६. सेलत्थेरगाथावण्णना
परिपुण्णकायोतिआदिका आयस्मतो सेलत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरभगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गणपामोक्खो हुत्वा तीणि पुरिससतानि समादपेत्वा तेहि सद्धिं सत्थु गन्धकुटिं कारेत्वा कतपरियोसिताय गन्धकुटिया सभिक्खुसङ्घस्स भगवतो महादानं पवत्तेत्वा सत्थारं भिक्खू च तिचीवरेन अच्छादेसि. सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवलोके एव वसित्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अङ्गुत्तरापेसु आपणे नाम ब्राह्मणगामे ब्राह्मणकुले निब्बत्तित्वा सेलोति लद्धनामो अहोसि. सो वयप्पत्तो तीसु वेदेसु, ब्राह्मणसिप्पेसु च निप्फत्तिं गन्त्वा तीणि माणवकसतानि मन्ते वाचेन्तो आपणे पटिवसति. तेन च समयेन सत्था सावत्थितो निक्खमित्वा अड्ढतेळसहि भिक्खुसतेहि सद्धिं अङ्गुत्तरापेसु चारिकं चरन्तो सेलस्स, अन्तेवासिकानञ्च ञाणपरिपाकं दिस्वा अञ्ञतरस्मिं वनसण्डे विहरति. अथ केणियो नाम जटिलो सत्थु आगमनं सुत्वा तत्थ गन्त्वा सद्धिं भिक्खुसङ्घेन सत्थारं स्वातनाय निमन्तेत्वा सके अस्समे पहूतं खादनीयं भोजनीयं पटियादेति. तस्मिञ्च समये सेलो ब्राह्मणो सद्धिं तीहि माणवकसतेहि जङ्घाविहारं अनुविचरन्तो केणियस्स अस्समं पविसित्वा जटिले कट्ठफालनुद्धनसम्पादनादिना दानूपकरणं सज्जेन्ते दिस्वा, ‘‘किं नु खो ते, केणिय, महायञ्ञो पच्चुपट्ठितो’’तिआदिं पुच्छित्वा तेन ‘‘बुद्धो भगवा मया स्वातनाय निमन्तितो’’ति वुत्ते ‘‘बुद्धो’’ति वचनं सुत्वाव हट्ठो उदग्गो पीतिसोमनस्सजातो तावदेव माणवकेहि सद्धिं सत्थारं उपसङ्कमित्वा कतपटिसन्थारो एकमन्तं निसिन्नो भगवतो काये बात्तिंसमहापुरिसलक्खणानि दिस्वा ‘‘इमेहि लक्खणेहि समन्नागतो राजा वा होति चक्कवत्ती, बुद्धो वा लोके विवट्टच्छदो, अयं पन पब्बजितो, नो च खो नं जानामि ‘बुद्धो वा, नो वा’, सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’ति असम्मासम्बुद्धो हि सम्मुखे ठत्वा बुद्धगुणेहि अभित्थवीयमानो सारज्जति मङ्कुभावं आपज्जति अवेसारज्जप्पत्तताय अननुयोगक्खमत्ता, यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति एवं पन चिन्तेत्वा –
८१८. ‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;
सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा.
८१९. ‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना;
सब्बे ते तव कायस्मिं, महापुरिसलक्खणा.
८२०. ‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.
८२१. ‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;
किं ते समणभावेन, एवं उत्तमवण्णिनो.
८२२. ‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो;
चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो.
८२३. ‘‘खत्तिया भोगी राजानो, अनुयन्ता भवन्ति ते;
राजाभिराजा मनुजिन्दो, रज्जं कारेहि गोतमा’’ति. –
छहि गाथाहि भगवन्तं अभित्थवि.
तत्थ परिपुण्णकायोति अभिब्यत्तरूपानं द्वत्तिंसाय महापुरिसलक्खणानं परिपुण्णताय अहीनङ्गपच्चङ्गताय च परिपुण्णसरीरो. सुरुचीति सुन्दरसरीरप्पभो. सुजातोति आरोहपरिणाहसम्पत्तिया, सण्ठानसम्पत्तिया च सुनिब्बत्तो. चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिक्कूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो. केचि पनाहु ‘‘चारुदस्सनोति सुन्दरनेत्तो’’ति. सुवण्णवण्णोति सुवण्णसदिसवण्णो. असीति भवसि, इदं पदं ‘‘परिपुण्णकायो असी’’तिआदिना सब्बपदेहि योजेतब्बं. सुसुक्कदाठोति सुट्ठु सुक्कदाठो. भगवतो हि दाठाहि चन्दकिरणा विय धवलरस्मियो निच्छरन्ति. वीरियवाति वीरियपारमीपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानतो चतुब्बिधस्स सम्मप्पधानस्स सम्पत्तिया च अतिसययुत्तो.
नरस्स हि सुजातस्साति समतिंसाय पारमीनं, अरियस्स वा चक्कवत्तीवत्तस्स परिपूरितत्ता सुट्ठु सम्मदेव जातस्स नरस्स, महापुरिसस्साति अत्थो. सब्बे तेति ये महापुरिसभावं लोके अग्गपुग्गलभावं ब्यञ्जयन्तीति ब्यञ्जनाति लद्धवोहारसुप्पतिट्ठितपादतादिबात्तिंसमहापुरिसलक्खणसङ्खाता तम्बनखतुङ्गनखतादिअसीतिअनुब्यञ्जनसङ्खाता च रूपगुणा, ते अनवसेसा, तव कायस्मिं सन्तीति वचनसेसो.
महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह.
इदानि तेसु लक्खणेसु अत्तना अभिरुचितेहि लक्खणेहि भगवन्तं थोमेन्तो ‘‘पसन्ननेत्तो’’तिआदिमाह. भगवा हि पञ्च वण्णपसादसम्पत्तिया पसन्ननेत्तो. परिपुण्णचन्दमण्डलसदिसमुखताय सुमुखो. आरोहपरिणाहसम्पत्तिया ब्रहा. ब्रह्मुजुगत्तताय उजु. जुतिमन्तताय पतापवा.
इदानि तमेव पतापवन्ततं आदिच्चूपमाय विभावेन्तो ‘‘मज्झे समणसङ्घस्सा’’तिआदिमाह. तत्थ आदिच्चोव विरोचसीति यथा आदिच्चो उग्गच्छन्तो सब्बं तमगतं विधमेत्वा आलोकं करोन्तो विरोचति, एवं त्वम्पि अन्तो चेव बहि च सब्बं अविज्जातमं विद्धंसेत्वा ञाणालोकं करोन्तो विरोचसि.
दस्सनीयरूपताय अङ्गीगतानं दस्सनसम्पत्तीनं आवहनतो, कल्याणेहि पञ्चहि दस्सनेहि समन्नागतत्ता च कल्याणदस्सनो. उत्तमवण्णिनोति उत्तमवण्णसम्पन्नस्स.
चक्कवत्तीति चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तेति, तेहि च परे वत्तेति. परहिताय इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. अथ वा चतूहि अच्छरियधम्मेहि च सङ्गहवत्थूहि च समन्नागमेन परेहि अनभिभवनीयस्स आणाचक्कस्स वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. रथेसभोति रथिकेसु आजानीयउसभपुरिसो, महारथिकोति अत्थो. चातुरन्तोति चतुसमुद्दन्ताय पथविया इस्सरो. विजितावीति विजितविजयो. जम्बुसण्डस्साति जम्बुदीपस्स, पाकटेन हि इस्सरियानि दस्सेन्तो एवमाह. चक्कवत्ती पन सपरित्तदीपानं चतुन्नम्पि महादीपानं इस्सरोव.
खत्तियाति जातिखत्तिया. भोगीति भोगिया. राजानोति ये केचि रज्जं कारेन्ता. अनुयन्ताति अनुगामिनो सेवका. राजाभिराजाति राजूनं पूजनीयो राजा हुत्वा, चक्कवत्तीति अधिप्पायो. मनुजिन्दोति मनुस्साधिपति, मनुस्सानं परमिस्सरोति अत्थो.
एवं सेलेन वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो –
८२४. ‘‘राजाहमस्मि सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तिय’’न्ति. – इमं गाथमाह;
तत्रायं अधिप्पायो – यं मं त्वं, सेल, याचसि, ‘‘राजा अरहसि भवितुं चक्कवत्ती’’ति, एत्थ अप्पोस्सुक्को होहि, राजाहमस्मि, सति च राजत्ते यथा अञ्ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि चत्तारि पञ्च योजनसतानि वा योजनसहस्सं वा चक्कवत्ती हुत्वापि चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो. अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अपरिमेय्यलोकधातुयो अनुसासामि. यावता हि अपदादिभेदा सत्ता, अहं तेसं अग्गो. न हि मे कोचि सीलेन वा…पे… विमुत्तिञाणदस्सनेन वा सदिसो नत्थि, कुतो भिय्यो. स्वाहं एवं धम्मराजा अनुत्तरो, अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्कं वत्तेमि, ‘‘इदं पजहथ, इदं उपसम्पज्ज विहरथा’’तिआदिना आणाचक्कं. ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना (महाव. १४; सं. नि. ५.१०८१) परियत्तिधम्मेन धम्मचक्कमेव वा. चक्कं अप्पटिवत्तियन्ति यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे… केनचि वा लोकस्मिन्ति.
एवं अत्तानमाविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो पुन दळ्हीकरणत्थं –
८२५. ‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, इति भासथ गोतम.
८२६. ‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो;
को तेतमनुवत्तेति, धम्मचक्कं पवत्तित’’न्ति. – गाथाद्वयमाह;
तत्थ को नु सेनापतीति धम्मरञ्ञो भोतो धम्मेन पवत्तितस्स चक्कस्स अनुपवत्तनको सेनापति को नूति पुच्छि.
तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति, सुवण्णपुञ्जो विय सिरिया सोभमानो. तं दस्सेन्तो भगवा –
८२७. ‘‘मया पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरं;
सारिपुत्तो अनुवत्तेति, अनुजातो तथागत’’न्ति. – गाथमाह;
तत्थ अनुजातो तथागतन्ति, तथागतं अनुजातो, तथा गतेन हेतुना अरियाय जातिया जातोति अत्थो.
एवं ‘‘को नु सेनापति भोतो’’ति सेलेन वुत्तपञ्हं ब्याकरित्वा यं सेलो आह ‘‘सम्बुद्धो पटिजानासी’’ति तत्थ नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपि चाहं इमिना कारणेन बुद्धो’’ति ञापेतुं –
८२८. ‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. – गाथमाह;
तत्थ अभिञ्ञेय्यन्ति चत्तारि सच्चानि चत्तारि अरियसच्चानि. चतुन्नञ्हि सच्चानं अरियसच्चानञ्च सामञ्ञग्गहणमेतं यदिदं अभिञ्ञेय्यन्ति. तत्थ अरियसच्चेसु यं भावेतब्बं मग्गसच्चं, यञ्च पहातब्बं समुदयसच्चं, तदुभयग्गहणेन तेसं फलभूतानि निरोधसच्चदुक्खसच्चानिपि गहितानेव होन्ति हेतुग्गहणेनेव फलसिद्धितो. तेन तत्थ ‘‘सच्छिकातब्बं सच्छिकतं, परिञ्ञेय्यं परिञ्ञात’’न्ति इदम्पि वुत्तमेव होति. ‘‘अभिञ्ञेय्यं अभिञ्ञात’’न्ति वा इमिना च सब्बस्सपि ञेय्यस्स अभिञ्ञातसम्बुद्धभावं उद्देसवसेन पकासेत्वा तदेकदेसं निद्देसवसेन दस्सेन्तो ‘‘भावेतब्बञ्च भावित’’न्तिआदिमाह. अथ वा ‘‘भावेतब्बं भावितं, पहातब्बं पहीन’’न्ति इमिना अत्तनो ञाणपहानसम्पदाकित्तनमुखेन तंमूलकत्ता सब्बेपि बुद्धगुणा कित्तिता होन्तीति आह ‘‘तस्मा बुद्धोस्मि, ब्राह्मणा’’ति. अभिञ्ञेय्यअभिञ्ञातग्गहणेन हि सब्बसो विज्जाविमुत्तीनं गहितत्ता सफलं चतुसच्चभावं सद्धिं हेतुसम्पत्तिया दस्सेन्तो बुज्झितब्बं सब्बं बुज्झित्वा बुद्धो जातोस्मीति ञायेन हेतुना अत्तनो बुद्धभावं विभावेति.
एवं निप्परियायेन अत्तानं पातुकरित्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं उस्साहेन्तो –
८२९. ‘‘विनयस्सु मयि कङ्खं, अधिमुच्चस्सु ब्राह्मण;
दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.
८३०. ‘‘येसं वे दुल्लभो लोके, पातुभावो अभिण्हसो;
सोहं ब्राह्मण बुद्धोस्मि, सल्लकत्तो अनुत्तरो.
८३१. ‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;
सब्बामित्ते वसे कत्वा, मोदामि अकुतोभयो’’ति. – गाथत्तयमाह;
तत्थ विनयस्सूति विनेहि छिन्द. कङ्खन्ति विचिकिच्छं. अधिमुच्चस्सूति अधिमोक्खं कर ‘‘सम्मासम्बुद्धो’’ति सद्दह. दुल्लभं दस्सनं होति, सम्बुद्धानन्ति यतो कप्पानं असङ्ख्येय्यम्पि बुद्धसुञ्ञो लोको होति. सल्लकत्तोति, रागादिसल्लकत्तनो. ब्रह्मभूतोति सेट्ठभूतो. अतितुलोति तुलं अतीतो, निरुपमोति अत्थो. मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’ति (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवं आगताय मारसेनाय पमद्दनो. सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारसङ्खाते सब्बपच्चत्थिके. वसे कत्वाति अत्तनो वसे कत्वा. मोदामि अकुतोभयोति कुतोचि निब्भयो समाधिसुखेन, फलनिब्बानसुखेन च मोदामि.
एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातपसादो पब्बज्जापेक्खो हुत्वा –
८३२. ‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा;
सल्लकत्तो महावीरो, सीहोव नदती वने.
८३३. ‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं;
को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.
८३४. ‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;
इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’ति. –
गाथत्तयमाह. यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया चोदियमानो.
तत्थ कण्हाभिजातिकोति, नीचजातिको, तमोतमपरायणभावे ठितो.
ततो तेपि माणवका हेतुसम्पन्नताय तत्थेव पब्बज्जापेक्खा हुत्वा –
८३५. ‘‘एतं चे रुच्चति भोतो, सम्मासम्बुद्धसासनं;
मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके’’ति. –
गाथमाहंसु, यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता.
अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्जञ्च याचमानो –
८३६. ‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;
ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’ति. – गाथमाह;
ततो भगवा यस्मा सेलो हेट्ठा वुत्तनयेन पदुमुत्तरस्स भगवतो काले तेसंयेव तिण्णं पुरिससतानं गणजेट्ठो हुत्वा रोपितकुसलमूलो, इदानि पच्छिमभवेपि तेसंयेव आचरियो हुत्वा निब्बत्तो, ञाणञ्चस्स तेसञ्च परिपक्कं, एहिभिक्खुभावस्स च उपनिस्सयो अत्थि, तस्मा ते सब्बेव एहिभिक्खुभावेन पब्बज्जाय पब्बाजेन्तो –
८३७. ‘‘स्वाखातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं;
यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’ति. – गाथमाह;
तत्थ सन्दिट्ठिकन्ति पच्चक्खं. अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं. यत्थाति यंनिमित्ता. मग्गब्रह्मचरियनिमित्ता हि पब्बज्जा अमोघा अनिप्फला, यत्थाति वा यस्मिं सासने अप्पमत्तस्स सतिविप्पवासरहितस्स तीसु सिक्खासु सिक्खतो.
एवञ्च वत्वा ‘‘एथ, भिक्खवो’’ति भगवा अवोच. तावदेव ते सब्बे इद्धिमयपत्तचीवरधरा हुत्वा सट्ठिवस्सिकत्थेरा विय भगवन्तं अभिवादेत्वा परिवारेसुं. सो एवं पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्तमे दिवसे सपरिसो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.२०८-३०३) –
‘‘नगरे हंसवतिया, वीथिसामी अहोसहं;
मम ञाती समानेत्वा, इदं वचनमब्रविं.
‘‘बुद्धो लोके समुप्पन्नो, पुञ्ञक्खेत्तो अनुत्तरो;
आसि सो सब्बलोकस्स, आहुतीनं पटिग्गहो.
‘‘खत्तिया नेगमा चेव, महासाला च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘आळारिका कप्पका च, न्हापका मालकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘रजका पेसकारा च, चम्मकारा च न्हापिता;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘उसुकारा भमकारा, चम्मकारा च तच्छका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘कम्मारा सोण्णकारा च, तिपुलोहकरा तथा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘भतका चेटका चेव, दासकम्मकरा बहू;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘उदहारा कट्ठहारा, कस्सका तिणहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘पुप्फिका मालिका चेव, पण्णिका फलहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘गणिका कुम्भदासी च, पूविका मच्छिकापि च;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘एथ सब्बे समागन्त्वा, गणं बन्धाम एकतो;
अधिकारं करिस्साम, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘ते मे सुत्वान वचनं, गणं बन्धिंसु तावदे;
उपट्ठानसालं सुकतं, भिक्खुसङ्घस्स कारयुं.
‘‘निट्ठापेत्वान तं सालं, उदग्गो तुट्ठमानसो;
परेतो तेहि सब्बेहि, सम्बुद्धमुपसङ्कमिं.
‘‘उपसङ्कम्म सम्बुद्धं, लोकनाथं नरासभं;
वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं.
‘‘इमे तीणि सता वीर, पुरिसा एकतो गणा;
उपट्ठानसालं सुकतं, निय्यादेन्ति तुवं मुनि.
‘‘भिक्खुसङ्घस्स पुरतो, सम्पटिच्छत्व चक्खुमा;
तिण्णं सतानं पुरतो, इमा गाथा अभासथ.
‘‘तिसतापि च जेट्ठो च, अनुवत्तिंसु एकतो;
सम्पत्तिञ्हि करित्वान, सब्बे अनुभविस्सथ.
‘‘पच्छिमे भवे सम्पत्ते, सीतिभावमनुत्तरं;
अजरं अमतं सन्तं, निब्बानं फस्सयिस्सथ.
‘‘एवं बुद्धो वियाकासि, सब्बञ्ञू समणुत्तरो;
बुद्धस्स वचनं सुत्वा, सोमनस्सं पवेदयिं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;
देवाधिपो पञ्चसतं, देवरज्जमकारयिं.
‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं;
देवरज्जं करोन्तस्स, महादेवा अवन्दिसुं.
‘‘इध मानुसके रज्जं, परिसा होन्ति बन्धवा;
पच्छिमे भवे सम्पत्ते, वासेट्ठो नाम ब्राह्मणो.
‘‘असीतिकोटि निचयो, तस्स पुत्तो अहोसहं;
सेलो इति ममं नामं, छळङ्गे पारमिं गतो.
‘‘जङ्घाविहारं विचरं, ससिस्सेहि पुरक्खतो;
जटाभारिकभरितं, केणियं नाम तापसं.
‘‘पटियत्ताहुतिं दिस्वा, इदं वचनमब्रविं;
आवाहो वा विवाहो वा, राजा वा ते निमन्तितो.
‘‘आहुतिं यिट्ठुकामोहं, ब्राह्मणे देवसम्मते;
न निमन्तेमि राजानं, आहुती मे न विज्जति.
‘‘न चत्थि मय्हमावाहो, विवाहो मे न विज्जति;
सक्यानं नन्दिजननो, सेट्ठो लोके सदेवके.
‘‘सब्बलोकहितत्थाय, सब्बसत्तसुखावहो;
सो मे निमन्तितो अज्ज, तस्सेतं पटियादनं.
‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;
रूपेनासदिसो बुद्धो, स्वातनाय निमन्तितो.
‘‘उक्कामुखपहट्ठोव, खदिरङ्गारसन्निभो;
विज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पब्बतग्गे यथा अच्चि, पुण्णमायेव चन्दिमा;
नळग्गिवण्णसङ्कासो, सो मे बुद्धो निमन्तितो.
‘‘असम्भीतो भयातीतो, भवन्तकरणो मुनि;
सीहूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘कुसलो बुद्धधम्मेहि, अपसय्हो परेहि सो;
नागूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘सद्धम्माचारकुसलो, बुद्धनागो असादिसो;
उसभूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अनन्तवण्णो अमितयसो, विचित्तसब्बलक्खणो;
सक्कूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘वसी गणी पतापी च, तेजस्सी च दुरासदो;
ब्रह्मूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पत्तधम्मो दसबलो, बलातिबलपारगो;
धरणूपमो महावीरो, सो मे बुद्धो निमन्तितो.