२०. सट्ठिनिपातो

१. महामोग्गल्लानत्थेरगाथावण्णना

सट्ठिनिपाते आरञ्ञिकातिआदिका आयस्मतो महामोग्गल्लानत्थेरस्स गाथा. का उप्पत्ति? तस्स वत्थु धम्मसेनापतिवत्थुम्हि वुत्तमेव. थेरो हि पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय समणधम्मं करोन्तो थिनमिद्धे ओक्कन्ते सत्थारा – ‘‘मोग्गल्लान, मोग्गल्लान, मा, ब्राह्मण, अरियं तुण्हीभावं पमादो’’तिआदिना (सं. नि. २.२३५) संवेजितो थिनमिद्धं विनोदेत्वा भगवता वुच्चमानं धातुकम्मट्ठानं सुणन्तो एव विपस्सनं वड्ढेत्वा पटिपाटिया उपरिमग्गत्तयं उपगन्त्वा अग्गफलक्खणे सावकपारमीञाणस्स मत्थकं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.३७५-३९७) –

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

‘‘वरुणो नाम नामेन, नागराजा अहं तदा;

कामरूपी विकुब्बामि, महोदधिनिवासहं.

‘‘सङ्गणियं गणं हित्वा, तूरियं पट्ठपेसहं;

सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा.

‘‘वज्जमानेसु तूरेसु, देवा तूरानि वज्जयुं;

उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ.

‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिं;

आसनं पञ्ञपेत्वान, कालमारोचयिं अहं.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेसिं, अन्नपानेनहं तदा.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो सो सङ्घं अपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘निरया सो चवित्वान, मनुस्सत्तं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्नो तेन तेन गुणेन अत्तनो सावके एतदग्गे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१८८, १९०) इद्धिमन्तताय एतदग्गे ठपेसि. तेन एवं सत्थारा एतदग्गे ठपितेन सावकपारमिया मत्थकं पत्तेन महाथेरेन तं तं निमित्तं आगम्म तत्थ तत्थ भासिता गाथा, ता सङ्गीतिकाले धम्मसङ्गाहकेहि –

११४९. ‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५०. ‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५१. ‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५२. ‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५३. ‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;

धिरत्थु पुरे दुग्गन्धे, परगत्ते ममायसे.

११५४. .

‘‘तव सरीरं नवसोतं, दुग्गन्धकरं परिबन्धं;

भिक्खु परिवज्जयते तं, मीळ्हञ्च यथा सुचिकामो.

११५६. ‘‘एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहं;

आरका परिवज्जेय्य, गूथट्ठानंव पावुसे.

११५७. ‘‘एवमेतं महावीर, यथा समण भाससि;

एत्थ चेके विसीदन्ति, पङ्कम्हिव जरग्गवो.

११५८. ‘‘आकासम्हि हलिद्दिया, यो मञ्ञेथ रजेतवे;

अञ्ञेन वापि रङ्गेन, विघातुदयमेव तं.

११५९. ‘‘तदाकाससमं चित्तं, अज्झत्तं सुसमाहितं;

मा पापचित्ते आसादि, अग्गिखन्धंव पक्खिमा.

११६०. ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

११६१. ‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

११६२. ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६३. ‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६४. ‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६५. ‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कद्दन्ते मिगबन्धके.

११६६. ‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

११६७. ‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

अनेकाकारसम्पन्ने, सारिपुत्तम्हि निब्बुते.

११६८. ‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

११६९. ‘‘सुखुमं ते पटिविज्झन्ति, वालग्गं उसुना यथा;

ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो.

११७०. ‘‘ये च पस्सन्ति सङ्खारे, परतो नो च अत्ततो;

पच्चब्याधिंसु निपुणं, वालग्गं उसुना यथा.

११७१. ‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७२. ‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

भवरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७३. ‘‘चोदितो भावितत्तेन, सरीरन्तिमधारिना;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयिं.

११७४. ‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;

निब्बानमधिगन्तब्बं, सब्बगन्थपमोचनं.

११७५. ‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपोरिसो;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.

११७६. ‘‘विवरमनुपभन्ति विज्जुता, वेभारस्स च पण्डवस्स च;

नगविवरगतो झायति, पुत्तो अप्पटिमस्स तादिनो.

११७७. ‘‘उपसन्तो उपरतो, पन्तसेनासनो मुनि;

दायादो बुद्धसेट्ठस्स, ब्रह्मुना अभिवन्दितो.

११७८. ‘‘उपसन्तं उपरतं, पन्तसेनासनं मुनिं;

दायादं बुद्धसेट्ठस्स, वन्द ब्राह्मण कस्सपं.

११७९. ‘‘यो च जातिसतं गच्छे, सब्बा ब्राह्मणजातियो;

सोत्तियो वेदसम्पन्नो, मनुस्सेसु पुनप्पुनं.

११८०. ‘‘अज्झायकोपि चे अस्स, तिण्णं वेदान पारगू;

एतस्स वन्दनायेतं, कलं नाग्घति सोळसिं.

११८१. ‘‘यो सो अट्ठ विमोक्खानि, पुरेभत्तं अफस्सयि;

अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति.

११८२. ‘‘तादिसं भिक्खुं मासादि, मात्तानं खणि ब्राह्मण;

अभिप्पसादेहि मनं, अरहन्तम्हि तादिने;

खिप्पं पञ्जलिको वन्द, मा ते विजटि मत्थकं.

११८३. ‘‘नेसो पस्सति सद्धम्मं, संसारेन पुरक्खतो;

अधोगमं जिम्हपथं, कुम्मग्गमनुधावति.

११८४. ‘‘किमीव मीळ्हसल्लित्तो, सङ्खारे अधिमुच्छितो;

पगाळ्हो लाभसक्कारे, तुच्छो गच्छति पोट्ठिलो.

११८५. ‘‘इमञ्च पस्स आयन्तं, सारिपुत्तं सुदस्सनं;

विमुत्तं उभतोभागे, अज्झत्तं सुसमाहितं.

११८६. ‘‘विसल्लं खीणसंयोगं, तेविज्जं मच्चुहायिनं;

दक्खिणेय्यं मनुस्सानं, पुञ्ञक्खेत्तं अनुत्तरं.

११८७. ‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो.

दस देवसहस्सानि, सब्बे ब्रह्मपुरोहिता;

मोग्गल्लानं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

११८८. ‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.

११८९. ‘‘पूजितो नरदेवेन, उप्पन्नो मरणाभिभू;

पुण्डरीकंव तोयेन, सङ्खारेनुपलिम्पति.

११९०. ‘‘यस्स मुहुत्तेन सहस्सधा लोको, संविदितो सब्रह्मकप्पो वसि;

इद्धिगुणे चुतुपपाते काले, पस्सति देवता स भिक्खु.

११९१. ‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया.

११९२. ‘‘कोटिसतसहस्सस्स, अत्तभावं खणेन निम्मिने;

अहं विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धिया.

११९३. ‘‘समाधिविज्जावसिपारमीगतो, मोग्गल्लानगोत्तो असितस्स सासने;

धीरो समुच्छिन्दि समाहितिन्द्रियो, नागो यथा पूतिलतंव बन्धनं.

११९४. ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

११९५. ‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

११९६. ‘‘कीदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९७. ‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;

ईदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९८. ‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;