२. दुकनिपातो
१. अभिरूपनन्दाथेरीगाथावण्णना
दुकनिपाते आतुरं असुचिं पूतिन्तिआदिका अभिरूपनन्दाय सिक्खमानाय गाथा. अयं किर विपस्सिस्स भगवतो काले बन्धुमतीनगरे गहपतिमहासालस्स धीता हुत्वा सत्थु सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठिता सत्थरि परिनिब्बुते धातुचेतियं रतनपटिमण्डितेन सुवण्णच्छत्तेन पूजं कत्वा, कालङ्कत्वा सग्गे निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे खेमकस्स सक्कस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. नन्दातिस्सा नामं अहोसि. सा अत्तभावस्स अतिविय रूपसोभग्गप्पत्तिया अभिरूपा दस्सनीया पासादिका अभिरूपनन्दात्वेव पञ्ञायित्थ. तस्सा वयप्पत्ताय वारेय्यदिवसेयेव वरभूतो सक्यकुमारो कालमकासि. अथ नं मातापितरो अकामं पब्बाजेसुं.
सा पब्बजित्वापि रूपं निस्साय उप्पन्नमदा ‘‘सत्था रूपं विवण्णेति गरहति अनेकपरियायेन रूपे आदीनवं दस्सेती’’ति बुद्धुपट्ठानं न गच्छति. भगवा तस्सा ञाणपरिपाकं ञत्वा महापजापतिं आणापेसि ‘‘सब्बापि भिक्खुनियो पटिपाटिया ओवादं आगच्छन्तू’’ति. सा अत्तनो वारे सम्पत्ते अञ्ञं पेसेसि. भगवा ‘‘वारे सम्पत्ते अत्तनाव आगन्तब्बं, न अञ्ञा पेसेतब्बा’’ति आह. सा सत्थु आणं लङ्घितुं असक्कोन्ती भिक्खुनीहि सद्धिं बुद्धुपट्ठानं अगमासि. भगवा इद्धिया एकं अभिरूपं इत्थिरूपं मापेत्वा पुन जराजिण्णं दस्सेत्वा संवेगं उप्पादेत्वा –
१९. ‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
२०. ‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्ता चरिस्ससी’’ति. –
इमा द्वे गाथा अभासि. तासं अत्थो हेट्ठा वुत्तनयो एव. गाथापरियोसाने अभिरूपनन्दा अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो;
तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं.
‘‘रहोगता निसीदित्वा, एवं चिन्तेसहं तदा;
आदाय गमनीयञ्हि, कुसलं नत्थि मे कतं.
‘‘महाभितापं कटुकं, घोररूपं सुदारुणं;
निरयं नून गच्छामि, एत्थ मे नत्थि संसयो.
‘‘एवाहं चिन्तयित्वान, पहंसेत्वान मानसं;
राजानं उपगन्त्वान, इदं वचनमब्रविं.
‘‘इत्थी नाम मयं देव, पुरिसानुगता सदा;
एकं मे समणं देहि, भोजयिस्सामि खत्तिय.
‘‘अदासि मे महाराजा, समणं भावितिन्द्रियं;
तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं.
‘‘पूरयित्वा परमन्नं, सहस्सग्घनकेनहं;
वत्थयुगेन छादेत्वा, अदासिं तुट्ठमानसा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सहस्सं देवराजूनं, महेसित्तमकारयिं;
सहस्सं चक्कवत्तीनं, महेसित्तमकारयिं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
नानाविधं बहुं पुञ्ञं, तस्स कम्मफला ततो.
‘‘उप्पलस्सेव मे वण्णा, अभिरूपा सुदस्सना;
इत्थी सब्बङ्गसम्पन्ना, अभिजाता जुतिन्धरा.
‘‘पच्छिमे भवसम्पत्ते, अजायिं साकिये कुले;
नारीसहस्सपामोक्खा, सुद्धोदनसुतस्सहं.
‘‘निब्बिन्दित्वा अगारेहं, पब्बजिं अनगारियं;
सत्तमिं रत्तिं सम्पत्वा, चतुसच्चं अपापुणिं.
‘‘चीवरपिण्डपातञ्च, पच्चयञ्च सेनासनं;
परिमेतुं न सक्कोमि, पिण्डपातस्सिदं फलं.
‘‘यं मय्हं पुरिमं कम्मं, कुसलं जनितं मुनि;
तुय्हत्थाय महावीर, परिचिण्णं बहुं मया.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘दुवे गती पजानामि, देवत्तं अथ मानुसं;
अञ्ञं गतिं न जानामि, पिण्डपातस्सिदं फलं.
‘‘उच्चे कुले पजानामि, तयो साले महाधने;
अञ्ञं कुलं न जानामि, पिण्डपातस्सिदं फलं.
‘‘भवाभवे संसरित्वा, सुक्कमूलेन चोदिता;
अमनापं न पस्सामि, सोमनस्सकतं फलं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पत्वा पन सा सयम्पि उदानवसेन तायेव गाथा अभासि, इदमेव चस्सा अञ्ञाब्याकरणं अहोसीति.
अभिरूपनन्दाथेरीगाथावण्णना निट्ठिता.
२. जेन्ताथेरीगाथावण्णना
ये इमे सत्त बोज्झङ्गातिआदिका जेन्ताय थेरिया गाथा. तस्सा अतीतं पच्चुप्पन्नञ्च वत्थु अभिरूपनन्दावत्थुसदिसं. अयं पन वेसालियं लिच्छविराजकुले निब्बत्तीति अयमेव विसेसो. सत्थारा देसितं धम्मं सुत्वा देसनापरियोसाने अरहत्तं पत्वा अत्तना अधिगतं विसेसं पच्चवेक्खित्वा पीतिवसेन –
२१. ‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;
भाविता ते मया सब्बे, यथा बुद्धेन देसिता.
२२. ‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –
इमा द्वे गाथा अभासि.
तत्थ ये इमे सत्त बोज्झङ्गाति ये इमे सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाता बोधिया यथावुत्ताय धम्मसामग्गिया, बोधिस्स वा बुज्झनकस्स तंसमङ्गिनो पुग्गलस्स अङ्गभूतत्ता ‘‘बोज्झङ्गा’’ति लद्धनामा सत्त धम्मा. मग्गा निब्बानपत्तियाति निब्बानाधिगमस्स उपायभूता. भाविता ते मया सब्बे, यथा बुद्धेन देसिताति ते सत्ततिंस बोधिपक्खियधम्मा सब्बेपि मया यथा बुद्धेन भगवता देसिता, तथा मया उप्पादिता च वड्ढिता च.
दिट्ठो हि मे सो भगवाति हि-सद्दो हेतुअत्थो. यस्मा सो भगवा धम्मकायो सम्मासम्बुद्धो अत्तना अधिगतअरियधम्मदस्सनेन दिट्ठो, तस्मा अन्तिमोयं समुस्सयोति योजना. अरियधम्मदस्सनेन हि बुद्धा भगवन्तो अञ्ञे च अरिया दिट्ठा नाम होन्ति, न रूपकायदस्सनमत्तेन. यथाह – ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७) च ‘‘सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी’’ति (म. नि. १.२०; सं. नि. ३.१) च आदि. सेसं वुत्तनयमेव.
जेन्ताथेरीगाथावण्णना निट्ठिता.
३. सुमङ्गलमातुथेरीगाथावण्णना
सुमुत्तिकातिआदिका सुमङ्गलमाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं दलिद्दकुले निब्बत्तित्वा वयप्पत्ता अञ्ञतरस्स नळकारस्स दिन्ना पठमगब्भेयेव पच्छिमभविकं पुत्तं लभि. तस्स सुमङ्गलोति नामं अहोसि. ततो पट्ठाय सा सुमङ्गलमाताति पञ्ञायित्थ. यस्मा पनस्सा नामगोत्तं न पाकटं, तस्मा ‘‘अञ्ञतरा थेरी भिक्खुनी अपञ्ञाता’’ति पाळियं वुत्तं. सोपिस्सा पुत्तो विञ्ञुतं पत्तो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पत्वा सुमङ्गलत्थेरोति पाकटो अहोसि. तस्स माता भिक्खुनीसु पब्बजित्वा विपस्सनाय कम्मं करोन्ती एकदिवसं गिहिकाले अत्तना लद्धदुक्खं पच्चवेक्खित्वा संवेगजाता विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उदानेन्ती –
२३. ‘‘सुमुत्तिका सुमुत्तिका, साधुमुत्तिकाम्हि मुसलस्स;
अहिरिको मे छत्तकं वापि, उक्खलिका मे देड्डुभं वाति.
२४. ‘‘रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामि;
सा रुक्खमूलमुपगम्म, ‘अहो सुख’न्ति सुखतो झायामी’’ति. –
इमा द्वे गाथा अभासि.
तत्थ सुमुत्तिकाति सुमुत्ता. क-कारो पदपूरणमत्तं, सुट्ठु मुत्ता वताति अत्थो. सा सासने अत्तना पटिलद्धसम्पत्तिं दिस्वा पसादवसेन, तस्सा वा पसंसावसेन आमन्तेत्वा वुत्तं ‘‘सुमुत्तिका सुमुत्तिका’’ति. यं पन गिहिकाले विसेसतो जिगुच्छति, ततो विमुत्तिं दस्सेन्ती ‘‘साधुमुत्तिकाम्ही’’तिआदिमाह. तत्थ साधुमुत्तिकाम्हीति सम्मदेव मुत्ता वत अम्हि. मुसलस्साति मुसलतो. अयं किर दलिद्दभावेन गिहिकाले सयमेव मुसलकम्मं करोति, तस्मा एवमाह. अहिरिको मेति मम सामिको अहिरिको निल्लज्जो, सो मम न रुच्चतीति वचनसेसो. पकतियाव कामेसु विरत्तचित्तताय कामाधिमुत्तानं पवत्तिं जिगुच्छन्ती वदति. छत्तकं वापीति जीवितहेतुकेन करीयमानं छत्तकम्पि मे न रुच्चतीति अत्थो. वा-सद्दो अवुत्तसमुच्चयत्थो, तेन पेळाचङ्कोटकादिं सङ्गण्हाति. वेळुदण्डादीनि गहेत्वा दिवसे दिवसे छत्तादीनं करणवसेन दुक्खजीवितं जिगुच्छन्ती वदति. ‘‘अहितको मे वातो वाती’’ति केचि वत्वा अहितको जरावहो गिहिकाले मम सरीरे वातो वायतीति अत्थं वदन्ति. अपरे पन ‘‘अहितको परेसं दुग्गन्धतरो च मम सरीरतो वातो वायती’’ति अत्थं वदन्ति. उक्खलिका मे देड्डुभं वातीति मे मम भत्तपचनभाजनं चिरपारिवासिकभावेन अपरिसुद्धताय उदकसप्पगन्धं वायति, ततो अहं साधुमुत्तिकाम्हीति योजना.
रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामीति अहं किलेसजेट्ठकं रागञ्च दोसञ्च चिच्चिटि चिच्चिटीति इमिना सद्देन सद्धिं विहनामि विनासेमि, पजहामीति अत्थो. सा किर अत्तनो सामिकं जिगुच्छन्ती तेन दिवसे दिवसे फालियमानानं सुक्खानं वेळुदण्डादीनं सद्दं गरहन्ती तस्स पहानं रागदोसपहानेन समं कत्वा अवोच. सा रुक्खमूलमुपगम्माति सा अहं सुमङ्गलमाता विवित्तं रुक्खमूलं उपसङ्कमित्वा. सुखतो झायामीति सुखन्ति झायामि, कालेन कालं समापज्जन्ती फलसुखं निब्बानसुखञ्च पटिसंवेदियमाना फलज्झानेन झायामीति अत्थो. अहो सुखन्ति इदं पनस्सा समापत्तितो पच्छा पवत्तमनसिकारवसेन वुत्तं, पुब्बाभोगवसेनातिपि युज्जतेव.
सुमङ्गलमातुथेरीगाथावण्णना निट्ठिता.
४. अड्ढकासिथेरीगाथावण्णना
याव कासिजनपदोतिआदिका अड्ढकासिया थेरिया गाथा. अयं किर कस्सपस्स दसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा भिक्खुनीनं सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा भिक्खुनिसीले ठितं अञ्ञतरं पटिसम्भिदाप्पत्तं खीणासवत्थेरिं गणिकावादेन अक्कोसित्वा, ततो चुता निरये पच्चित्वा इमस्मिं बुद्धुप्पादे कासिकरट्ठे उळारविभवे सेट्ठिकुले निब्बत्तित्वा वुद्धिप्पत्ता पुब्बे कतस्स वचीदुच्चरितस्स निस्सन्देन ठानतो परिभट्ठा गणिका अहोसि. नामेन अड्ढकासी नाम. तस्सा पब्बज्जा च दूतेन उपसम्पदा च खन्धके आगतायेव. वुत्तञ्हेतं –
तेन खो पन समयेन अड्ढकासी गणिका भिक्खुनीसु पब्बजिता होति. सा च सावत्थिं गन्तुकामा होति ‘‘भगवतो सन्तिके उपसम्पज्जिस्सामी’’ति. अस्सोसुं खो धुत्ता – ‘‘अड्ढकासी किर गणिका सावत्थिं गन्तुकामा’’ति. ते मग्गे परियुट्ठिंसु. अस्सोसि खो अड्ढकासी गणिका ‘‘धुत्ता किर मग्गे परियुट्ठिता’’ति. भगवतो सन्तिके दूतं पाहेसि – ‘‘अहञ्हि उपसम्पज्जितुकामा, कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दूतेनपि उपसम्पादेतु’’न्ति (चूळव. ४३०).
एवं लद्धूपसम्पदा पन विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.४.१६८-१८३) –
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘तदाहं पब्बजित्वान, तस्स बुद्धस्स सासने;
संवुता पातिमोक्खम्हि, इन्द्रियेसु च पञ्चसु.
‘‘मत्तञ्ञुनी च असने, युत्ता जागरियेपि च;
वसन्ती युत्तयोगाहं, भिक्खुनिं विगतासवं.
‘‘अक्कोसिं दुट्ठचित्ताहं, गणिकेति भणिं तदा;
तेन पापेन कम्मेन, निरयम्हि अपच्चिसं.
‘‘तेन कम्मावसेसेन, अजायिं गणिकाकुले;
बहुसोव पराधीना, पच्छिमाय च जातियं.
‘‘कासीसु सेट्ठिकुलजा, ब्रह्मचारीबलेनहं;
अच्छरा विय देवेसु, अहोसिं रूपसम्पदा.
‘‘दिस्वान दस्सनीयं मं, गिरिब्बजपुरुत्तमे;
गणिकत्ते निवेसेसुं, अक्कोसनबलेन मे.
‘‘साहं सुत्वान सद्धम्मं, बुद्धसेट्ठेन देसितं;
पुब्बवासनसम्पन्ना, पब्बजिं अनगारियं.
‘‘तदूपसम्पदत्थाय, गच्छन्ती जिनसन्तिकं;
मग्गे धुत्ते ठिते सुत्वा, लभिं दूतोपसम्पदं.
‘‘सब्बकम्मं परिक्खीणं, पुञ्ञं पापं तथेव च;
सब्बसंसारमुत्तिण्णा, गणिकत्तञ्च खेपितं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.४.१६८-१८३);
अरहत्तं पन पत्वा उदानवसेन –
२५. ‘‘याव कासिजनपदो, सुङ्को मे तत्तको अहु;
तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि मं.
२६. ‘‘अथ निब्बिन्दहं रूपे, निब्बिन्दञ्च विरज्जहं;
मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनं;
तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि.
तत्थ याव कासिजनपदो, सुङ्को मे तत्तको अहूति कासीसु जनपदेसु भवो सुङ्को कासिजनपदो, सो याव यत्तको, तत्तको मय्हं सुङ्को अहु अहोसि. कित्तको पन सोति? सहस्समत्तो. कासिरट्ठे किर तदा सुङ्कवसेन एकदिवसं रञ्ञो उप्पज्जनकआयो अहोसि सहस्समत्तो, इमायपि पुरिसानं हत्थतो एकदिवसं लद्धधनं तत्तकं. तेन वुत्तं – ‘‘याव कासिजनपदो, सुङ्को मे तत्तको अहू’’ति. सा पन कासिसुङ्कपरिमाणताय कासीति समञ्ञं लभि. तत्थ येभुय्येन मनुस्सा सहस्सं दातुं असक्कोन्ता ततो उपड्ढं दत्वा दिवसभागमेव रमित्वा गच्छन्ति, तेसं वसेनायं अड्ढकासीति पञ्ञायित्थ. तेन वुत्तं – ‘‘तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि म’’न्ति. तं पञ्चसतमत्तं धनं अग्घं कत्वा नेगमो निगमवासिजनो इत्थिरतनभावेन अनग्घम्पि समानं अड्ढेन अग्घं निमित्तं अड्ढकासीति समञ्ञावसेन मं ठपेसि, तथा मं वोहरीति अत्थो.
अथ निब्बिन्दहं रूपेति एवं रूपूपजीविनी हुत्वा ठिता. अथ पच्छा सासनं निस्साय रूपे अहं निब्बिन्दिं ‘‘इतिपि रूपं अनिच्चं, इतिपिदं रूपं दुक्खं, असुभ’’न्ति पस्सन्ती तत्थ उक्कण्ठिं. निब्बिन्दञ्च विरज्जहन्ति निब्बिन्दन्ती चाहं ततो परं विरागं आपज्जिं. निब्बिन्दग्गहणेन चेत्थ तरुणविपस्सनं दस्सेति, विरागग्गहणेन बलवविपस्सनं. ‘‘निब्बिन्दन्तो विरज्जति विरागा विमुच्चती’’ति हि वुत्तं. मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनन्ति इमिना निब्बिन्दनविरज्जनाकारे निदस्सेति. तिस्सो विज्जातिआदिना तेसं मत्थकप्पत्तिं, तं वुत्तनयमेव.
अड्ढकासिथेरीगाथावण्णना निट्ठिता.
५. चित्ताथेरीगाथावण्णना
किञ्चापि खोम्हि किसिकातिआदिका चित्ताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इतो चतुन्नवुतिकप्पे चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्ति. सा एकदिवसं एकं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसा नळपुप्फेहि पूजं कत्वा वन्दित्वा अञ्जलिं पग्गहेत्वा पदक्खिणं कत्वा पक्कामि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु राजगहप्पवेसने पटिलद्धसद्धा पच्छा महापजापतिगोतमिया सन्तिके पब्बजित्वा महल्लिकाकाले गिज्झकूटपब्बतं अभिरुहित्वा समणधम्मं करोन्ती विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरी तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्ता सुमना, वेदजाता कतञ्जली;
नळमालं गहेत्वान, सयम्भुं अभिपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरीदेहं, अगच्छिं तिदसं गतिं.
‘‘छत्तिंसदेवराजूनं, महेसित्तमकारयिं;
दसन्नं चक्कवत्तीनं, महेसित्तमकारयिं;
संवेजेत्वान मे चित्तं, पब्बजिं अनगारियं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
सा पन अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –
२७. ‘‘किञ्चापि खोम्हि किसिका, गिलाना बाळ्हदुब्बला;
दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.
२८. ‘‘सङ्घाटिं निक्खिपित्वान, पत्तकञ्च निकुज्जिय;
सेले खम्भेसिमत्तानं, तमोखन्धं पदालिया’’ति. –
इमा द्वे गाथा अभासि.
तत्थ किञ्चापि खोम्हि किसिकाति यदिपि अहं जराजिण्णा अप्पमंसलोहितभावेन किससरीरा अम्हि. गिलाना बाळ्हदुब्बलाति धात्वादिविकारेन गिलाना, तेनेव गेलञ्ञेन अतिविय दुब्बला. दण्डमोलुब्भ गच्छामीति यत्थ कत्थचि गच्छन्ती कत्तरयट्ठिं आलम्बित्वाव गच्छामि. पब्बतं अभिरूहियाति एवं भूतापि विवेककामताय गिज्झकूटपब्बतं अभिरुहित्वा.
सङ्घाटिं निक्खिपित्वानाति सन्तरुत्तरा एव हुत्वा यथासंहतं अंसे ठपितं सङ्घाटिं हत्थपासे ठपेत्वा. पत्तकञ्च निकुज्जियाति मय्हं वलञ्जनमत्तिकापत्तं अधोमुखं कत्वा एकमन्ते ठपेत्वा. सेले खम्भेसिमत्तानं, तमोखन्धं पदालियाति पब्बते निसिन्ना इमिना दीघेन अद्धुना अपदालितपुब्बं मोहक्खन्धं पदालेत्वा, तेनेव च मोहक्खन्धपदालनेन अत्तानं अत्तभावं खम्भेसिं, मम सन्तानं आयतिं अनुप्पत्तिधम्मतापादनेन विक्खम्भेसिन्ति अत्थो.
चित्ताथेरीगाथावण्णना निट्ठिता.
६. मेत्तिकाथेरीगाथावण्णना
किञ्चापि खोम्हि दुक्खितातिआदिका मेत्तिकाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्ती सिद्धत्थस्स भगवतो काले गहपतिकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु चेतिये रतनेन पटिमण्डिताय मेखलाय पूजं अकासि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालकुले निब्बत्ति. सेसं अनन्तरे वुत्तसदिसं. अयं पन पटिभागकूटं अभिरुहित्वा समणधम्मं करोन्ती विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.२०-२५) –
‘‘सिद्धत्थस्स भगवतो, थूपकारापिका अहुं;
मेखलिका मया दिन्ना, नवकम्माय सत्थुनो.
‘‘निट्ठिते च महाथूपे, मेखलं पुनदासहं;
लोकनाथस्स मुनिनो, पसन्ना सेहि पाणिभि.
‘‘चतुन्नवुतितो कप्पे, यं मेखलमदं तदा;
दुग्गतिं नाभिजानामि, थूपकारस्सिदं फलं.