१. एककनिपातो
१. अञ्ञतराथेरीगाथावण्णना
इदानि थेरीगाथानं अत्थसंवण्णनाय ओकासो अनुप्पत्तो. तत्थ यस्मा भिक्खुनीनं आदितो यथा पब्बज्जा उपसम्पदा च पटिलद्धा, तं पकासेत्वा अत्थसंवण्णनाय करीयमानाय तत्थ तत्थ गाथानं अट्ठुप्पत्तिं विभावेतुं सुकरा होति सुपाकटा च, तस्मा तं पकासेतुं आदितो पट्ठाय सङ्खेपतो अयं अनुपुब्बिकथा –
अयञ्हि लोकनाथो ‘‘मनुस्सत्तं लिङ्गसम्पत्ती’’त्यादिना वुत्तानि अट्ठङ्गानि समोधानेत्वा दीपङ्करस्स भगवतो पादमूले कतमहाभिनीहारो समतिंसपारमियो पूरेन्तो चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो अनुक्कमेन पारमियो पूरेत्वा ञातत्थचरियाय लोकत्थचरियाय बुद्धत्थचरियाय च कोटिं पत्वा तुसितभवने निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दससहस्सचक्कवाळदेवताहि बुद्धभावाय –
‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –
आयाचितमनुस्सूपपत्तिको तासं देवतानं पटिञ्ञं दत्वा, कतपञ्चमहाविलोकनो सक्यराजकुले सुद्धोदनमहाराजस्स गेहे सतो सम्पजानो मातुकुच्छिं ओक्कन्तो दसमासे सतो सम्पजानो तत्थ ठत्वा, सतो सम्पजानो ततो निक्खन्तो लुम्बिनीवने लद्धाभिजातिको विविधा धातियो आदिं कत्वा महता परिहारेन सम्मदेव परिहरियमानो अनुक्कमेन वुड्ढिप्पत्तो तीसु पासादेसु विविधनाटकजनपरिवुतो देवो विय सम्पत्तिं अनुभवन्तो जिण्णब्याधिमतदस्सनेन जातसंवेगो ञाणस्स परिपाकतं गतत्ता, कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा, राहुलकुमारस्स जातदिवसे छन्नसहायो कण्डकं अस्सराजं आरुय्ह, देवताहि विवटेन द्वारेन अड्ढरत्तिकसमये महाभिनिक्खमनं निक्खमित्वा, तेनेव रत्तावसेसेन तीणि रज्जानि अतिक्कमित्वा अनोमानदीतीरं पत्वा घटिकारमहाब्रह्मुना आनीते अरहत्तद्धजे गहेत्वा पब्बजितो, तावदेव वस्ससट्ठिकत्थेरो विय आकप्पसम्पन्नो हुत्वा, पासादिकेन इरियापथेन अनुक्कमेन राजगहं पत्वा, तत्थ पिण्डाय चरित्वा पण्डवपब्बतपब्भारे पिण्डपातं परिभुञ्जित्वा, मागधराजेन रज्जेन निमन्तियमानो तं पटिक्खिपित्वा, भग्गवस्सारामं गन्त्वा, तस्स समयं परिग्गण्हित्वा ततो आळारुदकानं समयं परिग्गण्हित्वा, तं सब्बं अनलङ्करित्वा अनुक्कमेन उरुवेलं गन्त्वा तत्थ छब्बस्सानि दुक्करकारिकं कत्वा, ताय अरियधम्मपटिवेधस्साभावं ञत्वा ‘‘नायं मग्गो बोधाया’’ति ओळारिकं आहारं आहरन्तो कतिपाहेन बलं गाहेत्वा विसाखापुण्णमदिवसे सुजाताय दिन्नं वरभोजनं भुञ्जित्वा, सुवण्णपातिं नदिया पटिसोतं खिपित्वा, ‘‘अज्ज बुद्धो भविस्सामी’’ति कतसन्निट्ठानो सायन्हसमये काळेन नागराजेन अभित्थुतिगुणो बोधिमण्डं आरुय्ह अचलट्ठाने पाचीनलोकधातुअभिमुखो अपराजितपल्लङ्के निसिन्नो चतुरङ्गसमन्नागतं वीरियं अधिट्ठाय, सूरिये अनत्थङ्गतेयेव मारबलं विधमित्वा, पठमयामे पुब्बेनिवासं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा, अनुलोमपटिलोमं पच्चयाकारं सम्मसन्तो विपस्सनं वड्ढेत्वा सब्बबुद्धेहि अधिगतं अनञ्ञसाधारणं सम्मासम्बोधिं अधिगन्त्वा, निब्बानारम्मणाय फलसमापत्तिया तत्थेव सत्ताहं वीतिनामेत्वा, तेनेव नयेन इतरसत्ताहेपि बोधिमण्डेयेव वीतिनामेत्वा, राजायतनमूले मधुपिण्डिकभोजनं भुञ्जित्वा, पुन अजपालनिग्रोधमूले निसिन्नो धम्मताय धम्मगम्भीरतं पच्चवेक्खित्वा अप्पोस्सुक्कताय चित्ते नमन्ते महाब्रह्मुना आयाचितो बुद्धचक्खुना लोकं वोलोकेन्तो तिक्खिन्द्रियमुदिन्द्रियादिभेदे सत्ते दिस्वा महाब्रह्मुना धम्मदेसनाय कतपटिञ्ञो ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति आवज्जेन्तो आळारुदकानं कालङ्कतभावं ञत्वा, ‘‘बहुपकारा खो मे पञ्चवग्गिया भिक्खू, ये मं पधानपहितत्तं उपट्ठहिंसु, यंनूनाहं पञ्चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’’न्ति (महाव. १०) चिन्तेत्वा, आसाळ्हिपुण्णमायं महाबोधितो बाराणसिं उद्दिस्स अट्ठारसयोजनं मग्गं पटिपन्नो अन्तरामग्गे उपकेन आजीवकेन सद्धिं मन्तेत्वा, अनुक्कमेन इसिपतनं पत्वा तत्थ पञ्चवग्गिये सञ्ञापेत्वा ‘‘द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा’’तिआदिना (महाव. १३; सं. नि. ५.१०८१; पटि. म. २.३०) धम्मचक्कपवत्तनसुत्तन्तदेसनाय अञ्ञासिकोण्डञ्ञप्पमुखा अट्ठारसब्रह्मकोटियो धम्मामतं पायेत्वा पाटिपदे भद्दियत्थेरं, पक्खस्स दुतियायं वप्पत्थेरं, पक्खस्स ततियायं महानामत्थेरं, चतुत्थियं अस्सजित्थेरं, सोतापत्तिफले पतिट्ठापेत्वा, पञ्चमियं पन पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव. २०; सं. नि. ३.५९) सब्बेपि अरहत्ते पतिट्ठापेत्वा ततो परं यसदारकप्पमुखे पञ्चपण्णासपुरिसे, कप्पासिकवनसण्डे तिंसमत्ते भद्दवग्गिये, गयासीसे पिट्ठिपासाणे सहस्समत्ते पुराणजटिलेति एवं महाजनं अरियभूमिं ओतारेत्वा बिम्बिसारप्पमुखानि एकादसनहुतानि सोतापत्तिफले नहुतं सरणत्तये पतिट्ठापेत्वा वेळुवनं पटिग्गहेत्वा तत्थ विहरन्तो अस्सजित्थेरस्स वाहसा अधिगतपठममग्गे सञ्चयं आपुच्छित्वा, सद्धिं परिसाय अत्तनो सन्तिकं उपगते सारिपुत्तमोग्गल्लाने अग्गफलं सच्छिकत्वा सावकपारमिया मत्थकं पत्ते अग्गसावकट्ठाने ठपेत्वा काळुदायित्थेरस्स अभियाचनाय कपिलवत्थुं गन्त्वा, मानत्थद्धे ञातके यमकपाटिहारियेन दमेत्वा, पितरं अनागामिफले, महापजापतिं सोतापत्तिफले पटिट्ठापेत्वा, नन्दकुमारं राहुलकुमारञ्च पब्बाजेत्वा, सत्था पुनदेव राजगहं पच्चागच्छि.
अथापरेन समयेन सत्थरि वेसालिं उपनिस्साय कूटागारसालायं विहरन्ते सुद्धोदनमहाराजा सेतच्छत्तस्स हेट्ठाव अरहत्तं सच्छिकत्वा परिनिब्बायि. अथ महापजापतिया गोतमिया पब्बज्जाय चित्तं उप्पज्जि, ततो रोहिनीनदीतीरे कलहविवादसुत्तन्तदेसनाय (सु. नि. ८६८ आदयो) परियोसाने निक्खमित्वा, पब्बजितानं पञ्चन्नं कुमारसतानं पादपरिचारिका एकज्झासयाव हुत्वा महापजापतिया सन्तिकं गन्त्वा, सब्बाव ‘‘सत्थु सन्तिके पब्बजिस्सामा’’ति महापजापतिं जेट्ठिकं कत्वा सत्थु सन्तिकं गन्तुकामा अहेसुं. अयञ्च महापजापति पुब्बेपि एकवारं सत्थारं पब्बज्जं याचित्वा नालत्थ, तस्मा कप्पकं पक्कोसापेत्वा केसे छिन्दापेत्वा कासायानि अच्छादेत्वा सब्बा ता साकियानियो आदाय वेसालिं गन्त्वा आनन्दत्थेरेन दसबलं याचापेत्वा, अट्ठगरुधम्मपटिग्गहणेन पब्बज्जं उपसम्पदञ्च अलत्थ. इतरा पन सब्बापि एकतो उपसम्पन्ना अहेसुं. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं वत्थु तत्थ तत्थ पाळियं (चूळव. ४०२) आगतमेव.
एवं उपसम्पन्ना पन महापजापति सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि. अथस्सा सत्था धम्मं देसेसि. सा सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरहत्तं पापुणि. सेसा च पञ्चसतभिक्खुनियो नन्दकोवादपरियोसाने (म. नि. ३.३९८) अरहत्तं पापुणिंसु. एवं भिक्खुनिसङ्घे सुप्पतिट्ठिते पुथुभूते तत्थ तत्थ गामनिगमजनपदराजधानीसु कुलित्थियो कुलसुण्हायो कुलकुमारिकायो बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तितञ्च सुत्वा, सासने अभिप्पसन्ना संसारे च जातसंवेगा अत्तनो सामिके मातापितरो ञातके च अनुजानापेत्वा, सासने उरं दत्वा पब्बजिंसु. पब्बजित्वा च सीलाचारसम्पन्ना सत्थुनो च तेसं थेरानञ्च सन्तिके ओवादं लभित्वा घटेन्तियो वायमन्तियो नचिरस्सेव अरहत्तं सच्छाकंसु. ताहि उदानादिवसेन तत्थ तत्थ भासिता गाथा पच्छा सङ्गीतिकारकेहि एकज्झं कत्वा एककनिपातादिवसेन सङ्गीतिं आरोपयिंसु ‘‘इमा थेरीगाथा नामा’’ति. तासं निपातादिविभागो हेट्ठा वुत्तोयेव. तत्थ निपातेसु एककनिपातो आदि. तत्थपि –
१. ‘‘सुखं सुपाहि थेरिके, कत्वा चोळेन पारुता;
उपसन्तो हि ते रागो, सुक्खडाकंव कुम्भिय’’न्ति. –
अयं गाथा आदि. तस्सा का उप्पत्ति? अतीते किर अञ्ञतरा कुलधीता कोणागमनस्स भगवतो काले सासने अभिप्पसन्ना हुत्वा सत्थारं निमन्तेत्वा दुतियदिवसे साखामण्डपं कारेत्वा वालिकं अत्थरित्वा उपरि वितानं बन्धित्वा गन्धपुप्फादीहि पूजं कत्वा सत्थु कालं आरोचापेसि. सत्था तत्थ गन्त्वा पञ्ञत्ते आसने निसीदि. सा भगवन्तं वन्दित्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं तिचीवरेन अच्छादेसि. तस्सा भगवा अनुमोदनं कत्वा पक्कामि. सा यावतायुकं पुञ्ञानि कत्वा आयुपरियोसाने देवलोके निब्बत्तित्वा एकं बुद्धन्तरं सुगतीसु एव संसरन्ती कस्सपस्स भगवतो काले गहपतिकुले निब्बत्तित्वा विञ्ञुतं पत्वा, संसारे जातसंवेगा सासने पब्बजित्वा उपसम्पज्जित्वा वीसतिवस्सहस्सानि भिक्खुनिसीलं पूरेत्वा, पुथुज्जनकालकिरियं कत्वा, सग्गे निब्बत्ता एकं बुद्धन्तरं सग्गसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे वेसालियं खत्तियमहासालकुले निब्बत्ति. तं थिरसन्तसरीरताय थेरिकाति वोहरिंसु. सा वयप्पत्ता कुलप्पदेसादिना समानजातिकस्स खत्तियकुमारस्स मातापितूहि दिन्ना पतिदेवता हुत्वा वसन्ती सत्थु वेसालिगमने सासने पटिलद्धसद्धा उपासिका हुत्वा, अपरभागे महापजापतिगोतमीथेरिया सन्तिके धम्मं सुत्वा पब्बज्जाय रुचिं उप्पादेत्वा ‘‘अहं पब्बजिस्सामी’’ति सामिकस्सारोचेसि. सामिको नानुजानाति. सा पन कताधिकारताय यथासुतं धम्मं पच्चवेक्खित्वा रूपारूपधम्मे परिग्गहेत्वा विपस्सनं अनुयुत्ता विहरति.
अथेकदिवसं महानसे ब्यञ्जने पच्चमाने महती अग्गिजाला उट्ठहि. सा अग्गिजाला सकलभाजनं तटतटायन्तं झायति. सा तं दिस्वा तदेवारम्मणं कत्वा सुट्ठुतरं अनिच्चतं उपट्ठहन्तं उपधारेत्वा ततो तत्थ दुक्खानिच्चानत्ततञ्च आरोपेत्वा विपस्सनं वड्ढेत्वा अनुक्कमेन उस्सुक्कापेत्वा मग्गपटिपाटिया अनागामिफले पतिट्ठहि. सा ततो पट्ठाय आभरणं वा अलङ्कारं वा न धारेति. सा सामिकेन ‘‘कस्मा त्वं, भद्दे, इदानि पुब्बे विय आभरणं वा अलङ्कारं वा न धारेसी’’ति वुत्ता अत्तनो गिहिभावे अभब्बभावं आरोचेत्वा पब्बज्जं अनुजानापेसि. सो विसाखो उपासको विय धम्मदिन्नं महता परिहारेन महापजापतिगोतमिया सन्तिकं नेत्वा ‘‘इमं, अय्ये, पब्बाजेथा’’ति आह. अथ महापजापतिगोतमी तं पब्बाजेत्वा उपसम्पादेत्वा विहारं नेत्वा सत्थारं दस्सेसि. सत्थापिस्सा पकतिया दिट्ठारम्मणमेव विभावेन्तो ‘‘सुखं सुपाही’’ति गाथमाह.
तत्थ सुखन्ति भावनपुंसकनिद्देसो. सुपाहीति आणत्तिवचनं. थेरिकेति आमन्तनवचनं. कत्वा चोळेन पारुताति अप्पिच्छताय नियोजनं. उपसन्तो हि ते रागोति पटिपत्तिकित्तनं. सुक्खडाकंवाति उपसमेतब्बस्स किलेसस्स असारभावनिदस्सनं. कुम्भियन्ति तदाधारस्स अनिच्चतुच्छादिभावनिदस्सनं.
सुखन्ति चेतं इट्ठाधिवचनं. सुखेन निदुक्खा हुत्वाति अत्थो. सुपाहीति निपज्जनिदस्सनञ्चेतं चतुन्नं इरियापथानं, तस्मा चत्तारोपि इरियापथे सुखेनेव कप्पेहि सुखं विहराति अत्थो. थेरिकेति इदं यदिपि तस्सा नामकित्तनं, पचुरेन अन्वत्थसञ्ञाभावतो पन थिरे सासने थिरभावप्पत्ते, थिरेहि सीलादिधम्मेहि समन्नागतेति अत्थो. कत्वा चोळेन पारुताति पंसुकूलचोळेहि चीवरं कत्वा अच्छादितसरीरा तं निवत्था चेव पारुता च. उपसन्तो हि ते रागोति हि-सद्दो हेत्वत्थो. यस्मा तव सन्ताने उप्पज्जनककामरागो उपसन्तो अनागामिमग्गञाणग्गिना दड्ढो, इदानि तदवसेसं रागं अग्गमग्गञाणग्गिना दहेत्वा सुखं सुपाहीति अधिप्पायो. सुक्खडाकंव कुम्भियन्ति यथा तं पक्के भाजने अप्पकं डाकब्यञ्जनं महतिया अग्गिजालाय पच्चमानं झायित्वा सुस्सन्तं वूपसम्मति, यथा वा उदकमिस्से डाकब्यञ्जने उद्धनं आरोपेत्वा पच्चमाने उदके विज्जमाने तं चिच्चिटायति चिटिचिटायति, उदके पन छिन्ने उपसन्तमेव होति, एवं तव सन्ताने कामरागो उपसन्तो, इतरम्पि वूपसमेत्वा सुखं सुपाहीति.
थेरी इन्द्रियानं परिपाकं गतत्ता सत्थु देसनाविलासेन च गाथापरियोसाने सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.२६-३०).
‘‘कोणागमनबुद्धस्स, मण्डपो कारितो मया;
धुवं तिचीवरंदासिं, बुद्धस्स लोकबन्धुनो.
‘‘यं यं जनपदं यामि, निगमे राजधानियो;
सब्बत्थ पूजितो होमि, पुञ्ञकम्मस्सिदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागीव बन्धनं छेत्वा, विहरामि अनासवा.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा थेरी उदानेन्ती तमेव गाथं अभासि, तेनायं गाथा तस्सा थेरिया गाथा अहोसि. तत्थ थेरिया वुत्तगाथाय अनवसेसो रागो परिग्गहितो अग्गमग्गेन तस्स वूपसमस्स अधिप्पेतत्ता. रागवूपसमेनेव चेत्थ सब्बेसम्पि किलेसानं वूपसमो वुत्तोति दट्ठब्बं तदेकट्ठताय सब्बेसं किलेसधम्मानं वूपसमसिद्धितो. तथा हि वुच्चति –
‘‘उद्धच्चविचिकिच्छाहि, यो मोहो सहजो मतो;
पहानेकट्ठभावेन, रागेन सरणो हि सो’’ति.
यथा चेत्थ सब्बेसं संकिलेसानं वूपसमो वुत्तो, एवं सब्बत्थापि तेसं वूपसमो वुत्तोति वेदितब्बं. पुब्बभागे तदङ्गवसेन, समथविपस्सनाक्खणे विक्खम्भनवसेन, मग्गक्खणे समुच्छेदवसेन, फलक्खणे पटिप्पस्सद्धिवसेन वूपसमसिद्धितो. तेन चतुब्बिधस्सापि पहानस्स सिद्धि वेदितब्बा. तत्थ तदङ्गप्पहानेन सीलसम्पदासिद्धि, विक्खम्भनपहानेन समाधिसम्पदासिद्धि, इतरेहि पञ्ञासम्पदासिद्धि दस्सिता होति पहानाभिसमयोपसिज्झनतो. यथा भावनाभिसमयं साधेति तस्मिं असति तदभावतो, तथा सच्छिकिरियाभिसमयं परिञ्ञाभिसमयञ्च साधेति एवाति. चतुराभिसमयसिद्धिया तिस्सो सिक्खा, पटिपत्तिया तिविधकल्याणता, सत्तविसुद्धियो च परिपुण्णा इमाय गाथाय पकासिता होन्तीति वेदितब्बं. अञ्ञतराथेरी अपञ्ञाता नामगोत्तादिवसेन अपाकटा, एका थेरी लक्खणसम्पन्ना भिक्खुनी इमं गाथं अभासीति अधिप्पायो.
अञ्ञतराथेरीगाथावण्णना निट्ठिता.
२. मुत्ताथेरीगाथावण्णना
२. ‘‘मुत्ते मुच्चस्सु योगेहि, चन्दो राहुग्गहा इव;
विप्पमुत्तेन चित्तेन, अनणा भुञ्ज पिण्डक’’न्ति. –
अयं मुत्ताय नाम सिक्खमानाय गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थारं रथियं गच्छन्तं दिस्वा पसन्नमानसा पञ्चपतिट्ठितेन वन्दित्वा पीतिवेगेन सत्थु पादमूले अवकुज्जा निपज्जि. सा तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, मुत्तातिस्सा नामं अहोसि. सा उपनिस्सयसम्पन्नताय वीसतिवस्सकाले महापजापतिगोतमिया सन्तिके पब्बजित्वा सिक्खमानाव हुत्वा कम्मट्ठानं कथापेत्वा विपस्सनाय कम्मं करोति. सा एकदिवसं भत्तकिच्चं कत्वा पिण्डपातपटिक्कन्ता थेरीनं भिक्खुनीनं वत्तं दस्सेत्वा दिवाट्ठानं गन्त्वा रहो निसिन्ना विपस्सनाय मनसिकारं आरभि. सत्था सुरभिगन्धकुटिया निसिन्नोव ओभासं विस्सज्जेत्वा तस्सा पुरतो निसिन्नो विय अत्तानं दस्सेत्वा ‘‘मुत्ते मुच्चस्सु योगेही’’ति इमं गाथमाह.
तत्थ मुत्तेति तस्सा आलपनं. मुच्चस्सु योगेहीति मग्गपटिपाटिया कामयोगादीहि चतूहि योगेहि मुच्च, तेहि विमुत्तचित्ता होहि. यथा किं? चन्दो राहुग्गहा इवाति राहुसङ्खातो गहतो चन्दो विय उपक्किलेसतो मुच्चस्सु. विप्पमुत्तेन चित्तेनाति अरियमग्गेन समुच्छेदविमुत्तिया सुट्ठु विमुत्तेन चित्तेन, इत्थं भूतलक्खणे चेतं करणवचनं. अनणा भुञ्ज पिण्डकन्ति किलेसइणं पहाय अनणा हुत्वा रट्ठपिण्डं भुञ्जेय्यासि. यो हि किलेसे अप्पहाय सत्थारा अनुञ्ञातपच्चये परिभुञ्जति, सो साणो परिभुञ्जति नाम. यथाह आयस्मा बाकुलो – ‘‘सत्ताहमेव खो अहं, आवुसो, साणो रट्ठपिण्डं भुञ्जि’’न्ति (म. नि. ३.२११). तस्मा सासने पब्बजितेन कामच्छन्दादिइणं पहानाय अनणेन हुत्वा सद्धादेय्यं परिभुञ्जितब्बं. पिण्डकन्ति देसनासीसमेव, चत्तारोपि पच्चयेति अत्थो. अभिण्हं ओवदतीति अरियमग्गप्पत्तिया उपक्किलेसे विसोधेन्तो बहुसो ओवादं देति.
सा तस्मिं ओवादे ठत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.३१-३६) –
‘‘विपस्सिस्स भगवतो, लोकजेट्ठस्स तादिनो;
रथियं पटिपन्नस्स, तारयन्तस्स पाणिनो.
‘‘घरतो निक्खमित्वान, अवकुज्जा निपज्जहं;
अनुकम्पको लोकनाथो, सिरसि अक्कमी मम.
‘‘अक्कमित्वान सिरसि, अगमा लोकनायको;
तेन चित्तप्पसादेन, तुसितं अगमासहं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सा तमेव गाथं उदानेसि. परिपुण्णसिक्खा उपसम्पज्जित्वा अपरभागे परिनिब्बानकालेपि तमेव गाथं पच्चभासीति.
मुत्ताथेरीगाथावण्णना निट्ठिता.
३. पुण्णाथेरीगाथावण्णना
पुण्णे पूरस्सु धम्मेहीति पुण्णाय नाम सिक्खमानाय गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती बुद्धसुञ्ञे लोके चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्ता. एकदिवसं तत्थ अञ्ञतरं पच्चेकबुद्धं दिस्वा पसन्नमानसा नळमालाय तं पूजेत्वा अञ्जलिं पग्गय्ह अट्ठासि. सा तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिमहासालकुले निब्बत्ति. पुण्णातिस्सा नामं अहोसि. सा उपनिस्सयसम्पन्नताय वीसतिवस्सानि वसमाना महापजापतिगोतमिया सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा सिक्खमाना एव हुत्वा विपस्सनं आरभि. सत्था तस्सा गन्धकुटियं निसिन्नो एव ओभासं विस्सज्जेत्वा –
३. ‘‘पुण्णे पूरस्सु धम्मेहि, चन्दो पन्नरसेरिव;
परिपुण्णाय पञ्ञाय, तमोखन्धं पदालया’’ति. – इमं गाथमाह;
तत्थ पुण्णेति तस्सा आलपनं. पूरस्सु धम्मेहीति सत्ततिंसबोधिपक्खियधम्मेहि परिपुण्णा होहि. चन्दो पन्नरसेरिवाति र-कारो पदसन्धिकरो. पन्नरसे पुण्णमासियं सब्बाहि कलाहि परिपुण्णो चन्दो विय. परिपुण्णाय पञ्ञायाति सोळसन्नं किच्चानं पारिपूरिया परिपुण्णाय अरहत्तमग्गपञ्ञाय. तमोखन्धं पदालयाति मोहक्खन्धं अनवसेसतो भिन्द समुच्छिन्द. मोहक्खन्धपदालनेन सहेव सब्बेपि किलेसा पदालिता होन्तीति.
सा तं गाथं सुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.३७-४५) –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरी तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्ता सुमना, वेदजाता कतञ्जली;
नळमालं गहेत्वान, सयम्भुं अभिपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरीदेहं, अगच्छिं तिदसं गतिं.
‘‘छत्तिंसदेवराजूनं, महेसित्तमकारयिं;
दसन्नं चक्कवत्तीनं, महेसित्तमकारयिं;
संवेजेत्वान मे चित्तं, पब्बजिं अनगारियं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सा थेरी तमेव गाथं उदानेसि. अयमेव चस्सा अञ्ञाब्याकरणगाथा अहोसीति.
पुण्णाथेरीगाथावण्णना निट्ठिता.
४. तिस्साथेरीगाथावण्णना
तिस्से सिक्खस्सु सिक्खायाति तिस्साय सिक्खमानाय गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सम्भतकुसलपच्चया इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्तित्वा वयप्पत्ता बोधिसत्तस्स ओरोधभूता पच्छा महापजापतिगोतमिया सद्धिं निक्खमित्वा पब्बजित्वा विपस्सनाय कम्मं करोति. तस्सा सत्था हेट्ठा वुत्तनयेनेव ओभासं विस्सज्जेत्वा –
४. ‘‘तिस्से सिक्खस्सु सिक्खाय, मा तं योगा उपच्चगुं;
सब्बयोगविसंयुत्ता, चर लोके अनासवा’’ति. – गाथं अभासि;
तत्थ तिस्सेति तस्सा आलपनं. सिक्खस्सु सिक्खायाति अधिसीलसिक्खादिकाय तिविधाय सिक्खाय सिक्ख, मग्गसम्पयुत्ता तिस्सो सिक्खायो सम्पादेहीति अत्थो. इदानि तासं सम्पादने कारणमाह ‘‘मा तं योगा उपच्चगु’’न्ति मनुस्सत्तं, इन्द्रियावेकल्लं, बुद्धुप्पादो, सद्धापटिलाभोति इमे योगा समया दुल्लभक्खणा तं मा अतिक्कमुं. कामयोगादयो एव वा चत्तारो योगा तं मा उपच्चगुं मा अभिभवेय्युं. सब्बयोगविसंयुत्ताति सब्बेहि कामयोगादीहि योगेहि विमुत्ता ततो एव अनासवा हुत्वा लोके चर, दिट्ठसुखविहारेन विहराहीति अत्थो.
सा तं गाथं सुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति आदिनयो हेट्ठा वुत्तनयेनेव वेदितब्बो.
तिस्साथेरीगाथावण्णना निट्ठिता.
५-१०. तिस्सादिथेरीगाथावण्णना
तिस्से युञ्जस्सु धम्मेहीति तिस्साय थेरिया गाथा. तस्सा वत्थु तिस्सासिक्खमानाय वत्थुसदिसं. अयं पन थेरी हुत्वा अरहत्तं पापुणि. यथा च अयं, एवं इतो परं धीरा, वीरा, मित्ता, भद्रा, उपसमाति पञ्चन्नं थेरीनं वत्थु एकसदिसमेव. सब्बापि इमा कपिलवत्थुवासिनियो बोधिसत्तस्स ओरोधभूता महापजापतिगोतमिया सद्धिं निक्खन्ता ओभासगाथाय च अरहत्तं पत्ता ठपेत्वा सत्तमिं. सा पन ओभासगाथाय विना पगेव सत्थु सन्तिके लद्धं ओवादं निस्साय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणित्वा उदानवसेन ‘‘वीरा वीरेही’’ति गाथं अभासि. इतरापि अरहत्तं पत्वा –
५. ‘‘तिस्से युञ्जस्सु धम्मेहि, खणो तं मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता.
६. ‘‘धीरे निरोधं फुसेहि, सञ्ञावूपसमं सुखं;
आराधयाहि निब्बानं, योगक्खेममनुत्तरं.
७. ‘‘वीरा वीरेहि धम्मेहि, भिक्खुनी भावितिन्द्रिया;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.
८. ‘‘सद्धाय पब्बजित्वान, मित्ते मित्तरता भव;
भावेहि कुसले धम्मे, योगक्खेमस्स पत्तिया.
९. ‘‘सद्धाय पब्बजित्वान, भद्रे भद्ररता भव;
भावेहि कुसले धम्मे, योगक्खेममनुत्तरं.
१०. ‘‘उपसमे तरे ओघं, मच्चुधेय्यं सुदुत्तरं;
धारेहि अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति. – गाथायो अभासिंसु;
तत्थ युञ्जस्सु धम्मेहीति समथविपस्सनाधम्मेहि अरियेहि बोधिपक्खियधम्मेहि च युञ्ज योगं करोहि. खणो तं मा उपच्चगाति यो एवं योगभावनं न करोति, तं पुग्गलं पतिरूपदेसे उप्पत्तिक्खणो, छन्नं आयतनानं अवेकल्लक्खणो, बुद्धुप्पादक्खणो, सद्धाय पटिलद्धक्खणो, सब्बोपि अयं खणो अतिक्कमति नाम. सो खणो तं मा अतिक्कमि. खणातीताति ये हि खणं अतीता, ये च पुग्गले सो खणो अभीतो, ते निरयम्हि समप्पिता हुत्वा सोचन्ति, तत्थ निब्बत्तित्वा महादुक्खं पच्चनुभवन्तीति अत्थो.
निरोधं फुसेहीति किलेसनिरोधं फुस्स पटिलभ. सञ्ञावूपसमं सुखं, आराधयाहि निब्बानन्ति कामसञ्ञादीनं पापसञ्ञानं उपसमनिमित्तं अच्चन्तसुखं निब्बानं आराधेहि.
वीरा वीरेहि धम्मेहीति वीरियपधानताय वीरेहि तेजुस्सदेहि अरियमग्गधम्मेहि भावितिन्द्रिया वड्ढितसद्धादिइन्द्रिया वीरा भिक्खुनी वत्थुकामेहि सवाहनं किलेसमारं जिनित्वा आयतिं पुनब्भवाभावतो अन्तिमं देहं धारेतीति थेरी अञ्ञं विय कत्वा अत्तानं दस्सेति.
मित्तेति तं आलपति. मित्तरताति कल्याणमित्तेसु अभिरता. तत्थ सक्कारसम्मानकरणता होहि. भावेहि कुसले धम्मेति अरियमग्गधम्मे वड्ढेहि. योगक्खेमस्साति अरहत्तस्स निब्बानस्स च पत्तिया अधिगमाय.
भद्रेति तं आलपति. भद्ररताति भद्रेसु सीलादिधम्मेसु रता अभिरता होहि. योगक्खेममनुत्तरन्ति चतूहि योगेहि खेमं अनुपद्दवं अनुत्तरं निब्बानं, तस्स पत्तिया कुसले बोधिपक्खियधम्मे भावेहीति अत्थो.
उपसमेति तं आलपति. तरे ओघं मच्चुधेय्यं सुदुत्तरन्ति मच्चु एत्थ धीयतीति मच्चुधेय्यं, अनुपचितकुसलसम्भारेहि सुट्ठु दुत्तरन्ति सुदुत्तरं, संसारमहोघं तरे अरियमग्गनावाय तरेय्यासि. धारेहि अन्तिमं देहन्ति तस्स तरणेनेव अन्तिमदेहधरा होहीति अत्थो.
तिस्सादिथेरीगाथावण्णना निट्ठिता.
निट्ठिता पठमवग्गवण्णना.
११. मुत्ताथेरीगाथावण्णना
सुमुत्ता साधुमुत्ताम्हीतिआदिका मुत्ताथेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कोसलजनपदे ओघातकस्स नाम दलिद्दब्राह्मणस्स धीता हुत्वा निब्बत्ति, तं वयप्पत्तकाले मातापितरो एकस्स खुज्जब्राह्मणस्स अदंसु. सा तेन घरावासं अरोचन्ती तं अनुजानापेत्वा पब्बजित्वा विपस्सनाय कम्मं करोति. तस्सा बहिद्धारम्मणेसु चित्तं विधावति, सा तं निग्गण्हन्ती ‘‘सुमुत्ता साधुमुत्ताम्ही’’ति गाथं वदन्तीयेव विपस्सनं उस्सुक्कापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;
पाणिने अनुगण्हन्तो, पिण्डाय पाविसी पुरं.
‘‘तस्स आगच्छतो सत्थु, सब्बे नगरवासिनो;
हट्ठतुट्ठा समागन्त्वा, वालिका आकिरिंसु ते.
‘‘वीथिसम्मज्जनं कत्वा, कदलिपुण्णकद्धजे;
धूमं चुण्णञ्च मासञ्च, सक्कारं कच्च सत्थुनो.
‘‘मण्डपं पटियादेत्वा, निमन्तेत्वा विनायकं;
महादानं ददित्वान, सम्बोधिं अभिपत्थयि.
‘‘पदुमुत्तरो महावीरो, हारको सब्बपाणिनं;
अनुमोदनियं कत्वा, ब्याकासि अग्गपुग्गलो.
‘‘सतसहस्से अतिक्कन्ते, कप्पो हेस्सति भद्दको;
भवाभवे सुखं लद्धा, पापुणिस्ससि बोधियं.
‘‘हत्थकम्मञ्च ये केचि, कतावी नरनारियो;
अनागतम्हि अद्धाने, सब्बा हेस्सन्ति सम्मुखा.
‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च;
उप्पन्नदेवभवने, तुय्हं ता परिचारिका.
‘‘दिब्बं सुखमसङ्ख्येय्यं, मानुसञ्च असङ्खियं;
अनुभोन्ति चिरं कालं, संसरिम्ह भवाभवे.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
सुखुमाला मनुस्सेसु, अथो देवपुरेसु च.
‘‘रूपं भोगं यसं आयुं, अथो कित्तिसुखं पियं;
लभामि सततं सब्बं, सुकतं कम्मसम्पदं.
‘‘पच्छिमे भवे सम्पत्ते, जाताहं ब्राह्मणे कुले;
सुखुमालहत्थपादा, रमणिये निवेसने.
‘‘सब्बकालम्पि पथवी, न पस्सामनलङ्कतं;
चिक्खल्लभूमिं असुचिं, न पस्सामि कुदाचनं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा उदानेन्ती –
११. ‘‘सुमुत्ता साधुमुत्ताम्हि, तीहि खुज्जेहि मुत्तिया;
उदुक्खलेन मुसलेन, पतिना खुज्जकेन च;
मुत्ताम्हि जातिमरणा, भवनेत्ति समूहता’’ति. – इमं गाथं अभासि;
तत्थ सुमुत्ताति सुट्ठु मुत्ता. साधुमुत्ताम्हीति साधु सम्मदेव मुत्ता अम्हि. कुतो पन सुमुत्ता साधुमुत्ताति आह ‘‘तीहि खुज्जेहि मुत्तिया’’ति, तीहि वङ्ककेहि परिमुत्तियाति अत्थो. इदानि तानि सरूपतो दस्सेन्ती ‘‘उदुक्खलेन मुसलेन, पतिना खुज्जकेन चा’’ति आह. उदुक्खले हि धञ्ञं पक्खिपन्तिया परिवत्तेन्तिया मुसलेन कोट्टेन्तिया च पिट्ठि ओनामेतब्बा होतीति खुज्जकरणहेतुताय तदुभयं ‘‘खुज्ज’’न्ति वुत्तं. सामिको पनस्सा खुज्जो एव. इदानि यस्सा मुत्तिया निदस्सनवसेन तीहि खुज्जेहि मुत्ति वुत्ता. तमेव दस्सेन्ती ‘‘मुत्ताम्हि जातिमरणा’’ति वत्वा तत्थ कारणमाह ‘‘भवनेत्ति समूहता’’ति. तस्सत्थो – न केवलमहं तीहि खुज्जेहि एव मुत्ता, अथ खो सब्बस्मा जातिमरणापि, यस्मा सब्बस्सापि भवस्स नेत्ति नायिका तण्हा अग्गमग्गेन मया समुग्घाटिताति.
मुत्ताथेरीगाथावण्णना निट्ठिता.
१२. धम्मदिन्नाथेरीगाथावण्णना
छन्दजाता अवसायीति धम्मदिन्नाथेरिया गाथा. सा किर पदुमुत्तरबुद्धकाले हंसवतीनगरे पराधीनवुत्तिका हुत्वा जीवन्ती निरोधतो वुट्ठितस्स अग्गसावकस्स पूजासक्कारपुब्बकं दानं दत्वा देवलोके निब्बत्ता. ततो चवित्वा देवमनुस्सेसु संसरन्ती फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकानं कम्मिकस्स गेहे वसमाना दानं पटिच्च ‘‘एकं देही’’ति सामिकेन वुत्ते द्वे देन्ती, बहुं पुञ्ञं कत्वा कस्सपबुद्धकाले किकिस्स कासिकरञ्ञो गेहे पटिसन्धिं गहेत्वा सत्तन्नं भगिनीनं अब्भन्तरा हुत्वा वीसतिवस्ससहस्सानि ब्रह्मचरियं चरित्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे कुलगेहे निब्बत्तित्वा वयप्पत्ता विसाखस्स सेट्ठिनो गेहं गता.
अथेकदिवसं विसाखो सेट्ठि सत्थु सन्तिके धम्मं सुत्वा अनागामी हुत्वा घरं गन्त्वा पासादं अभिरुहन्तो सोपानमत्थके ठिताय धम्मदिन्नाय पसारितहत्थं अनालम्बित्वाव पासादं अभिरुहित्वा भुञ्जमानोपि तुण्हीभूतोव भुञ्जि. धम्मदिन्ना तं उपधारेत्वा, ‘‘अय्यपुत्त, कस्मा त्वं अज्ज मम हत्थं नालम्बि, भुञ्जमानोपि न किञ्चि कथेसि, अत्थि नु खो कोचि मय्हं दोसो’’ति आह. विसाखो ‘‘धम्मदिन्ने, न ते दोसो अत्थि, अहं पन अज्ज पट्ठाय इत्थिसरीरं फुसितुं आहारे च लोलभावं कातुं अनरहो, तादिसो मया धम्मो पटिविद्धो. त्वं पन सचे इच्छसि, इमस्मिंयेव गेहे वस. नो चे इच्छसि, यत्तकेन धनेन ते अत्थो, तत्तकं गहेत्वा कुलघरं गच्छाही’’ति आह. ‘‘नाहं, अय्यपुत्त, तया वन्तवमनं आचमिस्सामि, पब्बज्जं मे अनुजानाही’’ति. विसाखो ‘‘साधु, धम्मदिन्ने’’ति तं सुवण्णसिविकाय भिक्खुनिउपस्सयं पेसेसि. सा पब्बजित्वा कम्मट्ठानं गहेत्वा कतिपाहं तत्थ वसित्वा विवेकवासं वसितुकामा आचरियुपज्झायानं सन्तिकं गन्त्वा, ‘‘अय्या, आकिण्णट्ठाने मय्हं चित्तं न रमति, गामकावासं गच्छामी’’ति आह. भिक्खुनियो तं गामकावासं नयिंसु. सा तत्थ वसन्ती अतीते मद्दितसङ्खारताय न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.९५-१३०) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, कुले अञ्ञतरे अहुं;
परकम्मकारी आसिं, निपका सीलसंवुता.
‘‘पदुमुत्तरबुद्धस्स, सुजातो अग्गसावको;
विहारा अभिनिक्खम्म, पिण्डपाताय गच्छति.
‘‘घटं गहेत्वा गच्छन्ती, तदा उदकहारिका;
तं दिस्वा अददं पूपं, पसन्ना सेहि पाणिभि.
‘‘पटिग्गहेत्वा तत्थेव, निसिन्नो परिभुञ्जि सो;
ततो नेत्वान तं गेहं, अदासिं तस्स भोजनं.
‘‘ततो मे अय्यको तुट्ठो, अकरी सुणिसं सकं;
सस्सुया सह गन्त्वान, सम्बुद्धं अभिवादयिं.
‘‘तदा सो धम्मकथिकं, भिक्खुनिं परिकित्तयं;
ठपेसि एतदग्गम्हि, तं सुत्वा मुदिता अहं.
‘‘निमन्तयित्वा सुगतं, ससङ्घं लोकनायकं;