४. चतुक्कनिपातो
१. नागसमालत्थेरगाथावण्णना
अलङ्कतातिआदिका आयस्मतो नागसमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गिम्हसमये सूरियातपसन्तत्ताय भूमिया गच्छन्तं सत्थारं दिस्वा पसन्नमानसो छत्तं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा नागसमालोति लद्धनामो वयप्पत्तो ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किञ्चि कालं भगवतो उपट्ठाको अहोसि. सो एकदिवसं नगरं पिण्डाय पविट्ठो अलङ्कतपटियत्तं अञ्ञतरं नच्चकिं महापथे तूरियेसु वज्जन्तेसु नच्चन्तिं दिस्वा, ‘‘अयं चित्तकिरियवायोधातुविप्फारवसेन करजकायस्स तथा तथा परिवत्ति, अहो अनिच्चा सङ्खारा’’ति खयवयं पट्ठपेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.३७-४८) –
‘‘अङ्गारजाता पथवी, कुक्कुळानुगता मही;
पदुमुत्तरो भगवा, अब्भोकासम्हि चङ्कमि.
‘‘पण्डरं छत्तमादाय, अद्धानं पटिपज्जहं;
तत्थ दिस्वान सम्बुद्धं, वित्ति मे उपपज्जथ.
‘‘मरीचियोत्थटा भूमि, अङ्गाराव मही अयं;
उपहन्ति महावाता, सरीरस्सासुखेपना.
‘‘सीतं उण्हं विहनन्तं, वातातपनिवारणं;
पटिग्गण्ह इमं छत्तं, फस्सयिस्सामि निब्बुतिं.
‘‘अनुकम्पको कारुणिको, पदुमुत्तरो महायसो;
मम सङ्कप्पमञ्ञाय, पटिग्गण्हि तदा जिनो.
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘अयं मे पच्छिमा जाति, चरिमो वत्तते भवो;
अज्जापि सेतच्छत्तं मे, सब्बकालं धरीयति.
‘‘सतसहस्सितो कप्पे, यं छत्तमददिं तदा;
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा –
२६७. ‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;
मज्झे महापथे नारी, तूरिये नच्चति नट्टकी.
२६८. ‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
२६९. ‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
२७०. ‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
चतूहि गाथाहि अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकासि.
तत्थ अलङ्कताति हत्थूपगादिआभरणेहि अलङ्कतगत्ता. सुवसनाति सुन्दरवसना सोभनवत्थनिवत्था. मालिनीति मालाधारिनी पिळन्धितपुप्फमाला. चन्दनुस्सदाति चन्दनानुलेपलित्तसरीरा. मज्झे महापथे नारी, तूरिये नच्चति नट्टकीति यथावुत्तट्ठाने एका नारी नट्टकी नाटकित्थी नगरवीथिया मज्झे पञ्चङ्गिके तूरिये वज्जन्ते नच्चति, यथापट्ठपितं नच्चं करोति.
पिण्डिकायाति भिक्खाय. पविट्ठोहन्ति नगरं पविट्ठो अहं. गच्छन्तो नं उदिक्खिसन्ति नगरवीथियं गच्छन्तो परिस्सयपरिहरणत्थं वीथिं ओलोकेन्तो तं नट्टकिं ओलोकेसिं. किं विय? मच्चुपासंव ओड्डितन्ति यथा मच्चुस्स मच्चुराजस्स पासभूतो रूपादिको ओड्डितो लोके अनुविचरित्वा ठितो एकंसेन सत्तानं अनत्थावहो, एवं सापि अप्पटिसङ्खाने ठितानं अन्धपुथुज्जनानं एकंसतो अनत्थावहाति मच्चुपाससदिसी वुत्ता.
ततोति तस्मा मच्चुपाससदिसत्ता. मेति मय्हं. मनसीकारो योनिसो उदपज्जथाति ‘‘अयं अट्ठिसङ्घातो न्हारुसम्बन्धो मंसेन अनुपलित्तो छविया पटिच्छन्नो असुचिदुग्गन्धजेगुच्छपटिक्कूलो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो ईदिसे विकारे दस्सेती’’ति एवं योनिसो मनसिकारो उप्पज्जि. आदीनवो पातुरहूति एवं कायस्स सभावूपधारणमुखेन तस्स च तंनिस्सितानञ्च चित्तचेतसिकानं उदयब्बयं सरसपभङ्गुतञ्च मनसि करोतो तेसु च यक्खरक्खसादीसु विय भयतो उपट्ठहन्तेसु तत्थ मे अनेकाकारआदीनवो दोसो पातुरहोसि. तप्पटिपक्खतो च निब्बाने आनिसंसो. निब्बिदा समतिट्ठथाति निब्बिन्दनं आदीनवानुपस्सनानुभावसिद्धं निब्बिदाञाणं मम हदये सण्ठासि, मुहुत्तम्पि तेसं रूपारूपधम्मानं गहणे चित्तं नाहोसि, अञ्ञदत्थु मुञ्चितुकामतादिवसेन तत्थ उदासीनमेव जातन्ति अत्थो.
ततोति विपस्सनाञाणतो परं. चित्तं विमुच्चि मेति लोकुत्तरभावनाय वत्तमानाय मग्गपटिपाटिया सब्बकिलेसेहि मम चित्तं विमुत्तं अहोसि. एतेन फलुप्पत्तिं दस्सेति. मग्गक्खणे हि किलेसा विमुच्चन्ति नाम, फलक्खणे विमुत्ताति. सेसं वुत्तनयमेव.
नागसमालत्थेरगाथावण्णना निट्ठिता.
२. भगुत्थेरगाथावण्णना
अहं मिद्धेनातिआदिका आयस्मतो भगुत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स धातुयो पुप्फेहि पूजेसि. सो तेन पुञ्ञकम्मेन निम्मानरतीसु निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा भगूति लद्धनामो वयप्पत्तो अनुरुद्धकिमिलेहि सद्धिं निक्खमित्वा पब्बजित्वा बालकलोणकगामे वसन्तो एकदिवसं थिनमिद्धाभिभवं विनोदेतुं विहारतो निक्खम्म चङ्कमं अभिरुहन्तो पपतित्वा तदेव अङ्कुसं कत्वा थिनमिद्धं विनोदेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.४९-५७) –
‘‘परिनिब्बुते भगवति, पदुमुत्तरे महायसे;
पुप्फवटंसके कत्वा, सरीरमभिरोपयिं.
‘‘तत्थ चित्तं पसादेत्वा, निम्मानं अगमासहं;
देवलोकगतो सन्तो, पुञ्ञकम्मं सरामहं.
‘‘अम्बरा पुप्फवस्सो मे, सब्बकालं पवस्सति;
संसरामि मनुस्से चे, राजा होमि महायसो.
‘‘तहिं कुसुमवस्सो मे, अभिवस्सति सब्बदा;
तस्सेव पुप्फपूजाय, वाहसा सब्बदस्सिनो.
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;
अज्जापि पुप्फवस्सो मे, अभिवस्सति सब्बदा.
‘‘सतसहस्सितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च वीतिनामेन्तो सत्थारा एकविहारं अनुमोदितुं उपगतेन – ‘‘कच्चि त्वं, भिक्खु, अप्पमत्तो विहरसी’’ति पुट्ठो अत्तनो अप्पमादविहारं निवेदेन्तो –
२७१. ‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिं;
चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा.
२७२. ‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमं;
चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो.
२७३. ‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
२७४. ‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा चतस्सो गाथा अभासि.
तत्थ मिद्धेन पकतोति कायालसियसङ्खातेन असत्तिविघातसभावेन मिद्धेन अभिभूतो. विहाराति सेनासनतो. उपनिक्खमिन्ति चङ्कमितुं निक्खमिं. तत्थेव पपतिं छमाति तत्थेव चङ्कमसोपाने निद्दाभिभूतताय भूमियं निपतिं. गत्तानि परिमज्जित्वाति भूमियं पतनेन पंसुकितानि अत्तनो सरीरावयवानि अनुमज्जित्वा. पुनपारुय्ह चङ्कमन्ति ‘‘पतितो दानाह’’न्ति सङ्कोचं अनापज्जित्वा पुनपि चङ्कमट्ठानं आरुहित्वा. अज्झत्तं सुसमाहितोति गोचरज्झत्ते कम्मट्ठाने नीवरणविक्खम्भनेन सुट्ठु समाहितो एकग्गचित्तो हुत्वा चङ्कमिन्ति योजना. सेसं वुत्तनयमेव. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.
भगुत्थेरगाथावण्णना निट्ठिता.
३. सभियत्थेरगाथावण्णना
परे चातिआदिका आयस्मतो सभियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिवाविहाराय गच्छन्तं दिस्वा पसन्नमानसो उपाहनं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति परिनिब्बुते पतिट्ठिते सुवण्णचेतिये छहि कुलपुत्तेहि सद्धिं अत्तसत्तमो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विसेसं निब्बत्तेतुं असक्कोन्तो इतरे आह – ‘‘मयं पिण्डपाताय गच्छन्तो जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मं अधिगन्तुं, पुथुज्जनकालङ्किरिया च दुक्खा. हन्द, मयं निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति. ते तथा अकंसु.
अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञो हुत्वा उत्तरकुरुतो पिण्डपातं उपनेसि. इतरे – ‘‘तुम्हे, भन्ते, कतकिच्चा तुम्हेहि सद्धिं सल्लापमत्तम्पि पपञ्चो, समणधम्ममेव मयं करिस्साम, तुम्हे अत्तना दिट्ठधम्मसुखविहारमनुयुञ्जथा’’ति वत्वा पिण्डपातं पटिक्खिपिंसु. थेरो ने सम्पटिच्छापेतुं असक्कोन्तो अगमासि.
ततो नेसं एको द्वीहतीहच्चयेन अभिञ्ञापरिवारं अनागामिफलं सच्छिकत्वा तथेव वत्वा तेहि पटिक्खित्तो अगमासि. तेसु खीणासवत्थेरो परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि. इतरे पुथुज्जनकालङ्किरियमेव कत्वा छसु कामसग्गेसु अनुलोमपटिलोमतो दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा एको मल्लराजकुले पटिसन्धिं गण्हि, एको गन्धारराजकुले, एको बाहिररट्ठे, एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि पटिसन्धिं गण्हि. इतरो अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा किर अञ्ञतरस्स खत्तियस्स धीता, नं मातापितरो – ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यादयिंसु. अथेको परिब्बाजको ताय सद्धिं विप्पटिपज्जि. सा तेन गब्भं गण्हि. तं गब्भिनिं दिस्वा परिब्बाजका निक्कड्ढिंसु. सा अञ्ञत्थ गच्छन्ती अन्तरामग्गे सभायं विजायि. तेनस्स सभियोत्वेव नामं अकासि. सो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा महावादी हुत्वा वादप्पसुतो विचरन्तो अत्तना सदिसं अदिस्वा नगरद्वारे अस्समं कारेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो विहरन्तो अत्तनो मातुया इत्थिभावं जिगुच्छित्वा झानं उप्पादेत्वा ब्रह्मलोके उप्पन्नाय अभिसङ्खरित्वा दिन्ने वीसतिपञ्हे गहेत्वा ते ते समणब्राह्मणे पुच्छि. ते चस्स तेसं पञ्हानं अत्थं ब्याकातुं नासक्खिंसु. सभियसुत्तवण्णनायं (सु. नि. अट्ठ. २. सभियसुत्तवण्णना) पन ‘‘सुद्धावासब्रह्मा ते पञ्हे अभिसङ्खरित्वा अदासी’’ति आगतं.
यदा पन भगवा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहासि, तदा सभियो तत्थ गन्त्वा सत्थारं उपसङ्कमित्वा ते पञ्हे पुच्छि. सत्था तस्स ते पञ्हे ब्याकासीति सब्बं सभियसुत्ते (सु. नि. सभियसुत्तं) आगतनयेन वेदितब्बं. सभियो पन भगवता तेसु पञ्हेसु ब्याकतेसु पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२७-३१) –
‘‘ककुसन्धस्स मुनिनो, ब्राह्मणस्स वुसीमतो;
दिवाविहारं वजतो, अक्कमनमदासहं.
‘‘इमस्मिंयेव कप्पम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अक्कमनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहा पन हुत्वा देवदत्ते सङ्घभेदाय परक्कमन्ते देवदत्तपक्खिकानं भिक्खूनं ओवादं देन्तो –
२७५. ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
२७६. ‘‘यदा च अविजानन्ता, इरियन्त्यमरा विय;
विजानन्ति च ये धम्मं, आतुरेसु अनातुरा.
२७७. ‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.
२७८. ‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति सद्धम्मा, नभं पुथविया यथा’’ति. –
चतूहि गाथाहि धम्मं देसेसि.
तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे – ‘‘अधम्मं धम्मो’’ति ‘‘धम्मं अधम्मो’’तिआदिभेदकरवत्थुदीपनवसेन विवादप्पसुता परे नाम. ते तत्थ विवादं करोन्ता ‘‘मयं यमामसे उपरमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता – ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्ति. अथ वा परे चाति ये सत्थु ओवादानुसासनिया अग्गहणेन सासनतो बाहिरताय परे, ते याव ‘‘मयं मिच्छागाहं गहेत्वा एत्थ इध लोके सासनस्स पटिनिग्गाहेन यमामसे वायमामा’’ति न विजानन्ति, ताव विवादा न वूपसम्मन्ति, यदा पन तस्स गाहस्स विस्सज्जनवसेन ये च तत्थ तेसु विवादप्पसुतेसु अधम्मधम्मादिके अधम्मधम्मादितो यथाभूतं विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय विवादसङ्खाता मेधगा सम्मन्तीति एवम्पेत्थ अत्थो वेदितब्बो.
यदाति यस्मिं काले. अविजानन्ताति विवादस्स वूपसमूपायं, धम्माधम्मे वा याथावतो अजानन्ता. इरियन्त्यमरा वियाति अमरा विय जरामरणं अतिक्कन्ता विय उद्धता उन्नळा चपला मुखरा विप्पकिण्णवाचा हुत्वा वत्तन्ति चरन्ति विचरन्ति तदा विवादो न वूपसम्मतेव. विजानन्ति च ये धम्मं, आतुरेसु अनातुराति ये पन सत्थु सासनधम्मं यथाभूतं जानन्ति, ते किलेसरोगेन आतुरेसु सत्तेसु अनातुरा निक्किलेसा अनीघा विहरन्ति, तेसं वसेन विवादो अच्चन्तमेव वूपसम्मतीति अधिप्पायो.
यं किञ्चि सिथिलं कम्मन्ति ओलियित्वा करणेन सिथिलगाहं कत्वा साथलिभावेन कतं यं किञ्चि कुसलकम्मं. संकिलिट्ठन्ति वेसीआदिके अगोचरे चरणेन, कुहनादिमिच्छाजीवेन वा संकिलिट्ठं वतसमादानं. सङ्कस्सरन्ति सङ्काहि सरितब्बं, विहारे किञ्चि असारुप्पं सुत्वा – ‘‘नून असुकेन कत’’न्ति परेहि असङ्कितब्बं, उपोसथकिच्चादीसु अञ्ञतरकिच्चवसेन सन्निपतितम्पि सङ्घं दिस्वा, ‘‘अद्धा इमे मम चरियं ञत्वा मं उक्खिपितुकामा सन्निपतिता’’ति एवं अत्तनो वा आसङ्काहि सरितं उसङ्कितं परिसङ्कितं. न तं होतीति तं एवरूपं ब्रह्मचरियं समणधम्मकरणं तस्स पुग्गलस्स महप्फलं न होति. तस्स अमहप्फलभावेनेव पच्चयदायकानम्पिस्स न महप्फलं होति. तस्मा सल्लेखवुत्तिना भवितब्बं. सल्लेखवुत्तिनो च विवादस्स अवसरो एव नत्थीति अधिप्पायो.
गारवो नूपलब्भतीति अनुसासनिया अपदक्खिणग्गाहिभावेन गरुकातब्बेसु सब्रह्मचारीसु यस्स पुग्गलस्स गारवो गरुकरणं न विज्जति. आरका होति सद्धम्माति सो एवरूपो पुग्गलो पटिपत्तिसद्धम्मतोपि पटिवेधसद्धम्मतोपि दूरे होति, न हि तं गरू सिक्खापेन्ति, असिक्खियमानो अनादियन्तो न पटिपज्जति, अप्पटिपज्जन्तो कुतो सच्चानि पटिविज्झिस्सतीति. तेनाह – ‘‘आरका होति सद्धम्मा’’ति. यथा किं? ‘‘नभं पुथविया यथा’’ति यथा नभं आकासं पुथविया पथवीधातुया सभावतो दूरे. न कदाचि सम्मिस्सभावो. तेनेवाह –
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति.(जा. २.२१.४१४);
सभियत्थेरगाथावण्णना निट्ठिता.
४. नन्दकत्थेरगाथावण्णना
धिरत्थूतिआदिका आयस्मतो नन्दकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाविभवो सेट्ठि हुत्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुनोवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा सतसहस्सग्घनिकेन वत्थेन भगवन्तं पूजेत्वा पणिधानमकासि, सत्थु बोधिरुक्खे पदीपपूजञ्च पवत्तेति. सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो ककुसन्धस्स भगवतो काले करविकसकुणो हुत्वा मधुरकूजितं कूजन्तो सत्थारं पदक्खिणं अकासि. अपरभागे मयूरो हुत्वा अञ्ञतरस्स पच्चेकबुद्धस्स वसनगुहाय द्वारे पसन्नमानसो दिवसे दिवसे तिक्खत्तुं मधुरवस्सितं वस्सि, एवं तत्थ तत्थ पुञ्ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तित्वा नन्दकोति लद्धनामो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२२-२६) –
‘‘पदुमुत्तरबुद्धस्स बोधिया पादपुत्तमे;
पसन्नचित्तो सुमनो, तयो उक्के अधारयिं.
‘‘सतसहस्सितो कप्पे, सोहं उक्कमधारयिं;
दुग्गतिं नाभिजानामि, उक्कदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहा पन हुत्वा विमुत्तिसुखेन वीतिनामेन्तो सत्थारा भिक्खुनीनं ओवादे आणत्तो एकस्मिं उपोसथदिवसे पञ्च भिक्खुनिसतानि एकोवादेनेव अरहत्तं पापेसि. तेन नं भगवा भिक्खुनोवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरं सावत्थियं पिण्डाय चरन्तं अञ्ञतरा पुराणदुतियिका इत्थी किलेसवसेन ओलोकेत्वा हसि. थेरो तस्सा तं किरियं दिस्वा सरीरस्स पटिक्कूलविभावनमुखेन धम्मं कथेन्तो –
२७९. ‘‘धिरत्थु पूरे दुग्गन्धे, मारपक्खे अवस्सुते;
नवसोतानि ते काये, यानि सन्दन्ति सब्बदा.
२८०. ‘‘मा पुराणं अमञ्ञित्थो, मासादेसि तथागते;
सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसे.
२८१. ‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता;
तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने.
२८२. ‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति. – गाथा अभासि;
तत्थ धीति जिगुच्छनत्थे निपातो, रत्थूति र-कारो पदसन्धिकरो, धी अत्थु तं जिगुच्छामि तव धिक्कारो होतूति अत्थो. पूरेतिआदीनि तस्सा धिक्कातब्बभावदीपनानि आमन्तनवचनानि. पूरेति अतिविय जेगुच्छेहि नानाकुणपेहि नानाविधअसुचीहि सम्पुण्णे. दुग्गन्धेति कुणपपूरितत्ता एव सभावदुग्गन्धे. मारपक्खेति यस्मा विसभागवत्थु अन्धपुथुज्जनानं अयोनिसोमनसिकारनिमित्तताय किलेसमारं वड्ढेति, देवपुत्तमारस्स च ओतारं पविट्ठं देति. तस्मा मारस्स पक्खो होति. तेन वुत्तं ‘‘मारपक्खे’’ति. अवस्सुतेति सब्बकालं किलेसावस्सवनेन तहिं तहिं असुचिनिस्सन्दनेन च अवस्सुते. इदानिस्सा नवसोतानि ते काये, यानि सन्दन्ति सब्बदाति ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) वुत्तं असुचिनो अवस्सवनट्ठानं दस्सेति.
एवं पन नवछिद्दं धुवस्सवं असुचिभरितं कायं यथाभूतं जानन्ती मा पुराणं अमञ्ञित्थोति पुराणं अजाननकाले पवत्तं हसितलपितं कीळितं मा मञ्ञि, ‘‘इदानिपि एवं पटिपज्जिस्सती’’ति मा चिन्तेहि. मासादेसि तथागतेति यथा उपनिस्सयसम्पत्तिया पुरिमका बुद्धसावका आगता, यथा वा ते सम्मापटिपत्तिया गता पटिपन्ना, यथा च रूपारूपधम्मानं तथलक्खणं तथधम्मे च अरियसच्चानि आगता अधिगता अवबुद्धा, तथा इमेपीति एवं तथा आगमनादिअत्थेन तथागते अरियसावके पकतिसत्ते विय अवञ्ञाय किलेसवसेन च उपसङ्कममाना मासादेसि. अनासादेतब्बताय कारणमाह. सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसेति सब्बञ्ञुबुद्धेनापि अक्खानेन परियोसापेतुं असक्कुणेय्यसुखे सग्गेपि ते सावकबुद्धा न रज्जन्ति, सङ्खारेसु आदीनवस्स सुपरिदिट्ठत्ता रागं न जनेन्ति, किमङ्गं पन मीळ्हरासिसदिसे मानुसे कामगुणे, तत्थ न रज्जन्तीति वत्तब्बमेव नत्थि.
ये च खोति ये पन बाल्यप्पयोगतो बाला, धम्मोजपञ्ञाय अभावतो दुम्मेधा, असुभे सुभानुपस्सनेन दुचिन्तितचिन्तिताय दुम्मन्ती, मोहेन अञ्ञाणेन सब्बसो पटिच्छादितचित्तताय मोहपारुता तादिसा तथारूपा अन्धपुथुज्जना, तत्थ तस्मिं इत्थिसञ्ञिते, मारखित्तम्हि बन्धने मारेन ओड्डिते मारपासे, रज्जन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना तिट्ठन्ति.
विराजिताति येसं पन खीणासवानं तेलञ्जनरागो विय दुम्मोचनीयसभावो रागो सपत्तो विय लद्धोकासो दुस्सनसभावो दोसो अञ्ञाणसभावा अविज्जा च अरियमग्गविरागेन सब्बसो विराजिता पहीना समुच्छिन्ना, तादिसा अग्गमग्गसत्थेन छिन्नभवनेत्तिसुत्ता ततो एव कत्थचिपि बन्धनाभावतो अबन्धना तत्थ तस्मिं यथावुत्ते मारपासे न रज्जन्ति. एवं थेरो तस्सा इत्थिया धम्मं कथेत्वा गतो.
नन्दकत्थेरगाथावण्णना निट्ठिता.
५. जम्बुकत्थेरगाथावण्णना
पञ्चपञ्ञासातिआदिका आयस्मतो जम्बुकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सम्मासम्बोधिं सद्दहन्तो बोधिरुक्खं वन्दित्वा बीजनेन पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने पब्बजित्वा अञ्ञतरेन उपासकेन कारिते आरामे आवासिको हुत्वा विहरति तेन उपट्ठीयमानो. अथेकदिवसं एको खीणासवत्थेरो लूखचीवरधरो केसोहरणत्थं अरञ्ञतो गामाभिमुखो आगच्छति, तं दिस्वा सो उपासको इरियापथे पसीदित्वा कप्पकेन केसमस्सूनि ओहारापेत्वा पणीतभोजनं भोजेत्वा सुन्दरानि चीवरानि दत्वा ‘‘इधेव, भन्ते, वसथा’’ति वसापेति. तं दिस्वा आवासिको इस्सामच्छेरपकतो खीणासवत्थेरं आह – ‘‘वरं ते, भिक्खु, इमिना पापुपासकेन उपट्ठीयमानस्स एवं इध वसनतो अङ्गुलीहि केसे लुञ्चित्वा अचेलस्स सतो गूथमुत्ताहारजीवन’’न्ति. एवञ्च पन वत्वा तावदेव वच्चकुटिं पविसित्वा पायासं वड्ढेन्तो विय हत्थेन गूथं वड्ढेत्वा वड्ढेत्वा यावदत्थं खादि, मुत्तञ्च पिवि. इमिना नियामेन यावतायुकं ठत्वा कालङ्कत्वा निरये पच्चित्वा पुन गूथमुत्ताहारो वसित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सेसु उप्पन्नोपि पञ्च जातिसतानि निगण्ठो हुत्वा गूथभक्खो अहोसि.
पुन इमस्मिं बुद्धुप्पादे मनुस्सयोनियं निब्बत्तमानोपि अरियूपवादबलेन दुग्गतकूले निब्बत्तित्वा थञ्ञं वा खीरं वा सप्पिं वा पायमानो, तं छड्डेत्वा मुत्तमेव पिवति, ओदनं भोजियमानो, तं छड्डेत्वा गूथमेव खादति, एवं गूथमुत्तपरिभोगेन वड्ढन्तो वयप्पत्तोपि तदेव परिभुञ्जति. मनुस्सा ततो वारेतुं असक्कोन्ता परिच्चजिंसु. सो ञातकेहि परिच्चत्तो नग्गपब्बज्जं पब्बजित्वा न न्हायति, रजोजल्लधरो केसमस्सूनि लुञ्चित्वा अञ्ञे इरियापथे पटिक्खिपित्वा एकपादेन तिट्ठति, निमन्तनं न सादियति, मासोपवासं अधिट्ठाय पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं कुसग्गेन गहेत्वा दिवा जिव्हग्गेन लेहति, रत्तियं पन ‘‘अल्लगूथं सप्पाणक’’न्ति अखादित्वा सुक्खगूथमेव खादति, एवं करोन्तस्स पञ्चपञ्ञासवस्सानि वीतिवत्तानि महाजनो ‘‘महातपो परमप्पिच्छो’’ति मञ्ञमानो तन्निन्नो तप्पोणो अहोसि.
अथ भगवा तस्स हदयब्भन्तरे घटे पदीपं विय अरहत्तूपनिस्सयं पज्जलन्तं दिस्वा सयमेव तत्थ गन्त्वा धम्मं देसेत्वा सोतापत्तिफले पतिट्ठापेत्वा, एहिभिक्खूपसम्पदाय लद्धूपसम्पदं विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठापेसि. अयमेत्थ सङ्खेपो. वित्थारो पन धम्मपदे ‘‘मासे मासे कुसग्गेना’’ति गाथावण्णनाय (ध. प. अट्ठ. १.जम्बुकत्थेरवत्थु) वुत्तनयेन वेदितब्बो. अरहत्ते पन पतिट्ठितो परिनिब्बानकाले ‘‘आदितो मिच्छा पटिपज्जित्वापि सम्मासम्बुद्धं निस्साय सावकेन अधिगन्तब्बं मया अधिगत’’न्ति दस्सेन्तो –
२८३. ‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिं;
भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं.
२८४. ‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिं;
सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं.
२८५. ‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनं;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
२८६. ‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा चतस्सो गाथा अभासि.
तत्थ पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिन्ति नग्गपब्बज्जूपगमनेन न्हानपटिक्खेपतो पञ्चाधिकानि पञ्ञासवस्सानि सरीरे लग्गं आगन्तुकरेणुसङ्खातं रजो, सरीरमलसङ्खातं जल्लञ्च कायेन धारेसिं. भुञ्जन्तो मासिकं भत्तन्ति रत्तियं गूथं खादन्तो लोकवञ्चनत्थं मासोपवासिको नाम हुत्वा पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं जिव्हग्गे पठनवसेन भुञ्जन्तो अलोचयिन्ति तादिसच्छारिकापक्खेपेन सिथिलमूलं केसमस्सुं अङ्गुलीहि लुञ्चापेसिं.
एकपादेन अट्ठासिं, आसनं परिवज्जयिन्ति सब्बेन सब्बं आसनं निसज्जं परिवज्जेसिं, तिट्ठन्तो च उभो हत्थे उक्खिपित्वा एकेनेव पादेन अट्ठासिं. उद्देसन्ति निमन्तनं. उदिस्सकतन्ति केचि. न सादियिन्ति न सम्पटिच्छिं पटिक्खिपिन्ति अत्थो.
एतादिसं करित्वान, बहुं दुग्गतिगामिनन्ति एतादिसं एवरूपं विपाकनिब्बत्तनकं दुग्गतिगामिनं बहुं पापकम्मं पुरिमजातीसु इध च कत्वा उप्पादेत्वा. वुय्हमानो महोघेनाति कामोघादिना महता ओघेन विसेसतो दिट्ठोघेन अपायसमुद्दं पतिआकड्ढियमानो, बुद्धं सरणमागमन्ति तादिसेन पुञ्ञकम्मच्छिद्देन किच्छेन मनुस्सत्तभावं लभित्वा इदानि पुञ्ञबलेन बुद्धं ‘‘सरण’’न्ति आगमासिं, ‘‘सम्मासम्बुद्धो भगवा’’ति अवेच्चपसादेन सत्थरि पसीदिं. सरणगमनं पस्स, पस्स धम्मसुधम्मतन्ति आयतनगतं मम सरणगमनं पस्स, पस्स सासनधम्मस्स च सुधम्मतं योहं तथामिच्छापटिपन्नोपि एकोवादेनेव सत्थारा एदिसं सम्पत्तिं सम्पापितो. ‘‘तिस्सो विज्जा’’तिआदिना तं सम्पत्तिं दस्सेति तेनाह (अप. थेर २.४६.१७-२१) –
‘‘तिस्सस्साहं भगवतो, बोधिरुक्खमवन्दियं;
पग्गय्ह बीजनिं तत्थ, सीहासनमबीजहं.
‘‘द्वेनवुते इतो कप्पे, सीहासनमबीजहं;
दुग्गतिं नाभिजानामि, बीजनाय इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
जम्बुकत्थेरगाथावण्णना निट्ठिता.
६. सेनकत्थेरगाथावण्णना
स्वागतं वतातिआदिका आयस्मतो सेनकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो मोरहत्थेन भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा उरुवेलकस्सपत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, सेनकोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो घरावासं वसति. तेन च समयेन महाजनो संवच्छरे संवच्छरे फग्गुनमासे उत्तरफग्गुननक्खत्ते उस्सवं अनुभवन्तो गयायं तित्थाभिसेकं करोति. तेन तं उस्सवं ‘‘गयाफग्गू’’ति वदन्ति. अथ भगवा तादिसे उस्सवदिवसे वेनेय्यानुकम्पाय गयातित्थसमीपे विहरति, महाजनोपि तित्थाभिसेकाधिप्पायेन ततो ततो तं ठानं उपगच्छति. तस्मिं खणे सेनकोपि तित्थाभिसेकत्थं तं ठानं उपगतो सत्थारं धम्मं देसेन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.९-१६) –
‘‘मोरहत्थं गहेत्वान, उपेसिं लोकनायकं;
पसन्नचित्तो सुमनो, मोरहत्थमदासहं.
‘‘इमिना मोरहत्थेन, चेतनापणिधीहि च;
निब्बायिंसु तयो अग्गी, लभामि विपुलं सुखं.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;
दत्वानहं मोरहत्थं, लभामि विपुलं सुखं.
‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मोरहत्थस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –
२८७. ‘‘स्वागतं वत मे आसि, गयायं गयफग्गुया;
यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं.