७. सम्भूतत्थेरगाथावण्णना
यो दन्धकालेतिआदिका आयस्मतो सम्भूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो बुद्धसुञ्ञे लोके चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्तो. एकदिवसं अञ्ञतरं पच्चेकबुद्धं दिस्वा पसन्नमानसो वन्दित्वा कतञ्जली अज्जुनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा सम्भूतोति लद्धनामो वयप्पत्तो भगवतो परिनिब्बानस्स पच्छा धम्मभण्डागारिकस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.२८-३६) –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;
गहेत्वा अज्जुनं पुप्फं, सयम्भुं अभिपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरं देहं, तावतिंसमगच्छहं.
‘‘छत्तिसक्खत्तुं देविन्दो, देवरज्जमकारयिं;
दसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सुखेत्ते वप्पितं बीजं, सयम्भुम्हि अहो मम.
‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियं;
पूजारहो अहं अज्ज, सक्यपुत्तस्स सासने.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो वस्ससतपरिनिब्बुते भगवति वेसालिकेसु वज्जिपुत्तकेसु दस वत्थूनि पग्गय्ह ठितेसु काकण्डकपुत्तेन यसत्थेरेन उस्साहितेहि सत्तसतेहि खीणासवेहि तं दिट्ठिं भिन्दित्वा सद्धम्मं पग्गण्हन्तेहि धम्मविनयसङ्गहे कते तेसं वज्जिपुत्तकानं उद्धम्मउब्बिनयदीपने धम्मसंवेगेन थेरो –
२९१. ‘‘यो दन्धकाले तरति, तरणीये च दन्धये;
अयोनिसंविधानेन, बालो दुक्खं निगच्छति.
२९२. ‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा;
आयसक्यञ्च पप्पोति, मित्तेहि च विरुज्झति.
२९३. ‘‘यो दन्धकाले दन्धेति, तरणीये च तारये;
योनिसो संविधानेन, सुखं पप्पोति पण्डितो.
२९४. ‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा;
यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति. –
इमा गाथा भणन्तो अञ्ञं ब्याकासि.
तत्थ यो दन्धकाले तरतीति किस्मिञ्चि कत्तब्बवत्थुस्मिं – ‘‘कप्पति नु खो, न नु खो कप्पती’’ति विनयकुक्कुच्चे उप्पन्ने याव वियत्तं विनयधरं पुच्छित्वा तं कुक्कुच्चं न विनोदेति, ताव दन्धकाले तस्स किच्चस्स दन्धायितब्बसमये तरति मद्दित्वा वीतिक्कमं करोति. तरणीये च दन्धयेति गहट्ठस्स ताव सरणगमनसीलसमादानादिके, पब्बजितस्स वत्तपटिवत्तकरणादिके समथविपस्सनानुयोगे च तरितब्बे सम्पत्ते सीघं तं किच्चं अननुयुञ्जित्वा – ‘‘आगमनमासे पक्खे वा करिस्सामी’’ति दन्धायेय्य, तं किच्चं अकरोन्तोव कालं वीतिनामेय्य. अयोनिसंविधानेनाति एवं दन्धायितब्बे तरन्तो तरितब्बे च दन्धायन्तो अनुपायसंविधानेन उपायसंविधानाभावेन बालो, मन्दबुद्धिको पुग्गलो, सम्पति आयतिञ्च दुक्खं अनत्थं पापुणाति.
तस्सत्था परिहायन्तीति तस्स तथारूपस्स पुग्गलस्स दिट्ठधम्मिकादिभेदा अत्था काळपक्खे चन्दिमा विय, परिहायन्ति दिवसे दिवसे परिक्खयं परियादानं गच्छन्ति. ‘‘असुको पुग्गलो अस्सद्धो अप्पसन्नो कुसीतो हीनवीरियो’’तिआदिना. आयसक्यं विञ्ञूहि गरहितब्बतं पप्पोति पापुणाति. मित्तेहि च विरुज्झतीति ‘‘एवं पटिपज्ज, मा एवं पटिपज्जा’’ति ओवाददायकेहि कल्याणमित्तेहि ‘‘अवचनीया मय’’न्ति ओवादस्स अनादानेनेव विरुद्धो नाम होति.
सेसगाथाद्वयस्स वुत्तविपरियायेन अत्थो वेदितब्बो. केचि पनेत्थ – ‘‘तरति दन्धये’’तिपदानं अत्थभावेन भावनाचित्तस्स पग्गहनिग्गहे उद्धरन्ति. तं पच्छिमगाथासु युज्जति. पुरिमा हि द्वे गाथा पब्बजितकालतो पट्ठाय चरितब्बं समणधम्मं अकत्वा कुक्कुच्चपकतताय दस वत्थूनि दीपेत्वा सङ्घेन निक्कड्ढिते वज्जिपुत्तके सन्धाय थेरेन वुत्ता. पच्छिमा पन अत्तसदिसे सम्मा पटिपन्ने सकत्थं निप्फादेत्वा ठितेति.
सम्भूतत्थेरगाथावण्णना निट्ठिता.