९. यसोजत्थेरगाथावण्णना

कालपब्बङ्गसङ्कासोति आयस्मतो यसोजत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले आरामगोपककुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं आकासेन गच्छन्तं दिस्वा पसन्नमानसो लबुजफलं अदासि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरद्वारे केवट्टगामे पञ्चकुलसतजेट्ठकस्स केवट्टस्स पुत्तो हुत्वा निब्बत्ति, यसोजोतिस्स नामं अकंसु. सो वयप्पत्तो अत्तनो सहायेहि केवट्टपुत्तेहि सद्धिं मच्छगहणत्थं अचिरवतियं नदियं जालं खिपि. तत्थेको सुवण्णवण्णो महामच्छो अन्तोजालं पाविसि. तं ते रञ्ञो पसेनदिस्स दस्सेसुं. राजा ‘‘इमस्स सुवण्णवण्णस्स मच्छस्स वण्णकारणं भगवा जानाती’’ति मच्छं गाहापेत्वा भगवतो दस्सेसि. भगवा ‘‘अयं कस्सपस्स सम्मासम्बुद्धस्स सासने ओसक्कमाने पब्बजित्वा मिच्छा पटिपज्जन्तो सासनं ओसक्कापेत्वा निरये निब्बत्तो एकं बुद्धन्तरं निरये पच्चित्वा ततो चुतो अचिरवतियं मच्छो हुत्वा निब्बत्तो’’ति वत्वा तस्स भगिनीनञ्च निरये निब्बत्तभावं, तस्स भातिकत्थेरस्स परिनिब्बुतभावञ्च तेनेव कथापेत्वा इमिस्सा अट्ठुप्पत्तिया कपिलसुत्तं देसेसि.

सत्थु देसनं सुत्वा यसोजो संवेगजातो सद्धिं अत्तनो सहायेहि भगवतो सन्तिके पब्बजित्वा पतिरूपे ठाने वसन्तो एकदिवसं सपरिसो भगवन्तं वन्दितुं जेतवनं अगमासि. तस्स आगमने सेनासनपञ्ञापनादिना विहारे उच्चासद्दमहासद्दो अहोसि. तं सुत्वा ‘‘भगवा सपरिसं यसोजं पणामेसी’’ति (उदा. २३) सब्बं उदाने आगतनयेन वेदितब्बं. पणामितो पन आयस्मा यसोजो कसाभिहतो भद्दो अस्साजानीयो विय संविग्गमानसो सद्धिं परिसाय वग्गुमुदाय नदिया तीरे वसन्तो घटेन्तो वायमन्तो विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४७.३२-३९) –

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

‘‘लबुजं फलमादाय, बुद्धसेट्ठस्सदासहं;

आकासेव ठितो सन्तो, पटिग्गण्हि महायसो.

‘‘वित्तिसञ्जाननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

‘‘अधिगञ्छिं तदा पीतिं, विपुलं सुखमुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञं पन समानं सपरिसं आयस्मन्तं यसोजं सत्था पक्कोसित्वा आनेञ्जसमापत्तिना पटिसन्थारमकासि. सो सब्बेपि धुतङ्गधम्मे समादाय वत्तति. तेनस्स सरीरं किसं अहोसि लूखं दुब्बण्णं, तं भगवा परमप्पिच्छताय पसंसन्तो –

२४३. ‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानम्हि, अदीनमानसो नरो’’ति. – पठमं गाथमाह;

तत्थ कालपब्बङ्गसङ्कासोति मंसूपचयविगमेन किसदुसण्ठितसरीरावयवताय दन्तिलतापब्बसदिसङ्गो, तेनाह ‘‘किसो धमनिसन्थतो’’ति. किसोति मोनेय्यपटिपदापूरणेन किससरीरो. धमनिसन्थतोति धमनीहि सन्थतगत्तो अप्पमंसलोहितताय पाकटीहि कण्डरसिराहि विततसरीरो. मत्तञ्ञूति परियेसनपटिग्गहणपरिभोगविस्सज्जनेसु पमाणञ्ञू. अदीनमानसोति कोसज्जादीहि अनभिभूतत्ता अलीनचित्तो अकुसीतवुत्ति. नरोति पुरिसो, पोरिसस्स धुरस्स वहनतो पोरिसलक्खणसम्पन्नो पुरिसधोरय्होति अधिप्पायो.

एवं थेरो सत्थारा पसट्ठो पसट्ठभावानुरूपं अत्तनो अधिवासनखन्तिवीरियारम्भविवेकाभिरतिकित्तनमुखेन भिक्खूनं धम्मं कथेन्तो –

२४४. ‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

२४५. ‘‘यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे;

यथा गामो तथा तयो, कोलाहलं ततुत्तरि’’न्ति. –

इमा द्वे गाथा अभासि.

तत्थ नागो सङ्गामसीसेवाति यथा नाम आजानेय्यो हत्थिनागो युद्धमण्डले असिसत्तितोमरादिप्पहारे अधिवासेत्वा परसेनं विद्धंसेति, एवं भिक्खु अरञ्ञस्मिं ब्रहावने अरञ्ञानियं डंसादिपरिस्सये सतो सम्पजानो अधिवासेय्य, अधिवासेत्वा च भावनाबलेन मारबलं विधमेय्य.

यथा ब्रह्माति यथा ब्रह्मा एकको चित्तप्पकोपरहितो झानसुखेन निच्चमेव सुखितो विहरति तथा एकोति भिक्खुपि एको अदुतियो विवेकसुखमनुब्रूहेन्तो सुखं विहरति. एकस्स सामञ्ञसुखं पणीतन्ति हि वुत्तं. एतेन एकविहारी भिक्खु ‘‘ब्रह्मसमो’’ति ओवादं देति. यथा देवो तथा दुवेति यथा देवानं अन्तरन्तरा चित्तप्पकोपोपि सिया, तथा द्विन्नं भिक्खूनं सहवासे घट्टनापि भवेय्याति सदुतियवासेन भिक्खु ‘‘देवसमो’’ति वुत्तो. यथा गामो तथा तयोति अस्मिमेव पाठे तिण्णं भिक्खूनं सहवासो गामवाससदिसो विवेकवासो न होतीति अधिप्पायो. कोलाहलं ततुत्तरिन्ति ततो तयतो उपरि च बहूनं संवासो कोलाहलं उच्चासद्दमहासद्दमहाजनसन्निपातसदिसो, तस्मा एकविहारिना भवितब्बन्ति अधिप्पायोति.

यसोजत्थेरगाथावण्णना निट्ठिता.