१३. अभिभूतत्थेरगाथावण्णना

सुणाथ ञातयो सब्बेति आयस्मतो अभिभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो तादिसेन कल्याणमित्तसन्निस्सयेन सासने अभिप्पसन्नो अहोसि. सो सत्थरि परिनिब्बुते तस्स धातुं गहेतुं महाजने उस्साहं करोन्ते सयं सब्बपठमं गन्धोदकेन चितकं निब्बापेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेठपुरनगरे राजकुले निब्बत्तित्वा अभिभूतोति लद्धनामो पितु अच्चयेन रज्जं कारेति. तस्मिञ्च समये भगवा जनपदचारिकं चरन्तो अनुपुब्बेन तं नगरं पापुणि. ततो सो राजा ‘‘भगवा किर मम नगरं अनुप्पत्तो’’ति सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा दुतियदिवसे महादानं पवत्तेसि. भगवा भुत्तावी तस्स रञ्ञो अज्झासयानुरूपं अनुमोदनं करोन्तोयेव वित्थारतो धम्मं देसेसि. सो धम्मं सुत्वा लद्धप्पसादो रज्जं पहाय पब्बजित्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.४७.११-१५) –

‘‘दय्हमाने सरीरम्हि, वेस्सभुस्स महेसिनो;

गन्धोदकं गहेत्वान, चितं निब्बापयिं अहं.

‘‘एकतिंसे इतो कप्पे, चितं निब्बापयिं अहं;

दुग्गतिं नाभिजानामि, गन्धोदकस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्ते तस्मिं तस्स ञातका अमच्चा पारिसज्जा नागरा जानपदाति सब्बे समागन्त्वा, ‘‘भन्ते, कस्मा त्वं अम्हे अनाथे कत्वा पब्बजितो’’ति परिदेविंसु. थेरो ते ञातिपमुखे मनुस्से परिदेवन्ते दिस्वा तेसं अत्तनो पब्बज्जकारणविभावनमुखेन धम्मं कथेन्तो –

२५५. ‘‘सुणाथ ञातयो सब्बे, यावन्तेत्थ समागता;

धम्मं वो देसयिस्सामि, दुक्खा जाति पुनप्पुनं.

२५६. ‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

२५७. ‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;

पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. – तिस्सो गाथा अभासि;

तत्थ सुणाथाति निसामेथ, इदानि मया वुच्चमानं ओहितसोता सोतद्वारानुसारेन उपधारेथाति अत्थो. ञातयोति ञाती पमुखे कत्वा तेसं सब्बेसं आलपनं, तेनाह ‘‘सब्बे यावन्तेत्थ समागता’’ति, यावन्तो यत्तका एत्थ समागमे, एतिस्सं वा मम पब्बज्जाय समागताति अत्थो.

इदानि यं सन्धाय ‘‘सुणाथा’’ति सवनाणत्तिकवचनं कतं, तं ‘‘धम्मं वो देसयिस्सामी’’ति पटिजानित्वा ‘‘दुक्खा जाति पुनप्पुन’’न्तिआदिना देसेतुं आरभि. तत्थ दुक्खा जाति पुनप्पुनन्ति जाति नामेसा गब्भोक्कन्तिमूलकादिभेदस्स जरादिभेदस्स च अनेकविहितस्स दुक्खस्स अधिट्ठानभावतो दुक्खा. सा पुनप्पुनं पवत्तमाना अतिविय दुक्खा.

तस्सा पन जातिया समतिक्कमनत्थं उस्साहो करणीयोति दस्सेन्तो आह ‘‘आरम्भथा’’तिआदि. तत्थ आरम्भथाति आरम्भधातुसङ्खातं वीरियं करोथ. निक्कमथाति कोसज्जपक्खतो निक्खन्तत्ता निक्कमधातुसङ्खातं तदुत्तरिं वीरियं करोथ. युञ्जथ बुद्धसासनेति यस्मा सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता सतिसम्पजञ्ञन्ति इमेसु धम्मेसु पतिट्ठितानं जागरियानुयोगवसेन आरम्भनिक्कमधातुयो सम्पज्जन्ति, तस्मा तथाभूता समथविपस्सनासङ्खाते अधिसीलसिक्खादिसङ्खाते वा भगवतो सासने युत्तप्पयुत्ता होथ. धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरोति एवं पटिपज्जन्ता च तेधातुइस्सरस्स मच्चुराजस्स वसं सत्ते नेतीति तस्स सेनासङ्खातं अबलं दुब्बलं यथा नाम थामबलूपपन्नो कुञ्जरो नळेहि कतं अगारं खणेनेव विद्धंसेति, एवमेव किलेसगणं धुनाथ विधमथ विद्धंसेथाति अत्थो.

एवं पन बुद्धसासने उस्साहं करोन्तस्स एकंसिको जातिदुक्खस्स समतिक्कमोति दस्सेन्तो ‘‘यो इमस्मि’’न्तिआदिना ततियं गाथमाह. तं सुविञ्ञेय्यमेव.

अभिभूतत्थेरगाथावण्णना निट्ठिता.