५. पञ्चकनिपातो
१. अञ्ञतराथेरीगाथावण्णना
पञ्चकनिपाते पण्णवीसति वस्सानीतिआदिका अञ्ञतराय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इमस्मिं बुद्धुप्पादे देवदहनगरे महापजापतिगोतमिया धाती हुत्वा वड्ढेसि. नामगोत्ततो पन अपञ्ञाता अहोसि. सा महापजापतिगोतमिया पब्बजितकाले सयम्पि पब्बजित्वा पञ्चवीसति संवच्छरानि कामरागेन उपद्दुता अच्छरासङ्घातमत्तम्पि कालं चित्तेकग्गतं अलभन्ती बाहा पग्गय्ह कन्दमाना धम्मदिन्नाथेरिया सन्तिके धम्मं सुत्वा कामेहि विनिवत्तितमानसा कम्मट्ठानं गहेत्वा भावनमनुयञ्जन्ती न चिरस्सेव छळभिञ्ञा हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
६७. ‘‘पण्णवीसति वस्सानि, यतो पब्बजिता अहं;
नाच्छरासङ्घातमत्तम्पि, चित्तस्सूपसमज्झगं.
६८. ‘‘अलद्धा चेतसो सन्तिं, कामरागेनवस्सुता;
बाहा पग्गय्ह कन्दन्ती, विहारं पाविसिं अहं.
६९. ‘‘सा भिक्खुनिं उपागच्छिं, या मे सद्धायिका अहु;
सा मे धम्ममदेसेसि, खन्धायतनधातुयो.
७०. ‘‘तस्सा धम्मं सुणित्वान, एकमन्ते उपाविसिं;
पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं.
७१. ‘‘चेतोपरिच्चञाणञ्च, सोतधातु विसोधिता;
इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि.
तत्थ नाच्छरासङ्घातमत्तम्पीति अच्छराघटितमत्तम्पि खणं अङ्गुलिफोटनमत्तम्पि कालन्ति अत्थो. चित्तस्सूपसमज्झगन्ति चित्तस्स उपसमं चित्तेकग्गं न अज्झगन्ति योजना, न पटिलभिन्ति अत्थो.
कामरागेनवस्सुताति कामगुणसङ्खातेसु वत्थुकामेसु दळ्हतराभिनिवेसिताय बहलेन छन्दरागेन तिन्तचित्ता.
भिक्खुनिन्ति धम्मदिन्नत्थेरिं सन्धाय वदति.
चेतोपरिच्चञाणञ्चाति चेतोपरियञाणञ्च विसोधितन्ति सम्बन्धो, अधिगतन्ति अत्थो. सेसं वुत्तनयमेव.
अञ्ञतराथेरीगाथावण्णना निट्ठिता.
२. विमलाथेरीगाथावण्णना
मत्ता वण्णेन रूपेनातिआदिका विमलाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वेसालियं अञ्ञतराय रूपूपजीविनिया इत्थिया धीता हुत्वा निब्बत्ति. विमलातिस्सा नामं अहोसि. सा वयप्पत्ता तथेव जीविकं कप्पेन्ती एकदिवसं आयस्मन्तं महामोग्गल्लानं वेसालियं पिण्डाय चरन्तं दिस्वा पटिबद्धचित्ता हुत्वा थेरस्स वसनट्ठानं गन्त्वा थेरं उद्दिस्स पलोभनकम्मं कातुं आरभि. ‘‘तित्थियेहि उय्योजिता तथा अकासी’’ति केचि वदन्ति. थेरो तस्सा असुभविभावनमुखेन सन्तज्जनं कत्वा ओवादमदासि. तं हेट्ठा थेरगाथाय आगतमेव, तथा पन थेरेन ओवादे दिन्ने सा संवेगजाता हिरोत्तप्पं पच्चुपट्ठपेत्वा सासने पटिलद्धसद्धा उपासिका हुत्वा अपरभागे भिक्खुनीसु पब्बजित्वा घटेन्ती वायमन्ती हेतुसम्पन्नताय न चिरस्सेव अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
७२. ‘‘मत्ता वण्णेन रूपेन, सोभग्गेन यसेन च;
योब्बनेन चुपत्थद्धा, अञ्ञासमतिमञ्ञिहं.
७३. ‘‘विभूसेत्वा इमं कायं, सुचित्तं बाललापनं;
अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डिय.
७४. ‘‘पिळन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुं;
अकासिं विविधं मायं, उज्झग्घन्ती बहुं जनं.
७५. ‘‘साज्ज पिण्डं चरित्वान, मुण्डा सङ्घाटिपारुता;
निसिन्ना रुक्खमूलम्हि, अवितक्कस्स लाभिनी.
७६. ‘‘सब्बे योगा समुच्छिन्ना, ये दिब्बा ये च मानुसा;
खेपेत्वा आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति. –
इमा गाथा अभासि.
तत्थ मत्ता वण्णेन रूपेनाति गुणवण्णेन चेव रूपसम्पत्तिया च. सोभग्गेनाति सुभगभावेन. यसेनाति परिवारसम्पत्तिया. मत्ता वण्णमदरूपमदसोभग्गमदपरिवारमदवसेन मदं आपन्नाति अत्थो. योब्बनेन चुपत्थद्धाति योब्बनमदेन उपरूपरि थद्धा योब्बननिमित्तेन अहङ्कारेन उपत्थद्धचित्ता अनुपसन्तमानसा. अञ्ञासमतिमञ्ञिहन्ति अञ्ञा इत्थियो अत्तनो वण्णादिगुणेहि सब्बथापि अतिक्कमित्वा मञ्ञिं अहं. अञ्ञासं वा इत्थीनं वण्णादिगुणे अतिमञ्ञिं अतिक्कमित्वा अमञ्ञिं अवमानं अकासिं.
विभूसित्वा इमं कायं, सुचित्तं बाललापनन्ति इमं नानाविधअसुचिभरितं जेगुच्छं अहं ममाति बालानं लापनतो वाचनतो बाललापनं मम कायं छविरागकरणकेसट्ठपनादिना सुचित्तं वत्थाभरणेहि विभूसित्वा सुमण्डितपसादितं कत्वा. अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डियाति मिगलुद्दो विय मिगानं बन्धनत्थाय दण्डवाकुरादिमिगपासं, मारस्स पासभूतं यथावुत्तं मम कायं वेसिद्वारम्हि वेसिया घरद्वारे ओड्डियित्वा अट्ठासिं.
पिळन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुन्ति ऊरुजघनथनदस्सनादिकं गुय्हञ्चेव पादजाणुसिरादिकं पकासञ्चाति गुय्हं पकासिकञ्च बहुं नानप्पकारं पिळन्धनं आभरणं दस्सेन्ती. अकासिं विविधं मायं, उज्झग्घन्ती बहुं जनन्ति योब्बनमदमत्तं बहुं बालजनं विप्पलम्भेतुं हसन्ती गन्धमालावत्थाभरणादीहि सरीरसभावपटिच्छादनेन हसविलासभावादीहि तेहि च विविधं नानप्पकारं वञ्चनं अकासिं.
साज्ज पिण्डं चरित्वान…पे… अवितक्कस्स लाभिनीति सा अहं एवं पमादविहारिनी समाना अज्ज इदानि अय्यस्स महामोग्गल्लानत्थेरस्स ओवादे ठत्वा सासने पब्बजित्वा मुण्डा सङ्घाटिपारुता हुत्वा पिण्डं चरित्वान भिक्खाहारं भुञ्जित्वा निसिन्ना रुक्खमूलम्हि रुक्खमूले विवित्तासने निसिन्ना दुतियज्झानपादकस्स अग्गफलस्स अधिगमेन अवितक्कस्स लाभिनी अम्हीति योजना.
सब्बे योगाति कामयोगादयो चत्तारोपि योगा. समुच्छिन्नाति पठममग्गादिना यथारहं सम्मदेव उच्छिन्ना पहीना. सेसं वुत्तनयमेव.
विमलाथेरीगाथावण्णना निट्ठिता.
३. सीहाथेरीगाथावण्णना
अयोनिसो मनसिकारातिआदिका सीहाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वेसालियं सीहसेनापतिनो भगिनिया धीता हुत्वा निब्बत्ति. तस्सा ‘‘मातुलस्स नामं करोमा’’ति सीहाति नामं अकंसु. सा विञ्ञुतं पत्वा एकदिवसं सत्थारा सीहस्स सेनापतिनो धम्मे देसियमाने तं धम्मं सुत्वा पटिलद्धसद्धा मातापितरो अनुजानापेत्वा पब्बजि. पब्बजित्वा च विपस्सनं आरभित्वापि बहिद्धा पुथुत्तारम्मणे विधावन्तं चित्तं निवत्तेतुं असक्कोन्ती सत्त संवच्छरानि मिच्छावितक्केहि बाधीयमाना चित्तस्सादं अलभन्ती ‘‘किं मे इमिना पापजीवितेन, उब्बन्धित्वा मरिस्सामी’’ति पासं गहेत्वा रुक्खसाखायं लग्गित्वा तं अत्तनो कण्ठे पटिमुञ्चन्ती पुब्बाचिण्णवसेन विपस्सनाय चित्तं अभिनीहरि, अन्तिमभविकताय पासस्स बन्धनं गीवट्ठाने अहोसि, ञाणस्स परिपाकं गतत्ता सा तावदेव विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तं पत्तसमकालमेव च पासबन्धो गीवतो मुच्चित्वा विनिवत्ति. सा अरहत्ते पतिट्ठिता उदानवसेन –
७७. ‘‘अयोनिसो मनसिकारा, कामरागेन अट्टिता;
अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनी.
७८. ‘‘परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनी;
समं चित्तस्स न लभिं, रागचित्तवसानुगा.
७९. ‘‘किसा पण्डु विवण्णा च, सत्त वस्सानि चारिहं;
नाहं दिवा वा रत्तिं वा, सुखं विन्दिं सुदुक्खिता.
८०. ‘‘ततो रज्जुं गहेत्वान, पाविसिं वनमन्तरं;
वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे.
८१. ‘‘दळ्हपासं करित्वान, रुक्खसाखाय बन्धिय;
पक्खिपिं पासं गीवायं, अथ चित्तं विमुच्चि मे’’ति. –
इमा गाथा अभासि.
तत्थ अयोनिसो मनसिकाराति अनुपायमनसिकारेन, असुभे सुभन्ति विपल्लासग्गाहेन. कामरागेन अट्टिताति कामगुणेसु छन्दरागेन पीळिता. अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनीति पुब्बे मम चित्ते मय्हं वसे अवत्तमाने उद्धता नानारम्मणे विक्खित्तचित्ता असमाहिता अहोसिं.
परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनीति परियुट्ठानपत्तेहि कामरागादिकिलेसेहि अभिभूता रूपादीसु सुभन्ति पवत्ताय कामसञ्ञाय अनुवत्तनसीला. समं चित्तस्स न लभिं, रागचित्तवसानुगाति कामरागसम्पयुत्तचित्तस्स वसं अनुगच्छन्ती ईसकम्पि चित्तस्स समं चेतोसमथं चित्तेकग्गतं न लभिं.
किसा पण्डु विवण्णा चाति एवं उक्कण्ठितभावेन किसा धमनिसन्थतगत्ता उप्पण्डुप्पण्डुकजाता ततो एव विवण्णा विगतछविवण्णा च हुत्वा. सत्त वस्सानीति सत्त संवच्छरानि. चारिहन्ति चरिं अहं. नाहं दिवा वा रत्तिं वा, सुखं विन्दिं सुदुक्खिताति एवमहं सत्तसु संवच्छरेसु किलेसदुक्खेन दुक्खिता एकदापि दिवा वा रत्तिं वा समणसुखं न पटिलभिं.
ततोति किलेसपरियुट्ठानेन समणसुखालाभभावतो. रज्जुं गहेत्वान पाविसिं, वनमन्तरन्ति पासरज्जुं आदाय वनन्तरं पाविसिं. किमत्थं पाविसीति चे आह – ‘‘वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे’’ति यदहं समणधम्मं कातुं असक्कोन्ती हीनं गिहिभावं पुन आचरे आचरेय्यं अनुतिट्ठेय्यं, ततो सतगुणेन सहस्सगुणेन इमस्मिं वनन्तरे उब्बन्धं बन्धित्वा मरणं मे वरं सेट्ठन्ति अत्थो. अथ चित्तं विमुच्चि मेति यदा रुक्खसाखाय बन्धपासं गीवायं पक्खिपि, अथ तदनन्तरमेव वुट्ठानगामिनिविपस्सनामग्गेन घटितत्ता मग्गपटिपाटिया सब्बासवेहि मम चित्तं विमुच्चि विमुत्तं अहोसीति.
सीहाथेरीगाथावण्णना निट्ठिता.
४. सुन्दरीनन्दाथेरीगाथावण्णना
आतुरं असुचिन्तिआदिका सुन्दरीनन्दाय थेरिया गाथा. अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं झायिनीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा कुसलं उपचिनन्ती कप्पसतसहस्सं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्ति. नन्दातिस्सा नामं अकंसु. अपरभागे रूपसम्पत्तिया सुन्दरीनन्दा, जनपदकल्याणीति च पञ्ञायित्थ. सा अम्हाकं भगवति सब्बञ्ञुतं पत्वा अनुपुब्बेन कपिलवत्थुं गन्त्वा नन्दकुमारञ्च राहुलकुमारञ्च पब्बाजेत्वा गते सुद्धोदनमहाराजे च परिनिब्बुते महापजापतिगोतमिया राहुलमाताय च पब्बजिताय चिन्तेसि – ‘‘मय्हं जेट्ठभाता चक्कवत्तिरज्जं पहाय पब्बजित्वा लोके अग्गपुग्गलो बुद्धो जातो, पुत्तोपिस्स राहुलकुमारो पब्बजि, भत्तापि मे नन्दराजा, मातापि महापजापतिगोतमी, भगिनीपि राहुलमाता पब्बजिता, इदानाहं गेहे किं करिस्सामि, पब्बजिस्सामी’’ति भिक्खुनुपस्सयं गन्त्वा ञातिसिनेहेन पब्बजि, नो सद्धाय. तस्मा पब्बजित्वापि रूपं निस्साय उप्पन्नमदा. ‘‘सत्था रूपं विवण्णेति गरहति, अनेकपरियायेन रूपे आदीनवं दस्सेती’’ति बुद्धुपट्ठानं न गच्छतीतिआदि सब्बं हेट्ठा अभिरूपनन्दाय वत्थुस्मिं वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – सत्थारा निम्मितं इत्थिरूपं अनुक्कमेन जराभिभूतं दिस्वा अनिच्चतो दुक्खतो अनत्ततो मनसिकरोन्तिया थेरिया कम्मट्ठानाभिमुखं चित्तं अहोसि. तं दिस्वा सत्था तस्सा सप्पायवसेन धम्मं देसेन्तो –
८२. ‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
८३. ‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.
८४. ‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;
ततो सकाय पञ्ञाय, अभिनिब्बिज्झ दक्खिस’’न्ति. –
इमा तिस्सो गाथा अभासि.
सा देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठहि. तस्सा उपरिमग्गत्थाय कम्मट्ठानं आचिक्खन्तो ‘‘नन्दे, इमस्मिं सरीरे अप्पमत्तकोपि सारो नत्थि, मंसलोहितलेपनो जरादीनं वासभूतो, अट्ठिपुञ्जमत्तो एवाय’’न्ति दस्सेतुं –
‘‘अट्ठिनं नगरं कतं, मंसलोहितलेपनं;
यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो’’ति. (ध. प. १५०) –
धम्मपदे इमं गाथमाह.
सा देसनावसाने अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.१६६-२१९) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतोव महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
अमतं परमस्सादं, परमत्थनिवेदकं.
‘‘तदा निमन्तयित्वान, ससङ्घं लोकनायकं;
दत्वा तस्स महादानं, पसन्ना सेहि पाणिभि.
‘‘झायिनीनं भिक्खुनीनं, अग्गट्ठानमपत्थयिं;
निपच्च सिरसा धीरं, ससङ्घं लोकनायकं.
‘‘तदा अदन्तदमको, तिलोकसरणो पभू;
ब्याकासि नरसारथि, लच्छसे तं सुपत्थितं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
नन्दाति नाम नामेन, हेस्सति सत्थु साविका.
‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुता याममगं, ततोहं तुसितं गता;
ततो च निम्मानरतिं, वसवत्तिपुरं ततो.
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.
‘‘ततो चुता मनुस्सत्ते, राजानं चक्कवत्तिनं;
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.
‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;
सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.
‘‘पच्छिमे भवे सम्पत्ते, सुरम्मे कपिलव्हये;
रञ्ञो सुद्धोदनस्साहं, धीता आसिं अनिन्दिता.
‘‘सिरिया रूपिनिं दिस्वा, नन्दितं आसि तं कुलं;
तेन नन्दाति मे नामं, सुन्दरं पवरं अहु.
‘‘युवतीनञ्च सब्बासं, कल्याणीति च विस्सुता;
तस्मिम्पि नगरे रम्मे, ठपेत्वा तं यसोधरं.
‘‘जेट्ठो भाता तिलोकग्गो, पच्छिमो अरहा तथा;
एकाकिनी गहट्ठाहं, मातरा परिचोदिता.
‘‘साकियम्हि कुले जाता, पुत्ते बुद्धानुजा तुवं;
नन्देनपि विना भूता, अगारे किन्नु अच्छसि.
‘‘जरावसानं योब्बञ्ञं, रूपं असुचिसम्मतं;
रोगन्तमपिचारोग्यं, जीवितं मरणन्तिकं.
‘‘इदम्पि ते सुभं रूपं, ससीकन्तं मनोहरं;
भूसनानं अलङ्कारं, सिरिसङ्घाटसंनिभं.
‘‘पुञ्जितं लोकसारंव, नयनानं रसायनं;
पुञ्ञानं कित्तिजननं, उक्काककुलनन्दनं.
‘‘न चिरेनेव कालेन, जरा समधिसेस्सति;
विहाय गेहं कारुञ्ञे, चर धम्ममनिन्दिते.
‘‘सुत्वाहं मातु वचनं, पब्बजिं अनगारियं;
देहेन नतु चित्तेन, रूपयोब्बनलाळिता.
‘‘महता च पयत्तेन, झानज्झेन परं मम;
कातुञ्च वदते माता, न चाहं तत्थ उस्सुका.
‘‘ततो महाकारुणिको, दिस्वा मं कामलालसं;
निब्बन्दनत्थं रूपस्मिं, मम चक्खुपथे जिनो.
‘‘सकेन आनुभावेन, इत्थिं मापेसि सोभिनिं;
दस्सनीयं सुरुचिरं, ममतोपि सुरूपिनिं.
‘‘तमहं विम्हिता दिस्वा, अतिविम्हितदेहिनिं;
चिन्तयिं सफलं मेति, नेत्तलाभञ्च मानुसं.
‘‘तमहं एहि सुभगे, येनत्थो तं वदेहि मे;
कुलं ते नामगोत्तञ्च, वद मे यदि ते पियं.
‘‘न वञ्चकालो सुभगे, उच्छङ्गे मं निवासय;
सीदन्तीव ममङ्गानि, पसुप्पयमुहुत्तकं.
‘‘ततो सीसं ममङ्गे सा, कत्वा सयि सुलोचना;
तस्सा नलाटे पतिता, लुद्धा परमदारुणा.
‘‘सह तस्सा निपातेन, पिळका उपपज्जथ;
पग्घरिंसु पभिन्ना च, कुणपा पुब्बलोहिता.
‘‘पभिन्नं वदनञ्चापि, कुणपं पूतिगन्धनं;
उद्धुमातं विनिलञ्च, पुब्बञ्चापि सरीरकं.
‘‘सा पवेदितसब्बङ्गी, निस्ससन्ती मुहुं मुहुं;
वेदयन्ती सकं दुक्खं, करुणं परिदेवयि.
‘‘दुक्खेन दुक्खिता होमि, फुसयन्ति च वेदना;