७. मित्ताथेरीगाथावण्णना

चातुद्दसिं पञ्चदसिन्तिआदिका अपराय मित्ताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले खत्तियकुले निब्बत्तित्वा विञ्ञुतं पत्वा बन्धुमस्स रञ्ञो अन्तेपुरिका हुत्वा विपस्सिस्स भगवतो साविकं एकं खीणासवत्थेरिं दिस्वा पसन्नमानसा हुत्वा तस्सा हत्थतो पत्तं गहेत्वा पणीतस्स खादनीयभोजनीयस्स पूरेत्वा महग्घेन साटकयुगेन सद्धिं अदासि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा उपासिका अहोसि. सा अपरभागे महापजापतिगोतमिया सन्तिके पब्बजित्वा कतपुब्बकिच्चा विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.४६-५९) –

‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो;

तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं.

‘‘रहोगता निसीदित्वा, एवं चिन्तेसहं तदा;

आदाय गमनीयञ्हि, कुसलं नत्थि मे कतं.

‘‘महाभितापं कटुकं, घोररूपं सुदारुणं;

निरयं नून गच्छामि, एत्थ मे नत्थि संसयो.

‘‘राजानं उपसङ्कम्म, इदं वचनमब्रविं;

एकं मे समणं देहि, भोजयिस्सामि खत्तिय.

‘‘अदासि मे महाराजा, समणं भावितिन्द्रियं;

तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं.

‘‘पूरयित्वा परमन्नं, गन्धालेपं अकासहं;

जालेन पिदहित्वान, वत्थयुगेन छादयिं.

‘‘आरम्मणं ममं एतं, सरामि यावजीवितं;

तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं.

‘‘तिंसानं देवराजूनं, महेसित्तमकारयिं;

मनसा पत्थितं मय्हं, निब्बत्तति यथिच्छितं.

‘‘वीसानं चक्कवत्तीनं, महेसित्तमकारयिं;

ओचितत्ताव हुत्वान, संसरामि भवेस्वहं.

‘‘सब्बबन्धनमुत्ताहं, अपेता मे उपादिका;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.१.४६-५९);

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजाता उदानवसेन –

३१. ‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

३२. ‘‘उपोसथं उपागच्छिं, देवकायाभिनन्दिनी;

साज्ज एकेन भत्तेन, मुण्डा सङ्घाटिपारुता;

देवकायं न पत्थेहं, विनेय्य हदये दर’’न्ति. – इमा द्वे गाथा अभासि;

तत्थ चातुद्दसिं पञ्चदसिन्ति चतुद्दसन्नं पूरणी चातुद्दसी, पञ्चदसन्नं पूरणी पञ्चदसी, तं चातुद्दसिं पञ्चदसिञ्च, पक्खस्साति सम्बन्धो. अच्चन्तसंयोगे चेतं उपयोगवचनं. या च पक्खस्स अट्ठमी, तञ्चाति योजना. पाटिहारियपक्खञ्चाति परिहरणकपक्खञ्च चातुद्दसीपञ्चदसीअट्ठमीनं यथाक्कमं आदितो अन्ततो वा पवेसनिग्गमवसेन उपोसथसीलस्स परिहरितब्बपक्खञ्च तेरसीपाटिपदसत्तमीनवमीसु चाति अत्थो. अट्ठङ्गसुसमागतन्ति पाणातिपाता वेरमणिआदीहि अट्ठहि अङ्गेहि सुट्ठु समन्नागतं. उपोसथं उपागच्छिन्ति उपवासं उपगमिं, उपवसिन्ति अत्थो. यं सन्धाय वुत्तं –

‘‘पाणं न हने न चादिन्नमादिये, मुसा न भासे न च मज्जपो सिया;

अब्रह्मचरिया विरमेय्य मेथुना, रत्तिं न भुञ्जेय्य विकालभोजनं.

‘‘मालं न धारे न च गन्धमाचरे, मञ्चे छमायं व सयेथ सन्थते;

एतञ्हि अट्ठङ्गिकमाहुपोसथं, बुद्धेन दुक्खन्तगुना पकासित’’न्ति. (सु. नि. ४०२-४०३);

देवकायाभिनन्दिनीति तत्रूपपत्तिआकङ्खावसेन चातुमहाराजिकादिं देवकायं अभिपत्थेन्ती उपोसथं उपागच्छिन्ति योजना. साज्ज एकेन भत्तेनाति सा अहं अज्ज इमस्मिंयेव दिवसे एकेन भत्तभोजनक्खणेन. मुण्डा सङ्घाटिपारुताति मुण्डितकेसा सङ्घाटिपारुतसरीरा च हुत्वा पब्बजिताति अत्थो. देवकायं न पत्थेहन्ति अग्गमग्गस्स अधिगतत्ता कञ्चि देवनिकायं अहं न पत्थये. तेनेवाह – ‘‘विनेय्य हदये दर’’न्ति, चित्तगतं किलेसदरथं समुच्छेदवसेन विनेत्वाति अत्थो. इदमेव चस्सा अञ्ञाब्याकरणं अहोसि.

मित्ताथेरीगाथावण्णना निट्ठिता.