८. अङ्गुलिमालत्थेरगाथावण्णना
गच्छं वदेसीतिआदिका आयस्मतो अङ्गुलिमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स भग्गवस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स जातदिवसे सकलनगरे आवुधानि पज्जलिंसु, रञ्ञो च मङ्गलावुधं सयनपीठे ठपितं पज्जलि, तं दिस्वा राजा भीतो संविग्गो निद्दं न लभि. पुरोहितो तायं वेलायं नक्खत्तयोगं उल्लोकेन्तो ‘‘चोरनक्खत्तेन जातो’’ति सन्निट्ठानमकासि. सो विभाताय रत्तिया रञ्ञो सन्तिकं गतो सुखसेय्यं पुच्छि. राजा ‘‘कुतो, आचरिय, सुखसेय्यं, रत्तियं मय्हं मङ्गलावुधं पज्जलि, तस्स को नु खो विपाको भविस्सती’’ति? ‘‘मा भायि, महाराज, मय्हं घरे दारको जातो. तस्स आनुभावेन सकलनगरेपि आवुधानि पज्जलिंसू’’ति. ‘‘किं भविस्सति, आचरिया’’ति? ‘‘दारको चोरो भविस्सती’’ति. ‘‘किं एकचारी चोरो, उदाहु गणजेट्ठको’’ति? ‘‘एकचारिको, देव’’. ‘‘किं नं मारेमा’’ति? ‘‘एकचारिको चे, पटिजग्गथ ताव न’’न्ति आह. तस्स नामं करोन्ता यस्मा जायमानो रञ्ञो चित्तं विहेसेन्तो जातो, तस्मा हिंसकोति कत्वा पच्छा दिट्ठं अदिट्ठन्ति विय अहिंसकोति वोहरिंसु.
सो वयप्पत्तो पुब्बकम्मबलेन सत्तन्नं हत्थीनं बलं धारेति. तस्सिदं पुब्बकम्मं – बुद्धसुञ्ञे लोके कस्सको हुत्वा निब्बत्तो एकं पच्चेकबुद्धं वस्सोदकेन तिन्तं अल्लचीवरं सीतपीळितं अत्तनो खेत्तभूमिं उपगतं दिस्वा ‘‘पुञ्ञक्खेत्तं मे उपट्ठित’’न्ति सोमनस्सजातो अग्गिं कत्वा अदासि. सो तस्स कम्मस्स बलेन निब्बत्तनिब्बत्तट्ठाने थामजवबलसम्पन्नो च हुत्वा इमस्मिं पच्छिमत्तभावे सत्तन्नं हत्थीनं बलं धारेति. सो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके धम्मन्तेवासी हुत्वा सिप्पं उग्गण्हतो आचरियब्राह्मणं तस्स भरियञ्च सक्कच्चं पटिजग्गति. तेनस्स सा ब्राह्मणी गेहे लब्भमानेन भत्तादिना सङ्गहं करोति. तं असहमाना अञ्ञे माणवा आचरियेन सद्धिं भेदं अकंसु. ब्राह्मणो तेसं वचनं द्वे तयो वारे असद्दहन्तो हुत्वा पच्छा सद्दहित्वा ‘‘महाबलो माणवो, न सक्का केनचि मारापेतुं, उपायेन नं मारेस्सामी’’ति चिन्तेत्वा निट्ठितसिप्पं अत्तनो नगरं गन्तुं आपुच्छन्तं माणवं आह – ‘‘तात अहिंसक, निट्ठितसिप्पेन नाम अन्तेवासिना आचरियस्स गरुदक्खिणा दातब्बा, तं मय्हं देही’’ति. ‘‘साधु, आचरिय, किं दस्सामी’’ति? ‘‘मनुस्सानं सहस्सदक्खिणहत्थङ्गलियो आनेही’’ति. ब्राह्मणस्स किर अयमस्स अधिप्पायो – बहूसु मारियमानेसु एकन्ततो एको नं मारेय्याति. तं सुत्वा अहिंसको अत्तनो चिरपरिचितं निक्करुणतं पुरक्खत्वा सन्नद्धपञ्चावुधो कोसलरञ्ञो विजिते जालिनं वनं पविसित्वा महामग्गसमीपे पब्बतन्तरे वसन्तो पब्बतसिखरे ठत्वा मग्गेन गच्छन्ते मनुस्से ओलोकेत्वा वेगेन गन्त्वा अङ्गुलियो गहेत्वा रुक्खग्गे ओलम्बेसि. ता गिज्झापि काकापि खादिंसु, भूमियं निक्खित्ता पूतिभावं अगमंसु. एवं गणनाय अपरिपूरमानाय लद्धा लद्धा अङ्गुलियो सुत्तेन गन्थित्वा मालं कत्वा यञ्ञोपचितं विय अंसे ओलम्बेसि. ततो पट्ठाय अङ्गुलिमालोत्वेवस्स समञ्ञा अहोसि.
एवं तस्मिं मनुस्से मारेन्ते मग्गो अवळञ्जो अहोसि. सो मग्गे मनुस्से अलभन्तो गामूपचारं गन्त्वा निलीयित्वा आगतागते मनुस्से मारेत्वा अङ्गुलियो गहेत्वा गच्छति. तं ञत्वा मनुस्सा गामतो अपक्कमिंसु, गामा सुञ्ञा अहेसुं, तथा निगमा जनपदा च. एवं तेन सो पदेसो उब्बासितो अहोसि. अङ्गुलिमालस्स च एकाय ऊना सहस्सअङ्गुलियो सङ्गहा अहेसुं. अथ मनुस्सा तं चोरुपद्दवं कोसलरञ्ञो आरोचेसुं. राजा पातोव नगरे भेरिं चरापेसि, ‘‘सीघं अङ्गुलिमालचोरं गण्हाम, बलकायो आगच्छतू’’ति. तं सुत्वा अङ्गुलिमालस्स माता मन्ताणी नाम ब्राह्मणी तस्स पितरं आह – ‘‘पुत्तो किर ते चोरो हुत्वा इदञ्चिदञ्च करोति, तं ‘ईदिसं मा करी’ति सञ्ञापेत्वा आनेहि, अञ्ञथा नं राजा घातेय्या’’ति. ब्राह्मणो ‘‘न मय्हं तादिसेहि पुत्तेहि अत्थो, राजा यं वा तं वा करोतू’’ति आह. अथ ब्राह्मणी पुत्तसिनेहेन पाथेय्यं गहेत्वा ‘‘मम पुत्तं सञ्ञापेत्वा आनेस्सामी’’ति मग्गं पटिपज्जि.
भगवा ‘‘अयं ‘अङ्गुलिमालं आनेस्सामी’ति गच्छति, सचे सा गमिस्सति, अङ्गुलिमालो ‘अङ्गुलिसहस्सं पूरेस्सामी’ति मातरम्पि मारेस्सति. सो च पच्छिमभविको, सचाहं न गमिस्सं, महाजानि अभविस्सा’’ति ञत्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव पत्तचीवरं गहेत्वा अङ्गुलिमालं उद्दिस्स तिंसयोजनिकं मग्गं पदसाव पटिपज्जमानो अन्तरामग्गे गोपालकादीहि वारियमानोपि जालिनं वनं उपगच्छि. तस्मिञ्च खणे तस्स माता तेन दिट्ठा, सो मातरं दूरतोव दिस्वा ‘‘मातरम्पि मारेत्वा अज्ज ऊनङ्गुलिं पूरेस्सामी’’ति असिं उक्खिपित्वा उपधावि. तेसं उभिन्नं अन्तरे भगवा अत्तानं दस्सेसि. अङ्गुलिमालो भगवन्तं दिस्वा ‘‘किं मे मातरं वधित्वा अङ्गुलिया गहितेन? जीवतु मे माता, यंनूनाहं इमं समणं जीविता वोरोपेत्वा अङ्गुलिं गण्हेय्य’’न्ति उक्खित्तासिको भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा पकतिइरियापथेन गच्छन्तम्पि अत्तानं अङ्गुलिमालो सब्बथामेन धावन्तोपि न सक्कोति सम्पापुणितुं. सो परिहीनजवो घुरुघुरुपस्सासी कच्छेहि सेदं मुञ्चन्तो पदं उद्धरितुम्पि असक्कोन्तो खाणु विय ठितो भगवन्तं ‘‘तिट्ठ तिट्ठ, समणा’’ति आह. भगवा गच्छन्तोव ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’’ति आह. सो ‘‘इमे खो समणा सक्यपुत्तिया सच्चवादिनो, अयं समणो गच्छन्तोयेव ‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’ति आह, अहञ्चम्हि ठितो, को नु खो इमस्स अधिप्पायो, पुच्छित्वा नं जानिस्सामी’’ति भगवन्तं गाथाय अज्झभासि –
८६६. ‘‘गच्छं वदेसि समण ठितोम्हि, ममञ्च ब्रूसि ठितमट्ठितोति;
पुच्छामि तं समण एतमत्थं, कथं ठितो त्वं अहमट्ठितोम्ही’’ति.
तत्थ समणाति भगवन्तं आलपति. ममन्ति मं. कथन्ति केनाकारेन. अयञ्हेत्थ अत्थो – समण, त्वं गच्छन्तोव समानो ‘‘ठितोम्ही’’ति वदेसि. ममञ्च ठितंयेव ‘‘अट्ठितो’’ति ब्रूसि, वदेसि. कारणेनेत्थ भवितब्बं, तस्मा तं समणं अहं एवमत्थं पुच्छामि. कथं केनाकारेन त्वं ठितो अहोसि, अहञ्च अट्ठितोम्हीति. एवं वुत्ते भगवा –
८६७. ‘‘ठितो अहं अङ्गुलिमाल सब्बदा, सब्बेसु भूतेसु निधाय दण्डं;
तुवञ्च पाणेसु असञ्ञतोसि, तस्मा ठितोहं तुवमट्ठितोसी’’ति. –
गाथाय तं अज्झभासि.
तत्थ ठितो अहं, अङ्गुलिमाल, सब्बदा, सब्बेसु भूतेसु निधाय दण्डन्ति, अङ्गुलिमाल, अहं सब्बदा सब्बकाले आदिमज्झपरियोसानेसु तसथावरभेदेसु सब्बेसु सत्तेसु दण्डं निधाय निहितदण्डो निहितसत्थो लज्जी दयापन्नो, ततो अञ्ञथा अवत्तनतो एवरूपेनेव ठितो. तुवञ्च पाणेसु असञ्ञतोसीति त्वं पन सत्तेसु सञ्ञमरहितो असि, लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो, तस्मा असञ्ञतो विरतिवसेन अट्ठितो. ततो एव तासु तासु गतीसु परिब्भमनतोपि तुवं इदानि इरियापथेन ठितोपि अट्ठितो असि, अहं पन वुत्तप्पकारेन ठितोति. ततो अङ्गुलिमालो यथाभुच्चगुणप्पभावितस्स जलतले तेलस्स विय सकलं लोकं अभिब्यापेत्वा ठितस्स भगवतो कित्तिसद्दस्स सुतपुब्बत्ता हेतुसम्पत्तिया ञाणस्स च परिपाकगतत्ता ‘‘अयं सो भगवा’’ति सञ्जातपीतिसोमनस्सो ‘‘महा अयं सीहनादो, महन्तं गज्जितं, नयिदं अञ्ञस्स भविस्सति, समणस्स मञ्ञे गोतमस्स एतं गज्जितं, दिट्ठो वतम्हि महेसिना सम्मासम्बुद्धेन, मय्हं सङ्गहकरणत्थं भगवा इधागतो’’ति चिन्तेत्वा –
८६८. ‘‘चिरस्सं वत मे महितो महेसी, महावनं समणो पच्चपादि;
सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्त’’न्ति. –
इमं गाथं अभासि.
तत्थ चिरस्सं वताति चिरकालेन वत. मेति मय्हं अनुग्गहत्थाय. महितोति सदेवकेन लोकेन महतिया पूजाय पूजितो. महन्ते सीलक्खन्धादिगुणे एसि, गवेसीति महेसी. महावनं समणो पच्चपादीति इमं महारञ्ञं समितसब्बपापो भगवा पटिपज्जि. सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्तन्ति सोहं धम्मयुत्तं धम्मूपसंहितं तव गाथं सुणिं. सोहं तं सुत्वान ‘‘चिरस्सम्पि चिरकालेनपि सङ्गतं परिचितं पापसहस्सं पजहिस्स’’न्ति चिन्तेत्वा इदानि नं अञ्ञदत्थु परिच्चजिस्सामीति अत्थो. एवं पन वत्वा यथा पटिपज्जि, यथा च भगवता अनुग्गहितो, तं दस्सेतुं –
८६९. ‘‘इच्चेव चोरो असिमावुधञ्च, सोब्भे पपाते नरके अन्वकासि;
अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्धं.
८७०. ‘‘बुद्धो च खो कारुणिको महेसि, यो सत्था लोकस्स सदेवकस्स;
तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.
सङ्गीतिकारा इमा द्वे गाथा ठपेसुं.
तत्थ इच्चेवाति इति एव एवं वत्वा अनन्तरमेव. चोरोति अङ्गुलिमालो. असिन्ति खग्गं. आवुधन्ति सेसावुधं. सोब्भेति समन्ततो छिन्नतटे. पपातेति एकतो छिन्नतटे. नरकेति भूमिया फलितविवरे. इध पन तीहिपि पदेहि यत्थ पतितं अञ्ञेन गहेतुं न सक्का, तादिसं पब्बतन्तरमेव वदति. अन्वकासीति अनु अकासि, पञ्चविधम्पि अत्तनो आवुधं अनु खिपि छड्डेसि, तानि छड्डेत्वा भगवतो पादेसु सिरसा निपतित्वा ‘‘पब्बाजेथ मं, भन्ते’’ति आह. तेन वुत्तं ‘‘अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्ध’’न्ति. एवं तेन पब्बज्जाय याचिताय सत्था तस्स पुरिमकम्मं ओलोकेन्तो एहिभिक्खुभावाय हेतुसम्पत्तिं दिस्वा दक्खिणहत्थं पसारेत्वा – ‘‘एहि, भिक्खु, स्वाखातो धम्मो, चर ब्रह्मचरियं, सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. सा एव च तस्स पब्बज्जा उपसम्पदा च अहोसि. तेनाह ‘‘तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.
एवं थेरो सत्थु सन्तिके एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा विमुत्तिसुखं पटिसंवेदेन्तो पीतिसोमनस्सजातो उदानवसेन –
८७१. ‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
८७२. ‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
८७३. ‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. – गाथत्तयं अभासि;
तस्सत्थो – यो पुग्गलो गहट्ठो वा पब्बजितो वा कल्याणमित्तसंसग्गतो पुब्बे पापमित्तसंसग्गेन वा अत्तनो वा पटिसङ्खानाभावेन पमज्जित्वा सम्मापटिपत्तियं पमादं आपज्जित्वा, पच्छा कल्याणमित्तसंसग्गेन योनिसो उम्मुज्जन्तो नप्पमज्जति, सम्मा पटिपज्जति, समथविपस्सनं अनुयुञ्जन्तो तिस्सो विज्जा छ अभिञ्ञा पापुणाति, सो अब्भादीहि मुत्तो चन्दो विय ओकासलोकं अत्तना अधिगताहि विज्जाभिञ्ञाहि इमं खन्धादिलोकं ओभासेतीति.
यस्स पुग्गलस्स कतं उपचितं पापकम्मं कम्मक्खयकरेन लोकुत्तरकुसलेन अविपाकारहभावस्स आहरितत्ता विपाकुप्पादने द्वारपिधानेन पिधीयति थकीयति. सेसं वुत्तनयमेव.
दहरोति तरुणो, तेनस्स योगक्खमसरीरतं दस्सेति. सो हि उप्पन्नं वातातपपरिस्सयं अभिभवित्वा योगं कातुं सक्कोति. युञ्जति बुद्धसासने सिक्खत्तये युत्तप्पयुत्तो होति, सक्कच्चं सम्पादेतीति अत्थो.
एवं पीतिसोमनस्सजातो विमुत्तिसुखेन विहरन्तो यदा नगरं पिण्डाय पविसति, तदा अञ्ञेनपि खित्तो लेड्डु थेरस्स काये निपतति, अञ्ञेनपि खित्तो दण्डो तस्सेव काये निपतति. सो भिन्नेन पत्तेन विहारं पविसित्वा सत्थु सन्तिकं गच्छति. सत्था तं ओवदति ‘‘अधिवासेहि, त्वं ब्राह्मण, अधिवासेहि, त्वं ब्राह्मण, यस्स खो, त्वं ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्ससहस्सानि निरये पच्चेय्यासि, तस्स, त्वं ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति. अथ थेरो अनोधिसो सब्बसत्तेसु मेत्तचित्तं उपट्ठपेत्वा –
८७४. ‘‘दिसापि मे धम्मकथं सुणन्तु, दिसापि मे युञ्जन्तु बुद्धसासने;
दिसापि मे ते मनुजे भजन्तु, ये धम्ममेवादपयन्ति सन्तो.
८७५. ‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसिनं;
सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.
८७६. ‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन कञ्चि नं;
पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.
८७७. ‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा दमयन्ति तेजनं;
दारुं दमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.
८७८. ‘‘दण्डेनेके दमयन्ति, अङ्कुसेभि कसाहि च;
अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.
८७९. ‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो;
अज्जाहं सच्चनामोम्हि, न नं हिंसामि कञ्चि नं.
८८०. ‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
८८१. ‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
सरणगमनं पस्स, भवनेत्ति समूहता.
८८२. ‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;
फुट्ठो कम्मविपाकेन, अनणो भुञ्जामि भोजनं.
८८३. ‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
८८४. ‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति परमं सुखं.
८८५. ‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;
सविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमं.
८८६. ‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
८८७. ‘‘अरञ्ञे रुक्खमूले वा, पब्बतेसु गुहासु वा;
तत्थ तत्थेव अट्ठासिं, उब्बिग्गमनसो तदा.
८८८. ‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;
अहत्थपासो मारस्स, अहो सत्थानुकम्पितो.
८८९. ‘‘ब्रह्मजच्चो पुरे आसिं, उदिच्चो उभतो अहु.
सोज्ज पुत्तो सुगतस्स, धम्मराजस्स सत्थुनो.
८९०. ‘‘वीततण्हो अनादानो, गुत्तद्वारो सुसंवुतो;
अघमूलं वधित्वान, पत्तो मे आसवक्खयो.
८९१. ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता’’ति. – इमा गाथा अभासि;
तत्थ दिसापीति मय्हं दिसापि अमित्ता पच्चत्थिकापि ये मं एवं उपवदन्ति ‘‘यथा मयं अङ्गुलिमालस्स वसेन ञातिवियोगदुक्खपरेता दुक्खं पापुणाम, एवं अङ्गुलिमालोपि दुक्खं पापुणातू’’ति. मे धम्मकथं सुणन्तूति मया सत्थु सन्तिके सुतं चतुसच्चधम्मपटिसंयुत्तं कथं सुणन्तु. युञ्जन्तूति सुत्वा च तदत्थाय पटिपज्जन्तु. ते मनुजे भजन्तूति तादिसे सप्पुरिसे कल्याणमित्ते भजन्तु सेवन्तु. ये धम्ममेवादपयन्ति सन्तोति ये सप्पुरिसा कुसलधम्ममेव, उत्तरिमनुस्सधम्ममेव, निब्बत्तितलोकुत्तरधम्ममेव च आदपेन्ति समादपेन्ति गण्हापेन्ति.
खन्तिवादानन्ति अधिवासनखन्तिमेव वदन्तानं ततो एव अविरोधप्पसंसिनन्ति केनचि अविरोधभूताय मेत्ताय एव पसंसनसीलानं. सुणन्तु धम्मं कालेनाति युत्तप्पयुत्तकाले तेसं सन्तिके धम्मं सुणन्तु. तञ्च अनुविधीयन्तूति तञ्च यथासुतं धम्मं सम्मदेव उग्गहित्वा अनुकरोन्तु धम्मानुधम्मं पटिपज्जन्तूति अत्थो.
न हि जातु सो ममं हिंसेति सो मय्हं दिसो पच्चत्थिको जातु, एकंसेनेव मं न हिंसे, न बाधेय्य. अञ्ञं वा पन कञ्चि नन्ति न केवलं मंयेव, अञ्ञं वापि कञ्चि सत्तं न हिंसेय्य, पप्पुय्य परमं सन्तिन्ति, परमं उत्तमं सन्तिं निब्बानं पापुणेय्य, पापुणित्वा च रक्खेय्य तसथावरेति सब्बे च सत्ते परमाय रक्खाय रक्खेय्य, सिस्सं पुत्तं विय परिपालेय्याति अत्थो.
एवं थेरो इमाहि गाथाहि परे पापतो परिमोचेन्तो परित्तकिरियं नाम कत्वा अत्तनो पटिपत्तिं पकासेन्तो ‘‘उदकं ही’’ति गाथमाह. तत्थ पथविया थलट्ठानं खणित्वा निन्नट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छिकिच्छितट्ठानं उदकं नेन्तीति नेत्तिका, उदकहारिनो. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा वङ्काभावं हरन्ता तेजनं उसुं दमयन्ति, उजुकं करोन्ति, तच्छकापि नेमिआदीनं अत्थाय तच्छन्ता दारुं दमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सप्पञ्ञा अरियमग्गं उप्पादेन्ता अत्तानं दमेन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति.
इदानि पुरिसदम्मसारथिना सत्थारा अत्तनो दमिताकारं कतञ्ञुतञ्च पकासेन्तो ‘‘दण्डेनेके’’तिआदिका पञ्च गाथा अभासि. तत्थ दण्डेनेके दमयन्तीति राजराजमहामत्तादयो दण्डेन, हत्थिअस्सादिना बलकायेन च पच्चत्थिकादिके दमेन्ति, गोपालादयो च गावादिके दण्डेन यट्ठिया दमेन्ति. हत्थाचरिया हत्थिं अङ्कुसेहि, अस्साचरिया अस्से कसाहि च दमेन्ति. अदण्डेन असत्थेन, अहं दन्तोम्हि तादिनाति अहं पन इट्ठादीसु तादिभावप्पत्तेन सम्मासम्बुद्धेन विना एव दण्डेन, विना सत्थेन, निहितदण्डनिहितसत्थभावेन दन्तो दमितो निब्बिसेवनो गतो अम्हि.
अहिंसकोति मे नामं, हिंसकस्स पुरे सतोति सत्थारा समागमतो पुब्बे हिंसकस्स मे समानस्स अहिंसकोति नाममत्तं अहोसि. अज्जाहन्ति इदानि पनाहं ‘‘अहिंसको’’ति सच्चनामो अवितथनामो अम्हि. तस्मा न नं हिंसामि कञ्चिपि सत्तं न हिंसामि न बाधेमि, नन्ति निपातमत्तं.
विस्सुतोति ‘‘पाणातिपाती लुद्दो लोहितपाणी’’तिआदिना पञ्ञातो. महोघेनाति कामोघादिना महता ओघेन, तस्स ओघस्स विच्छेदकरं बुद्धं सरणं बुद्धसङ्खातं सरणं अगमं उपगच्छिं.
लोहितपाणीति पाणमतिपातनेन परेसं लोहितेन रुहिरेन मक्खितपाणि. सरणगमनं पस्साति महप्फलं मम सरणगमनं पस्साति अत्तानमेवालपति.
तादिसं कम्मन्ति अनेकसतपुरिसवधं दारुणं तथारूपं पापकम्मं. फुट्ठो कम्मविपाकेनाति पुब्बे कतस्स पापकम्मस्स विपाकेन फुट्ठो, सब्बसो पहीनकम्मो विपाकमत्तं पच्चनुभोन्तो. अथ वा फुट्ठो कम्मविपाकेनाति उपनिस्सयभूतस्स कुसलकम्मस्स फलभूतेन लोकुत्तरमग्गेन, लोकुत्तरकम्मस्सेव वा फलेन विमुत्तिसुखेन फुट्ठो. सब्बसो किलेसानं खीणत्ता अनणो भुञ्जामि भोजनं, भोजनापदेसेन चत्तारोपि पच्चये वदति.
इदानि पुब्बे अत्तनो पमादविहारं गरहामुखेन पच्छा अप्पमादपटिपत्तिं पसंसन्तो तत्थ च परेसं उस्साहं जनेन्तो ‘‘पमादमनुयुञ्जन्ती’’तिआदिका गाथा अभासि. तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा, ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेनेव कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि ‘‘उत्तमं धनं निस्साय भोगसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, सुगतिमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता धनं रक्खन्ति; एवं पण्डितोपि ‘‘अप्पमादं निस्साय पठमज्झानादीनि पटिलभिस्सामि, मग्गफलानि पापुणिस्सामि, तिस्सो विज्जा छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो.
मा पमादन्ति पमादं मा अनुयुञ्जेथ पमादेन कालं मा वीतिनामयित्थ. कामरतिसन्थवन्ति वत्थुकामेसु, किलेसकामेसु च रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा विन्दित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितसतिताय अप्पमत्तो पुग्गलो झायन्तो झायनप्पसुतो परमं उत्तमं निब्बानसुखं पापुणाति.
स्वागतं नापगतन्ति यं तदा मम सत्थु सन्तिके आगतं आगमनं, सत्थु वा तस्मिं महावने आगमनं, तं स्वागतं स्वागमनं नापगतं, अत्थतो अपेतं विगतं न होति. नेतं दुम्मन्तितं ममाति यं तदा मया ‘‘सत्थु सन्तिके पब्बजिस्सामी’’ति मन्तितं, इदम्पि मम न दुम्मन्तितं, सुमन्तितमेव. कस्मा? सविभत्तेसु धम्मेसूति सावज्जानवज्जादिवसेन पकारतो विभत्तेसु धम्मेसु यं सेट्ठं उत्तमं पवरं निब्बानं. तदुपागमं तदेव उपगच्छिन्ति अत्थो.
‘‘तदा पुथुज्जनकाले पयोगासयविपन्नताय अरञ्ञादीसु दुक्खं विहासिं, इदानि पयोगासयसम्पन्नताय तत्थ सुखं विहरामी’’ति सुखविहारभावञ्चेव ‘‘पुब्बे जातिमत्तेन ब्राह्मणो, इदानि सत्थु ओरसपुत्तताय ब्राह्मणो’’ति परमत्थब्राह्मणभावञ्च दस्सेन्तो ‘‘अरञ्ञे’’तिआदिमाह. तत्थ सुखं सयामीति सयन्तोपि सुखं सुखेन निदुक्खेन चित्तुत्रासादीनं अभावेन चेतोदुक्खरहितो सयामि. ठायामीति ठामि. अहत्थपासो मारस्साति किलेसमारादीनं अगोचरो. अहो सत्थानुकम्पितोति सत्थारानुकम्पितो अहो.
ब्रह्मजच्चोति ब्राह्मणजातिको. उदिच्चो उभतोति मातितो च पितितो च उभतो उदितो संसुद्धगहणिको. सेसं तत्थ तत्थ वुत्तनयमेव.
अङ्गुलिमालत्थेरगाथावण्णना निट्ठिता.