५. सरभङ्गत्थेरगाथावण्णना
सरे हत्थेहीतिआदिका आयस्मतो सरभङ्गत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, अनभिलक्खितोतिस्स कुलवंसागतं नामं अहोसि. सो वयप्पत्तो कामे पहाय तापसपब्बज्जं पब्बजित्वा सरतिणानि सयमेव भञ्जित्वा पण्णसालं कत्वा वसति. ततो पट्ठाय सरभङ्गोतिस्स समञ्ञा अहोसि. अथ भगवा बुद्धचक्खुना लोकं वोलोकेन्तो तस्स अरहत्तूपनिस्सयं दिस्वा, तत्थ गन्त्वा, धम्मं देसेसि. सो पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा तत्थेव वसति. अथस्स तापसकाले कता पण्णसाला जिण्णा पलुग्गा अहोसि. तं दिस्वा मनुस्सा ‘‘किस्स, भन्ते, इमं कुटिकं न पटिसङ्खरोथा’’ति आहंसु. थेरो ‘‘कुटिका यथा तापसकाले कता, इदानि तथा कातुं न सक्का’’ति तं सब्बं पकासेन्तो –
४८७. ‘‘सरे हत्थेहि भञ्जित्वा, कत्वान कुटिमच्छिसं;
तेन मे सरभङ्गोति, नामं सम्मुतिया अहु.
४८८. ‘‘न मय्हं कप्पते अज्ज, सरे हत्थेहि भञ्जितुं;
सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिना’’ति. – द्वे गाथा अभासि;
तत्थ सरे हत्थेहि भञ्जित्वाति, पुब्बे तापसकाले सरतिणानि मम हत्थेहि छिन्दित्वा तिणकुटिं कत्वा अच्छिसं वसिं, निसीदिञ्चेव निपज्जिञ्च. तेनाति कुटिकरणत्थं सरानं भञ्जनेन. सम्मुतियाति अन्वत्थसम्मुतिया सरभङ्गोति, नामं अहु अहोसि.
न मय्हं कप्पते अज्जाति अज्ज इदानि उपसम्पन्नस्स मय्हं सरे सरतिणे हत्थेहि भञ्जितुं न कप्पते न वट्टति. कस्मा? सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिनाति. तेन यं अम्हाकं सत्थारा सिक्खापदं पञ्ञत्तं, तं मयं जीवितहेतुनापि नातिक्कमामाति दस्सेति.
एवं एकेन पकारेन तिणकुटिकाय अपटिसङ्खरणे कारणं दस्सेत्वा इदानि अपरेनपि परियायेन नं दस्सेन्तो –
४८९. ‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे;
सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्सा’’ति. – इमं गाथमाह;
तत्थ सकलन्ति सब्बं. समत्तन्ति सम्पुण्णं, सब्बभागतो अनवसेसन्ति अत्थो. रोगन्ति दुक्खदुक्खतादिवसेन रुजनट्ठेन रोगभूतं उपादानक्खन्धपञ्चकं सन्धाय वदति. नाद्दसं पुब्बेति सत्थु ओवादपटिलाभतो पुब्बे न अद्दक्खिं. सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्साति सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति सब्बेपि देवे अत्तनो सीलादिगुणेहि अतिक्कमित्वा ठितत्ता अतिदेवस्स सम्मासम्बुद्धस्स ओवादपटिकरेन सरभङ्गेन सो अयं खन्धपञ्चकसङ्खातो रोगो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पञ्चक्खन्धतो दिट्ठो, परिञ्ञातोति अत्थो. एतेन एवं अत्तभावकुटिकायम्पि अनपेक्खो बाहिरं तिणकुटिकं कथं पटिसङ्खरिस्सतीति दस्सेति.
इदानि यं मग्गं पटिपज्जन्तेन मया अयं अत्तभावरोगो याथावतो दिट्ठो, स्वायं मग्गो सब्बबुद्धसाधारणो. येन नेसं ओवादधम्मोपि मज्झे भिन्नसुवण्णसदिसो यत्थाहं पतिट्ठाय दुक्खक्खयं पत्तोति एवं अत्तनो अरहत्तपटिपत्तिं ब्याकरोन्तो –
४९०. ‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू;
ककुसन्धकोणागमनो च कस्सपो, तेनञ्जसेन अगमासि गोतमो.
४९१. ‘‘वीततण्हा अनादाना, सत्त बुद्धा खयोगधा;
येहायं देसितो धम्मो, धम्मभूतेहि तादिभि.
४९२. ‘‘चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं;
दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो.
४९३. ‘‘यस्मिं निवत्तते दुक्खं, संसारस्मिं अनन्तकं;
भेदा इमस्स कायस्स, जीवितस्स च सङ्खया;
अञ्ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति. –
इमा गाथा अभासि –
तत्थ येनेव मग्गेनाति येनेव सपुब्बभागेन अरियेन अट्ठङ्गिकेन मग्गेन. गतोति पटिपन्नो निब्बानं अधिगतो. विपस्सीति विपस्सी सम्मासम्बुद्धो. ककुसन्धाति अविभत्तिको निद्देसो. ‘‘ककुसन्धकोणागमना’’तिपि पाठो. तेनञ्जसेनाति तेनेव अञ्जसेन अरियमग्गेन.
अनादानाति अनुपादाना अप्पटिसन्धिका वा. खयोगधाति निब्बानोगधा निब्बानपतिट्ठा. येहायं देसितो धम्मोति येहि सत्तहि सम्मासम्बुद्धेहि अयं सासनधम्मो देसितो पवेदितो. धम्मभूतेहीति धम्मकायताय धम्मसभावेहि, नवलोकुत्तरधम्मतो वा भूतेहि जातेहि, धम्मं वा पत्तेहि. तादिभीति, इट्ठादीसु तादिभावप्पत्तेहि.
‘‘चत्तारि अरियसच्चानी’’तिआदिना तेहि देसितं धम्मं दस्सेति. तत्थ चत्तारीति गणनपरिच्छेदो. अरियसच्चानीति परिच्छिन्नधम्मदस्सनं. वचनत्थतो पन अरियानि च अवितथट्ठेन सच्चानि चाति अरियसच्चानि, अरियस्स वा भगवतो सच्चानि तेन देसितत्ता, अरियभावकरानि वा सच्चानीति अरियसच्चानि. कुच्छितभावतो तुच्छभावतो च दुक्खं, उपादानक्खन्धपञ्चकं. तं दुक्खं समुदेति एतस्माति समुदयो, तण्हा. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयतीति वा मग्गो, सम्मादिट्ठिआदयो अट्ठ धम्मा. संसारचारकसङ्खातो नत्थि एत्थ रोधो, एतस्मिं वा अधिगते पुग्गलस्स रोधाभावो होति, निरुज्झति दुक्खमेत्थाति वा निरोधो, निब्बानं. तेनाह ‘‘दुक्खसङ्खयो’’ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बो.
यस्मिन्ति यस्मिं निरोधे निब्बाने अधिगते. निवत्ततेति अरियमग्गभावनाय सति अनन्तकं अपरियन्तं इमस्मिं संसारे जातिआदिदुक्खं न पवत्तति उच्छिज्जति, सो निरोधोति अयं धम्मभूतेहि सम्मासम्बुद्धेहि देसितो धम्मोति योजना. ‘‘भेदा’’तिआदिना ‘‘रोगो दिट्ठो’’ति दुक्खपरिञ्ञाय सूचितं अत्तनो अरहत्तप्पत्तिं सरूपतो दस्सेति. ‘‘यस्मिं निब्बत्तते दुक्ख’’न्ति पन पाठे सकलगाथाय तत्थायं योजना – यस्मिं खन्धादिपटिपाटिसञ्ञिते संसारे इदं अनन्तकं जातिआदिदुक्खं निब्बत्तं, सो इतो दुक्खप्पत्तितो अञ्ञो पुनप्पुनं भवनभावतो पुनब्भवो. इमस्स जीवितिन्द्रियस्स सङ्खया कायसङ्खातस्स खन्धपञ्चकस्स भेदा विनासा उद्धं नत्थि, तस्मा सब्बधि सब्बेहि किलेसेहि सब्बेहि भवेहि सुट्ठु विमुत्तो विसंयुत्तो अम्हीति.
सरभङ्गत्थेरगाथावण्णना निट्ठिता.
सत्तकनिपातवण्णना निट्ठिता.