४. सिवकसामणेरगाथावण्णना

उपज्झायोति सिवकस्स सामणेरस्स गाथा. का उप्पत्ति? सो किर इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तो एकदिवसं केनचिदेव करणीयेन अरञ्ञं पविट्ठो तत्थ पब्बतन्तरे निसिन्नं वेस्सभुं भगवन्तं दिस्वा पसन्नचित्तो उपसङ्कमित्वा वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. पुन तत्थ मनोहरानि कासुमारिकफलानि दिस्वा तानि गहेत्वा भगवतो उपनेसि, पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने मातुले पब्बजन्ते तेन सद्धिं पब्बजित्वा बहुं विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वनवच्छत्थेरस्स भागिनेय्यो हुत्वा निब्बत्तो, सिवकोतिस्स नामं अहोसि. तस्स माता अत्तनो जेट्ठभातिके वनवच्छे सासने पब्बजित्वा पब्बजितकिच्चं मत्थकं पापेत्वा अरञ्ञे विहरन्ते तं पवत्तिं सुत्वा पुत्तं आह – ‘‘तात सिवक, थेरस्स सन्तिके पब्बजित्वा थेरं उपट्ठह, महल्लको दानि थेरो’’ति. सो मातु एकवचनेनेव च पुब्बे कताधिकारताय च मातुलत्थेरस्स सन्तिकं गन्त्वा पब्बजित्वा तं उपट्ठहन्तो अरञ्ञे वसति.

तस्स एकदिवसं केनचिदेव करणीयेन गामन्तं गतस्स खरो आबाधो उप्पज्जि. मनुस्सेसु भेसज्जं करोन्तेसुपि न पटिप्पस्सम्भि. तस्मिं चिरायन्ते थेरो ‘‘सामणेरो चिरायति, किं नु खो कारण’’न्ति तत्थ गन्त्वा तं गिलानं दिस्वा तस्स तं तं कत्तब्बयुत्तकं करोन्तो दिवसभागं वीतिनामेत्वा रत्तिभागे बलवपच्चूसवेलायं आह – ‘‘सिवक, न मया पब्बजितकालतो पट्ठाय गामे वसितपुब्बं, इतो अरञ्ञमेव गच्छामा’’ति. तं सुत्वा सिवको ‘‘यदिपि मे, भन्ते, इदानि कायो गामन्ते ठितो, चित्तं पन अरञ्ञे, तस्मा सयानोपि अरञ्ञमेव गमिस्सामी’’ति, तं सुत्वा थेरो तं बाहायं गहेत्वा अरञ्ञमेव नेत्वा ओवादं अदासि. सो थेरस्स ओवादे ठत्वा विपस्सित्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३८.५३-५८) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

‘‘पसन्नचित्तो सुमनो, किरे कत्वान अञ्जलिं;

कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सो अरहत्तं पत्वा उपज्झायेन अत्तना च वुत्तमत्थं संसन्दित्वा अत्तनो विवेकाभिरतिकतं कतकिच्चतञ्च पवेदेन्तो ‘‘उपज्झायो मं अवचा’’ति गाथं अभासि.

१४. तत्थ उपज्झायोति वज्जावज्जं उपनिज्झायति हितेसितं पच्चुपट्ठपेत्वा ञाणचक्खुना पेक्खतीति उपज्झायो. मन्ति अत्तानं वदति. अवचाति अभासि. इतो गच्छाम सीवकाति वुत्ताकारदस्सनं, सिवक, इतो गामन्ततो अरञ्ञट्ठानमेव एहि गच्छाम, तदेव अम्हाकं वसनयोग्गन्ति अधिप्पायो. एवं पन उपज्झायेन वुत्तो सिवको भद्रो अस्साजानीयो विय कसाभिहतो सञ्जातसंवेगो हुत्वा अरञ्ञमेव गन्तुकामतं पवेदेन्तो –

‘‘गामे मे वसति कायो, अरञ्ञं मे गतं मनो;

सेमानकोपि गच्छामि, नत्थि सङ्गो विजानत’’न्ति. –आह;

तस्सत्थो – यस्मा इदानि यदिपि मे इदं सरीरं गामन्ते ठितं, अज्झासयो पन अरञ्ञमेव गतो, तस्मा सेमानकोपि गच्छामि गेलञ्ञेन ठाननिसज्जागमनेसु असमत्थताय सयानोपि इमिना सयिताकारेन सरीसपो विय सरीसपन्तो, एथ, भन्ते, अरञ्ञमेव गच्छाम, कस्मा? नत्थि सङ्गो विजानतन्ति, यस्मा धम्मसभावा कामेसु संसारे च आदीनवं, नेक्खम्मे निब्बाने च आनिसंसं याथावतो जानन्तस्स न कत्थचि सङ्गो, तस्मा एकपदेनेव उपज्झायस्स आणा अनुठिताति, तदपदेसेन अञ्ञं ब्याकासि.

सिवकसामणेरगाथावण्णना निट्ठिता.