८. वक्कलित्थेरगाथावण्णना

वातरोगाभिनीतोतिआदिका आयस्मतो वक्कलित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेन्तो सत्ताहं महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ब्याकरि.

सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं सत्थु काले सावत्थियं ब्राह्मणकुले निब्बत्ति, वक्कलीतिस्स नामं अकंसु. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो सत्थारं दिस्वा रूपकायस्स सम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थारं दट्ठुं न लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनवेलं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सती’’ति (सं. नि. ३.८७) आह.

सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सम्मुखे ठातुं असक्कोन्तो ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटपब्बते पपातट्ठानं अभिरुहि. सत्था तस्स तं पवत्तिं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं विस्सज्जेन्तो –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –

गाथं वत्वा ‘‘एहि, वक्कली’’ति हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हानम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ‘‘कुतो आगच्छामी’’ति अत्तनो गमनभावं अजानित्वा सत्थु सम्मुखे आकासे पक्खन्दन्तो पठमपादेन पब्बते ठितोयेव सत्थारा वुत्तगाथं आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१) आगतं.

इध पन एवं वदन्ति – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति, भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव, अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –

३५०. ‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. –

आह. तं सुत्वा थेरो –

३५१. ‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

३५२. ‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;

बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.

३५३. ‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सहिते दिस्वा, विहरिस्सामि कानने.

३५४. ‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;

अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. –

चतस्सो गाथा अभासि.

तत्थ वातरोगाभिनीतोति वाताबाधेन असेरिभावं उपनीतो, वातब्याधिना अभिभूतो. त्वन्ति थेरं आलपति. विहरन्ति तेन इरियापथविहारेन विहरन्तो. कानने वनेति काननभूते वने, महाअरञ्ञेति अत्थो. पविद्धगोचरेति विस्सट्ठगोचरे दुल्लभपच्चये. वातरोगस्स सप्पायानं सप्पिआदिभेसज्जानं अभावेन फरुसभूमिभागताय च लूखे लूखट्ठाने. कथं भिक्खु करिस्ससीति भिक्खु त्वं कथं विहरिस्ससीति भगवा पुच्छि.

तं सुत्वा थेरो निरामिसपीतिसोमनस्सादिना अत्तनो सुखविहारं पकासेन्तो ‘‘पीतिसुखेना’’तिआदिमाह. तत्थ पीतिसुखेनाति उब्बेगलक्खणाय फरणलक्खणाय च पीतिया तंसम्पयुत्तसुखेन च. तेनाह ‘‘विपुलेना’’ति उळारेनाति अत्थो. फरमानो समुस्सयन्ति यथावुत्तपीतिसुखसमुट्ठितेहि पणीतेहि रूपेहि सकलं कायं फरापेन्तो निरन्तरं फुटं करोन्तो. लूखम्पि अभिसम्भोन्तोति अरञ्ञावासजनितं सल्लेखवुत्तिहेतुकं दुस्सहम्पि पच्चयलूखं अभिभवन्तो अधिवासेन्तो. विहरिस्सामि काननेति झानसुखेन विपस्सनासुखेन च अरञ्ञायतने विहरिस्सामीति अत्थो. तेनाह – ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति (पारा. ११).

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति च. (ध. प. ३७४);

भावेन्तो सतिपट्ठानेति मग्गपरियापन्ने कायानुपस्सनादिके चत्तारो सतिपट्ठाने उप्पादेन्तो वड्ढेन्तो च. इन्द्रियानीति मग्गपरियापन्नानि एव सद्धादीनि पञ्चिन्द्रियानि. बलानीति तथा सद्धादीनि पञ्च बलानि. बोज्झङ्गानीति तथा सतिसम्बोज्झङ्गादीनि सत्त बोज्झङ्गानि. च-सद्देन सम्मप्पधानइद्धिपादमग्गङ्गानि सङ्गण्हाति. तदविनाभावतो हि तग्गहणेनेव तेसं गहणं होति. विहरिस्सामीति यथावुत्ते बोधिपक्खियधम्मे भावेन्तो मग्गसुखेन तदधिगमसिद्धेन फलसुखेन निब्बानसुखेन च विहरिस्सामि.

आरद्धवीरियेति चतुब्बिधसम्मप्पधानवसेन पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. निच्चं दळ्हपरक्कमेति सब्बकालं असिथिलवीरिये. अविवादवसेन कायसामग्गिदानवसेन च समग्गे. दिट्ठिसीलसामञ्ञेन सहिते सब्रह्मचारी दिस्वा. एतेन कल्याणमित्तसम्पत्तिं दस्सेति.

अनुस्सरन्तो सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धं सब्बसत्तुत्तमताय, अग्गं उत्तमेन दमथेन दन्तं, अनुत्तरसमाधिना समाहितं अतन्दितो अनलसो हुत्वा, रत्तिन्दिवं सब्बकालं ‘‘इतिपि सो भगवा अरह’’न्तिआदिना अनुस्सरन्तो विहरिस्सामि. एतेन बुद्धानुस्सतिभावनाय युत्ताकारदस्सनेन सब्बत्थ कम्मट्ठानानुयोगमाह, पुरिमेन पारिहारियकम्मट्ठानानुयोगं.

एवं पन वत्वा थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५४.२८-६५) –

‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको;

अनोमनामो अमितो, नामेन पदुमुत्तरो.

‘‘पदुमाकारवदनो, पदुमामलसुच्छवी;

लोकेनानुपलित्तोव, तोयेन पदुमं यथा.

‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा;

पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो.

‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो;

सन्तवेसो गुणनिधि, करुणामतिसागरो.

‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो;

सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च;

रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं.

‘‘सद्धाधिमुत्तो सुमति, मम दस्सनलालसो;

नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि.

‘‘तदाहं हंसवतियं, नगरे ब्राह्मणत्रजो;

हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं.

‘‘ससावकं तं विमलं, निमन्तेत्वा तथागतं;

सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा तस्स, अनन्तगुणसागरे;

निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं.

‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि;

भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने.

‘‘एवं वुत्ते महावीरो, अनावरणदस्सनो;

इमं वाक्यं उदीरेसि, परिसाय महामुनि.

‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनं;

हेमयञ्ञोपचितङ्गं, जननेत्तमनोहरं.

‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो;

अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति.

‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो;

सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वक्कलि नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे;

सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं.

‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;

मन्दं उत्तानसयनं, पिसाचभयतज्जिता.

‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा;

इमं ददाम ते नाथ, सरणं होहि नायक.

‘‘तदा पटिग्गहि सो मं, भीतानं सरणो मुनि;

जालिना चक्कङ्कितेन, मुदुकोमलपाणिना.

‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो;

सब्बवेरविनिमुत्तो, सुखेन परिवुद्धितो.

‘‘सुगतेन विना भूतो, उक्कण्ठामि मुहुत्तकं;

जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.

‘‘सब्बपारमिसम्भूतं, नीलक्खिनयनं वरं;

रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं.

‘‘बुद्धरूपरतिं ञत्वा, तदा ओवदि मं जिनो;

अलं वक्कलि किं रूपे, रमसे बालनन्दिते.

‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो;

अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति.

‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;

आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो.

‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयं;

पस्स उपक्किलेसानं, सुखेनन्तं गमिस्ससि.

‘‘एवं तेनानुसिट्ठोहं, नायकेन हितेसिना;

गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे.

‘‘ठितो पब्बतपादम्हि, अस्सासयि महामुनि;

वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं.

‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे;

तदा बुद्धानुभावेन, सुखेनेव महिं गतो.

‘‘पुनोपि धम्मं देसेति, खन्धानं उदयब्बयं;

तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं.

‘‘सुमहापरिसमज्झे, तदा मं चरणन्तगो;

अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि. अथ नं सत्था भिक्खुसङ्घमज्झे निसिन्नो सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.

वक्कलित्थेरगाथावण्णना निट्ठिता.