५. वड्ढत्थेरगाथावण्णना
साधू हीतिआदिका आयस्मतो वड्ढत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे भारुकच्छनगरे गहपतिकुले निब्बत्तित्वा वड्ढोति लद्धनामो अनुपुब्बेन वड्ढति. अथस्स माता संसारे सञ्जातसंवेगा पुत्तं ञातीनं निय्यादेत्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती अरहत्तं पापुणित्वा अपरेन समयेन पुत्तम्पि विञ्ञुतं पत्तं वेळुदन्तत्थेरस्स सन्तिके पब्बाजेसि. सो पब्बजितो बुद्धवचनं उग्गहेत्वा बहुस्सुतो धम्मकथिको हुत्वा गन्थधुरं वहन्तो एकदिवसं ‘‘एकको सन्तरुत्तरोव मातरं पस्सिस्सामी’’ति भिक्खुनुपस्सयं अगमासि. तं दिस्वा माता ‘‘कस्मा त्वं एकको सन्तरुत्तरोव इधागतो’’ति चोदेसि. सो मातरा चोदियमानो ‘‘अयुत्तं मया कत’’न्ति उप्पन्नसंवेगो विहारं गन्त्वा दिवाट्ठाने निसिन्नो विपस्सित्वा अरहत्तं पत्वा मातु ओवादसम्पत्तिपकासनमुखेन अञ्ञं ब्याकरोन्तो –
३३५. ‘‘साधू हि किर मे माता, पतोदं उपदंसयि;
यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;
आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.
३३६. ‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;
जेत्वा नमुचिनो सेनं, विहरामि अनासवो.
३३७. ‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.
३३८. ‘‘विसारदा खो भगिनी, एवमत्थं अभासयि;
अपिहा नून मयिपि, वनथो ते न विज्जति.
३३९. ‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति. – इमा गाथा अभासि;
तत्थ साधू हि किर मे माता, पतोदं उपदंसयीति साधु वत माता मय्हं ओवादसङ्खातं पतोदं दस्सेति, तेन मे वीरियं उत्तेजेन्ती उत्तमङ्गे पञ्ञासीसे विज्झि. यस्साति यस्सा मे मातुया. सम्बोधिन्ति अरहत्तं. अयञ्हेत्थ योजना – जनेत्तिया मे अनुसिट्ठो यस्सा अनुसासनीभूतं वचनं सुत्वा अहं आरद्धवीरियो पहितत्तो विहरन्तो उत्तमं अग्गफलं सम्बोधिं अरहत्तं पत्तो.
ततो एव आरकत्ता किलेसेहि अरहा पुञ्ञक्खेत्तताय दक्खिणेय्यो दक्खिणारहो अम्हि. पुब्बेनिवासञाणादिविज्जात्तयस्स अधिगतत्ता तेविज्जो निब्बानस्स सच्छिकतत्ता अमतद्दसो नमुचिनो मारस्स सेनं किलेसवाहिनिं बोधिपक्खियसेनाय जिनित्वा तस्स जितत्तायेव अनासवो सुखं विहरामीति.
इदानि ‘‘अनासवो’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘अज्झत्तञ्चा’’ ति गाथमाह. तस्सत्थो – अज्झत्तं अज्झत्तवत्थुका च बहिद्धा बहिद्धवत्थुका च आसवा ये मय्हं अरियमग्गाधिगमतो पुब्बे विज्जिंसु उपलब्भिंसु, ते सब्बे अनवसेसा उच्छिन्ना अरियमग्गेन समुच्छिन्ना पहीना पुन दानि कदाचिपि न च उप्पज्जेय्युं न उप्पज्जिस्सन्तियेवाति.
इदानि मातु वचनं अङ्कुसं कत्वा अत्तना अरहत्तस्स अधिगतत्ता मातरं थोमेन्तो ‘‘विसारदा’’ति गाथमाह. तत्थ विसारदा खोति एकंसेन विगतसारज्जा. एवं मातु अत्तनो च अरहत्ताधिगमेन सत्थु ओरसपुत्तभावं उल्लपेन्तो मातरं ‘‘भगिनी’’ति आह. एतमत्थं अभासयीति एतं मम ओवादभूतं अत्थं अभणि. एवं पन मं ओवदन्ती न केवलं विसारदा एव, अथ खो अपिहा नून मयिपि तव पुत्तकेपि अपिहा असन्थवा मञ्ञे, किं वा एतेन परिकप्पनेन? वनथो ते न विज्जति अविज्जादिको वनथो तव सन्ताने नत्थेव, या मं भवक्खये नियोजेसीति अधिप्पायो.
इदानि ‘‘तया नियोजिताकारेनेव मया पटिपन्न’’न्ति दस्सेन्तो ‘‘परियन्तकत’’न्ति ओसानगाथमाह, तस्सत्थो सुविञ्ञेय्योव.
वड्ढत्थेरगाथावण्णना निट्ठिता.