बा. अयमेको अन्तोति अयं सीलब्बतपरामासवसेन अत्तकिलमथानुयोगसङ्खातो मज्झिमाय पटिपत्तिया उप्पथभूतो लामकट्ठेन च एको अन्तो. अयं दुतियो अन्तोति अयं कामसुखल्लिकानुयोगो कामेसु पातब्यतापत्तिसङ्खातो दुतियो वुत्तनयेन अन्तो.
इच्चेते उभो अन्ताति कामसुखल्लिकानुयोगो अत्तकिलमथानुयोगो च इति एते उभो अन्ता. ते च खो एतरहि पत्ते, आयतिं पत्तब्बे च किलेसदुक्खरजानुकिण्णे कामगुणे अत्तपरितापने च अल्लीनेहि किलेसदुक्खातुरानं अनुसिक्खन्तेहि, सयञ्च किलेसदुक्खातुरेहि पटिपज्जितब्बत्ता लामका उप्पथभूता चाति अन्ता. कटसिवड्ढनाति अन्धपुथुज्जनेहि अभिकङ्खितब्बट्ठेन कटसिसङ्खातानं तण्हाअविज्जानं अभिवड्ढना. कटसियो दिट्ठिं वड्ढेन्तीति ता पन कटसियो नानप्पकारदिट्ठिं वड्ढेन्ति. वत्थुकामेसु अस्सादानुपस्सिनो हि ते पजहितुं असक्कोन्तस्स तण्हाअविज्जासहकारीकारणं लभित्वा ‘‘नत्थि दिन्न’’न्तिआदिना (ध. स. १२२१; विभ. ९३८) नत्थिकदिट्ठिं अकिरियदिट्ठिं अहेतुकदिट्ठिञ्च गण्हापेन्ति, अत्तपरितापनं अनुयुत्तस्स पन अविज्जातण्हासहकारीकारणं लभित्वा ‘‘सीलेन सुद्धि वतेन सुद्धी’’तिआदिना अत्तसुद्धिअभिलासेन सीलब्बतपरामासदिट्ठिं गण्हापेन्ति. सक्कायदिट्ठिया पन तेसं पच्चयभावो पाकटोयेव. एवं अन्तद्वयूपनिस्सयेन तण्हाअविज्जानं दिट्ठिवड्ढकता वेदितब्बा. केचि पन ‘‘कटसीति पञ्चन्नं खन्धानं अधिवचन’’न्ति वदन्ति. तेसं यदग्गेन ततो अन्तद्वयतो संसारसुद्धि न होति, तदग्गेन ते उपादानक्खन्धे अभिवड्ढेतीति अधिप्पायो. अपरे पन ‘‘कटसिवड्ढना’’ति पदस्स ‘‘अपरापरं जरामरणेहि सिवथिकवड्ढना’’ति अत्थं वदन्ति. तेहिपि अन्तद्वयस्स संसारसुद्धिहेतुभावाभावोयेव वुत्तो, कटसिया पन दिट्ठिवड्ढनकारणभावो वत्तब्बो.
एते ते उभो अन्ते अनभिञ्ञायाति ते एते यथावुत्ते उभोपि अन्ते अजानित्वा ‘‘इमे अन्ता ते च एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति एवं अजाननहेतु अजाननकारणा. ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा’’तिआदीसु (पु. प. २०८; अ. नि. ९.४३) वियस्स हेतुअत्थता दट्ठब्बा. ओलीयन्ति एकेति एके कामसुखानुयोगवसेन सङ्कोचं आपज्जन्ति. अतिधावन्ति एकेति एके अत्तकिलमथानुयोगवसेन अतिक्कमन्ति. कामसुखमनुयुत्ता हि वीरियस्स अकरणतो कोसज्जवसेन सम्मापटिपत्तितो सङ्कोचमापन्नता ओलीयन्ति नाम, अत्तपरितापनमनुयुत्ता पन कोसज्जं पहाय अनुपायेन वीरियारम्भं करोन्ता सम्मापटिपत्तिया अतिक्कमनतो अतिधावन्ति नाम, तदुभयं पन तत्थ आदीनवादस्सनतो. तेन वुत्तं – ‘‘उभो अन्ते अनभिञ्ञाय ओलीयन्ति एके अतिधावन्ति एके’’ति. तत्थ तण्हाभिनन्दनवसेन ओलीयन्ति, दिट्ठाभिनन्दनवसेन अतिधावन्तीति वेदितब्बं.
अथ वा सस्सताभिनिवेसवसेन ओलीयन्ति एके, उच्छेदाभिनिवेसवसेन अतिधावन्ति एके. गोसीलादिवसेन हि अत्तपरितापनमनुयुत्ता एकच्चे ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा, तत्थ निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति सस्सतदस्सनं अभिनिविसन्ता संसारे ओलीयन्ति नाम, कामसुखमनुयुत्ता पन एकच्चे यंकिञ्चि कत्वा इन्द्रियानि सन्तप्पेतुकामा लोकायतिका विय तदनुगुणं उच्छेददस्सनं अभिनिविसन्ता अनुपायेन वट्टुपच्छेदस्स परियेसनतो अतिधावन्ति नाम. एवं सस्सतुच्छेदवसेनपि ओलीयनातिधावनानि वेदितब्बानि.
ये च खो ते अभिञ्ञायाति ये च खो पन अरियपुग्गला ते यथावुत्ते उभो अन्ते ‘‘इमे अन्ता एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति अभिविसिट्ठेन ञाणेन विपस्सनासहिताय मग्गपञ्ञाय जानित्वा मज्झिमपटिपदं सम्मापटिपन्ना, ताय सम्मापटिपत्तिया. तत्र च नाहेसुन्ति तत्र तस्मिं अन्तद्वये पतिता न अहेसुं, तं अन्तद्वयं पजहिंसूति अत्थो. तेन च नामञ्ञिंसूति तेन अन्तद्वयपहानेन ‘‘मम इदं अन्तद्वयपहानं, अहं अन्तद्वयं पहासिं, इमिना अन्तद्वयपहानेन सेय्यो’’तिआदिना तण्हादिट्ठिमानमञ्ञनावसेन न अमञ्ञिंसु सब्बमञ्ञनानं सम्मदेव पहीनत्ता. एत्थ च अग्गफले ठिते अरियपुग्गले सन्धाय ‘‘तत्र च नाहेसुं, तेन च नामञ्ञिंसू’’ति अतीतकालवसेन अयं देसना पवत्ता, मग्गक्खणे पन अधिप्पेते वत्तमानकालवसेनेव वत्तब्बं सिया. वट्टं तेसं नत्थि पञ्ञापनायाति ये एवं पहीनसब्बमञ्ञना उत्तमपुरिसा, तेसं अनुपादापरिनिब्बुतानं कम्मविपाककिलेसवसेन तिविधम्पि वट्टं नत्थि पञ्ञापनाय, वत्तमानक्खन्धभेदतो उद्धं अनुपादानो विय जातवेदो अपञ्ञत्तिकभावमेव गच्छतीति अत्थो.
अट्ठमसुत्तवण्णना निट्ठिता.