२१. महानिपातो

१. वङ्गीसत्थेरगाथावण्णना

सत्ततिनिपाते निक्खन्तं वत मं सन्तन्तिआदिका आयस्मतो वङ्गीसत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो, पुरिमनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा, सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वङ्गीसोति लद्धनामो तयो बेदे उग्गण्हन्तो आचरियं आराधेत्वा, छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति.

ब्राह्मणा ‘‘अयं अम्हाकं जीवितमग्गो’’ति ञत्वा वङ्गीसं गहेत्वा पटिच्छन्नयाने निसीदापेत्वा गामनिगमराजधानियो विचरन्ति. वङ्गीसोपि तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति. तेन तस्मिं महाजनो अभिप्पसीदति. सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभतीति. ब्राह्मणा वङ्गीसमादाय यथारुचिं विचरित्वा पुन सावत्थिं अगमंसु. वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि. ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु. वङ्गीसो तेसं वचनं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि.

तं सत्था पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानासी’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नाम जानामि. तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति. सत्था तस्स एकं निरये निब्बत्तस्स सीसं दस्सेसि, एकं मनुस्सेसु, एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि. सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह. ‘‘साधु, वङ्गीस, सुट्ठु तया दिट्ठं. अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि. ‘‘मनुस्सलोके’’ति. ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति तिण्णन्नम्पि निब्बत्तट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सि. अथ नं सत्था ‘‘न सक्कोसि वङ्गीसा’’ति पुच्छि. ‘‘उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेत्वा आकोटेन्तोपि बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्हीभूतो अट्ठासि. अथ नं सत्था – ‘‘किलमसि, वङ्गीसा’’ति आह. ‘‘आम, भो गोतम, इमस्स उप्पन्नट्ठानं जानितुं न सक्कोमि, सचे तुम्हे जानाथ, कथेथा’’ति. ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा –

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०; सु. नि. ६४८-६४९) –

इमा द्वे गाथा अभासि. वङ्गीसो ‘‘तेन हि, भो गोतम, तं विज्जं मे देथा’’ति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि. सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह. वङ्गीसो ‘‘यंकिञ्चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे आह – ‘‘तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दकमेव भविस्सती’’ति मन्तत्थाय सत्थुसन्तिकं उपसङ्कमित्वा पब्बज्जं याचि. तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति. सो सत्थु आणाय तं पब्बाजेसि. अथस्स सत्था ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च आचिक्खि. सो द्वत्तिंसाकारं सज्झायन्तोव विपस्सनं पट्ठपेसि. ब्राह्मणा वङ्गीसं उपसङ्कमित्वा ‘‘किं, भो वङ्गीस, समणस्म गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु. ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे, न मय्हं तुम्हेहि कत्तब्बकिच्च’’न्ति. ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्कमिंसु. वङ्गीसत्थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५५.९६-१४२) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘यथापि सागरे ऊमि, गगने विय तारका;

एवं पावचनं तस्स, अरहन्तेहि चित्तितं.

‘‘सदेवासुरनागेहि, मनुजेहि पुरक्खतो;

समणब्राह्मणाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘पभाहि अनुरञ्जन्तो, लोके लोकन्तगू जिनो;

वचनेन विबोधेन्तो, वेनेय्यपदुमानि सो.

‘‘वेसारज्जेहि सम्पन्नो, चतूहि पुरिसुत्तमो;

पहीनभयसारज्जो, खेमप्पत्तो विसारदो.

‘‘आसभं पवरं ठानं, बुद्धभूमिञ्च केवलं;

पटिजानाति लोकग्गो, नत्थि सञ्चोदको क्वचि.

‘‘सीहनादमसम्भीतं, नदतो तस्स तादिनो;

देवा नरो वा ब्रह्मा वा, पटिवत्ता न विज्जति.

‘‘देसेन्तो पवरं धम्मं, सन्तारेन्तो सदेवकं;

धम्मचक्कं पवत्तेति, परिसासु विसारदो.

‘‘पटिभानवतं अग्गं, सावकं साधुसम्मतं;

गुणं बहुं पकित्तेत्वा, एतदग्गे ठपेसि तं.

‘‘तदाहं हंसवतियं, ब्राह्मणो साधुसम्मतो;

सब्बवेदविदू जातो, वागीसो वादिसूदनो.

‘‘उपेच्च तं महावीरं, सुत्वाहं धम्मदेसनं;

पीतिवरं पटिलभिं, सावकस्स गुणे रतो.

‘‘निमन्तेत्वाव सुगतं, ससङ्घं लोकनन्दनं;

सत्ताहं भोजयित्वाहं, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा पादे, कतोकासो कतञ्जली;

एकमन्तं ठितो हट्ठो, सन्थविं जिनमुत्तमं.

‘‘नमो ते वादिमद्दन, नमो ते इसिसत्तम;

नमो ते सब्बलोकग्ग, नमो ते अभयं कर.

‘‘नमो ते मारमथन, नमो ते दिट्ठिसूदन;

नमो ते सन्तिसुखद, नमो ते सरणं कर.

‘‘अनाथानं भवं नाथो, भीतानं अभयप्पदो;

विस्सामभूमि सन्तानं, सरणं सरणेसिनं.

‘‘एवमादीहि सम्बुद्धं, सन्थवित्वा महागुणं;

अवोचं वादिसूदस्स, गतिं पप्पोमि भिक्खुनो.

‘‘तदा अवोच भगवा, अनन्तपटिभानवा;

यो सो बुद्धं अभोजेसि, सत्ताहं सहसावकं.

‘‘गुणञ्च मे पकित्तेसि, पसन्नो सेहि पाणिभि;

एसो पत्थयते ठानं, वादिसूदस्स भिक्खुनो.

‘‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं;

देवमानुससम्पत्तिं, अनुभोत्वा अनप्पकं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वङ्गीसो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

पच्चयेहि उपट्ठासिं, मेत्तचित्तो तथागतं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तुसितं अगमासहं.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

पच्चाजातो यदा आसिं, जातिया सत्तवस्सिको.

‘‘सब्बवेदविदू जातो, वादसत्थविसारदो;

वादिस्सरो चित्तकथी, परवादप्पमद्दनो.

‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति वा;

वङ्गीसो इति मे नामं, अभवी लोकसम्मतं.

‘‘यदाहं विञ्ञुतं पत्तो, ठितो पठमयोब्बने;

तदा राजगहे रम्मे, सारिपुत्तमहद्दसं.

‘‘पिण्डाय विचरन्तं तं, पत्तपाणिं सुसंवुतं;

अलोलक्खिं मितभाणिं, युगमत्तं निदक्खितं.

‘‘तं दिस्वा विम्हितो हुत्वा, अवोचं ममनुच्छवं;

कणिकारंव निचितं, चित्तं गाथापदं अहं.

‘‘आचिक्खि सो मे सत्थारं, सम्बुद्धं लोकनायकं;

तदा सो पण्डितो वीरो, उत्तरिं समवोच मे.

‘‘विरागसंहितं वाक्यं, कत्वा दुद्दसमुत्तमं;

विचित्तपटिभानेहि, तोसितो तेन तादिना.

‘‘निपच्च सिरसा पादे, पब्बाजेहीति मं ब्रवि;

ततो मं स महापञ्ञो, बुद्धसेट्ठमुपानयि.

‘‘निपच्च सिरसा पादे, निसीदिं सत्थु सन्तिके;

ममाह वदतं सेट्ठो, कच्चि वङ्गीस जानासि.

‘‘किञ्चि सिप्पन्ति तस्साहं, जानामीति च अब्रविं;

मतसीसं वनच्छुद्धं, अपि बारसवस्सिकं;

तव विज्जाविसेसेन, सचे सक्कोसि वाचय.

‘‘आमोति मे पटिञ्ञाते, तीणि सीसानि दस्सयि;

निरयनरदेवेसु, उपपन्ने अवाचयिं.

‘‘तदा खीणासवस्सेव, सीसं दस्सेसि नायको;

ततोहं विहतारब्भो, पब्बज्जं समयाचिसं.

‘‘पब्बजित्वान सुगतं, सन्थवामि तहिं तहिं;

ततो मं कब्बवित्तोसि, उज्झायन्तिह भिक्खवो.

‘‘ततो वीमंसनत्थं मे, आह बुद्धो विनायको;

तक्किका पनिमा गाथा, ठानसो पटिभन्ति तं.

‘‘न कब्बवित्तोहं वीर, ठानसो पटिभन्ति मं;

तेन हि दानि वङ्गीस, ठानसो सन्थवाहि मं.

‘‘तदाहं सन्थविं वीरं, गाथाहि इसिसत्तमं;

ठानसो मे तदा तुट्ठो, जिनो अग्गे ठपेसि मं.

‘‘पटिभानेन चित्तेन, अञ्ञेसमतिमञ्ञहं;

पेसले तेन संविग्गो, अरहत्तमपापुणिं.

‘‘पटिभानवतं अग्गो, अञ्ञो कोचि न विज्जति;

यथायं भिक्खु वङ्गीसो, एवं धारेथ भिक्खवो.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा थेरो सत्थु सन्तिकं गच्छन्तो चक्खुपथतो पट्ठाय चन्देन, सूरियेन, आकासेन, महासमुद्देन, सिनेरुना पब्बतराजेन, सीहेन मिगरञ्ञा, हत्थिनागेनाति तेन तेन सद्धिं उपमेन्तो अनेकेहि पदसतेहि सत्थारं वण्णेन्तोव उपगच्छति. तेन तं सत्था सङ्घमज्झे निसिन्नो पटिभानवन्तानं अग्गट्ठाने ठपेसि. अथ थेरेन अरहत्तप्पत्तितो पुब्बे च पच्छा च तं तं चित्तं आगम्म भासिता. थेरं उद्दिस्स आनन्दत्थेरादीहि भासिता च –

१२१८. ‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं;

वितक्का उपधावन्ति, पगब्भा कण्हतो इमे.

१२१९. ‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो;

समन्ता परिकिरेय्युं, सहस्सं अपलायिनं.

१२२०. ‘‘सचेपि एत्तका भिय्यो, आगमिस्सन्ति इत्थियो;

नेव मं ब्याधयिस्सन्ति, धम्मे सम्हि पतिट्ठितो.

१२२१. ‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमनं मग्गं, तत्थ मे निरतो मनो.

१२२२. ‘‘एवञ्चे मं विहरन्तं, पापिम उपगच्छसि;

तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसि.

१२२३. ‘‘अरतिञ्च रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं;

वनथं न करेय्य कुहिञ्चि, निब्बनथो अवनथो स भिक्खु.

१२२४. ‘‘यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चि;

परिजीयति सब्बमनिच्चं, एवं समेच्च चरन्ति मुतत्ता.

१२२५. ‘‘उपधीसु जना गधितासे, दिट्ठसुते पटिघे च मुते च;

एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु.

१२२६. ‘‘अथ सट्ठिसिता सवितक्का, पुथुज्जनताय अधम्मा निविट्ठा;

न च वग्गगतस्स कुहिञ्चि, नो पन दुट्ठुल्लगाही स भिक्खु.

१२२७. ‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु;

सन्तं पदं अज्झगमा मुनि, पटिच्च परिनिब्बुतो कङ्खति कालं.

१२२८. ‘‘मानं पजहस्सु गोतम, मानपथञ्च जहस्सु असेसं;

मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं.

१२२९. ‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति;

सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना.

१२३०. ‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्नो;

कित्तिञ्च सुखञ्चानुभोति, धम्मदसोति तमाहु तथत्तं.

१२३१. ‘‘तस्मा अखिलो इध पधानवा, नीवरणानि पहाय विसुद्धो;

मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी.

१२३२. ‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम.

१२३३. ‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं.

१२३४. ‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव.

१२३५. ‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससि.

१२३६. ‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये;

परे च न विहिंसेय्य, सा वे वाचा सुभासिता.

१२३७. ‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता;

यं अनादाय पापानि, परेसं भासते पियं.

१२३८. ‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो;

सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता.

१२३९. ‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा.