३. कङ्खारेवतत्थेरगाथावण्णना

पञ्ञं इमं पस्साति आयस्मतो कङ्खारेवतस्स गाथा. का उप्पत्ति? अयम्पि थेरो पदुमुत्तरभगवतो काले हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तो. एकदिवसं बुद्धानं धम्मदेसनाकाले हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं झानाभिरतानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति चिन्तेत्वा देसनावसाने सत्थारं निमन्तेत्वा हेट्ठा वुत्तनयेन महासक्कारं कत्वा भगवन्तं आह – ‘‘भन्ते, अहं इमिना अधिकारकम्मेन अञ्ञं सम्पत्तिं न पत्थेमि, यथा पन सो भिक्खु तुम्हेहि इतो सत्तमदिवसमत्थके झायीनं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने झायीनं अग्गो भवेय्य’’न्ति पत्थनमकासि. सत्था अनागतं ओलोकेत्वा निप्फज्जनभावं दिस्वा ‘‘अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने त्वं झायीनं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्कामि.

सो यावजीवं कल्याणकम्मं कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले सावत्थिनगरे महाभोगकुले निब्बत्तो पच्छाभत्तं धम्मस्सवनत्थं गच्छन्तेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो दसबलस्स धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदं लभित्वा कम्मट्ठानं कथापेत्वा झानपरिकम्मं करोन्तो झानलाभी हुत्वा झानं पादकं कत्वा अरहत्तं पापुणि. सो येभुय्येन दसबलेन समापज्जितब्बसमापत्तिं समापज्जन्तो अहोरत्तं झानेसु चिण्णवसी अहोसि. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.१९८, २०४) झायीनं अग्गट्ठाने ठपेसि. वुत्तम्पि चेतं अपदाने (अप. थेर २.५५.३४-५३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘सीहहनु ब्रह्मगिरो, हंसदुन्दुभिनिस्सनो;

नागविक्कन्तगमनो, चन्दसूराधिकप्पभो.

‘‘महामति महावीरो, महाझायी महाबलो;

महाकारुणिको नाथो, महातमपनूदनो.

‘‘स कदाचि तिलोकग्गो, वेनेय्यं विनयं बहुं;

धम्मं देसेसि सम्बुद्धो, सत्तासयविदू मुनि.

‘‘झायिं झानरतं वीरं, उपसन्तं अनाविलं;

वण्णयन्तो परिसतिं, तोसेसि जनतं जिनो.

‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;

धम्मं सुत्वान मुदितो, तं ठानमभिपत्थयिं.

‘‘तदा जिनो वियाकासि, सङ्घमज्झे विनायको;

मुदितो होहि त्वं ब्रह्मे, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

रेवतो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातोहं कोलिये पुरे;

खत्तिये कुलसम्पन्ने, इद्धे फीते महद्धने.

‘‘यदा कपिलवत्थुस्मिं, बुद्धो धम्ममदेसयि;

तदा पसन्नो सुगते, पब्बजिं अनगारियं.

‘‘कङ्खा मे बहुला आसि, कप्पाकप्पे तहिं तहिं;

सब्बं तं विनयी बुद्धो, देसेत्वा धम्ममुत्तमं.

‘‘ततोहं तिण्णसंसारो, तदा झानसुखे रतो;

विहरामि तदा बुद्धो, मं दिस्वा एतदब्रवि.

‘‘या काचि कङ्खा इध वा हुरं वा, सवेदिया वा परवेदिया वा;

ये झायिनो ता पजहन्ति सब्बा, आतापिनो ब्रह्मचरियं चरन्ता.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘ततो झानरत्तं दिस्वा, बुद्धो लोकन्तगू मुनि;

झायीनं भिक्खूनं अग्गो, पञ्ञापेसि महामति.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

तथा कतकिच्चो पनायं महाथेरो पुब्बे दीघरत्तं अत्तनो कङ्खापकतचित्ततं इदानि सब्बसो विगतकङ्खतञ्च पच्चवेक्खित्वा ‘‘अहो नून मय्हं सत्थुनो देसनानुभावो, तेनेतरहि एवं विगतकङ्खो अज्झत्तं वूपसन्तचित्तो जातो’’ति सञ्जातबहुमानो भगवतो पञ्ञं पसंसन्तो ‘‘पञ्ञं इमं पस्सा’’ति इमं गाथमाह.

३. तत्थ पञ्ञन्ति पकारे जानाति, पकारेहि ञापेतीति च पञ्ञा. वेनेय्यानं आसयानुसयचरियाधिमुत्तिआदिप्पकारे धम्मानं कुसलादिके खन्धादिके च देसेतब्बप्पकारे जानाति, यथासभावतो पटिविज्झति, तेहि च पकारेहि ञापेतीति अत्थो. सत्थु देसनाञाणञ्हि इधाधिप्पेतं, तेनाह ‘‘इम’’न्ति. तञ्हि अत्तनि सिद्धेन देसनाबलेन नयग्गाहतो पच्चक्खं विय उपट्ठितं गहेत्वा ‘‘इम’’न्ति वुत्तं. यदग्गेन वा सत्थु देसनाञाणं सावकेहि नयतो गय्हति, तदग्गेन अत्तनो विसये पटिवेधञाणम्पि नयतो गय्हतेव. तेनाह आयस्मा धम्मसेनापति – ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६; ३.१४३). पस्साति विम्हयप्पत्तो अनियमतो आलपति अत्तनोयेव वा चित्तं, यथाह भगवा उदानेन्तो – ‘‘लोकमिमं पस्स; पुथू अविज्जाय परेतं भूतं भूतरतं भवा अपरिमुत्त’’न्ति (उदा. ३०). तथागतानन्ति तथा आगमनादिअत्थेन तथागतानं. तथा आगतोति हि तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति एवं अट्ठहि कारणेहि भगवा तथागतो. तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथलक्खणं गतोति तथागतो, तथानि आगतोति तथागतो, तथाविधोति तथागतो, तथा पवत्तितोति तथागतो, तथेहि आगतोति तथागतो, तथा गतभावेन तथागतोति एवम्पि अट्ठहि कारणेहि भगवा तथागतोति अयमेत्थ सङ्खेपो. वित्थारो पन परमत्थदीपनिया उदानट्ठकथाय (उदा. अट्ठ. १८) इतिवुत्तकट्ठकथाय (इतिवु. अट्ठ. ३८) च वुत्तनयेनेव वेदितब्बो.

इदानि तस्सा पञ्ञाय असाधारणविसेसं दस्सेतुं ‘‘अग्गि यथा’’तिआदि वुत्तं. यथा अग्गीति उपमावचनं. यथाति तस्स उपमाभावदस्सनं. पज्जलितोति उपमेय्येन सम्बन्धदस्सनं. निसीथेति किच्चकरणकालदस्सनं. अयञ्हेत्थ अत्थो – यथा नाम निसीथे रत्तियं चतुरङ्गसमन्नागते अन्धकारे वत्तमाने उन्नते ठाने पज्जलितो अग्गि तस्मिं पदेसे तयगतं विधमन्तं तिट्ठति, एवमेव तथागतानं इमं देसनाञाणसङ्खातं सब्बसो वेनेय्यानं संसयतमं विधमन्तं पञ्ञं पस्साति. यतो देसनाविलासेन सत्तानं ञाणमयं आलोकं देन्तीति आलोकदा. पञ्ञामयमेव चक्खुं ददन्तीति चक्खुददा. तदुभयम्पि कङ्खाविनयपदट्ठानमेव कत्वा दस्सेन्तो ‘‘ये आगतानं विनयन्ति कङ्ख’’न्ति आह, ये तथागता अत्तनो सन्तिकं आगतानं उपगतानं वेनेय्यानं ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्तं (म. नि. १.१८; सं. नि. २.२०) सोळसवत्थुकं, ‘‘बुद्धे कङ्खति धम्मे कङ्खती’’तिआदिनयप्पवत्तं (ध. स. १००८) अट्ठवत्थुकञ्च कङ्खं विचिकिच्छं विनयन्ति देसनानुभावेन अनवसेसतो विधमन्ति विद्धंसेन्ति. विनयकुक्कुच्चसङ्खाता पन कङ्खा तब्बिनयेनेव विनीता होन्तीति.

अपरो नयो – यथा अग्गि निसीथे रत्तिभागे पज्जलितो पटुतरजालो समुज्जलं उच्चासने ठितानं ओभासदानमत्तेन अन्धकारं विधमित्वा समविसमं विभावेन्तो आलोकददो होति. अच्चासन्ने पन ठितानं तं सुपाकटं करोन्तो चक्खुकिच्चकरणतो चक्खुददो नाम होति, एवमेव तथागतो अत्तनो धम्मकायस्स दूरे ठितानं अकताधिकारानं पञ्ञापज्जोतेन मोहन्धकारं विधमित्वा कायविसमादिसमविसमं विभावेन्तो आलोकदा भवन्ति, आसन्ने ठितानं पन कताधिकारानं धम्मचक्खुं उप्पादेन्तो चक्खुददा भवन्ति. ये एवंभूता अत्तनो वचीगोचरं आगतानं मादिसानम्पि कङ्खाबहुलानं कङ्खं विनयन्ति अरियमग्गसमुप्पादनेन विधमन्ति, तेसं तथागतानं पञ्ञं ञाणातिसयं पस्साति योजना. एवमयं थेरस्स अत्तनो कङ्खावितरणप्पकासनेन अञ्ञाब्याकरणगाथापि होति. अयञ्हि थेरो पुथुज्जनकाले कप्पियेपि कुक्कुच्चको हुत्वा कङ्खाबहुलताय ‘‘कङ्खारेवतो’’ति पञ्ञातो, पच्छा खीणासवकालेपि तथेव वोहरयित्थ. तेनाह – ‘‘इत्थं सुदं आयस्मा कङ्खारेवतो गाथं अभासित्था’’ति. तं वुत्तत्थमेव.

कङ्खारेवतत्थेरगाथावण्णना निट्ठिता.