१. आयुसङ्खारोस्सज्जनसुत्तवण्णना

५१. जच्चन्धवग्गस्स पठमे वेसालियन्तिआदि हेट्ठा वुत्तत्थमेव. वेसालिं पिण्डाय पाविसीति कदा पाविसि? उक्काचेलतो निक्खमित्वा वेसालिं गतकाले. भगवा हि वेळुवगामके वस्सं वसित्वा ततो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवने विहासि. तस्मिं काले धम्मसेनापति अत्तनो आयुसङ्खारं ओलोकेत्वा ‘‘सत्ताहमेव पवत्तिस्सती’’ति ञत्वा भगवन्तं अनुजानापेत्वा नाळकगामं गन्त्वा तत्थ मातरं सोतापत्तिफले पतिट्ठापेत्वा परिनिब्बायि. सत्था चुन्देन आभता तस्स धातुयो गहेत्वा धातुचेतियं कारापेत्वा महाभिक्खुसङ्घपरिवुतो राजगहं अगमासि. तत्थ गतकाले आयस्मा महामोग्गल्लानो परिनिब्बायि. भगवा तस्सपि धातुयो गहेत्वा चेतियं कारापेत्वा राजगहतो निक्खमित्वा अनुपुब्बेन उक्काचेलं अगमासि. तत्थ गङ्गातीरे भिक्खुसङ्घपरिवुतो निसीदित्वा अग्गसावकानं परिनिब्बानप्पटिसंयुत्तं धम्मं देसेत्वा उक्काचेलतो निक्खमित्वा वेसालिं अगमासि. एवं गतो भगवा ‘‘पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसी’’ति वुच्चति. तेन वुत्तं – ‘‘उक्काचेलतो निक्खमित्वा वेसालिं गतकाले’’ति.

निसीदनन्ति इध चम्मक्खण्डं अधिप्पेतं. चापालं चेतियन्ति पुब्बे चापालस्स नाम यक्खस्स वसितट्ठानं ‘‘चापालचेतिय’’न्ति पञ्ञायित्थ. तत्थ भगवतो कतविहारोपि ताय रुळ्हिया ‘‘चापालचेतिय’’न्ति वुच्चति. उदेनं चेतियन्ति एवमादीसुपि एसेव नयो. सत्तम्बन्ति किकिस्स किर कासिरञ्ञो धीतरो सत्त कुमारियो संवेगजाता राजगेहतो निक्खमित्वा यत्थ पधानं पदहिंसु, तं ठानं ‘‘सत्तम्बं चेतिय’’न्ति वदन्ति. बहुपुत्तन्ति बहुपारोहो एको निग्रोधरुक्खो, तस्मिं अधिवत्थं देवतं बहू मनुस्सा पुत्ते पत्थेन्ति, तदुपादाय तं ठानं ‘‘बहुपुत्तं चेतिय’’न्ति पञ्ञायित्थ. सारन्ददन्ति सारन्ददस्स नाम यक्खस्स वसितट्ठानं. इति सब्बानेव तानि बुद्धुप्पादतो पुब्बे देवतापरिग्गहितत्ता चेतियवोहारेन वोहरितानि, भगवतो विहारे कतेपि च तथेव पञ्ञायन्ति. रमणीयाति एत्थ वेसालिया ताव भूमिभागसम्पत्तिया पुग्गलसम्पत्तिया सुलभपच्चयताय च रमणीयभावो वेदितब्बो. विहारानं पन नगरतो नातिदूरताय नाच्चासन्नताय गमनागमनसम्पत्तिया अनाकिण्णविहारट्ठानताय छायूदकसम्पत्तिया पविवेकपतिरूपताय च रमणीयता दट्ठब्बा. चत्तारो इद्धिपादाति एत्थ इद्धिपादपदस्स अत्थो हेट्ठा वुत्तोयेव. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा, अतिविय सम्मा निप्फादिताति.

एवं अनियमेन कथेत्वा पुन नियमेत्वा दस्सेतुं, ‘‘तथागतस्स खो’’तिआदिमाह. एत्थ च कप्पन्ति आयुकप्पं. तिट्ठेय्याति तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं कत्वा तिट्ठेय्य धरेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो वा’’ति (दी. नि. २.७; अ. नि. ७.७४) वुत्तं वस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह – ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि. यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकं वेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा विक्खम्भेन्तो इमं भद्दकप्पमेव तिट्ठेय्या’’ति. कस्मा पन न ठितोति? उपादिन्नकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा च पन खण्डिच्चादिभावं अप्पत्वा पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु अग्गसावकमहासावकेसु परिनिब्बुतेसु अपरिवारेन एककेनेव ठातब्बं होति, दहरसामणेरपरिवारेन वा. ततो ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति. एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथाय नियमितं.

ओळारिके निमित्तेति थूले सञ्ञुप्पादने. थूलसञ्ञुप्पादनञ्हेतं, ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय यदिदं ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थताविभावनं. ओभासेति पाकटवचने. पाकटञ्चेतं वचनं परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं.

बहुजनहितायाति महाजनस्स हितत्थाय. बहुजनसुखायाति महाजनस्स सुखत्थाय. लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च. कतरस्स सत्तलोकस्स? यो भगवतो धम्मदेसनं सुत्वा पटिविज्झति, अमतपानं पिवति, तस्स. भगवतो हि धम्मचक्कप्पवत्तनसुत्तदेसनाय अञ्ञातकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मं पटिविज्झिंसु. एवं याव सुभद्दपरिब्बाजकविनयना धम्मपटिविद्धसत्तानं गणना नत्थि, महासमयसुत्तं मङ्गलसुत्तं चूळराहुलोवादसुत्तं समचित्तसुत्तन्ति इमेसं चतुन्नं सुत्तानं देसनाकाले अभिसमयप्पत्तसत्तानं परिच्छेदो नत्थि, एतस्स अपरिमाणस्स सत्तलोकस्स अनुकम्पाय भगवतो ठानं जातं. एवं अनागतेपि भविस्सतीति अधिप्पायेन वदति. देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखाय भगवतो ठानं होति. सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बपुग्गले दस्सेतुं एवं वुत्तं, तस्मा अञ्ञेसम्पि अत्थत्थाय हितत्थाय सुखत्थाय भगवा तिट्ठतूति अत्थो. तत्थ अत्थायाति इधलोकसम्पत्तिअत्थाय. हितायाति परलोकसम्पत्तिहेतुभूतहितत्थाय. सुखायाति निब्बानधातुसुखत्थाय. पुरिमं पन हितसुखग्गहणं सब्बसाधारणवसेन वेदितब्बं.

यथा तं मारेन परियुट्ठितचित्तोति एत्थ न्ति निपातमत्तं, यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स केचि विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. यस्स पन सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स वत्तब्बमेव नत्थि, थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति. तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञिनो हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखेन हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेति. तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि. जानन्तोयेव भगवा किमत्थं यावततियं आमन्तेसि? परतो ‘‘तिट्ठतु, भन्ते भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थं. पस्सति हि भगवा ‘‘अयं मयि अतिविय सिनिद्धहदयो, सो परतो भूमिचालकारणञ्च आयुसङ्खारोस्सज्जनञ्च सुत्वा मम चिरट्ठानं याचिस्सति, अथाहं ‘किस्स त्वं पुरेतरं न याचसी’ति तस्सेव सीसे दोसं पातेस्सामि, सत्ता च अत्तनो अपराधेन न तथा विहञ्ञन्ति, तेनस्स सोको तनुको भविस्सती’’ति.

गच्छ त्वं, आनन्दाति यस्मा दिवाविहारत्थाय इधागतो, तस्मा, आनन्द, गच्छ त्वं यथारुचितं ठानं दिवाविहाराय. तेनेवाह – ‘‘यस्स दानि कालं मञ्ञसी’’ति.

मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मेन समन्नागतत्ता ‘पापिमा’ति वुच्चति. भासिता खो पनेसाति अयञ्हि भगवति बोधिमण्डे सत्त सत्ताहे अतिक्कमित्वा अजपालनिग्रोधे विहरन्ते अत्तनो धीतासु आगन्त्वा इच्छाविघातं पत्वा गतासु अयं ‘‘अत्थेसो उपायो’’ति चिन्तेन्तो आगन्त्वा ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं ते लोकविचरणेना’’ति वत्वा यथा अज्ज एवमेव ‘‘परिनिब्बातु दानि, भन्ते भगवा’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय इदानि ‘‘भासिता खो पनेसा’’तिआदिमाह.

तत्थ वियत्ताति अरियमग्गाधिगमवसेन ब्यत्ता. विनीताति तथेव किलेसविनयनेन विनीता. विसारदाति सारज्जकरानं दिट्ठिविचिकिच्छादीनं पहानेन विसारदभावं पत्ता. बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता. तमेव धम्मं धारेन्तीति धम्मधरा. अथ वा बहुस्सुताति परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च. धम्मधराति परियत्तिधम्मानं चेव पटिवेधधम्मानञ्च धारणतो धम्मधराति एवम्पेत्थ अत्थो वेदितब्बो. धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति ञाणदस्सनविसुद्धिया अनुच्छविकं विसुद्धिपरम्परापटिपदं पटिपन्ना. अनुधम्मचारिनोति सल्लेखिकं तस्सा पटिपदाय अनुरूपं अप्पिच्छतादिधम्मं चरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो. देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा वाचेस्सन्तीति अत्थो. पञ्ञपेस्सन्तीति पजानापेस्सन्ति, पकासेस्सन्तीति अत्थो. पट्ठपेस्सन्तीति पकारेन ठपेस्सन्ति. विवरिस्सन्तीति विवटं करिस्सन्ति. विभजिस्सन्तीति विभत्तं करिस्सन्ति. उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति यावनिय्यानिकं कत्वा. धम्मं देसेस्सन्तीति नवविधलोकुत्तरधम्मं पबोधेस्सन्ति, पकासेस्सन्तीति अत्थो.

एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानीति. एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति. वुत्तञ्हेतं नेत्तियं ‘‘द्वादसपदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति (नेत्ति. सङ्गहवार).

ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानुप्पादवसेन. फीतन्ति वुद्धिप्पत्तं सब्बफालिफुल्लं अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठहनवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं बहुजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारवसेन पुथुलभावप्पत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितन्ति यत्तका विञ्ञुजातिका देवा मनुस्सा च अत्थि, तेहि सब्बेहि सुट्ठु पकासितन्ति अत्थो.

अप्पोस्सुक्कोति निरुस्सुक्को लीनवीरियो. ‘‘त्वञ्हि, पापिम, सत्तसत्ताहातिक्कमनतो पट्ठाय ‘परिनिब्बातु दानि, भन्ते भगवा, परिनिब्बातु सुगतो’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थाय वायामं करोही’’ति वदति. सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सजि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन समापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं – ‘‘ओस्सजी’’ति, ‘‘वोस्सज्जी’’तिपि पाठो.

कस्मा पन भगवा कप्पं वा कप्पावसेसं वा ठातुं समत्थो तत्तकं कालं अट्ठत्वा परिनिब्बायितुं मारस्स याचनाय आयुसङ्खारं ओस्सजि? न भगवा मारस्स याचनाय आयुसङ्खारं ओस्सजि, नापि थेरस्स आयाचनाय न ओस्सजिस्सति, तेमासतो पन परं बुद्धवेनेय्यानं अभावतो आयुसङ्खारं ओस्सजि. ठानञ्हि नाम बुद्धानं भगवन्तानं यावदेव वेनेय्यविनयनत्थं, ते असति विनेय्यजने केन नाम कारणेन ठस्सन्ति. यदि च मारस्स याचनाय परिनिब्बायेय्य, पुरेतरंयेव परिनिब्बायेय्य. बोधिमण्डेपि हि मारेन याचितं, निमित्तोभासकरणम्पि थेरस्स सोकतनुकरणत्थन्ति वुत्तोवायमत्थो. अपिच बुद्धबलदीपनत्थं निमित्तोभासकरणं. एवं महानुभावा बुद्धा भगवन्तोयेव तिट्ठन्तापि अत्तनो रुचियाव तिट्ठन्ति, परिनिब्बायन्तापि अत्तनो रुचियाव परिनिब्बायन्तीति.

महाभूमिचालोति महन्तो पथवीकम्पो. तदा किर दससहस्सिलोकधातु अकम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो नदिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.

एतमत्थं विदित्वाति एतं सङ्खारविसङ्खारानं विसेससङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति अनवसेससङ्खारे विस्सज्जेत्वा अत्तनो विसङ्खारगमनदीपकं उदानं उदानेसि. कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘मारेन पच्छतो पच्छतो अनुबन्धित्वा ‘परिनिब्बातु, भन्ते’ति उपद्दुतो भयेन भगवा आयुसङ्खारं ओस्सजी’’ति. ‘‘तस्सोकासो मा होतु, भीतस्स उदानं नाम नत्थी’’ति एतस्स दीपनत्थं पीतिवेगविस्सट्ठं उदानं उदानेसीति अट्ठकथासु वुत्तं. ततो तेमासमत्तेनेव च पन बुद्धकिच्चस्स निप्फज्जनतो एवं दीघरत्तं मया परिहटोयं दुक्खभारो न चिरस्सेव निक्खिपियतीति पस्सतो परिनिब्बानगुणपच्चवेक्खणे तस्स उळारं पीतिसोमनस्सं उप्पज्जि, तेन पीतिवेगेन उदानेसीति युत्तं विय. एकन्तेन हि विसङ्खारनिन्नो निब्बानज्झासयो सत्था महाकरुणाय बलक्कारेन विय सत्तहितत्थं लोके सुचिरं ठितो. तथा हि देवसिकं चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो वळञ्जेति, सोदानि महाकरुणाधिकारस्स निप्फन्नत्ता निब्बानाभिमुखो अनप्पकं पीतिसोमनस्सं पटिसंवेदेसि. तेनेव हि भगवतो किलेसपरिनिब्बानदिवसे विय खन्धपरिनिब्बानदिवसेपि सरीराभा विसेसतो विप्पसन्ना परिसुद्धा पभस्सरा अहोसीति.

गाथाय सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं, कामावचरकम्मं. न तुलं अतुलं, तुलं वा सदिसमस्स अञ्ञं लोकियकम्मं नत्थीति अतुलं, महग्गतकम्मं. कामावचरं रूपावचरं वा तुलं, अरूपावचरं अतुलं. अप्पविपाकं वा तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवस्स हेतुभूतं, उपपत्तिजनकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवसङ्खारणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति ‘‘सविपाकट्ठेन सम्भवं, भवाभवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दी’’ति.

अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च. भवसङ्खारन्ति भवगामिकं कम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलेन्तो बुद्धमुनि भवे आदीनवं, निब्बाने च आनिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारकम्मं ‘‘कम्मक्खयाय संवत्तती’’ति (म. नि. २.८१; अ. नि. ४.२३३) एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचं विय अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बं किलेसजालं अभिन्दि, किलेसाभावेनेव कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं पजहि. इति बोधिमूलेयेव अवस्सट्ठभवसङ्खारो भगवा वेखमिस्सकेन विय जरसकटं समापत्तिवेखमिस्सकेन अत्तभावं यापेन्तोपि ‘‘इतो तेमासतो उद्धं समापत्तिवेखमस्स न दस्सामी’’ति चित्तुप्पादनेन आयुसङ्खारं ओस्सजीति.

पठमसुत्तवण्णना निट्ठिता.