४. पठमनानातित्थियसुत्तवण्णना
५४. चतुत्थे नानातित्थियसमणब्राह्मणपरिब्बाजकाति एत्थ तरन्ति एतेन संसारोघन्ति तित्थं, निब्बानमग्गो. इध पन विपरीतविपल्लासवसेन दिट्ठिगतिकेहि तथा गहितदिट्ठिदस्सनं ‘‘तित्थ’’न्ति अधिप्पेतं. तस्मिं सस्सतादिनानाकारे तित्थे नियुत्ताति नानातित्थिया, नग्गनिगण्ठादिसमणा चेव कठकलापादिब्राह्मणा च पोक्खरसातादिपरिब्बाजका च समणब्राह्मणपरिब्बाजका. नानातित्थिया च ते समणब्राह्मणपरिब्बाजका चाति नानातित्थियसमणब्राह्मणपरिब्बाजका.
‘‘सस्सतो अत्ता च लोको चा’’तिआदिना पस्सन्ति एताय, सयं वा पस्सति, तथा दस्सनमत्तमेव वाति दिट्ठि, मिच्छाभिनिवेसस्सेतं अधिवचनं. सस्सतादिवसेन नाना अनेकविधा दिट्ठियो एतेसन्ति नानादिट्ठिका. सस्सतादिवसेनेव खमनं खन्ति, रोचनं रुचि, अत्थतो ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना (उदा. ५५) पवत्तो चित्तविपल्लासो सञ्ञाविपल्लासो च. तथा नाना खन्तियो एतेसन्ति नानाखन्तिका, नाना रुचियो एतेसन्ति नानारुचिका. दिट्ठिगतिका हि पुब्बभागे तथा तथा चित्तं रोचेत्वा खमापेत्वा च पच्छा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसन्ति. अथ वा ‘‘अनिच्चं निच्च’’न्तिआदिना तथा तथा दस्सनवसेन दिट्ठि, खमनवसेन खन्ति, रुच्चनवसेन रुचीति एवं तीहिपि पदेहि दिट्ठि एव वुत्ताति वेदितब्बा. नानादिट्ठिनिस्सयनिस्सिताति सस्सतादिपरिकप्पवसेन नानाविधं दिट्ठिया निस्सयं वत्थुं कारणं, दिट्ठिसङ्खातमेव वा निस्सयं निस्सिता अल्लीना उपगता, तं अनिस्सज्जित्वा ठिताति अत्थो. दिट्ठियोपि हि दिट्ठिगतिकानं अभिनिवेसाकारानं निस्सया होन्ति.
सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति. एकेति एकच्चे. समणब्राह्मणाति पब्बज्जूपगमेन समणा, जातिया ब्राह्मणा, लोकेन वा समणाति च ब्राह्मणाति च एवं गहिता. एवंवादिनोति एवं इदानि वत्तब्बाकारेन वदन्तीति एवंवादिनो. एवं इदानि वत्तब्बाकारेन पवत्ता दिट्ठि एतेसन्ति एवंदिट्ठिनो. तत्थ दुतियेन दिट्ठिगतिकानं मिच्छाभिनिवेसो दस्सितो, पठमेन तेसं यथाभिनिवेसं परेसं तत्थ पतिट्ठापनवसेन वोहारो.
सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति एत्थ लोकोति अत्ता. सो हि दिट्ठिगतिकेहि लोकियन्ति एत्थ पुञ्ञं पापं तब्बिपाका, सयं वा कारकादिभावेन अभियुत्तेहि लोकियतीति लोकोति अधिप्पेतो. स्वायं सस्सतो अमरो निच्चो धुवोति यदिदं अम्हाकं दस्सनं इदमेव सच्चं अविपरीतं, अञ्ञं पन असस्सतोतिआदि परेसं दस्सनं मोघं मिच्छाति अत्थो. एतेन चत्तारोपि सस्सतवादा दस्सिता होन्ति. असस्सतोति न सस्सतो, अनिच्चो अधुवो चवनधम्मोति अत्थो. ‘‘असस्सतो’’ति सस्सतभावप्पटिक्खेपेनेव उच्छेदो दीपितोति सत्तपि उच्छेदवादा दीपिता होन्ति.
अन्तवाति सपरियन्तो परिवटुमो परिच्छिन्नप्पमाणो, न सब्बगतोति अत्थो. एतेन सरीरपरिमाणो अङ्गुट्ठपरिमाणो अवयवपरिमाणो परमाणुपरिमाणो अत्ताति एवमादिवादा दस्सिता होन्ति. अनन्तवाति अपरियन्तो, सब्बगतोति अत्थो. एतेन कपिलकणादादिवादा दीपिता होन्ति.
तं जीवं तं सरीरन्ति यं सरीरं, तदेव जीवसङ्खातं वत्थु, यञ्च जीवसङ्खातं वत्थु, तदेव सरीरन्ति जीवञ्च सरीरञ्च अद्वयं समनुपस्सति. एतेन आजीवकानं विय ‘‘रूपी अत्ता’’ति अयं वादो दस्सितो होति. अञ्ञं जीवं अञ्ञं सरीरन्ति इमिना पन ‘‘अरूपी अत्ता’’ति अयं वादो दस्सितो.
होति तथागतो परं मरणाति एत्थ तथागतोति सत्तो. तञ्हि दिट्ठिगतिको कारकवेदकादिसङ्खातं, निच्चधुवादिसङ्खातं वा तथाभावं गतोति तथागतोति वोहरति, सो मरणतो इधकायस्स भेदतो परं उद्धं होति, अत्थि संविज्जतीति अत्थो. एतेन सस्सतग्गाहमुखेन सोळस सञ्ञीवादा अट्ठ असञ्ञीवादा अट्ठ च नेवसञ्ञीनासञ्ञीवादा दस्सिता होन्ति. न होतीति नत्थि न उपलब्भति. एतेन उच्छेदवादो दस्सितो. होति च न च होतीति अत्थि च नत्थि चाति. एतेन एकच्चसस्सतवादा सत्त सञ्ञीवादा च दस्सिता. नेव होति न न होतीति इमिना पन अमराविक्खेपवादो दस्सितोति वेदितब्बं.
इमे किर दिट्ठिगतिका नानादेसतो आगन्त्वा सावत्थियं पटिवसन्ता एकदा समयप्पवादके सन्निपतित्वा अत्तनो अत्तनो वादं पग्गय्ह अञ्ञवादे खुंसेन्ता विवादापन्ना अहेसुं. तेन वुत्तं ‘‘ते भण्डनजाता’’तिआदि.
तत्थ भण्डनं नाम कलहस्स पुब्बभागो. भण्डनजाताति जातभण्डना. कलहोति कलहो एव, कलस्स वा हननतो कलहो दट्ठब्बो. अञ्ञमञ्ञस्स विरुद्धवादं आपन्नाति विवादापन्ना. मम्मघट्टनतो मुखमेव सत्तीति मुखसत्ति, फरुसवाचा. फलूपचारेन विय हि कारणं कारणूपचारेन फलम्पि वोहरियति यथा तं ‘‘सुखो बुद्धुप्पादो, पापकम्मं पच्चनुभोती’’ति च. ताहि मुखसत्तीहि वितुदन्ता विज्झन्ता विहरन्ति. एदिसो धम्मोति धम्मो अविपरीतसभावो एदिसो एवरूपो, यथा मया वुत्तं ‘‘सस्सतो लोको’’ति. नेदिसो धम्मोति न एदिसो धम्मो, यथा तया वुत्तं ‘‘असस्सतो लोको’’ति, एवं सेसपदेहिपि योजेतब्बं. सो च तित्थियानं विवादो सकलनगरे पाकटो जातो. अथ भिक्खू सावत्थिं पिण्डाय पविट्ठा तं सुत्वा ‘‘अत्थि नो इदं कथापाभतं, यं नून मयं इमं पवत्तिं भगवतो आरोचेय्याम, अप्पेव नाम तं निस्साय सत्थु सण्हसुखुमं धम्मदेसनं लभेय्यामा’’ति ते पच्छाभत्तं धम्मदेसनाकाले भगवतो एतमत्थं आरोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.
तं सुत्वा भगवा अञ्ञतित्थियानं धम्मस्स अयथाभूतपजाननं पकासेन्तो ‘‘अञ्ञतित्थिया, भिक्खवे’’तिआदिमाह. तत्थ अन्धाति पञ्ञाचक्खुविरहेन अन्धा. तेनाह ‘‘अचक्खुका’’ति. पञ्ञा हि इध ‘‘चक्खू’’ति अधिप्पेता. तथा हि वुत्तं ‘‘अत्थं न जानन्ती’’तिआदि. तत्थ अत्थं न जानन्तीति इधलोकत्थं परलोकत्थं न जानन्ति, इधलोकपरलोकेसु वुद्धिं अब्भुदयं नावबुज्झन्ति, परमत्थे पन निब्बाने कथावका. ये हि नाम पवत्तिमत्तेपि सम्मूळ्हा, ते कथं निवत्तिं जानिस्सन्तीति. अनत्थं न जानन्तीति यदग्गेन ते अत्थं न जानन्ति, तदग्गेन अनत्थम्पि न जानन्ति. यस्मा धम्मं न जानन्ति, तस्मा अधम्मम्पि न जानन्ति. ते हि विपरियेसग्गाहिताय धम्मं कुसलम्पि अकुसलं करोन्ति, अधम्मम्पि अकुसलं कुसलं करोन्ति. न केवलञ्च धम्माधम्मेसु एव, अथ खो तस्स विपाकेसुपि सम्मूळ्हा. तथा हि ते कम्मम्पि विपाकं कत्वा वोहरन्ति, विपाकम्पि कम्मं कत्वा. तथा धम्मं सभावधम्मम्पि न जानन्ति, अधम्मं असभावधम्मम्पि न जानन्ति. एवंभूता च सभावधम्मं असभावधम्मञ्च, असभावधम्मं सभावधम्मञ्च कत्वा पवेदेन्ति.
इति भगवा तित्थियानं मोहदिट्ठिपटिलाभभावेन पञ्ञाचक्खुवेकल्लतो अन्धभावं दस्सेत्वा इदानि तमत्थं जच्चन्धूपमाय पकासेतुं ‘‘भूतपुब्बं, भिक्खवे’’तिआदिमाह. तत्थ भूतपुब्बन्ति पुब्बे भूतं, अतीतकाले निब्बत्तं. अञ्ञतरो राजा अहोसीति पुरातनो नामगोत्तेहि लोके अपाकटो एको राजा अहोसि. सो राजा अञ्ञतरं पुरिसं आमन्तेसीति तस्स किर रञ्ञो सोभग्गप्पत्तं सब्बङ्गसम्पन्नं अत्तनो ओपवय्हं हत्थिं उपट्ठानं आगतं दिस्वा एतदहोसि – ‘‘भद्दकं वत, भो, हत्थियानं दस्सनीय’’न्ति. तेन च समयेन एको जच्चन्धो राजङ्गणेन गच्छति. तं दिस्वा राजा चिन्तेसि – ‘‘महाजानिया खो इमे अन्धा ये एवरूपं दस्सनीयं न लभन्ति दट्ठुं. यंनूनाहं इमिस्सा सावत्थिया यत्तका जच्चन्धा सब्बे ते सन्निपातापेत्वा एकदेसं एकदेसं हत्थेन फुसापेत्वा तेसं वचनं सुणेय्य’’न्ति. केळिसीलो राजा एकेन पुरिसेन सावत्थिया सब्बे जच्चन्धे सन्निपातापेत्वा तस्स पुरिसस्स सञ्ञं अदासि ‘‘यथा एकेको जच्चन्धो सीसादिकं एकेकंयेव हत्थिस्स अङ्गं फुसित्वा ‘हत्थी मया दिट्ठो’ति सञ्ञं उप्पादेसि, तथा करोही’’ति. सो पुरिसो तथा अकासि. अथ राजा ते जच्चन्धे पच्चेकं पुच्छि ‘‘कीदिसो, भणे, हत्थी’’ति. ते अत्तना दिट्ठदिट्ठावयवमेव हत्थिं कत्वा वदन्ता ‘‘एदिसो हत्थी, नेदिसो हत्थी’’ति अञ्ञमञ्ञं कलहं करोन्ता हत्थादीहि उपक्कमित्वा राजङ्गणे महन्तं कोलाहलं अकंसु. राजा सपरिजनो तेसं तं विप्पकारं दिस्वा फासुकेहि भिज्जमानेहि हदयेन उग्गतेन महाहसितं हसि. तेन वुत्तं – ‘‘अथ खो, भिक्खवे, सो राजा…पे… अत्तमनो अहोसी’’ति.
तत्थ अम्भोति आलपनं. यावतकाति यत्तका. जच्चन्धाति जातिया अन्धा, जातितो पट्ठाय अचक्खुका. एकज्झन्ति एकतो. भणेति अबहुमानालापो. हत्थिं दस्सेहीति यथावुत्तं हत्थिं सयापेत्वा दस्सेहि. सो च सुसिक्खितत्ता अपरिप्फन्दन्तो निपज्जि. दिट्ठो नो हत्थीति हत्थेन परामसनं दस्सनं कत्वा आहंसु. तेन पुरिसेन सीसं परामसापेत्वा ‘‘एदिसो हत्थी’’ति सञ्ञापितत्ता तादिसंयेव नं हत्थिं सञ्जानन्ता जच्चन्धा ‘‘एदिसो देव हत्थी सेय्यथापि कुम्भो’’ति वदिंसु. कुम्भोति च घटोति अत्थो. खीलोति नागदन्तखीलो. सोण्डोति हत्थो. नङ्गलीसाति नङ्गलस्स सिरस्स ईसा. कायोति सरीरं. कोट्ठोति कुसूलो. पादोति जङ्घो. थूणोति थम्भो. नङ्गुट्ठन्ति वाळस्स उरिमप्पदेसो. वालधीति वालस्स अग्गप्पदेसो. मुट्ठीहि संसुम्भिंसूति मुट्ठियो बन्धित्वा पहरिंसु, मुट्ठिघातं अकंसु. अत्तमनो अहोसीति केळिसीलत्ता सो राजा तेन जच्चन्धानं कलहेन अत्तमनो पहासेन गहितमनो अहोसि.
एवमेव खोति उपमासंसन्दनं. तस्सत्थो – भिक्खवे, यथा ते जच्चन्धा अचक्खुका एकङ्गदस्सिनो अनवसेसतो हत्थिं अपस्सित्वा अत्तना दिट्ठावयवमत्तं हत्थिसञ्ञाय इतरेहि दिट्ठं अननुजानन्ता अञ्ञमञ्ञं विवादं आपन्ना कलहं अकंसु, एवमेव इमे अञ्ञतित्थिया सक्कायस्स एकदेसं रूपवेदनादिं अत्तनो दिट्ठिदस्सनेन यथादिट्ठं ‘‘अत्ता’’ति मञ्ञमाना तस्स सस्सतादिभावं आरोपेत्वा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसित्वा अञ्ञमञ्ञं विवदन्ति, यथाभूतं पन अत्थानत्थं धम्माधम्मञ्च न जानन्ति. तस्मा अन्धा अचक्खुका जच्चन्धपटिभागाति.
एतमत्थं विदित्वाति एतं तित्थियानं धम्मसभावं यथाभूतं अजानन्तानं अपस्सन्तानं जच्चन्धानं विय हत्थिम्हि यथादस्सनं मिच्छाभिनिवेसं, तत्थ च विवादापत्तिं सब्बाकारतो विदित्वा तदत्थदीपकं इमं उदानं उदानेसि.
तत्थ इमेसु किर सज्जन्ति, एके समणब्राह्मणाति इधेकच्चे पब्बज्जूपगमनेन समणा, जातिमत्तेन ब्राह्मणा ‘‘सस्सतो लोको’’तिआदिनयप्पवत्तेसु इमेसु एव असारेसु दिट्ठिगतेसु दिट्ठाभिनन्दनवसेन, इमेसु वा रूपादीसु उपादानक्खन्धेसु एवं अनिच्चेसु दुक्खेसु विपरिणामधम्मेसु तण्हाभिनन्दनदिट्ठाभिनन्दनानं वसेन ‘‘एतं ममा’’तिआदिना सज्जन्ति किर. अहो नेसं सम्मोहोति दस्सेति. किरसद्दो चेत्थ अरुचिसूचनत्थो. तेन तत्थ सङ्गकारणाभावमेव दीपेति. न केवलं सज्जन्ति एव, अथ खो विग्गय्ह नं विवदन्ति ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामी’’तिआदिना विग्गाहिककथानुयोगवसेन विग्गय्ह विवदन्ति विवादं आपज्जन्ति. नन्ति चेत्थ निपातमत्तं. अथ वा विग्गय्ह नन्ति नं दिट्ठिनिस्सयं सक्कायदिट्ठिमेव वा विपरीतदस्सनत्ता सस्सतादिवसेन अञ्ञमञ्ञं विरुद्धं गहेत्वा विवदन्ति विसेसतो वदन्ति, अत्तनो एव वादं विसिट्ठं अविपरीतं कत्वा अभिनिविस्स वोहरन्ति. यथा किं? जना एकङ्गदस्सिनो यथेव जच्चन्धजना हत्थिस्स एकेकङ्गदस्सिनो ‘‘यं यं अत्तना फुसित्वा ञातं, तं तदेव हत्थी’’ति गहेत्वा अञ्ञमञ्ञं विग्गय्ह विवदिंसु, एवंसम्पदमिदन्ति अत्थो. इवसद्दो चेत्थ लुत्तनिद्दिट्ठोति वेदितब्बो.
चतुत्थसुत्तवण्णना निट्ठिता.