१. काळुदायित्थेरगाथावण्णना
दसकनिपाते अङ्गारिनोतिआदिका आयस्मतो काळुदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धस्स काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि.
सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि. बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तंदिवसंयेव नं दुकूलचुम्बटे निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनियहत्थी, अस्सकण्डको, छन्नो काळुदायीति इमे सत्त एकदिवसंयेव जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं अकंसु, थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.
अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलाय सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिसो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेति. सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तं पत्ततो पट्ठाय पन अरिया मज्झत्ताव होन्ति, तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतबलकोट्ठको आगच्छति, न सासनं सुय्यती’’ति अपरम्पि अमच्चं पुरिससहस्सेन पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरन्ति एवं नवहि अमच्चेहि सद्धिं नव पुरिससहस्सानि पेसेसि सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.
अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं आनेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.४.४८-६३) –
‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;
अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.
‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;
परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.
‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;
तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.
‘‘इट्ठं कन्तं पियं लोके, जलजं पुप्फमुत्तमं;
सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.
‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘दस अट्ठ चक्खत्तुं सो, देवरज्जं करिस्सति;
उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.
‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;
आकासे छदनं कत्वा, धारयिस्सति तावदे.
‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘सककम्माभिरद्धो सो, सुक्कमूलेन चोदितो;
सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.
‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;
गोतमो लोकबन्धु तं, एतदग्गे ठपेस्सति.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
उदायी नाम नामेन, हेस्सति सत्थु सावको.
‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;
पसादितो च सम्बुद्धो, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फितेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –
५२७. ‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागीरसानं.
५२८. ‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;
पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.
५२९. ‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.
५३०. ‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.
५३१. ‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
५३२. ‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
५३३. ‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;
मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.
५३४. ‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.
५३५. ‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.
५३६. ‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –
इमा गाथा अभासि.
तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि, रत्तपवाळवण्णानि रुक्खानं पुप्फपल्लवानि, तानि एतेसं सन्तीति अङ्गारिनो, अतिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसंपरिकिण्णा वियाति अत्थो. इदानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति, भद्दं अन्ते एतस्साति भदन्तेति एकस्स दकारस्स लोपं कत्वा वुच्चति, गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा भदन्तेति सत्थु आलपनं. पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुकटे पटिकम्मे सुखे दुक्खेपि चे’’तिआदीसु विय. इध पन सम्बोधनत्थे दट्ठब्बं. तेन वुत्तं ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्दसमानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियमारोपेत्वा वोहरन्ति, यथा कुलं पतितुकामन्ति, फलानि गहेतुमारद्धा सम्पत्तिफलगहणकालाति अत्थो. छदनं विप्पहायाति पुराणपण्णानि पजहित्वा सम्पन्नपण्डुपलासाति अत्थो. तेति दुमा. अच्चिमन्तोव पभासयन्तीति दीपसिखावन्तो विय जलितअग्गी विय वा ओभासयन्ति सब्बा दिसाति अधिप्पायो. समयोति कालो, ‘‘अनुग्गहाया’’ति वचनसेसो. महावीराति महाविक्कन्त. भागी रसानन्ति अत्थरसादीनं भागी. वुत्तञ्हेतं धम्मसेनापतिना – ‘‘भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदि (चूळनि. अजितमाणवपुच्छानिद्देस २). महावीर, भागीति च इदम्पि द्वयं सम्बोधनवचनं दट्ठब्बं. भागीरथानन्ति पन पाठे भगीरथो नाम आदिराजा. तब्बंसजातताय साकिया भागीरथा, तेसं भागीरथानं उपकारत्थन्ति अधिप्पायो.
दुमानीति लिङ्गविपल्लासेन वुत्तं, दुमा रुक्खाति अत्थो. समन्ततो सब्बदिसा पवन्तीति, समन्ततो सब्बभागतो सब्बदिसासु च फुल्लानि, तथा फुल्लत्ता एव सब्बदिसा पवन्ति गन्धं विस्सज्जेन्ति. आसमानाति आसीसन्ता गहितुकामा. एवं रुक्खसोभाय गमनमग्गस्स रामणेय्यतं दस्सेत्वा इदानि ‘‘नेवातिसीत’’न्तिआदिना उतुसम्पत्तिं दस्सेति. सुखाति नातिसीतनातिउण्हभावेनेव सुखा इट्ठा. उतु अद्धनियाति अद्धानगमनयोग्गा उतु. पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तन्ति रोहिनी नाम नदी साकियकोळियजनपदानं अन्तरे उत्तरदिसतो दक्खिणमुखा सन्दति, राजगहं चस्सा पुरत्थिमदक्खिणाय दिसाय, तस्मा राजगहतो कपिलवत्थुं गन्तुं तं नदिं तरन्ता पच्छामुखा हुत्वा तरन्ति. तेनाह ‘‘पस्सन्तु तं…पे… तरन्त’’न्ति. ‘‘भगवन्तं पच्छामुखं रोहिनिं नाम नदिं अतिक्कमन्तं साकियकोळियजनपदवासिनो पस्सन्तू’’ति कपिलवत्थुगमनाय भगवन्तं आयाचन्तो उस्साहेति.
इदानि अत्तनो पत्थनं उपमाहि पकासेन्तो ‘‘आसाय कसते’’ति गाथमाह. आसाय कसते खेत्तन्ति कस्सको कसन्तो खेत्तं फलासाय कसति. बीजं आसाय वप्पतीति कसित्वा च वपन्तेन फलासाय एव बीजं वप्पति निक्खिपीयति. आसाय वाणिजा यन्तीति धनहारका वाणिजा धनासाय समुद्दं तरितुं देसं उपगन्तुं समुद्दं नावाय यन्ति गच्छन्ति. याय आसाय तिट्ठामीति एवं अहम्पि याय आसाय पत्थनाय भगवा तुम्हाकं कपिलपुरगमनपत्थनाय इध तिट्ठामि. सा मे आसा समिज्झतु, तुम्हेहि ‘‘कपिलवत्थु गन्तब्ब’’न्ति वदति, आसाय सदिसताय चेत्थ कत्तुकम्यताछन्दं आसाति आह.
गमनमग्गसंवण्णनादिना अनेकवारं याचनाय कारणं दस्सेतुं ‘‘पुनप्पुन’’न्तिआदि वुत्तं. तस्सत्थो – सकिं वुत्तमत्तेन वप्पे असम्पज्जमाने कस्सका पुनप्पुनं दुतियम्पि ततियम्पि बीजं वपन्ति. पज्जुन्नो देवराजापि एकवारमेव अवस्सित्वा पुनप्पुनं कालेन कालं वस्सति. कस्सकापि एकवारमेव अकसित्वा सस्ससम्पत्तिअत्थं पंसुं कद्दमं वा मुदुं कातुं खेत्तं पुनप्पुनं कसन्ति. एकवारमेव धञ्ञं सङ्गहं कत्वा ‘‘अलमेत्तावता’’ति अपरितुस्सनतो कोट्ठागारादीसु पटिसामनवसेन मनुस्सेहि उपनीयमानं पुनप्पुनं सालिआदिधञ्ञं रट्ठं उपेति उपगच्छति.
याचनकापि याचन्ता पुनप्पुनं कुलानि चरन्ति उपगच्छन्ति, न एकवारमेव, याचिता पन तेसं पुनप्पुनं दानपती ददन्ति, न सकिंयेव. तथा पन देय्यधम्मं पुनप्पुनं दानपती ददित्वा दानमयं पुञ्ञं उपचिनित्वा पुनप्पुनं अपरापरं सग्गमुपेन्ति ठानं पटिसन्धिवसेन देवलोकं उपगच्छन्ति. तस्मा अहम्पि पुनप्पुनं याचामि भगवा मय्हं मनोरथं मत्थकं पापेहीति अधिप्पायो.
इदानि यदत्थं सत्थारं कपिलवत्थुगमनं याचति, तं दस्सेतुं ‘‘वीरो हवे’’तिगाथमाह. तस्सत्थो – वीरो वीरियवा महाविक्कन्तो भूरिपञ्ञो महापञ्ञो पुरिसो यस्मिं कुले जायति निब्बत्तति, तत्थ हवे एकंसेन सत्तयुगं सत्तपुरिसयुगं यावसत्तमं पितामहयुगं सम्मापटिपत्तिया पुनेति सोधेतीति लोकवादो अतिवादो अञ्ञेसु. भगवा पन सब्बेसं देवानं उत्तमदेवताय देवदेवो पापनिवारणेन कल्याणपतिट्ठापनेन ततो परम्पि सोधेतुं सक्कति सक्कोतीति मञ्ञामि अहं. कस्मा? तया हि जातो मुनि सच्चनामो यस्मा तया सत्थारा अरियाय जातिया जातो मुनिभावो, मुनि वा समानो अत्तहितपरहितानं इधलोकपरलोकानञ्च मुननट्ठेन ‘‘मुनी’’ति अवितथनामो, मोनवा वा मुनि, ‘‘समणो पब्बजितो इसी’’ति अवितथनामो तया जातो. तस्मा सत्तानं एकन्तहितपटिलाभहेतुभावतो भगवा तव तत्थ गमनं याचामाति अत्थो.
इदानि ‘‘सत्तयुग’’न्ति वुत्ते पितुयुगं दस्सेतुं ‘‘सुद्धोदनो नामा’’तिआदि वुत्तं. सुद्धं ओदनं जीवनं एतस्साति सुद्धोदनो. बुद्धपिता हि एकंसतो सुविसुद्धकायवचीमनोसमाचारो सुविसुद्धाजीवो होति तथा अभिनीहारसम्पन्नत्ता. मायनामाति कुलरूपसीलाचारादिसम्पत्तिया ञातिमित्तादीहि ‘‘मा याही’’ति वत्तब्बगुणताय ‘‘माया’’ति लद्धनामा. परिहरियाति धारेत्वा. कायस्स भेदाति सदेवकस्स लोकस्स चेतियसदिसस्स अत्तनो कायस्स विनासतो उद्धं. तिदिवम्हीति तुसितदेवलोके.
साति मायादेवी. गोतमीति गोत्तेन तं कित्तेति. दिब्बेहि कामेहीति, तुसितभवनपरियापन्नेहि दिब्बेहि वत्थुकामेहि. समङ्गिभूताति समन्नागता. कामगुणेहीति कामकोट्ठासेहि, ‘‘कामेही’’ति वत्वा पुन ‘‘कामगुणेही’’ति वचनेन अनेकभागेहि वत्थुकामेहि परिचारियतीति दीपेति. तेहीति यस्मिं देवनिकाये निब्बत्ति, तेहि तुसितदेवगणेहि, तेहि वा कामगुणेहि. ‘‘समङ्गिभूता परिवारिता’’ति च इत्थिलिङ्गनिद्देसो पुरिमत्तभावसिद्धं इत्थिभावं, देवताभावं वा सन्धाय कतो, देवूपपत्ति पन पुरिसभावेनेव जाता.
एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्स खीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो, ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, एवं पन जानाही’’ति दस्सेन्तो –
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –
ओसानगाथमाह.
तत्थ बुद्धस्स पुत्तोम्हीति, सब्बञ्ञुबुद्धस्स उरे जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति, अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स च सहनतो, तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.
एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसस्स भोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेति. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतोव पिण्डपातं हरथा’’ति. थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलं राजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स सत्थु राजगेहतोव भत्तं आहरित्वा अदासि. अथ नं भगवा ‘‘मय्हं पितु महाराजस्स सकलनिवेसनं पसादेसी’’ति कुलप्पसादकानं अग्गट्ठाने ठपेसीति.
काळुदायित्थेरगाथावण्णना निट्ठिता.