७. भल्लियत्थेरगाथावण्णना
योपानुदीति आयस्मतो भल्लियत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो एकतिंसे कप्पे अनुप्पन्ने बुद्धे सुमनस्स नाम पच्चेकबुद्धस्स पसन्नचित्तो फलाफलं दत्वा सुगतीसु एव संसरन्तो सिखिस्स सम्मासम्बुद्धस्स काले अरुणवतीनगरे ब्राह्मणकुले निब्बत्तो ‘‘सिखिस्स भगवतो पठमाभिसम्बुद्धस्स उजित, ओजिता नाम द्वे सत्थवाहपुत्ता पठमाहारं अदंसू’’ति सुत्वा अत्तनो सहायकेन सद्धिं भगवन्तं उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा महादानं पवत्तेत्वा पत्थनं अकंसु – ‘‘उभोपि मयं, भन्ते, अनागते तुम्हादिसस्स बुद्धस्स पठमाहारदायका भवेय्यामा’’ति. ते तत्थ तत्थ भवे पुञ्ञकम्मं कत्वा देवमनुस्सेसु संसरन्ता कस्सपस्स भगवतो काले गोपालकसेट्ठिस्स पुत्ता भातरो हुत्वा निब्बत्ता. बहूनि वस्सानि भिक्खुसङ्घं खीरभोजनेन उपट्ठहिंसु. अम्हाकं पन भगवतो काले पोक्खरवतीनगरे सत्थवाहस्स पुत्ता भातरो हुत्वा निब्बत्ता. तेसु जेट्ठो तफुस्सो नाम, कनिट्ठो भल्लियो नाम, ते पञ्चमत्तानि सकटसतानि भण्डस्स पूरेत्वा वाणिज्जाय गच्छन्ता भगवति पठमाभिसम्बुद्धे सत्तसत्ताहं विमुत्तिसुखधम्मपच्चवेक्खणाहि वीतिनामेत्वा अट्ठमे सत्ताहे राजायतनमूले विहरन्ते राजायतनस्स अविदूरे महामग्गेन अतिक्कमन्ति, तेसं तस्मिं समये समेपि भूमिभागे अकद्दमोदके सकटानि नप्पवत्तिंसु, ‘‘किं नु, खो, कारण’’न्ति च चिन्तेन्तानं पोराणसालोहिता देवता रुक्खविटपन्तरे अत्तानं दस्सेन्ती आह – ‘‘मादिसा, अयं भगवा अचिराभिसम्बुद्धो सत्तसत्ताहं अनाहारो विमुत्तिसुखापटिसंवेदी इदानि राजायतनमूले निसिन्नो, तं आहारेन पटिमानेथ, यदस्स तुम्हाकं दीघरत्तं हिताय सुखाया’’ति. तं सुत्वा ते उळारं पीतिसोमनस्सं पटिसंवेदेन्ता, ‘‘आहारसम्पादनं पपञ्च’’न्ति मञ्ञमाना मन्थञ्च मधुपिण्डिकञ्च भगवतो दत्वा द्वेवाचिकसरणं गन्त्वा केसधातुयो लभित्वा अगमंसु. ते हि पठमं उपासका अहेसुं. अथ भगवति बाराणसिं गन्त्वा धम्मचक्कं पवत्तेत्वा अनुपुब्बेन राजगहे विहरन्ते तफुस्सभल्लिया राजगहं उपगता भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. तेसं भगवा धम्मं देसेसि. तेसु तफुस्सो सोतापत्तिफले पतिट्ठाय उपासकोव अहोसि. भल्लियो पन पब्बजित्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४८.६६-७०) –
‘‘सुमनो नाम सम्बुद्धो, तक्करायं वसी तदा;
वल्लिकारफलं गय्ह, सयम्भुस्स अदासहं.
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथेकदिवसं मारो भल्लियत्थेरस्स भिंसापनत्थं भयानकं रूपं दस्सेसि. सो अत्तनो सब्बभयातिक्कमं पकासेन्तो ‘‘योपानुदी’’ति गाथमभासि.
७. तत्थ योपानुदीति यो अपानुदि खिपि पजहि विद्धंसेसि. मच्चुराजस्साति मच्चु नाम मरणं खन्धानं भेदो, सो एव च सत्तानं अत्तनो वसे अनुवत्तापनतो इस्सरट्ठेन राजाति मच्चुराजा, तस्स. सेनन्ति जरारोगादिं, सा हिस्स वसवत्तने अङ्गभावतो सेना नाम, तेन हेस महता नानाविधेन विपुलेन ‘‘महासेनो’’ति वुच्चति. यथाह – ‘‘न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति (म. नि. १.२७२; जा. २.२२.१२१; नेत्ति. १०३). अथ वा गुणमारणट्ठेन ‘‘मच्चू’’ति इध देवपुत्तमारो अधिप्पेतो, तस्स च सहायभावूपगमनतो कामादयो सेना. तथा चाह –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति.
‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;
सत्तमी विचिकिच्छा ते, मानो मक्खो च अट्ठमी’’ति. (सु. नि. ४३८-४३९; महानि. २८;चूळनि. नन्दमाणवपुच्छानिद्देस ४७);
नळसेतुंव सुदुब्बलं महोघोति सारविरहिततो नळसेतुसदिसं अतिविय अबलभावतो सुट्ठु दुब्बलं संकिलेससेनं नवलोकुत्तरधम्मानं महाबलवभावतो महोघसदिसेन अग्गमग्गेन यो अपानुदि विजितावी अपेतभेरवो दन्तो, सो परिनिब्बुतो ठितत्तोति योजना. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायीति.
भल्लियत्थेरगाथावण्णना निट्ठिता.