१. पियतरसुत्तवण्णना

४१. महावग्गस्स पठमे मल्लिकाय देविया सद्धिन्ति मल्लिकाय नाम अत्तनो महेसिया सह. उपरिपासादवरगतोति पासादवरस्स उपरि गतो. कोचञ्ञो अत्तना पियतरोति कोचि अञ्ञो अत्तना पियायितब्बतरो. अत्थि नु खो तेति ‘‘किं ते अत्थी’’ति देविं पुच्छति.

कस्मा पुच्छति? अयञ्हि सावत्थियं दुग्गतमालाकारस्स धीता. एकदिवसं आपणतो पूवं गहेत्वा मालारामं गन्त्वा ‘‘खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवुतं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था तथारूपे ठाने निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘को इमिस्सा, भन्ते, दानस्स विपाको भविस्सती’’ति पुच्छि. ‘‘अज्जेसा, आनन्द, तथागतस्स पठमं भोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सति पिया मनापा’’ति. तं दिवसमेव च राजा कासिगामे भागिनेय्येन सद्धिं युज्झित्वा पराजितो पलायित्वा आगतो नगरं पविसन्तो ‘‘बलकायस्स आगमनं आगमेस्सामी’’ति तं मालारामं पाविसि. सा राजानं आगतं पस्सित्वा तस्स वत्तमकासि. राजा तस्सा वत्ते पसीदित्वा पितरं पक्कोसापेत्वा महन्तं इस्सरियं दत्वा तं अन्तेपुरं पटिहरापेत्वा अग्गमहेसिट्ठाने ठपेसि. अथेकदिवसं राजा चिन्तेसि – ‘‘मया इमिस्सा महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा, पुन मं पुच्छिस्सति, अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं करोन्तो पुच्छि.

देवी पन पण्डिता बुद्धुपट्ठायिका सङ्घुपट्ठायिका ‘‘नायं पञ्हो रञ्ञो मुखं उल्लोकेत्वा कथेतब्बो’’ति चिन्तेत्वा यथाभूतमेव वदन्ती ‘‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो’’ति आह. वत्वापि अत्तना ब्याकतमत्थं उपायेन रञ्ञो पच्चक्खं कातुकामा ‘‘तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’’ति तथेव राजानं पुच्छि यथा रञ्ञा सयं पुट्ठा. राजापि ताय सरसलक्खणेन कथितत्ता निवत्तितुं असक्कोन्तो सयम्पि सरसलक्खणेनेव कथेन्तो तथेव ब्याकासि यथा देविया ब्याकतं.

ब्याकरित्वा च मन्दधातुकताय एवं चिन्तेसि – ‘‘अहं राजा पथविस्सरो महन्तं पथविमण्डलं अभिविजिय अज्झावसामि, मय्हं ताव युत्तं ‘अत्तना पियतरं अञ्ञं न पस्सामी’ति, अयं पन वसली हीनजच्चा समाना मया उच्चे ठाने ठपिता सामिभूतं मं न तथा पियायति, ‘अत्ताव पियतरो’ति मम सम्मुखा वदति, याव कक्खळा वताय’’न्ति अनत्तमनो हुत्वा ‘‘ननु ते तीणि रतनानि पियतरानी’’ति चोदेसि. देवी ‘रतनत्तयंपाहं देव अत्तनो सग्गसुखं मोक्खसुखञ्च पत्थयन्ती सम्पियायामि, तस्मा अत्ताव मे पियतरो’’ति आह. सब्बो चायं लोको अत्तदत्थमेव परं पियायति, पुत्तं पत्थेन्तोपि ‘‘अयं मं जिण्णकाले पोसेस्सती’’ति पत्थेति, धीतरं ‘‘मम कुलं वड्ढिस्सती’’ति, भरियं ‘‘मय्हं पादे परिचरिस्सती’’ति, अञ्ञेपि ञातिमित्तबन्धवे तंतंकिच्चवसेन, इति अत्तदत्थमेव सम्पस्सन्तो लोको परं पियायतीति. अयञ्हि देविया अधिप्पायो.

अथ राजा चिन्तेसि – ‘‘अयं मल्लिका कुसला पण्डिता निपुणा ‘अत्ताव मे पियतरो’ति वदति, मय्हम्पि अत्ताव पियतरो हुत्वा उपट्ठाति, हन्दाहं इममत्थं सत्थु आरोचेस्सामि, यथा च मे सत्था ब्याकरिस्सति, तथा नं धारेस्सामी’’ति. एवं पन चिन्तेत्वा सत्थु सन्तिकं उपसङ्कमित्वा तमत्थं आरोचेसि. तेन वुत्तं – ‘‘अथ खो राजा पसेनदि कोसलो…पे… पियतरो’’ति.

एतमत्थं विदित्वाति एतं ‘‘लोके सब्बसत्तानं अत्ताव अत्तनो पियतरो’’ति रञ्ञा वुत्तमत्थं सब्बसो जानित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.

तत्थ सब्बा दिसा अनुपरिगम्म चेतसाति सब्बा अनवसेसा दसपि दिसा परियेसनवसेन चित्तेन अनुगन्त्वा. नेवज्झगा पियतरमत्तना क्वचीति अत्तना अतिसयेन पियं अञ्ञं कोचि पुरिसो सब्बुस्साहेन परियेसन्तो क्वचि कत्थचि सब्बदिसासु नेव अधिगच्छेय्य न पस्सेय्य. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचि अत्तना पियतरस्स अनुपलब्भनवसेन पुथु विसुं विसुं तेसं तेसं सत्तानं अत्ताव पियो. तस्मा न हिंसे परमत्तकामोति यस्मा एवं सब्बोपि सत्तो अत्तानं पियायति अत्तनो सुखकामो दुक्खप्पटिकूलो, तस्मा अत्तकामो अत्तनो हितसुखं इच्छन्तो परं सत्तं अन्तमसो कुन्थकिपिल्लिकं उपादाय न हिंसे न हनेय्य न पाणिलेड्डुदण्डादीहिपि विहेठेय्य. परस्स हि अत्तना कते दुक्खे तं ततो सङ्कमन्तं विय कालन्तरे अत्तनि सन्दिस्सति. अयञ्हि कम्मानं धम्मताति.

पठमसुत्तवण्णना निट्ठिता.