८. गवम्पतित्थेरगाथावण्णना

यो इद्धिया सरभुन्ति आयस्मतो गवम्पतित्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिं भगवन्तं पस्सित्वा पसन्नमानसो पुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके उप्पन्नो अपरापरं पुञ्ञानि करोन्तो कोणागमनस्स भगवतो चेतिये छत्तञ्च वेदिकञ्च कारेसि. कस्सपस्स पन भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो. तस्मिञ्च कुले बहुं गोमण्डलं अहोसि. तं गोपालका रक्खन्ति. अयं तत्थ अन्तरन्तरा युत्तप्पयुत्तं विचारेन्तो विचरति. सो एकं खीणासवत्थेरं गामे पिण्डाय चरित्वा बहिगामे देवसिकं एकस्मिं पदेसे भत्तकिच्चं करोन्तं दिस्वा ‘‘अय्यो सूरियातपेन किलमिस्सती’’ति चिन्तेत्वा चत्तारो सिरीसदण्डे उस्सापेत्वा तेसं उपरि सिरीससाखायो ठपेत्वा साखामण्डपं कत्वा अदासि. ‘‘मण्डपस्स समीपे सिरीसरुक्खं रोपेसी’’ति च वदन्ति. तस्स अनुकम्पाय देवसिकं थेरो तत्थ निसीदि. सो तेन पुञ्ञकम्मेन ततो चवित्वा चातुमहाराजिकेसु निब्बत्ति. तस्स पुरिमकम्मसंसूचकं विमानद्वारे महन्तं सिरीसवनं निब्बत्ति वण्णगन्धसम्पन्नेहि अञ्ञेहि पुप्फेहि सब्बकाले उपसोभयमानं, तेन तं विमानं ‘‘सेरीसक’’न्ति पञ्ञायित्थ. सो देवपुत्तो एकं बुद्धन्तरं देवेसु च मनुस्सेसु च संसरित्वा इमस्मिं बुद्धुप्पादे यसत्थेरस्स चतूसु गिहिसहायेसु गवम्पति नाम हुत्वा आयस्मतो यसस्स पब्बजितभावं सुत्वा अत्तनो सहायेहि सद्धिं भगवतो सन्तिकं अगमासि. सत्था तस्स धम्मं देसेसि. सो देसनावसाने सहायेहि सद्धिं अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५३.४२-४७) –

‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

‘‘तस्मिं महाकारुणिके, सब्बसत्तहिते रते;

पसन्नचित्तो सुमनो, नेलपुप्फं अपूजयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो विमुत्तिसुखं पटिसंवेदेन्तो साकेते विहरति अञ्जनवने. तेन च समयेन भगवा महता भिक्खुसङ्घेन सद्धिं साकेतं गन्त्वा अञ्जनवने विहासि. सेनासनं नप्पहोसि. सम्बहुला भिक्खू विहारसामन्ता सरभुया नदिया वालिकापुळिने सयिंसु. अथ अड्ढरत्तसमये नदिया उदकोघे आगच्छन्ते सामणेरादयो उच्चासद्दमहासद्दा अहेसुं. भगवा तं ञत्वा आयस्मन्तं गवम्पतिं आणापेसि – ‘‘गच्छ, गवम्पति, जलोघं विक्खम्भेत्वा भिक्खूनं फासुविहारं करोही’’ति. थेरो ‘‘साधु, भन्ते’’ति इद्धिबलेन नदीसोतं विक्खम्भि, तं दूरतोव पब्बतकूटं विय अट्ठासि. ततो पट्ठाय थेरस्स आनुभावो लोके पाकटो अहोसि. अथेकदिवसं सत्था महतिया देवपरिसाय मज्झे निसीदित्वा धम्मं देसेन्तं थेरं दिस्वा लोकानुकम्पाय तस्स गुणानं विभावनत्थं तं पसंसन्तो ‘‘यो इद्धिया सरभु’’न्ति गाथं अभासि.

३८. तत्थ इद्धियाति अधिट्ठानिद्धिया. सरभुन्ति एवंनामिकं नदिं, यं लोके ‘‘सरभु’’न्ति वदन्ति. अट्ठपेसीति सन्दितुं अदेन्तो सोतं निवत्तेत्वा पब्बतकूटं विय महन्तं जलरासिं कत्वा ठपेसि. असितोति नसितो, तण्हादिट्ठिनिस्सयरहितो, बन्धनसङ्खातानं वा सब्बसंयोजनानं समुच्छिन्नत्ता केनचिपि बन्धनेन अबद्धो, ततो एव एजानं किलेसानं अभावतो अनेजो सो, गवम्पति, तं सब्बसङ्गातिगतं तादिसं सब्बेपि रागदोसमोहमानदिट्ठिसङ्गे अतिक्कमित्वा ठितत्ता सब्बसङ्गातिगतं, असेक्खमुनिभावतो महामुनिं, ततो एव कामकम्मभवादिभेदस्स सकलस्सपि भवस्स पारं निब्बानं गतत्ता भवस्स पारगुं. देवा नमस्सन्तीति देवापि इमस्सन्ति, पगेव इतरा पजाति.

गाथापरियोसाने महतो जनकायस्स धम्माभिसमयो अहोसि. थेरो अञ्ञं ब्याकरोन्तो ‘‘सत्थारं पूजेस्सामी’’ति इममेव गाथं अभासीति.

गवम्पतित्थेरगाथावण्णना निट्ठिता.