१. चूळवच्छत्थेरगाथावण्णना

पामोज्जबहुलोति आयस्मतो चूळवच्छत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा परेसं भतिया जीविकं कप्पेन्तो भगवतो सावकं सुजातं नाम थेरं पंसुकूलं परियेसन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वत्थं दत्वा पञ्चपतिट्ठितेन वन्दि. सो तेन पुञ्ञकम्मेन तेत्तिंसक्खत्तुं देवरज्जं कारेसि. सत्तसत्ततिक्खत्तुं चक्कवत्ती राजा अहोसि. अनेकवारं पदेसराजा. एवं देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने ओसक्कमाने पब्बजित्वा समणधम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सगतीसु अपरापरं परिवत्तन्तो अम्हाकं भगवतो काले कोसम्बियं ब्राह्मणकुले निब्बत्ति. चूळवच्छोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गतो बुद्धगुणे सुत्वा पसन्नमानसो भगवन्तं उपसङ्कमि, तस्स भगवा धम्मं कथेसि. सो पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कतपुब्बकिच्चो चरितानुकूलं कम्मट्ठानं गहेत्वा भावेन्तो विहरि. तेन च समयेन कोसम्बिका भिक्खू भण्डनजाता अहेसुं. तदा चूळवच्छत्थेरो उभयेसं भिक्खूनं लद्धिं अनादाय भगवता दिन्नोवादे ठत्वा विपस्सनं ब्रूहेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.३१-४०) –

‘‘पदुमुत्तरभगवतो, सुजातो नाम सावको;

पंसुकूलं गवेसन्तो, सङ्कारे चरती तदा.

‘‘नगरे हंसवतिया, परेसं भतको अहं;

उपड्ढुदुस्सं दत्वान, सिरसा अभिवादयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘तेत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

उपड्ढदुस्सदानेन, मोदामि अकुतोभयो.

‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;

खोमदुस्सेहि छादेय्यं, अड्ढुदुस्सस्सिदं फलं.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अड्ढुदुस्सस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ चूळवच्छत्थेरो अरहत्तं पत्वा तेसं भिक्खूनं कलहाभिरतिया सकत्थविनासं दिस्वा धम्मसंवेगप्पत्तो, अत्तनो च पत्तविसेसं पच्चवेक्खित्वा पीतिसोमनस्सवसेन ‘‘पामोज्जबहुलो’’ति गाथं अभासि.

११. तत्थ पामोज्जबहुलोति सुपरिसुद्धसीलताय विप्पटिसाराभावतो अधिकुसलेसु धम्मेसु अभिरतिवसेन पमोदबहुलो. तेनेवाह ‘‘धम्मे बुद्धप्पवेदिते’’ति. तत्थ धम्मेति. सत्ततिंसाय बोधिपक्खियधम्मे नवविधे वा लोकुत्तरधम्मे. सो हि सब्बञ्ञुबुद्धेन सामुक्कंसिकाय देसनाय पकासितत्ता सातिसयं बुद्धप्पवेदितो नाम. तस्स पन अधिगमूपायभावतो देसनाधम्मोपि इध लब्भतेव. पदं सन्तन्ति निब्बानं सन्धाय वदति. एवरूपो हि भिक्खु सन्तं पदं सन्तं कोट्ठासं सब्बसङ्खारानं उपसमभावतो सङ्खारूपसमं परमसुखताय सुखं निब्बानं अधिगच्छति विन्दतियेव. परिसुद्धसीलो हि भिक्खु विप्पटिसाराभावेन पामोज्जबहुलो सद्धम्मे युत्तप्पयुत्तो विमुत्तिपरियोसाना सब्बसम्पत्तियो पापुणाति. यथाह – ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानि, अविप्पटिसारो पामोज्जत्थाया’’तिआदि (अ. नि. १०.१). अथ वा पामोज्जबहुलोति सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोति रतनत्तयं सन्धाय पमोदबहुलो. तत्थ पन सो पमोदबहुलो किं वा करोतीति आह ‘‘धम्मे बुद्धप्पवेदिते’’तिआदि. सद्धासम्पन्नस्स हि सप्पुरिससंसेवनसद्धम्मस्सवनयोनिसोमनसिकारधम्मानुधम्मपटिपत्तीनं सुखेनेव सम्भवतो सम्पत्तियो हत्थगता एव होन्ति, यथाह – ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती’’तिआदि (म. नि. २.१८३).

चूळवच्छत्थेरगाथावण्णना निट्ठिता.