२. चालाथेरीगाथावण्णना

सतिं उपट्ठपेत्वानातिआदिका चालाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे मगधेसु नालकगामे रूपसारिब्राह्मणिया कुच्छिम्हि निब्बत्ति. तस्सा नामग्गहणदिवसे चालाति नामं अकंसु, तस्सा कनिट्ठाय उपचालाति, अथ तस्सा कनिट्ठाय सीसूपचालाति. इमा तिस्सोपि धम्मसेनापतिस्स कनिट्ठभगिनियो, इमासं पुत्तानम्पि तिण्णं इदमेव नामं. ये सन्धाय थेरगाथाय ‘‘चाले उपचाले सीसूपचाले’’ति (थेरगा. ४२) आगतं.

इमा पन तिस्सोपि भगिनियो ‘‘धम्मसेनापति पब्बजी’’ति सुत्वा ‘‘न हि नून सो ओरको धम्मविनयो, न सा ओरिका पब्बज्जा, यत्थ अम्हाकं अय्यो पब्बजितो’’ति उस्साहजाता तिब्बच्छन्दा अस्सुमुखं रुदमानं ञातिपरिजनं पहाय पब्बजिंसु. पब्बजित्वा च घटेन्तियो वायमन्तियो नचिरस्सेव अरहत्तं पापुणिंसु. अरहत्तं पन पत्वा निब्बानसुखेन फलसुखेन विहरन्ति.

तासु चाला भिक्खुनी एकदिवसं पच्छाभत्तं पिण्डपातपटिक्कन्ता अन्धवनं पविसित्वा दिवाविहारं निसीदि. अथ नं मारो उपसङ्कमित्वा कामेहि उपनेसि. यं सन्धाय सुत्ते वुत्तं –

‘‘अथ खो चाला भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं, तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा येन चाला भिक्खुनी, तेनुपसङ्कमि, उपसङ्कमित्वा चालं भिक्खुनिं एतदवोचा’’ति (सं. नि. १.१६७).

अन्धवनम्हि दिवाविहारं निसिन्नं मारो उपसङ्कमित्वा ब्रह्मचरियवासतो विच्छिन्दितुकामो ‘‘कं नु उद्दिस्स मुण्डासी’’तिआदिं पुच्छि. अथस्स सत्थु गुणे धम्मस्स च निय्यानिकभावं पकासेत्वा अत्तनो कतकिच्चभावविभावनेन तस्स विसयातिक्कमं पवेदेसि. तं सुत्वा मारो दुक्खी दुम्मनो तत्थेवन्तरधायि. अथ सा अत्तना मारेन च भासिता गाथा उदानवसेन कथेन्ती –

१८२. ‘‘सतिं उपट्ठपेत्वान, भिक्खुनी भावितिन्द्रिया;

पटिविज्झि पदं सन्तं, सङ्खारूपसमं सुखं.

१८३. ‘‘कं नु उद्दिस्स मुण्डासि, समणी विय दिस्सति;

न च रोचेसि पासण्डे, किमिदं चरसि मोमुहा.

१८४. ‘‘इतो बहिद्धा पासण्डा, दिट्ठियो उपनिस्सिता;

न ते धम्मं विजानन्ति, न ते धम्मस्स कोविदा.

१८५. ‘‘अत्थि सक्यकुले जातो, बुद्धो अप्पटिपुग्गलो;

सो मे धम्ममदेसेसि, दिट्ठीनं समतिक्कमं.

१८६. ‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१८७. ‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

१८८. ‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति. –

इमा गाथा अभासि.

तत्थ सतिं उपट्ठपेत्वानाति सतिपट्ठानभावनावसेन कायादीसु असुभदुक्खानिच्चानत्तवसेन सतिं सुट्ठु उपट्ठितं कत्वा. भिक्खुनीति अत्तानं सन्धाय वदति. भावितिन्द्रियाति अरियमग्गभावनाय भावितसद्धादिपञ्चिन्द्रिया. पटिविज्झि पदं सन्तन्ति सन्तं पदं निब्बानं सच्छिकिरियापटिवेधेन पटिविज्झि सच्छाकासि. सङ्खारूपसमन्ति सब्बसङ्खारानं उपसमहेतुभूतं. सुखन्ति अच्चन्तसुखं.

‘‘कं नु उद्दिस्सा’’ति गाथा मारेन वुत्ता. तत्रायं सङ्खेपत्थो – इमस्मिं लोके बहू समया तेसञ्च देसेतारो बहू एव तित्थकरा, तेसु कं नु खो त्वं उद्दिस्स मुण्डासि मुण्डितकेसा असि. न केवलं मुण्डाव, अथ खो कासावधारणेन च समणी विय दिस्सति. न च रोचेसि पासण्डेति तापसपरिब्बाजकादीनं आदासभूते पासण्डे ते ते समयन्तरे नेव रोचेसि. किमिदं चरसि मोमुहाति किं नामिदं, यं पासण्डविहितं उजुं निब्बानमग्गं पहाय अज्ज कालिकं कुमग्गं पटिपज्जन्ती अतिविय मूळ्हा चरसि परिब्भमसीति.

तं सुत्वा थेरी पटिवचनदानमुखेन तं तज्जेन्ती ‘‘इतो बहिद्धा’’तिआदिमाह. तत्थ इतो बहिद्धा पासण्डा नाम इतो सम्मासम्बुद्धस्स सासनतो बहिद्धा कुटीसकबहुकारादिका. ते हि सत्तानं तण्हापासं दिट्ठिपासञ्च डेन्ति ओड्डेन्तीति पासण्डाति वुच्चति. तेनाह – ‘‘दिट्ठियो उपनिस्सिता’’ति सस्सतदिट्ठिगतानि उपेच्च निस्सिता, दिट्ठिगतानि आदियिंसूति अत्थो. यदग्गेन च दिट्ठिसन्निस्सिता, तदग्गेन पासण्डसन्निस्सिता. न ते धम्मं विजानन्तीति ये पासण्डिनो सस्सतदिट्ठिगतसन्निस्सिता ‘‘अयं पवत्ति एवं पवत्तती’’ति पवत्तिधम्मम्पि यथाभूतं न विजानन्ति. न ते धम्मस्स कोविदाति ‘‘अयं निवत्ति एवं निवत्तती’’ति निवत्तिधम्मस्सापि अकुसला, पवत्तिधम्ममग्गेपि हि ते संमूळ्हा, किमङ्गं पन निवत्तिधम्मेति.

एवं पासण्डवादानं अनिय्यानिकतं दस्सेत्वा इदानि कं नु उद्दिस्स मुण्डासीति पञ्हं विस्सज्जेतुं ‘‘अत्थि सक्यकुले जातो’’तिआदि वुत्तं. तत्थ दिट्ठीनं समतिक्कमन्ति सब्बासं दिट्ठीनं समतिक्कमनुपायं दिट्ठिजालविनिवेठनं. सेसं वुत्तनयमेव.

चालाथेरीगाथावण्णना निट्ठिता.