३. आनन्दत्थेरगाथावण्णना
पिसुणेन च कोधनेनातिआदिका आयस्मतो आनन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सत्थु वेमातिकभाता हुत्वा निब्बत्ति, सुमनोतिस्स नामं अहोसि. पिता पनस्स आनन्दराजा नाम. सो अत्तनो पुत्तस्स सुमनकुमारस्स वयप्पत्तस्स हंसवतितो वीसयोजनसते ठाने भोगनगरं अदासि. सो कदाचि कदाचि आगन्त्वा अत्तानञ्च पितरञ्च पस्सति. तदा राजा सत्थारञ्च सतसहस्सपरिमाणं भिक्खुसङ्घञ्च सयमेव सक्कच्चं उपट्ठहि, अञ्ञेसं उपट्ठातुं न देति.
तेन समयेन पच्चन्तो कुपितो अहोसि. कुमारो तस्स कुपितभावं रञ्ञो अनारोचेत्वा सयमेव तं वूपसमेति. तं सुत्वा राजा तुट्ठमानसो पुत्तं पक्कोसापेत्वा ‘‘वरं ते, तात दम्मि, वरं गण्हाही’’ति आह. कुमारो ‘‘सत्थारं भिक्खुसङ्घञ्च तेमासं उपट्ठहन्तो जीवितं अवञ्झं कातुं इच्छामी’’ति आह. ‘‘एतं न सक्का, अञ्ञं वदेही’’ति. ‘‘देव, खत्तियानं द्वेकथा नाम नत्थि, एतदेव मे देहि, न मय्हं अञ्ञेन अत्थो’’ति. ‘‘सचे सत्था अनुजानाति, दिन्नमेवा’’ति. सो ‘‘सत्थु चित्तं जानिस्सामी’’ति विहारं गतो.
तेन च समयेन भगवा भत्तकिच्चं निट्ठापेत्वा गन्धकुटिं पविट्ठो होति. सो भिक्खू उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवन्तं दस्सनाय आगतो, दस्सेथ मे भगवन्त’’न्ति आह. भिक्खू ‘‘सुमनो नाम थेरो सत्थु उपट्ठाको, तस्स सन्तिकं गच्छाही’’ति आहंसु. सो थेरस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘सत्थारं, भन्ते, मे दस्सेथा’’ति आह. अथ थेरो तस्स पस्सन्तस्सेव पथवियं निमुज्जित्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, राजपुत्तो तुम्हाकं दस्सनाय आगतो’’ति आह. ‘‘तेन हि, भिक्खु, बहि आसनं पञ्ञापेही’’ति. थेरो पुनपि तस्स पस्सन्तस्सेव बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्जित्वा बहिपरिवेणे पातुभवित्वा गन्धकुटिपरिवेणे आसनं पञ्ञापेसि. कुमारो तं दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चित्तं उप्पादेसि.
भगवापि गन्धकुटितो निक्खमित्वा पञ्ञत्तासने निसीदि. राजपुत्तो सत्थारं वन्दित्वा, पटिसन्थारं कत्वा, अयं, भन्ते, थेरो तुम्हाकं सासने वल्लभो मञ्ञेति. ‘‘आम कुमार, वल्लभो’’ति? ‘‘किं कत्वा, भन्ते, एस वल्लभो होती’’ति?‘‘दानादीनि पुञ्ञानि कत्वा’’ति. ‘‘भगवा, अहम्पि अयं थेरो विय अनागते बुद्धसासने वल्लभो होतुकामो’’ति सत्थाहं खन्धावारभत्तं नाम दत्वापि सत्तमे दिवसे, भन्ते, मया पितु सन्तिका तेमासं तुम्हाकं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथाति. भगवा, ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्ञागारे खो, कुमार, तथागता अभिरमन्ती’’ति आह. कुमारो ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्ञं गहेत्वा पितु सन्तिकं गन्त्वा ‘‘दिन्ना मे, देव, भगवता पटिञ्ञा, मया पहिते भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा, निक्खमित्वा योजने योजने विहारं करोन्तो वीसयोजनसतं अद्धानं गतो. गन्त्वा च अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनस्स नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि. तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्च निट्ठापेत्वा पितु सन्तिकं पेसेसि ‘‘निट्ठितं मय्हं किच्चं, सत्थारं पहिणथा’’ति.
राजा भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्चं निट्ठितं, तुम्हाकं गमनं पच्चासीसती’’ति आह. भगवा सतसहस्सभिक्खुपरिवुतो योजने योजने विहारेसु वसमानो अगमासि. कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्चुग्गन्त्वा गन्धमालादीहि पूजयमानो सतसहस्सेन कीते सोभने नाम उय्याने सतसहस्सेन कारितं विहारं पवेसेत्वा –
‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं;
सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति. –
तं निय्यादेसि. सो वस्सूपनायिकदिवसे महादानं पवत्तेत्वा ‘‘इमिनाव नीहारेन दानं ददेय्याथा’’ति पुत्तदारे अमच्चे च किच्चकरणीयेसु च नियोजेत्वा सयं सुमनत्थेरस्स वसनट्ठानसमीपेयेव वसन्तो तेमासं सत्थारं उपट्ठहन्तो उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सत्थु भिक्खुसतसहस्सस्स च पादमूले तिचीवरानि ठपेत्वा वन्दित्वा, ‘‘भन्ते, यदेतं मया सत्ताहं खन्धावारदानतो पट्ठाय पुञ्ञं कतं, न तं सग्गसम्पत्तिआदीनं अत्थाय, अथ खो अहं अयं सुमनत्थेरो विय अनागते एकस्स बुद्धस्स उपट्ठाको भवेय्य’’न्ति पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.
सोपि तस्मिं बुद्धुप्पादे वस्ससतसहस्सं पुञ्ञानि कत्वा ततो परम्पि तत्थ तत्थ भवे उळारानि पुञ्ञकम्मानि उपचिनित्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले पिण्डाय चरतो एकस्स थेरस्स पत्तग्गहणत्थं उत्तरसाटकं दत्वा पूजं अकासि. पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठ पच्चेकबुद्धे दिस्वा ते भोजेत्वा अत्तनो मङ्गलुय्याने अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अट्ठ सब्बरतनमयपीठे चेव मणिआधारके च पटियादेत्वा दसवस्ससहस्सानि उपट्ठानं अकासि. एतानि पाकटट्ठानानि.
कप्पसतसहस्सं पन तत्थ तत्थ भवे पुञ्ञानि करोन्तोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्ति. तस्स सब्बे ञातके आनन्दिते करोन्तो जातोति आनन्दोत्वेव नामं अहोसि. सो अनुक्कमेन वयप्पत्तो कताभिनिक्खमने सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्के पठमं कपिलवत्थुं गन्त्वा ततो निक्खन्ते भगवति तस्स परिवारत्थं पब्बजितुं निक्खन्तेहि भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि.
तेन च समयेन भगवतो पठमबोधियं वीसतिवस्सानि अनिबद्धउपट्ठाका अहेसुं. एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो, एकदा मेघियो, ते येभुय्येन सत्थु चित्तं नाराधयिंसु. अथेकदिवसं भगवा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने भिक्खुसङ्घपरिवुतो निसिन्नो भिक्खू आमन्तेसि – ‘‘अहं, भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति. तं सुत्वा भिक्खूनं धम्मसंवेगो उदपादि. अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा – ‘‘अहं, भन्ते, तुम्हे उपट्ठहिस्सामी’’ति आह. तं भगवा पटिक्खिपि. एतेनुपायेन महामोग्गल्लानं आदिं कत्वा सब्बे महासावका – ‘‘अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति उट्ठहिंसु ठपेत्वा आयस्मन्तं आनन्दं, तेपि भगवा पटिक्खिपि. सो पन तुण्हीयेव निसीदि. अथ नं भिक्खू आहंसु – ‘‘आवुसो, त्वम्पि सत्थु उपट्ठाकट्ठानं याचाही’’ति. याचित्वा लद्धट्ठानं नाम कीदिसं होति, सचे रुच्चति, सत्था सयमेव वक्खतीति. अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह. ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, सत्थारं उपट्ठाकट्ठानं याचाही’’ति आहंसु.
थेरो उट्ठहित्वा ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतचीवरं न दस्सति, पणीतपिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति आह. ‘‘एत्तके गुणे लभतो सत्थु उपट्ठाने को भारो’’ति उपवादमोचनत्थं इमे चत्तारो पटिक्खेपा च – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामि; यदा मे कङ्खा उप्पज्जति, तावदेव भगवन्तं उपसङ्कमितुं लच्छामि, सचे भगवा परम्मुखा देसितं धम्मं पुन मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति ‘‘एत्तकम्पि सत्थु सन्तिके अनुग्गहं न लभती’’ति उपवादमोचनत्थञ्चेव धम्मभण्डागारिकभावपारमीपूरणत्थञ्च इमा चतस्सो आयाचना चाति अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि. तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि. सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा, रत्तिभागे महन्तं दण्डदीपिकं गहेत्वा गन्धकुटिपरिवेणं नव वारे अनुपरियायति, सत्थरि पक्कोसन्ते पटिवचनदानाय थिनमिद्धविनोदनत्थं.
अथ नं सत्था जेतवने अरियगणमज्झे निसिन्नो अनेकपरियायेन पसंसित्वा ‘‘बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्च भिक्खूनं अग्गट्ठाने ठपेसि. एवं सत्थारा पञ्चसु ठानेसु एतदग्गे ठपितो चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो सत्थु धम्मकोसारक्खो अयं महाथेरो सेखोव समानो सत्थरि परिनिब्बुते हेट्ठा वुत्तनयेन भिक्खूहि समुत्तेजितो देवताय च संवेजितो ‘‘स्वेयेव च दानि धम्मसङ्गीति कातब्बा, न खो पन मेतं पतिरूपं, य्वायं सेखो सकरणीयो हुत्वा असेखेहि थेरेहि सद्धिं धम्मं सङ्गायितुं सन्निपातं गन्तु’’न्ति सञ्जातुस्साहो विपस्सनं पट्ठपेत्वा बहुदेवरत्तिं विपस्सनाय कम्मं करोन्तो चङ्कमे वीरियसमतं अलभित्वा विहारं पविसित्वा सयने निसीदित्वा सयितुकामो कायं आवट्टेसि. अप्पत्तञ्च सीसं बिम्बोहनं पादा च भूमितो मुत्तमत्ता, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१.६४४-६६३) –
‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि;
वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं.
‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका;
परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी.
‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं;
सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ.
‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभं;
रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं.
‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि;
तं कथं ठपयित्वान, इमा गाथा अभासथ.
‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘चतुतिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति;
बलाधिपो अट्ठसतं, वसुधं आवसिस्सति.
‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, महिया कारयिस्सति.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति;
आनन्दो नाम नामेन, उपट्ठाको महेसिनो.
‘‘आतापी निपको चापि, बाहुसच्चेसु कोविदो;
निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना;
तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा.
‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका;
सब्बे ते बुद्धनागस्स, न होन्तुपणिधिम्हि ते.
‘‘आदिया मे नमस्सामि, मज्झिमे अथ पच्छिमे;
पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.
‘‘आतापी निपको चापि, सम्पजानो पटिस्सतो;
सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो.
‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिं;
ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासन’’न्ति.
छळभिञ्ञो पन हुत्वा सङ्गीतिमण्डपं पविसित्वा धम्मं सङ्गायन्तो तत्थ तत्थ भिक्खूनं ओवाददानवसेन अत्तनो पटिपत्तिदीपनादिवसेन च भासितगाथा एकज्झं कत्वा अनुक्कमेव खुद्दकनिकायसङ्गायनकाले थेरगाथासु सङ्गीतिं आरोपेन्तो –
१०१७. ‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना;
सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो.
१०१८. ‘‘सद्धेन च पेसलेन च, पञ्ञवता बहुस्सुतेन च;
सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो.
१०१९. ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
१०२०. ‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठितचेन ओनद्धं, सह वत्थेहि सोभति.
१०२१. ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
१०२२. ‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
१०२३. ‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.
‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.
१०२४. ‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको;
पन्नभारो विसञ्ञुत्तो, सेय्यं कप्पेति गोतमो.
१०२५. ‘‘खीणासवो विसञ्ञुत्तो, सङ्गातीतो सुनिब्बुतो;
धारेति अन्तिमं देहं, जातिमरणपारगू.
१०२६. ‘‘यस्मिं पतिट्ठिता धम्मा, बुद्धस्सादिच्चबन्धुनो;
निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो.
१०२७. ‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो.
१०२८. ‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;
मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.
१०२९. ‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्ञति;
अन्धो पदीपधारोव, तथेव पटिभाति मं.
१०३०. ‘‘बहुस्सुतं उपासेय्य, सुतञ्च न विनासये;
तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया.
१०३१. ‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;
सुग्गहीतञ्च गण्हाति, अत्थञ्चोपपरिक्खति.
१०३२. ‘‘खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तं;
समये सो पदहति, अज्झत्तं सुसमाहितो.
१०३३. ‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;
धम्मविञ्ञाणमाकङ्खं, तं भजेथ तथाविधं.
१०३४. ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो.
१०३५. ‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.
१०३६. ‘‘कायमच्छेरगरुनो, हिय्यमाने अनुट्ठहे;
सरीरसुखगिद्धस्स, कुतो समणफासुता.
१०३७. ‘‘न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं;
गते कल्याणमित्तम्हि, अन्धकारंव खायति.
१०३८. ‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो;
नत्थि एतादिसं मित्तं, यथा कायगता सति.
१०३९. ‘‘ये पुराणा अतीता ते, नवेहि न समेति मे;
स्वज्ज एकोव झायामि, वस्सुपेतोव पक्खिमा.
१०४०. ‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके बहू;
मा वारयित्थ सोतारो, पस्सन्तु समयो ममं.
१०४१. ‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके पुथु;
करोति सत्था ओकासं, न निवारेति चक्खुमा.
१०४२. ‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;
न कामसञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.
१०४३. ‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;
न दोससञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.
१०४४. ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन कायकम्मेन, छायाव अनपायिनी.
१०४५. ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन वचीकम्मेन, छायाव अनपायिनी.
१०४६. ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन मनोकम्मेन, छायाव अनपायिनी.
१०४७. ‘‘बुद्धस्स चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं;
धम्मे देसियमानम्हि, ञाणं मे उदपज्जथ.
१०४८. ‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो;
सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको.
१०४९. ‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
सब्बकारवरूपेते, सम्बुद्धे परिनिब्बुते.
१०५०. ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो.
१०५१. ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो.
१०५२. ‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि;
सद्धम्मधारको थेरो, आनन्दो रतनाकरो.
१०५३. ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति. –
इमा गाथा अभासि.
तत्थ पिसुणेन चाति आदितो द्वे गाथा छब्बग्गिये भिक्खू देवदत्तपक्खियेहि भिक्खूहि सद्धिं संसग्गं करोन्ते दिस्वा तेसं ओवाददानवसेन वुत्ता. तत्थ पिसुणेनाति पिसुणाय वाचाय. ताय हि युत्तो पुग्गलो ‘‘पिसुणो’’ति वुत्तो यथा नीलगुणयुत्तो पटो नीलोति. कोधनेनाति कुज्झनसीलेन. अत्तसम्पत्तिनिगूहणलक्खणस्स मच्छेरस्स सम्भवतो मच्छरिना. विभूतनन्दिनाति सत्तानं विभूतं विभवनं विनासं इच्छन्तेन, विभूतं वा विसुं भावो भेदो, तं नन्दनेन, सब्बमेतं देवदत्तपक्खियेव सन्धाय वुत्तं. ते हि पञ्चवत्थुदीपनाय बहू जने सम्मापटिपन्ने भिन्दन्ता सत्थरि बहिद्धताय थद्धमच्छरियादिमच्छरियपकता महाजनस्स महतो अनत्थाय पटिपज्जिंसु. सखितन्ति सहायभावं संसग्गं न करेय्य, किंकारणा? पापो कापुरिसेन सङ्गमो कापुरिसेन पापपुग्गलेन समागमो निहीनो लामको. ये हिस्स दिट्ठानुगतिं आपज्जन्ति. तेसं दुचिन्तितादिभेदं बाललक्खणमेव आवहति, पगेव वचनकरस्स. तेनाह भगवा – ‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो’’तिआदि (अ. नि. ३.१).
येन पन संसग्गो कातब्बो, तं दस्सेतुं ‘‘सद्धेन चा’’तिआदि वुत्तं. तत्थ सद्धेनाति कम्मकम्मफलसद्धाय चेव, रतनत्तयसद्धाय च समन्नागतेन. पेसलेनाति पियसीलेन सीलसम्पन्नेन. पञ्ञवताति उदयत्थगामिनिया निब्बेधिकाय पञ्ञाय वसेन पञ्ञासम्पन्नेन. बहुस्सुतेनाति परियत्तिपटिवेधबाहुसच्चानं पारिपूरिया बहुस्सुतेन. भद्दोति तेन तादिसेन साधुना सङ्गमो भद्दो सुन्दरो कल्याणो दिट्ठधम्मिकादिभेदं अत्थं आवहतीति अधिप्पायो.
पस्स चित्तकतन्तिआदिका सत्त गाथा अत्तनो रूपसम्पत्तिं दिस्वा कामसञ्ञं उप्पादेन्तिया उत्तराय नाम उपासिकाय कायविच्छन्दजननत्थं भासिता. ‘‘अम्बपालिं गणिकं दिस्वा विक्खित्तचित्तानं ओवाददानत्थ’’न्तिपि वदन्ति. ता हेट्ठा वुत्तत्था एव.
बहुस्सुतो चित्तकथीतिआदिका द्वे गाथा थेरेन अरहत्तं पत्वा उदानवसेन भासिता. तत्थ परिचारकोति उपट्ठाको. सेय्यं कप्पेतीति अरहत्तप्पत्तिसमनन्तरं सयितत्ता वुत्तं. थेरो हि बहुदेव रत्तिं चङ्कमेन वीतिनामेत्वा सरीरं उतुं गाहापेतुं ओवरकं पविसित्वा सयितुं मञ्चके निसिन्नो पादा च भूमितो मुत्ता, अप्पत्तञ्च सीसं बिम्बोहनं, एत्थन्तरे अरहत्तं पत्वा सयि.
खीणासवोति परिक्खीणचतुरासवो, ततो एव चतूहिपि योगेहि विसंयुत्तो, रागसङ्गादीनं अतिक्कन्तत्ता सङ्गातीतो, सब्बसो किलेसपरिळाहस्स वूपसन्तत्ता सुनिब्बुतो सीतिभूतोति अत्थो.
यस्मिं पतिट्ठिता धम्माति थेरं उद्दिस्स खीणासवमहाब्रह्मुना भासिता गाथा. उपट्ठिताय हि धम्मसङ्गीतिया थेरं उद्दिस्स येहि भिक्खूहि ‘‘एको भिक्खु विस्सगन्धं वायती’’ति वुत्तं. अथ थेरो अधिगते अरहत्ते सत्तपण्णिगुहाद्वारं सङ्घस्स सामग्गीदानत्थं आगतो, तस्स खीणासवभावप्पकासनेन सुद्धावासमहाब्रह्मा. ते भिक्खू लज्जापेन्तो ‘‘यस्मिं पतिट्ठिता धम्मा’’ति गाथमाह. तस्सत्थो – बुद्धस्स भगवतो धम्मा तेनेव अधिगता पवेदिता च पटिवेधपरियत्तिधम्मा. यस्मिं पुरिसविसेसे पतिट्ठिता, सोयं गोत्ततो गोतमो धम्मभण्डागारिको सउपादिसेसनिब्बानस्स अधिगतत्ता इदानि अनुपादिसेसनिब्बानगमने मग्गे पतिट्ठहि, तस्स एकंसभागीति.
अथेकदिवसं गोपकमोग्गल्लानो नाम ब्राह्मणो थेरं पुच्छि – ‘‘त्वं बहुस्सुतोति बुद्धस्स सासने पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया धारिता’’ति? तस्स थेरो पटिवचनं देन्तो ‘‘द्वासीती’’ति गाथमाह. तत्थ द्वासीति सहस्सानीति योजना, बुद्धतो गण्हिन्ति सम्मासम्बुद्धतो उग्गण्हिं द्विसहस्साधिकानि असीतिधम्मक्खन्धसहस्सानि सत्थु सन्तिका अधिगण्हिन्ति अत्थो. द्वे सहस्सानि भिक्खुतोति द्वे धम्मक्खन्धसहस्सानि भिक्खुतो गण्हिं, धम्मसेनापतिआदीनं भिक्खूनं सन्तिका अधिगच्छिं. चतुरासीतिसहस्सानीति तदुभयं समोधानेत्वा चतुसहस्साधिकानि असीतिसहस्सानि. ये मे धम्मा पवत्तिनोति ये यथावुत्तपरिमाणा धम्मक्खन्धा मय्हं पगुणा वाचुग्गता जिव्हग्गे परिवत्तन्तीति.
अथेकदा थेरो सासने पब्बजित्वा विपस्सनाधुरेपि गन्थधुरेपि अननुयुत्तं एकं पुग्गलं दिस्वा बाहुसच्चाभावे आदीनवं पकासेन्तो ‘‘अप्पस्सुताय’’न्ति गाथमाह. तत्थ अप्पस्सुतायन्ति एकस्स द्विन्नं वा पण्णासानं, अथ वा पन वग्गानं अन्तमसो एकस्स द्विन्नं वा सुत्तन्तानम्पि उग्गहितानं अभावेन अप्पस्सुतो अयं, कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्जन्तो बहुस्सुतोव. बलिबद्दोव जीरतीति यथा बलिबद्दो जीरमानो वड्ढमानो नेव मातु न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति; एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनं अनुयुञ्जति, निरत्थकमेव जीरति. मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘कसनभारवहनादीसु असमत्थो एसो’’ति अरञ्ञे विस्सट्ठस्स यथा तथा विचरन्तस्स खादन्तस्स पिवन्तस्स मंसानि तस्स वड्ढन्ति; एवमेवं इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्चये लभित्वा उद्धंविरेचनादीनि कत्वा कायं पोसेन्तस्स मंसानि वड्ढन्ति थूलसरीरो हुत्वा विचरति. पञ्ञाति लोकियलोकुत्तरा पनस्स पञ्ञा एकङ्गुलिमत्तापि न वड्ढति, अरञ्ञे गच्छलतादीनि विय अस्स छद्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अधिप्पायो.
बहुस्सुतोति गाथा अत्तनो बाहुसच्चं निस्साय अञ्ञं अतिमञ्ञन्तं एकं भिक्खुं उद्दिस्स वुत्ता. तत्थ सुतेनाति सुतहेतु अत्तनो बाहुसच्चनिमित्तं. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति अत्तानं उक्कंसेन्तो परं परिभवति. तथेवाति यथा अन्धो अन्धकारे तेलपज्जोतं धारेन्तो आलोकदानेन परेसंयेव अत्थावहो, न अत्तनो, तथेव परियत्तिबाहुसच्चेन सुतवा पुग्गलो सुतेन अनुपपन्नो अत्तनो अत्थं अपरिपूरेन्तो अन्धो ञाणालोकदानेन परेसंयेव अत्थावहो, न अत्तनो, दीपधारो अन्धो विय मय्हं उपट्ठातीति.
इदानि बाहुसच्चे आनिसंसं दस्सेन्तो ‘‘बहुस्सुत’’न्ति गाथमाह. तत्थ उपासेय्याति पयिरुपासेय्य. सुतञ्च न विनासयेति बहुस्सुतं पयिरुपासित्वा लद्धं सुतञ्च न विनासेय्य, न सुस्सेय्य धारणपरिचयपरिपुच्छामनसिकारेहि वड्ढेय्य. तं मूलं ब्रह्मचरियस्साति यस्मा बहुस्सुतं पयिरुपासित्वा लद्धं तं सुतं परियत्तिबाहुसच्चं मग्गब्रह्मचरियस्स मूलं पधानकारणं. तस्मा धम्मधरो सिया विमुत्तायतनसीसे ठत्वा यथासुतस्स धम्मस्स धारणे पठमं परियत्तिधम्मधरो भवेय्य.
इदानि परियत्तिबाहुसच्चेन साधेतब्बमत्थं दस्सेतुं ‘‘पुब्बापरञ्ञू’’तिआदि वुत्तं. तत्थ पुब्बञ्च अपरञ्च जानातीति पुब्बापरञ्ञू. एकिस्सा हि गाथाय पुब्बभागे अपञ्ञायमानेपि पुब्बभागे वा पञ्ञायमाने अपरभागे अपञ्ञायमानेपि ‘‘इमस्स अपरभागस्स इमिना पुब्बभागेन, इमस्स वा पुब्बभागस्स इमिना अपरभागेन भवितब्ब’’न्ति जानन्तो पुब्बापरञ्ञू नाम. अत्तत्थादिभेदं तस्स तस्स भासितस्स अत्थं जानातीति अत्थञ्ञू. निरुत्तिपदकोविदोति निरुत्तियं सेसपदेसुपि चाति चतूसुपि पटिसम्भिदासु छेको. सुग्गहीतञ्च गण्हातीति तेनेव कोविदभावेन अत्थतो ब्यञ्जनतो च धम्मं सुगहितमेव कत्वा गण्हाति. अत्थञ्चोपपरिक्खतीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थं उपपरिक्खति ‘‘इति सीलं, इति समाधि, इति पञ्ञा, इमे रूपारूपधम्मा’’ति मनसा अनुपेक्खति.
खन्त्या छन्दिकतो होतीति तेसु मनसा अनुपेक्खितेसु धम्मेसु दिट्ठिनिज्झानक्खन्तिया निज्झानं खमापेत्वा रूपपरिग्गहादिमुखेन विपस्सनाभिनिवेसे छन्दिकतो छन्दजातो होति. तथाभूतो च विपस्सनाय कम्मं करोन्तो उस्सहित्वा तुलेति तंतंपच्चयनामरूपदस्सनवसेन उस्साहं कत्वा ततो परं तिलक्खणं आरोपेत्वा तुलेति ‘‘अनिच्च’’न्तिपि, ‘‘दुक्ख’’न्तिपि, ‘‘अनत्ता’’तिपि तं नामरूपं तीरेति विपस्सति. समये सो पदहति, अज्झत्तं सुसमाहितोति सो एवं पस्सन्तो पग्गहेतब्बादिसमये चित्तस्स पग्गण्हनादिना पदहति, पदहन्तो च अज्झत्तं गोचरज्झत्ते विपस्सनासमाधिना मग्गसमाधिना च सुट्ठु समाहितो भवेय्य, असमाधानहेतुभूते किलेसे पजहेय्य. स्वायं गुणो सब्बोपि यस्मा बहुस्सुतं धम्मधरं सप्पञ्ञं बुद्धसावकं पयिरुपासन्तस्स होति, तस्मा असङ्खतं धम्मं आरब्भ दुक्खादीसु परिञ्ञादिविसिट्ठकिच्चताय धम्मविञ्ञाणसङ्खातं धम्मञाणं आकङ्खन्तो तथाविधं वुत्तप्पकारं कल्याणमित्तं भजेथ, सेवेय्य पयिरुपासेय्याति अत्थो.
एवं बहुपकारताय तस्स पूजनीयकं दस्सेन्तो ‘‘बहुस्सुतो’’ति गाथमाह. तस्सत्थो – सुत्तगेय्यादि बहु सुतं एतस्साति बहुस्सुतो. तमेव देसनाधम्मं सुवण्णभाजने पक्खित्तसीहवसा विय अविनस्सन्तं धारेतीति धम्मधरो. ततो एव महेसिनो भगवतो धम्मकोसं धम्मरतनं आरक्खतीति कोसारक्खो. यस्मा सदेवकस्स लोकस्स समदस्सनेन चक्खुभूतो, तस्मा चक्खु सब्बस्स लोकस्स पूजनीयो माननीयोति, बहुस्सुतभावेन बहुजनस्स पूजनीयभावदस्सनत्थं निगमनवसेन पुनपि ‘‘बहुस्सुतो’’ति वुत्तं.
एवरूपं कल्याणमित्तं लभित्वापि कारकस्सेव अपरिहानि, न अकारकस्साति दस्सेन्तो ‘‘धम्मारामो’’ति गाथमाह. तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो, तस्मिं एव धम्मे रतो अभिरतोति धम्मरतो, तस्सेव धम्मस्स पुनप्पुनं विचिन्तनेन धम्मं अनुविचिन्तयं धम्मं आवज्जेन्तो मनसि करोतीति अत्थो. अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो. सद्धम्माति एवरूपो भिक्खु सत्ततिंसपभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायति, न कदाचि तस्स ततो परिहानि होतीति अत्थो.
अथेकदिवसं काये अवीतरागं कुसीतं हीनवीरियं कोसल्लाया ति नामं भिक्खुं संवेजेन्तो ‘‘कायमच्छेरगरुनो’’ति गाथमाह. तत्थ कायमच्छेरगरुनोति ‘‘कायदळ्हीबहुलस्स काये ममत्तस्स आचरियुपज्झायानम्पि कायेन कत्तब्बं किञ्चि अकत्वा विचरन्तस्स. हिय्यमानेति अत्तनो काये जीविते च खणे खणे परिहिय्यमाने. अनुट्ठहेति सीलादीनं परिपूरणवसेन उट्ठानवीरियं न करेय्य. सरीरसुखगिद्धस्साति अत्तनो सरीरस्स सुखापनेनेव गेधं आपन्नस्स. कुतो समणफासुताति एवरूपस्स पुग्गलस्स सामञ्ञवसेन कुतो सुखविहारो, फासुविहारो न तस्स विज्जतीति अत्थो.
न पक्खन्तीतिआदिका आयस्मतो सारिपुत्तस्स धम्मसेनापतिनो परिनिब्बुतभावं सुत्वा थेरेन भासिता. तत्थ न पक्खन्ति दिसा सब्बाति पुरत्थिमादिभेदा सब्बा दिसा न पक्खयन्ति, दिसामूळ्होति अत्थो. धम्मा न पटिभन्ति मन्ति पुब्बे सुट्ठु पगुणापि परियत्तिधम्मा इदानि सक्कच्चं समन्नाहरियमानापि मय्हं न उपट्ठहन्ति. गते कल्याणमित्तम्हीति सदेवकस्स लोकस्स कल्याणमित्तभूते धम्मसेनापतिम्हि अनुपादिसेसनिब्बानं गते. अन्धकारंव खायतीति सब्बोपायं लोको अन्धकारो विय उपट्ठाति.
अब्भतीतसहायस्साति अपगतसहायस्स, कल्याणमित्तरहितस्साति अत्थो. अतीतगतसत्थुनोति आयस्मतो अतीतो हुत्वा निब्बानगतसत्थुकस्स, सत्थरि परिनिब्बुतेति अत्थो. यथा कायगता सतीति कायगतासतिभावना तक्करस्स यथा एकन्तहितावहा, एवं एतादिसं अनाथस्स पुग्गलस्स एकन्तहितावहं अञ्ञं मित्तं नाम नत्थि, सनाथस्स अञ्ञापि भावना हितावहा एवाति अधिप्पायो.
पुराणाति पोराणा, सारिपुत्तादिके कल्याणमित्ते सन्धाय वदति. नवेहीति नवकेहि. न समेति मेति मय्हं चित्तं न समागच्छति, न ते मम चित्तं आराधेन्तीति अत्थो. स्वज्ज एकोव झायामीति सोहं अज्ज वुड्ढतरेहि विरहितो एकोव हुत्वा झायामि झानपसुतो होमि. वस्सुपेतोति वस्सकाले कुलावकं उपेतो पक्खी विय. ‘‘वासुपेतो’’तिपि पाळि, वासं उपगतोति अत्थो.
दस्सनाय अभिक्कन्तेति गाथा सत्थारा भासिता. तस्सत्थो – मम दस्सनाय अभिक्कन्ते नानाविधविदेसपवासिकबहुजने, आनन्द, मम उपसङ्कमनं मा वारेसि. कस्मा? ते सोतारो धम्मस्स, ममं पस्सन्तु, अयमेव दस्सनाय समयोति.