१७. धम्माथेरीगाथावण्णना
पिण्डपातं चरित्वानाति धम्माय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सम्भतपुञ्ञसम्भारा इमस्मिं बुद्धुप्पादे सावत्थियं कुलघरे निब्बत्तित्वा वयप्पत्ता पतिरूपस्स सामिकस्स गेहं गन्त्वा सासने पटिलद्धसद्धा पब्बजितुकामा हुत्वा सामिकेन अननुञ्ञाता पच्छा सामिके कालङ्कते पब्बजित्वा विपस्सनाय कम्मं करोन्ती एकदिवसं भिक्खाय चरित्वा विहारं आगच्छन्ती परिपतित्वा तमेव आरम्मणं कत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा –
१७. ‘‘पिण्डपातं चरित्वान, दण्डमोलुब्भ दुब्बला;
वेधमानेहि गत्तेहि, तत्थेव निपतिं छमा;
दिस्वा आदीनवं काये, अथ चित्तं विमुच्चि मे’’ति. –
उदानवसेन इमं गाथं अभासि.
तत्थ पिण्डपातं चरित्वान, दण्डमोलुब्भाति पिण्डपातत्थाय यट्ठिं उपत्थम्भेन नगरे विचरित्वा भिक्खाय आहिण्डित्वा. छमाति छमायं भूमियं, पादानं अवसेन भूमियं निपतिन्ति अत्थो. दिस्वा आदीनवं कायेति असुभानिच्चदुक्खानत्ततादीहि नानप्पकारेहि सरीरे दोसं पञ्ञाचक्खुना दिस्वा. अथ चित्तं विमुच्चि मेति आदीनवानुपस्सनाय परतो पवत्तेहि निब्बिदानुपस्सनादीहि विक्खम्भनवसेन मम चित्तं किलेसेहि विमुच्चित्वा पुन मग्गफलेहि यथाक्कमं समुच्छेदवसेन चेव पटिप्पस्सद्धिवसेन च सब्बसो विमुच्चि विमुत्तं, न दानिस्सा विमोचेतब्बं अत्थीति. इदमेव चस्सा अञ्ञाब्याकरणं अहोसीति.
धम्माथेरीगाथावण्णना निट्ठिता.