३. भद्दत्थेरगाथावण्णना
एकपुत्तोतिआदिका आयस्मतो भद्दत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरं भगवन्तं भिक्खुसङ्घञ्च सतसहस्सपरिमाणं चीवरादीहि चतूहि पच्चयेहि पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति. निब्बत्तमानो च अपुत्तकेसु मातापितूसु देवतायाचनादीनि कत्वापि अलभन्तेसु सत्थारं उपसङ्कमित्वा ‘‘सचे, भन्ते, मयं एकं पुत्तं लच्छाम, तं तुम्हाकं दासत्थाय दस्सामा’’ति वत्वा आयाचित्वा गतेसु सत्थु अधिप्पायं ञत्वा अञ्ञतरो देवपुत्तो खीणायुको हुत्वा ठितो सक्केन देवरञ्ञा ‘‘अमुकस्मिं कुले निब्बत्ताही’’ति आणत्तो तत्थ निब्बत्ति, भद्दोतिस्स नामं अकंसु. तं सत्तवस्सुद्देसिकं जातं मातापितरो अलङ्करित्वा भगवतो सन्तिकं नेत्वा ‘‘अयं सो, भन्ते, तुम्हे आयाचित्वा लद्धदारको, इमं तुम्हाकं निय्यातेमा’’ति आहंसु. सत्था आनन्दत्थेरं आणापेसि – ‘‘इमं पब्बाजेही’’ति. आणापेत्वा च गन्धकुटिं पाविसि. थेरो तं पब्बाजेत्वा सङ्खेपेन विपस्सनामुखं आचिक्खि. सो उपनिस्सयसम्पन्नत्ता विपस्सनाय कम्मं करोन्तो सूरिये अनोग्गतेयेव भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.५.५४-६९) –
‘‘पदुमुत्तरसम्बुद्धं, मेत्तचित्तं महामुनिं;
उपेति जनता सब्बा, सब्बलोकग्गनायकं.
‘‘सत्तुकञ्च बद्धकञ्च, आमिसं पानभोजनं;
ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अहम्पि दानं दस्सामि, देवदेवस्स तादिनो;
बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.
‘‘उय्योजिता मया चेते, निमन्तेसुं तथागतं;
केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;
तूलिकापटलिकाय, खोमकप्पासिकेहि च;
महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.
‘‘पदुमुत्तरो लोकविदू, देवदेवो नरासभो;
भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.
‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;
पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं.
‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;
पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘चतुसत्ततिक्खत्तुं सो, देवरज्जं करिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;
एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘सब्बासु भवयोनीसु, उच्चाकुली भविस्सति;
सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;
भद्दियो नाम नामेन, हेस्सति सत्थु सावको.
‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;
फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.
‘‘मम सब्बं अभिञ्ञाय, सब्बञ्ञू लोकनायको;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
तस्स भगवा छळभिञ्ञुप्पत्तिं ञत्वा ‘‘एहि, भद्दा’’ति आह. सो तावदेव सत्थारं उपसङ्कमित्वा वन्दित्वा पञ्जलिको सत्थु समीपे अट्ठासि, सा एव चस्स उपसम्पदा अहोसि. बुद्धूपसम्पदा नाम किरेसा. थेरो जातितो पट्ठाय अत्तनो पवत्तिया कथनमुखेन अञ्ञं ब्याकरोन्तो –
४७३. ‘‘एकपुत्तो अहं आसिं, पियो मातु पियो पितु;
बहूहि वतचरियाहि, लद्धो आयाचनाहि च.
४७४. ‘‘ते च मं अनुकम्पाय, अत्थकामा हितेसिनो;
उभो पिता च माता च, बुद्धस्स उपनामयुं.
४७५. ‘‘किच्छा लद्धो अयं पुत्तो, सुखुमालो सुखेधितो;
इमं ददाम ते नाथ, जिनस्स परिचारकं.
४७६. ‘‘सत्था च मं पटिग्गय्ह, आनन्दं एतदब्रवि;
पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं.
४७७. ‘‘पब्बाजेत्वान मं सत्था, विहारं पाविसी जिनो;
अनोग्गतस्मिं सूरियस्मिं, ततो चित्तं विमुच्चि मे.
४७८. ‘‘ततो सत्था निराकत्वा, पटिसल्लानवुट्ठितो;
एहि भद्दाति मं आह, सा मे आसूपसम्पदा.
४७९. ‘‘जातिया सत्तवस्सेन, लद्धा मे उपसम्पदा;
तिस्सो विज्जा अनुप्पत्ता, अहो धम्मसुधम्मता’’ति. –
इमा गाथा अभासि.
तत्थ वतचरियाहीति, ‘‘एवं कत्वा पुत्तं लभिस्सथा’’ति वुत्तं समणब्राह्मणानं वचनं सुत्वा, खीरं पायित्वा, अनसनादिवतचरणेहि. आयाचनाहीति देवतायाचनाहि सत्थुआयाचनाय च, इदमेव चेत्थ कारणं, इतरं थेरो मातापितूनं पटिपत्तिदस्सनत्थञ्चेव किच्छलद्धभावदस्सनत्थञ्च वदति.
तेति मातापितरो. उपनामयुन्ति उपनामेसुं.
सुखेधितोति सुखसंवड्ढितो. तेति तुय्हं. परिचारकन्ति किंकारं.
हेस्सत्याजानियो अयन्ति अयं दारको मम सासने आजानीयो भविस्सति. तस्मा खिप्पं अज्जेव पब्बाजेहीति एतं अब्रवि, आह.
पब्बाजेत्वानाति आनन्दत्थेरेन पब्बाजेत्वा. विहारन्ति गन्धकुटिं. अनोग्गतस्मिं सूरियस्मिन्ति सूरिये अनत्थङ्गतेयेव. ततो चित्तं विमुच्चि मेति ततो विपस्सनारम्भतो परं न चिरेनेव खणेन सब्बासवेहि मे चित्तं विमुच्चि, खीणासवो अहोसिं.
ततोति मम आसवक्खयतो पच्छा. निराकत्वाति अत्तना समापन्नं फलसमापत्तिं अप्पेत्वा ततो वुट्ठाय. तेनाह ‘‘पटिसल्लानवुट्ठितो’’ति. सा मे आसूपसम्पदाति या मं उद्दिस्स ‘‘एहि, भद्दा’’ति सत्थु वाचा पवत्ता, सा एव मे मय्हं उपसम्पदा आसि. एवं जातिया सत्तवस्सेन, लद्धा मे उपसम्पदाति सातिसयं सत्थारा अत्तनो कतं अनुग्गहं सासनस्स च निय्यानिकतं दस्सेति. तेनाह ‘‘अहो धम्मसुधम्मता’’ति.
एत्थ च ‘‘चित्तं विमुच्चि मे’’ति खीणासवभावं पकासेत्वापि पुन ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति लोकियाभिञ्ञेकदेसदस्सनं छळभिञ्ञभावविभावनत्थं. तेनाह अपदाने ‘‘छळभिञ्ञा सच्छिकता’’ति.
भद्दत्थेरगाथावण्णना निट्ठिता.