१. पठमवग्गो

१. सुभूतित्थेरगाथावण्णना

इदानि छन्ना मे कुटिकातिआदिनयप्पवत्तानं थेरगाथानं अत्थवण्णना होति. सा पनायं अत्थवण्णना यस्मा तासं तासं गाथानं अट्ठुप्पत्तिं पकासेत्वा वुच्चमाना पाकटा होति सुविञ्ञेय्या च. तस्मा तत्थ तत्थ अट्ठुप्पत्तिं पकासेत्वा अत्थवण्णनं करिस्सामाति.

तत्थ छन्ना मे कुटिकातिगाथाय का उप्पत्ति? वुच्चते – इतो किर कप्पसतसहस्समत्थके अनुप्पन्नेयेव पदुमुत्तरे भगवति लोकनाथे हंसवतीनामके नगरे अञ्ञतरस्स ब्राह्मणमहासालस्स एको पुत्तो उप्पज्जि. तस्स ‘‘नन्दमाणवो’’ति नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारभूतेहि चतुचत्तालीसाय माणवकसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. अन्तेवासिकानम्पि कम्मट्ठानं आचिक्खि. तेपि न चिरेनेव झानलाभिनो अहेसुं.

तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्चूससमये लोकं वोलोकेन्तो नन्दतापसस्स अन्तेवासिकजटिलानं अरहत्तूपनिस्सयं नन्दतापसस्स च द्वीहङ्गेहि समन्नागतस्स सावकट्ठानन्तरस्स पत्थनं दिस्वा पातोव सरीरपटिजग्गनं कत्वा पुब्बण्हसमये पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो नन्दतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति पस्सन्तस्सेव नन्दतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. नन्दतापसो बुद्धानुभावञ्चेव लक्खणपारिपूरिञ्च दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवटच्छदो सब्बञ्ञू बुद्धो होति. अयं पुरिसाजानीयो निस्संसयं बुद्धोति ञत्वा पच्चुग्गमनं कत्वा, पञ्चपतिट्ठितेन वन्दित्वा, आसनं पञ्ञापेत्वा, अदासि. निसीदि भगवा पञ्ञत्ते आसने. नन्दतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि.

तस्मिं समये चतुचत्तालीससहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेन्ता आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति. नन्दतापसो, ‘‘ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठिसतसहस्सयोजनुब्बेधं सिनेरुं उपमेतुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं मा मं उपमित्था’’ति आह. अथ ते तापसा ‘‘सचे अयं ओरको अभविस्स, न अम्हाकं आचरियो एवं उपमं आहरेय्य, याव महा वतायं पुरिसाजानीयो’’ति पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ते आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, भगवा च भिक्खाचारवेलायं इधागतो, तस्मा मयं यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं आनीतं, तं तं आहरथा’’ति वत्वा आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू सत्थु चित्तं ञत्वा सतसहस्समत्ता खीणासवा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

नन्दतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सस्सपि आसनं नत्थि, तुम्हेहि अज्ज उळारं भगवतो भिक्खुसङ्घस्स च सक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति. अचिन्तेय्यत्ता इद्धिविसयस्स मुहुत्तेनेव वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. एवं पञ्ञत्तेसु आसनेसु नन्दतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा’’ति आह. निसीदि भगवा पुप्फासने. एवं निसिन्ने सत्थरि सत्थु आकारं ञत्वा भिक्खू अत्तनो अत्तनो पत्तासने निसीदिंसु. नन्दतापसो महन्तं पुप्फछत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘तापसानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापन्नभावं ञत्वा भिक्खूपि समापज्जिंसु. तथागते सत्ताहं निरोधं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. नन्दतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फछत्तं धारेन्तो सत्ताहं पीतिसुखेनेव वीतिनामेति.

सत्था निरोधतो वुट्ठाय अरणविहारिअङ्गेन दक्खिणेय्यङ्गेन चाति द्वीहि अङ्गेहि समन्नागतं एकं सावकं ‘‘इसिगणस्स पुप्फासनानुमोदनं करोही’’ति आणापेसि. सो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो अत्तनो विसये ठत्वा तेपिटकं बुद्धवचनं सम्मसित्वा अनुमोदनं अकासि. तस्स देसनावसाने सत्था सयं धम्मं देसेसि. देसनापरियोसाने सब्बे चतुचत्तालीससहस्सतापसा अरहत्तं पापुणिंसु. सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सु अन्तरधायि. अट्ठ परिक्खारा काये पटिमुक्काव अहेसुं सट्ठिवस्सत्थेरा विय सत्थारं परिवारयिंसु. नन्दतापसो पन विक्खित्तचित्तताय विसेसं नाधिगच्छि. तस्स किर अरणविहारित्थेरस्स सन्तिके धम्मं सोतुं आरद्धकालतो पट्ठाय ‘‘अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन लद्धधुरं लभेय्य’’न्ति चित्तं उदपादि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामायं तुम्हाकं सासने’’ति. ‘‘अरणविहारिअङ्गे दक्खिणेय्यअङ्गे च एतदग्गं पत्तो एसो भिक्खू’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फछत्तं धारेन्तेन सक्कारो कतो, तेन अधिकारेन न अञ्ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्नागतो सावको भवेय्य’’न्ति पत्थनमकासि.

सत्था ‘‘समिज्झिस्सति नु, खो इमस्स तापसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्सं अतिक्कमित्वा समिज्झनकभावं दिस्वा नन्दतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते कप्पसतसहस्सं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सन्तिके समिज्झिस्सती’’ति वत्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि. नन्दतापसो याव चक्खुपथसमतिक्कमा सत्थारं भिक्खुसङ्घञ्च उद्दिस्स अञ्जलिं पग्गय्ह अट्ठासि. सो अपरभागे कालेन कालं सत्थारं उपसङ्कमित्वा धम्मं सुणि. अपरिहीनज्झानोव कालङ्कत्वा ब्रह्मलोके निब्बत्तो. ततो पन चुतो अपरानिपि पञ्च जातिसतानि पब्बजित्वा आरञ्ञको अहोसि. कस्सपसम्मासम्बुद्धकालेपि पब्बजित्वा आरञ्ञको हुत्वा गतपच्चागतवत्तं पूरेसि. एतं किर वत्तं अपरिपूरेत्वा महासावकभावं पापुणन्ता नाम नत्थि. गतपच्चागतवत्तं पन आगमट्ठकथासु वुत्तनयेनेव वेदितब्बं. सो वीसतिवस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा कालङ्कत्वा कामावचरदेवलोके तावतिंसभवने निब्बत्ति. वुत्तञ्हेतं अपदाने (अप. थेर १.३.१५१) –

‘‘हिमवन्तस्साविदूरे, निसभो नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

‘‘कोसियो नाम नामेन, जटिलो उग्गतापनो;

एकाकियो अदुतियो, वसामि निसभे तदा.

‘‘फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा;

पवत्तंव सुपाताहं, उपजीवामि तावदे.

‘‘नाहं कोपेमि आजीवं, चजमानोपि जीवितं;

आराधेमि सकं चित्तं, विवज्जेमि अनेसनं.

‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम;

सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं.

‘‘रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे;

मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं.

‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;

मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं.

‘‘अगारिको भवित्वान, यदा पुत्तं लभिस्ससि;

उभोपि मा विराधेसि, निक्खमस्सु वना तुवं.

‘‘छवालातं यथा कट्ठं, न क्वचि किच्चकारकं;

नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं.

‘‘छवालातूपमो त्वं सि, न गिही नापि सञ्ञतो;

उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं.

‘‘सिया नु खो तव एतं, को पजानाति ते इदं;

सद्धाधुरं वहिसि मे, कोसज्जबहुलाय च.

‘‘जिगुच्छिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा.

‘‘तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनं;

संवासं अलभन्तो हि, कथं जीविहिसि तुवं.

‘‘तिधापभिन्नं मातङ्गं, कुञ्जरं सट्ठिहायनं;

बली नागो उपगन्त्वा, यूथा नीहरते गजं.

‘‘यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति;

दुक्खितो विमनो होति, पज्झायन्तो पवेधति.

‘‘तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिं;

तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि.

‘‘दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो;

दय्हति परिळाहेन, गजो यूथाव निस्सटो.

‘‘जातरूपं यथा कूटं, नेव झायति कत्थचि;

तथा सीलवीहिनो त्वं, न झायिस्ससि कत्थचि.

‘‘अगारं वसमानोपि, कथं जीविहिसि तुवं;

मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं.

‘‘सयं कम्मं करित्वान, गत्ते सेदं पमोचयं;

एवं जीविहिसि गेहे, साधु ते तं न रुच्चति.

‘‘एवाहं तत्थ वारेमि, संकिलेसगतं मनं;

नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं.

‘‘एवं मे विहरन्तस्स, अप्पमादविहारिनो;

तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं.

‘‘अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकं;

पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं.

‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;

रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

‘‘सुफुल्लो सालराजाव, विज्जूवब्भघनन्तरे;

ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

‘‘सीहराजावसम्भीतो, गजराजाव दप्पितो;

लासीतो ब्यग्घराजाव, आकासे चङ्कमी तदा.

‘‘सिङ्घीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो;

मणि यथा जोतिरसो, आकासे चङ्कमी तदा.

‘‘विसुद्धकेलासनिभो, पुण्णमायेव चन्दिमा;

मज्झन्हिकेव सूरियो, आकासे चङ्कमी तदा.

‘‘दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा;

देवो नु खो अयं सत्तो, उदाहु मनुजो अयं.

‘‘न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो;

अपि मन्तपदं अत्थि, अयं सत्था भविस्सति.

‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;

नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं तदा.

‘‘पुप्फासनं पञ्ञापेत्वा, साधुचित्तं मनोरमं;

नरसारथिनं अग्गं, इदं वचनमब्रविं.

‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवं;

हासयन्तो ममं चित्तं, निसीद कुसुमासने.

‘‘निसीदि तत्थ भगवा, असम्भीतोव केसरी;

सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने.

‘‘नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहं;

वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो;

मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि.

‘‘भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरं;

इमं सतिं भावयित्वा, पूरयिस्ससि मानसं.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;

असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं.

‘‘भवाभवे संसरन्तो, महाभोगं लभिस्ससि;

भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;

गोतमस्स भगवतो, सासने पब्बजिस्ससि.

‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

सुभूति नाम नामेन, हेस्ससि सत्थु सावको.

‘‘भिक्खुसङ्घे निसीदित्वा, दक्खिणेय्यगुणम्हि तं;

तथारणविहारे च, द्वीसु अग्गे ठपेस्ससि.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.

‘‘सासितो लोकनाथेन, नमस्सित्वा तथागतं;

सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं.

‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –

इत्थं सुदं आयस्मा सुभूतित्थेरो इमा गाथायो अभासित्थाति.

एवं पन सो तावतिंसभवने अपरापरं उप्पज्जनवसेन दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके अनेकसतक्खत्तुं चक्कवत्तिराजा च पदेसराजा च हुत्वा उळारं मनुस्ससम्पत्तिं अनुभवित्वा अथ अम्हाकं भगवतो काले सावत्थियं सुमनसेट्ठिस्स गेहे अनाथपिण्डिकस्स कनिट्ठो हुत्वा निब्बत्ति ‘‘सुभूती’’तिस्स नामं अहोसि.

तेन च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं गन्त्वा तत्थ वेळुवनपटिग्गहणादिना लोकानुग्गहं करोन्तो राजगहं उपनिस्साय सीतवने विहरति. तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकभण्डं गहेत्वा अत्तनो सहायस्स राजगहसेट्ठिनो घरं गतो बुद्धुप्पादं सुत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय सत्थारं सावत्थिं आगमनत्थाय याचित्वा ततो पञ्चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्चागेन विहारे पतिट्ठापेत्वा सावत्थियं राजमानेन अट्ठकरीसप्पमाणं जेतस्स राजकुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि. विहारपरिग्गहणदिवसे अयं सुभूतिकुटुम्बिको अनाथपिण्डिकसेट्ठिना सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि. सो उपसम्पज्जित्वा द्वे मातिका पगुणा कत्वा कम्मट्ठानं कथापेत्वा अरञ्ञे समणधम्मं करोन्तो मेत्ताझानपादकं विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो धम्मं देसेन्तो यस्मा सत्थारा देसितनियामेन अनोदिस्सकं कत्वा धम्मं देसेति. तस्मा अरणविहारीनं अग्गो नाम जातो. पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्जित्वा वुट्ठाय भिक्खं पटिग्गण्हाति ‘‘एवं दायकानं महप्फलं भविस्सती’’ति. तस्मा दक्खिणेय्यानं अग्गो नाम जातो. तेनाह भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूति, दक्खिणेय्यानं यदिदं सुभूती’’ति (अ. नि. १.१९८, २०१). एवमयं महाथेरो अरहत्ते पतिट्ठाय अत्तना पूरितपारमीनं फलस्स मत्थकं पत्वा लोके अभिञ्ञातो अभिलक्खितो हुत्वा बहुजनहिताय जनपदचारिकं चरन्तो अनुपुब्बेन राजगहं अगमासि.

राजा बिम्बिसारो थेरस्स आगमनं सुत्वा उपसङ्कमित्वा वन्दित्वा ‘‘इधेव, भन्ते, वसथा’’ति वत्वा ‘‘निवासनट्ठानं करिस्सामी’’ति पक्कन्तो विस्सरि. थेरो सेनासनं अलभन्तो अब्भोकासे वीतिनामेसि. थेरस्स आनुभावेन देवो न वस्सति. मनुस्सा अवुट्ठिताय उपद्दुता रञ्ञो निवेसनद्वारे उक्कुट्ठिमकंसु. राजा ‘‘केन नु खो कारणेन देवो न वस्सती’’ति वीमंसन्तो ‘‘थेरस्स अब्भोकासवासेन मञ्ञे न वस्सती’’ति चिन्तेत्वा तस्स पण्णकुटिं कारापेत्वा ‘‘इमिस्सा, भन्ते, पण्णकुटिया वसथा’’ति वत्वा वन्दित्वा पक्कामि. थेरो कुटिकं पविसित्वा तिणसन्थारके पल्लङ्केन निसीदि. तदा पन देवो थोकं थोकं फुसायति, न सम्मा धारं अनुप्पवेच्छति. अथ थेरो लोकस्स अवुट्ठिकभयं विसमितुकामो अत्तनो अज्झत्तिकबाहिरवत्थुकस्स परिस्सयस्स अभावं पवेदेन्तो –

१. ‘‘छन्ना मे कुटिका सुखा निवाता, वस्स देव यथासुखं;

चित्तं मे सुसमाहितं विमुत्तं, आतापी विहरामि वस्स देवा’’ति. –

गाथमाह.

तत्थ छन्न-सद्दो ताव ‘‘छन्ना सा कुमारिका इमस्स कुमारकस्स’’ (पारा. २९६) ‘‘नच्छन्नं नप्पतिरूप’’न्तिआदीसु (पारा. ३८३) पतिरूपे आगतो. ‘‘छन्नं त्वेव, फग्गुण, फस्सायतनान’’न्तिआदीसु वचनविसिट्ठे सङ्ख्याविसेसे. ‘‘छन्नमतिवस्सति, विवटं नातिवस्सती’’तिआदीसु (उदा. ४५; चूळव. ३८५) गहणे. ‘‘क्याहं ते नच्छन्नोपि करिस्सामी’’तिआदीसु निवासनपारुपने ‘‘आयस्मा छन्नो अनाचारं आचरती’’तिआदीसु (पारा. ४२४) पञ्ञत्तियं. ‘‘सब्बच्छन्नं सब्बपरिच्छन्नं (पाचि. ५२, ५४), छन्ना कुटि आहितो गिनी’’ति (सु. नि. १८) च आदीसु तिणादीहि छादने. इधापि तिणादीहि छादनेयेव दट्ठब्बो, तस्मा तिणेन वा पण्णेन वा छन्ना यथा न वस्सति वस्सोदकपतनं न होति न ओवस्सति, एवं सम्मदेव छादिताति अत्थो.

मे-सद्दो ‘‘किच्छेन मे अधिगतं, हलं दानि पकासितु’’न्तिआदीसु (महाव. ८; दी. नि. २.६५; म. नि. १.२८१; २.३३७; सं. नि. १.१७२) करणे आगतो, मयाति अत्थो. ‘‘तस्स मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ३.१८२; अ. नि. ४.२५७) सम्पदाने, मय्हन्ति अत्थो. ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो’’आदीसु (म. नि. १.२०६; सं. नि. ४.१४) सामिअत्थे आगतो. इधापि सामिअत्थे एव दट्ठब्बो, ममाति अत्थो. किञ्चापि खीणासवानं ममायितब्बं नाम किञ्चि नत्थि लोकधम्मेहि अनुपलित्तभावतो, लोकसमञ्ञावसेन पन तेसम्पि ‘‘अहं ममा’’ति वोहारमत्तं होति. तेनाह भगवा – ‘‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति (म. नि. १.२९).

कुटिकाति पन मातुकुच्छिपि करजकायोपि तिणादिच्छदनो पतिस्सयोपि वुच्चति. तथा हि –

‘‘मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावकं;

पुत्ते सन्तानके ब्रूसि, तण्हा मे ब्रूसि बन्धन’’न्ति. (सं. नि. १.१९) –

आदीसु मातुकुच्छि ‘‘कुटिका’’ति वुत्ता.

‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;

धिरत्थु पूरे दुग्गन्धे, परगत्ते ममायसी’’ति. (थेरगा. ११५३) –

आदीसु केसादिसमूहभूतो करजकायो. ‘‘कस्सपस्स भगवतो भगिनि कुटि ओवस्सति’’ (म. नि. २.२९१) ‘‘कुटि नाम उल्लित्ता वा होति अवलित्ता वा’’तिआदीसु (पारा. ३४९) तिणछदनपतिस्सयो. इधापि सो एव वेदितब्बो पण्णसालाय अधिप्पेतत्ता. कुटि एव हि कुटिका, अपाकटकुटि ‘‘कुटिका’’ति वुत्ता.

सुख-सद्दो पन ‘‘विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्स’’न्तिआदीसु (सु. नि. ६७) सुखवेदनायं आगतो. ‘‘सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना’’तिआदीसु (ध. प. १९४) सुखमूले. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२; इतिवु. २२) सुखहेतुम्हि. ‘‘यस्मा च, खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे, ‘‘दिट्ठधम्मसुखविहारा एते, चुन्द, अरियस्स विनये’’तिआदीसु (म. नि. १.८२) अब्यापज्जे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (म. नि. २.२१५; ध. प. २०३-२०४) निब्बाने. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म. नि. ३.२२५) सुखप्पच्चयट्ठाने. ‘‘सोवग्गिकं सुखविपाकं सग्गसंवत्तनिक’’न्तिआदीसु (दी. नि. १.१६३; सं. नि. १.१३०) इट्ठे, पियमनापेति अत्थो. इधापि इट्ठे सुखप्पच्चये वा दट्ठब्बो. सा हि कुटि अन्तो बहि च मनापभावेन सम्पादिता निवासनफासुताय ‘‘सुखा’’ति वुत्ता. तथा नातिसीतनातिउण्हताय उतुसुखसम्पत्तियोगेन कायिकचेतसिकसुखस्स पच्चयभावतो.

निवाताति अवाता, फुसितग्गळपिहितवातपानत्ता वातपरिस्सयरहिताति अत्थो. इदं तस्सा कुटिका सुखभावविभावनं. सवाते हि सेनासने उतुसप्पायो न लब्भति, निवाते सो लब्भतीति. वस्साति पवस्स सम्मा धारं अनुप्पवेच्छ. देवाति अयं देव-सद्दो ‘‘इमानि ते, देव, चतुरासीति नगरसहस्सानि कुसवतीराजधानिप्पमुखानि, एत्थ, देव, छन्दं जनेहि जीविते अपेक्ख’’न्तिआदीसु (दी. नि. २.२६६) सम्मुतिदेवे खत्तिये आगतो. ‘‘चातुमहाराजिका देवा वण्णवन्तो सुखबहुला’’तिआदीसु (दी. नि. ३.३३७) उपपत्तिदेवेसु. ‘‘तस्स देवातिदेवस्स, सासनं सब्बदस्सिनो’’तिआदीसु विसुद्धिदेवेसु. विसुद्धिदेवानञ्हि भगवतो अतिदेवभावे वुत्ते इतरेसं वुत्तो एव होति. ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु (म. नि. १.४८६; सं. नि. १.११०; इतिवु. २७) आकासे. ‘‘देवो च कालेन कालं न सम्मा धारं अनुप्पवेच्छती’’तिआदीसु (अ. नि. ४.७०) मेघे पज्जुन्ने वा. इधापि मेघे पज्जुन्ने वा दट्ठब्बो. वस्साति हि ते आणापेन्तो थेरो आलपति. यथासुखन्ति यथारुचिं. तव वस्सनेन मय्हं बाहिरो परिस्सयो नत्थि, तस्मा यथाकामं वस्साति वस्सूपजीविसत्ते अनुग्गण्हन्तो वदति.

इदानि अब्भन्तरे परिस्सयाभावं दस्सेन्तो ‘‘चित्त’’न्तिआदिमाह. तत्थ चित्तं मे सुसमाहितन्ति मम चित्तं सुट्ठु अतिविय सम्मा सम्मदेव एकग्गभावेन आरम्मणे ठपितं. तञ्च खो न नीवरणादिविक्खम्भनमत्तेन; अपि च खो विमुत्तं ओरम्भागियउद्धंभागियसङ्गहेहि सब्बसंयोजनेहि सब्बकिलेसधम्मतो च विसेसेन विमुत्तं, समुच्छेदप्पहानवसेन पटिपस्सद्धिप्पहानवसेन ते पजहित्वा ठितन्ति अत्थो. आतापीति वीरियवा. फलसमापत्तिअत्थं विपस्सनारम्भवसेन दिट्ठधम्मसुखविहारत्थञ्च आरद्धवीरियो हुत्वा विहरामि, दिब्बविहारादीहि अत्तभावं पवत्तेमि, न पन किलेसप्पहानत्थं, पहातब्बस्सेव अभावतोति अधिप्पायो. ‘‘यथा पन बाहिरपरिस्सयाभावेन, देव, मया त्वं वस्सने नियोजितो, एवं अब्भन्तरपरिस्सयाभावेनपी’’ति दस्सेन्तो पुनपि ‘‘वस्स, देवा’’ति आह.

अपरो नयो छन्नाति छादिता पिहिता. कुटिकाति अत्तभावो. सो हि ‘‘अनेकावयवस्स समुदायस्स अविज्जानीवरणस्स, भिक्खवे, पुग्गलस्स तण्हासंयुत्तस्स अयञ्चेव कायो समुदागतो, बहिद्धा च नामरूप’’न्तिआदीसु (सं. नि. २.१९) कायोति आगतो. ‘‘सिञ्च, भिक्खु, इमं नावं, सित्ता ते लहुमेस्सती’’तिआदीसु (ध. प. ६६) नावाति आगतो. ‘‘गहकारक दिट्ठोसि, गहकूटं विसङ्खत’’न्ति (ध. प. १५४) च आदीसु गहन्ति आगतो. ‘‘सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो’’तिआदीसु (सु. नि. ७७८) गुहाति आगतो. ‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो’’तिआदीसु (उदा. ६५) रथोति आगतो. ‘‘पुन गेहं न काहसी’’तिआदीसु (ध. प. १५४) गेहन्ति आगतो. ‘‘विवटा कुटि निब्बुतो गिनी’’तिआदीसु (सु. नि. १९) कुटीति आगतो. तस्मा इधापि सो ‘‘कुटिका’’ति वुत्तो. अत्तभावो हि कट्ठादीनि पटिच्च लब्भमाना गेहनामिका कुटिका विय अट्ठिआदिसञ्ञिते पथवीधातुआदिके फस्सादिके च पटिच्च लब्भमानो ‘‘कुटिका’’ति वुत्तो, चित्तमक्कटस्स निवासभावतो च. यथाह –

‘‘अट्ठिकङ्कलकुटिवेसा, मक्कटावसथो इति;

मक्कटो पञ्चद्वाराय, कुटिकाय पसक्किय;

द्वारेनानुपरियाति, घट्टयन्तो पुनप्पुन’’न्ति च.

सा पनेसा अत्तभावकुटिका थेरस्स तिण्णं छन्नं अट्ठन्नञ्च असंवरद्वारानं वसेन समति विज्झनकस्स रागादिअवस्सुतस्स पञ्ञाय संवुतत्ता सम्मदेव पिहितत्ता ‘‘छन्ना’’ति वुत्ता. तेनाह भगवा – ‘‘सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति (सु. नि. १०४१). वुत्तनयेन छन्नत्ता एव किलेसदुक्खाभावतो निरामिससुखसमङ्गिताय च सुखा सुखप्पत्ता, ततो एव च निवाता निहतमानमदथम्भसारम्भताय निवातवुत्तिका. अयञ्च नयो ‘‘मय्हं न संकिलेसधम्मानं संवरणमत्तेन सिद्धो, अथ खो अग्गमग्गसमाधिना सुट्ठु समाहितचित्तताय चेव अग्गमग्गपञ्ञाय सब्बसंयोजनेहि विप्पमुत्तचित्तताय चा’’ति दस्सेन्तो आह ‘‘चित्तं मे सुसमाहितं विमुत्त’’न्ति. एवंभूतो च ‘‘इदानाहं कतकरणीयो’’ति न अप्पोस्सुक्को होमि, अथ खो आतापी विहरामि, सदेवकस्स लोकस्स हितसुखूपसंहारे उस्साहजातो भिक्खाचारकालेपि अनुघरं ब्रह्मविहारेनेव विहरामि. तस्मा त्वम्पि, देव, पज्जुन्न मय्हं पियं कातुकामतायपि वस्सूपजीवीनं सत्तानं अनुकम्पायपि वस्स सम्मा धारं अनुप्पवेच्छाति एवमेत्थ अत्थो दट्ठब्बो.

एत्थ च थेरो ‘‘छन्ना मे कुटिका सुखा निवाता’’ति इमिना लोकियलोकुत्तरभेदं अत्तनो अधिसीलसिक्खं दस्सेति. ‘‘चित्तं मे सुसमाहित’’न्ति इमिना अधिचित्तसिक्खं. ‘‘विमुत्त’’न्ति इमिना अधिपञ्ञासिक्खं. ‘‘आतापी विहरामी’’ति इमिना दिट्ठधम्मसुखविहारं. अथ वा ‘‘छन्ना मे कुटिका सुखा निवाता’’ति इमिना अनिमित्तविहारं दस्सेति किलेसवस्सपिधानमुखेन निच्चादिनिमित्तुग्घाटनदीपनतो. ‘‘चित्तं मे सुसमाहित’’न्ति इमिना अप्पणिहितविहारं. ‘‘विमुत्त’’न्ति इमिना सुञ्ञतविहारं. ‘‘आतापी विहरामी’’ति इमिना तेसं तिण्णं विहारानं अधिगमूपायं. पठमेन वा दोसप्पहानं, दुतियेन रागप्पहानं, ततियेन मोहप्पहानं. तथा दुतियेन पठमदुतियेहि वा धम्मविहारसम्पत्तियो दस्सेति. ततियेन विमुत्तिसम्पत्तियो. ‘‘आतापी विहरामी’’ति इमिना परहितपटिपत्तियं अतन्दितभावं दस्सेतीति दट्ठब्बं.

एवं ‘‘यथानामा’’ति गाथाय वुत्तानं धम्मविहारादीनं इमाय गाथाय दस्सितत्ता तत्थ अदस्सितेसु नामगोत्तेसु नामं दस्सेतुं ‘‘इत्थं सुद’’न्तिआदि वुत्तं. ये हि थेरा नाममत्तेन पाकटा, ते नामेन, ये गोत्तमत्तेन पाकटा, ते गोत्तेन, ये उभयथा पाकटा, ते उभयेनपि दस्सिस्स’’न्ति. अयं पन थेरो नामेन अभिलक्खितो, न तथा गोत्तेनाति ‘‘इत्थं सुदं आयस्मा सुभूती’’ति वुत्तं. तत्थ इत्थन्ति इदं पकारं, इमिना आकारेनाति अत्थो. सुदन्ति सु इदं, सन्धिवसेन इकारलोपो. सूति च निपातमत्तं, इदं गाथन्ति योजना. आयस्माति पियवचनमेतं गरुगारवसप्पतिस्सवचनमेतं. सुभूतीति नामकित्तनं. सो हि सरीरसम्पत्तियापि दस्सनीयो पासादिको, गुणसम्पत्तियापि. इति सुन्दराय सरीरावयवविभूतिया सीलसम्पत्तियादिविभूतिया च समन्नागतत्ता सुभूतीति पञ्ञायित्थ सीलसारादिथिरगुणयोगतो थेरो. अभासित्थाति कथेसि. कस्मा पनेते महाथेरा अत्तनो गुणे पकासेन्तीति? इमिना दीघेन अद्धुना अनधिगतपुब्बं परमगम्भीरं अतिविय सन्तं पणीतं अत्तना अधिगतं लोकुत्तरधम्मं पच्चवेक्खित्वा पीतिवेगसमुस्साहितउदानवसेन सासनस्स निय्यानिकभावविभावनवसेन च परमप्पिच्छा अरिया अत्तनो गुणे पकासेन्ति, यथा तं लोकनाथो बोधनेय्यअज्झासयवसेन ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतुवेसारज्जविसारदो’’तिआदिना अत्तनो गुणे पकासेति, एवमयं थेरस्स अञ्ञाब्याकरणगाथा होतीति.

परमत्थदीपनिया थेरगाथासंवण्णनाय

सुभूतित्थेरगाथावण्णना निट्ठिता.

२. महाकोट्ठिकत्थेरगाथावण्णना

उपसन्तोति आयस्मतो महाकोट्ठिकत्थेरस्स गाथा. तस्स का उप्पत्ति? अयम्पि थेरो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो मातापितूनं अच्चयेन कुटुम्बं सण्ठपेत्वा घरावासं वसन्तो एकदिवसं पदुमुत्तरस्स भगवतो धम्मदेसनाकाले हंसवतीनगरवासिके गन्धमालादिहत्थे येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा महाजनेन सद्धिं उपगतो सत्थारं एकं भिक्खुं पटिसम्भिदापत्तानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘अयं किर इमस्मिं सासने पटिसम्भिदापत्तानं अग्गो, अहो वताहम्पि एकस्स बुद्धस्स सासने अयं विय पटिसम्भिदापत्तानं अग्गो भवेय्य’’न्ति चिन्तेत्वा सत्थु देसनापरियोसाने वुट्ठिताय परिसाय भगवन्तं उपसङ्कमित्वा, ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति निमन्तेसि. सत्था अधिवासेसि. सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धस्स भिक्खुसङ्घस्स च निसज्जट्ठानं गन्धदाममालादामादीहि अलङ्करित्वा पणीतं खादनीयं भोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्चयेन सके निवेसने भिक्खुसतसहस्सपरिवारं भगवन्तं विविधयागुखज्जकपरिवारं नानारससूपब्यञ्जनं गन्धसालिभोजनं भोजेत्वा भत्तकिच्चपरियोसाने चिन्तेसि – ‘‘महन्तं, खो, अहं ठानन्तरं पत्थेमि न खो पन मय्हं युत्तं एकदिवसमेव दानं दत्वा तं ठानन्तरं पत्थेतुं, अनुपटिपाटिया सत्त दिवसे दानं दत्वा पत्थेस्सामी’’ति. सो तेनेव नियामेन सत्त दिवसे महादानानि दत्वा भत्तकिच्चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमं तिचीवरप्पहोनकं सुखुमवत्थं बुद्धस्स पादमूले ठपेत्वा भिक्खुसतसहस्सस्स च तिचीवरं दत्वा तथागतं उपसङ्कमित्वा, ‘‘भन्ते, यो सो भिक्खु तुम्हेहि इतो सत्तमदिवसमत्थके एतदग्गे ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्जनकबुद्धस्स सासने पब्बजित्वा पटिसम्भिदापत्तानं अग्गो भवेय्य’’न्ति वत्वा सत्थु पादमूले निपज्जित्वा पत्थनं अकासि. सत्था तस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते इतो कप्पसतसहस्समत्थके गोतमो नाम बुद्धो लोके उप्पज्जिस्सति, तस्स सासने तव पत्थना समिज्झिस्सती’’ति ब्याकासि. वुत्तम्पि चेतं अपदाने (अप. थेर २.५४.२२१-२५०) –

‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;