६. बेलट्ठसीसत्थेरगाथावण्णना

यथापि भद्दो आजञ्ञोति आयस्मतो बेलट्ठसीसत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो उपनिस्सयसम्पत्तिया अभावेन विसेसं निब्बत्तेतुं नासक्खि. विवट्टूपनिस्सयं पन बहुं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इतो एकतिंसे कप्पे वेस्सभुं भगवन्तं पस्सित्वा पसन्नचित्तो मातुलुङ्गफलं अदासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतितो सुगतिं उपगच्छन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तो भगवतो अभिसम्बोधिया पुरेतरमेव उरुवेलकस्सपस्स सन्तिके तापसपब्बज्जं पब्बजित्वा अग्गिं परिचरन्तो उरुवेलकस्सपदमने आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) पुराणजटिलसहस्सेन सद्धिं अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.६८-७३) –

‘‘कणिकारंव जोतन्तं, पुण्णमायेव चन्दिमं;

जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं.

‘‘मातुलुङ्गफलं गय्ह, अदासिं सत्थुनो अहं;

दक्खिणेय्यस्स वीरस्स, पसन्नो सेहि पाणिभि.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं अधिगतारहत्तो आयस्मतो धम्मभण्डागारिकस्स उपज्झायो अयं थेरो एकदिवसं फलसमापत्तितो उट्ठाय तं सन्तं पणीतं निरामिसं सुखं अत्तनो पुब्बयोगञ्च पच्चवेक्खित्वा पीतिवेगवसेन ‘‘यथापि भद्दो आजञ्ञो’’ति गाथं अभासि.

१६. तत्थ यथापीति ओपम्मपटिपादनत्थे निपातो. भद्दोति सुन्दरो थामबलसमत्थजवपरक्कमादिसम्पन्नो. आजञ्ञोति आजानीयो जातिमा कारणाकारणानं आजाननको. सो तिविधो उसभाजञ्ञो अस्साजञ्ञो हत्थाजञ्ञोति. तेसु उसभाजञ्ञो इधाधिप्पेतो. सो च खो छेककसनकिच्चे नियुत्तो, तेनाह ‘‘नङ्गलावत्तनी’’ति. नङ्गलस्स फालस्स आवत्तनको, नङ्गलं इतो चितो च आवत्तेत्वा खेत्ते कसनकोति अत्थो. नङ्गलं वा आवत्तयति एत्थाति नङ्गलावत्तं, खेत्ते नङ्गलपथो, तस्मिं नङ्गलावत्तनि. गाथासुखत्थञ्हेत्थ ‘‘वत्तनी’’ति दीघं कत्वा वुत्तं. सिखीति मत्थके अवट्ठानतो सिखासदिसताय सिखा, सिङ्गं. तदस्स अत्थीति सिखी. अपरे पन ‘‘ककुधं इध ‘सिखा’ति अधिप्पेत’’न्ति वदन्ति, उभयथापि पधानङ्गकित्तनमेतं ‘‘सिखी’’ति. अप्पकसिरेनाति अप्पकिलमथेन. रत्तिन्दिवाति रत्तियो दिवा च, एवं ममं अप्पकसिरेन गच्छन्तीति योजना. इदं वुत्तं होति – यथा ‘‘भद्दो उसभाजानीयो कसने नियुत्तो घनतिणमूलादिकेपि नङ्गलपथे तं अगणेन्तो अप्पकसिरेन इतो चितो च परिवत्तेन्तो गच्छति, याव कसनतिणानं परिस्समं दस्सेति, एवं ममं रत्तिन्दिवापि अप्पकसिरेनेव गच्छन्ति अतिक्कमन्ती’’ति. तत्थ कारणमाह ‘‘सुखे लद्धे निरामिसे’’ति. यस्मा कामामिसलोकामिसवट्टामिसेहि असम्मिस्सं सन्तं पणीतं फलसमापत्तिसुखं लद्धं, तस्माति अत्थो. पच्चत्ते चेतं भुम्मवचनं यथा ‘‘वनप्पगुम्बे’’ (खु. पा. ६.१३; सु. नि. २३६) ‘‘तेन वत रे वत्तब्बे’’ति (कथा. १) च. अथ वा ततो पभुति रत्तिन्दिवा अप्पकसिरेन गच्छन्तीति विचारणाय आह – ‘‘सुखे लद्धे निरामिसे’’ति, निरामिसे सुखे लद्धे सति तस्स लद्धकालतो पट्ठायाति अत्थो.

बेलट्ठसीसत्थेरगाथावण्णना निट्ठिता.