५. सुनागत्थेरगाथावण्णना

चित्तनिमित्तस्स कोविदोति आयस्मतो सुनागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकत्तिंसे कप्पे सिखिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा अरञ्ञायतने अस्समे वसन्तो तीणि ब्राह्मणसहस्सानि मन्ते वाचेसि. अथेकदिवसं तस्स सत्थारं दिस्वा लक्खणानि उपधारेत्वा लक्खणमन्ते परिवत्तेन्तस्स, ‘‘ईदिसेहि लक्खणेहि समन्नागतो अनन्तजिनो अनन्तञाणो बुद्धो भविस्सती’’ति बुद्धञाणं आरब्भ उळारो पसादो उप्पज्जि. सो तेन चित्तप्पसादेन देवलोके निब्बत्तो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुनागोतिस्स नामं अहोसि. सो धम्मसेनापतिस्स गिहिसहायो थेरस्स सन्तिकं गन्त्वा धम्मं सुत्वा दस्सनभूमियं पतिट्ठितो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.३४-४०) –

‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो;

तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो.

‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो तदा;

संहरित्वान ते सिस्से, एकमन्तं उपाविसिं.

‘‘एकमन्तं निसीदित्वा, ब्राह्मणो मन्तपारगू;

बुद्धवेदं गवेसन्तो, ञाणे चित्तं पसादयिं.

‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे;

पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

‘‘सत्तवीसति कप्पम्हि, राजा सिरिधरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भिक्खूनं धम्मदेसनापदेसेन अञ्ञं ब्याकरोन्तो –

८५. ‘‘चित्तनिमित्तस्स कोविदो, पविवेकरसं विजानिय;

झायं निपको पतिस्सतो, अधिगच्छेय्य सुखं निरामिस’’न्ति. –

गाथं अभासि.

तत्थ चित्तनिमित्तस्स कोविदोति भावनाचित्तस्स निमित्तग्गहणे कुसलो, ‘‘इमस्मिं समये चित्तं पग्गहेतब्बं, इमस्मिं सम्पहंसितब्बं, इमस्मिं अज्झुपेक्खितब्ब’’न्ति एवं पग्गहणादियोग्यस्स चित्तनिमित्तस्स गहणे छेको. पविवेकरसं विजानियाति कायविवेकसंवड्ढितस्स चित्तविवेकस्स रसं सञ्जानित्वा, विवेकसुखं अनुभवित्वाति अत्थो. ‘‘पविवेकरसं पित्वा’’ति (ध. प. २०५) हि वुत्तं. झायन्ति पठमं आरम्मणूपनिज्झानेन पच्छा लक्खणूपनिज्झानेन च झायन्तो. निपकोति कम्मट्ठानपरिहरणे कुसलो. पतिस्सतोति उपट्ठितस्सति. अधिगच्छेय्य सुखं निरामिसन्ति एवं समथनिमित्तादिकोसल्लेन लब्भे चित्तविवेकसुखे पतिट्ठाय सतो सम्पजानो हुत्वा विपस्सनाझानेनेव झायन्तो कामामिसवट्टामिसेहि असम्मिस्सताय निरामिसं निब्बानसुखं फलसुखञ्च अधिगच्छेय्य समुपगच्छेय्याति अत्थो.

सुनागत्थेरगाथावण्णना निट्ठिता.