५. माघसुत्तवण्णना

एवं मे सुतन्ति माघसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अयञ्हि माघो माणवो दायको अहोसि दानपति. तस्सेतदहोसि – ‘‘सम्पत्तकपणद्धिकादीनं दानं दिन्नं महप्फलं होति, उदाहु नोति समणं गोतमं एतमत्थं पुच्छिस्सामि, समणो किर गोतमो अतीतानागतपच्चुप्पन्नं जानाती’’ति. सो भगवन्तं उपसङ्कमित्वा पुच्छि. भगवा चस्स पुच्छानुरूपं ब्याकासि. तयिदं सङ्गीतिकारानं ब्राह्मणस्स भगवतोति तिण्णम्पि वचनं समोधानेत्वा ‘‘माघसुत्त’’न्ति वुच्चति.

तत्थ राजगहेति एवंनामके नगरे. तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. अञ्ञेपेत्थ पकारे वण्णयन्ति. किं तेहि, नाममेतं तस्स नगरस्स? तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति. एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह – ‘‘गिज्झकूटे पब्बते’’ति. सो च गिज्झा तस्स कूटेसु वसिंसु, गिज्झसदिसानि वास्स कूटानि, तस्मा ‘‘गिज्झकूटो’’ति वुच्चतीति वेदितब्बो.

अथ खो…पे… अवोचाति एत्थ माघोति तस्स ब्राह्मणस्स नामं. माणवोति अन्तेवासिवासं अनतीतभावेन वुच्चति, जातिया पन महल्लको. ‘‘पुब्बाचिण्णवसेना’’ति एके पिङ्गियो माणवो विय. सो हि वीसवस्ससतिकोपि पुब्बाचिण्णवसेन ‘‘पिङ्गियो माणवो’’ त्वेव सङ्खं अगमासि. सेसं वुत्तनयमेव.

अहञ्हि, भो गोतम…पे… पसवामीति एत्थ दायको दानपतीति दायको चेव दानपति च. यो हि अञ्ञस्स सन्तकं तेनाणत्तो देति, सोपि दायको होति, तस्मिं पन दाने इस्सरियाभावतो न दानपति. अयं पन अत्तनो सन्तकंयेव देति. तेनाह – ‘‘अहञ्हि, भो गोतम, दायको दानपती’’ति. अयमेव हि एत्थ अत्थो, अञ्ञत्र पन अन्तरन्तरा मच्छेरेन अभिभुय्यमानो दायको अनभिभूतो दानपतीतिआदिनापि नयेन वत्तुं वट्टति. वदञ्ञूति याचकानं वचनं जानामि वुत्तमत्तेयेव ‘‘अयमिदमरहति अयमिद’’न्ति पुरिसविसेसावधारणेन बहूपकारभावगहणेन वा. याचयोगोति याचितुं युत्तो. यो हि याचके दिस्वाव भकुटिं कत्वा फरुसवचनादीनि भणति, सो न याचयोगो होति. अहं पन न तादिसोति दीपेति. धम्मेनाति अदिन्नादाननिकतिवञ्चनादीनि वज्जेत्वा भिक्खाचरियाय, याचनायाति अत्थो. याचना हि ब्राह्मणानं भोगपरियेसने धम्मो, याचमानानञ्च नेसं परेहि अनुग्गहकामेहि दिन्ना भोगा धम्मलद्धा नाम धम्माधिगता च होन्ति, सो च तथा परियेसित्वा लभि. तेनाह – ‘‘धम्मेन भोगे परियेसामि…पे… धम्माधिगतेही’’ति. भिय्योपि ददामीति ततो उत्तरिपि ददामि, पमाणं नत्थि, एत्थ लद्धभोगप्पमाणेन ददामीति दस्सेति.

तग्घाति एकंसवचने निपातो. एकंसेनेव हि सब्बबुद्धपच्चेकबुद्धसावकेहि पसत्थं दानं अन्तमसो तिरच्छानगतानम्पि दीयमानं. वुत्तञ्चेतं ‘‘सब्बत्थ वण्णितं दानं, न दानं गरहितं क्वची’’ति. तस्मा भगवापि एकंसेनेव तं पसंसन्तो आह – ‘‘तग्घ त्वं माणव…पे… पसवसी’’ति. सेसं उत्तानत्थमेव. एवं भगवता ‘‘बहुं सो पुञ्ञं पसवती’’ति वुत्तेपि दक्खिणेय्यतो दक्खिणाविसुद्धिं सोतुकामो ब्राह्मणो उत्तरि भगवन्तं पुच्छि. तेनाहु सङ्गीतिकारा – ‘‘अथ खो माघो माणवो भगवन्तं गाथाय अज्झभासी’’ति. तं अत्थतो वुत्तनयमेव.

४९२. पुच्छामहन्तिआदिगाथासु पन वदञ्ञुन्ति वचनविदुं, सब्बाकारेन सत्तानं वुत्तवचनाधिप्पायञ्ञुन्ति वुत्तं होति. सुज्झेति दक्खिणेय्यवसेन सुद्धं महप्फलं भवेय्य. योजना पनेत्थ – यो याचयोगो दानपति गहट्ठो पुञ्ञत्थिको हुत्वा परेसं अन्नपानं ददं यजति, न अग्गिम्हि आहुतिमत्तं पक्खिपन्तो, तञ्च खो पुञ्ञपेक्खोव न पच्चुपकारकल्याणकित्तिसद्दादिअपेक्खो, तस्स एवरूपस्स यजमानस्स हुतं कथं सुज्झेय्याति?

४९३. आराधये दक्खिणेय्येभि तादीति तादिसो याचयोगो दक्खिणेय्येहि आराधये सम्पादये सोधये, महप्फलं तं हुतं करेय्य, न अञ्ञथाति अत्थो. इमिनास्स ‘‘कथं हुतं यजमानस्स सुज्झे’’ इच्चेतं ब्याकतं होति.

४९४. अक्खाहि मे भगवा दक्खिणेय्येति एत्थ यो याचयोगो ददं परेसं यजति, तस्स मे भगवा दक्खिणेय्ये अक्खाहीति एवं योजना वेदितब्बा.

४९५. अथस्स भगवा नानप्पकारेहि नयेहि दक्खिणेय्ये पकासेन्तो ‘‘ये वे असत्ता’’तिआदिका गाथायो अभासि. तत्थ असत्ताति रागादिसङ्गवसेन अलग्गा. केवलिनोति परिनिट्ठितकिच्चा. यतत्ताति गुत्तचित्ता.

४९६-७. दन्ता अनुत्तरेन दमथेन, विमुत्ता पञ्ञाचेतोविमुत्तीहि, अनीघा आयतिं वट्टदुक्खाभावेन, निरासा सम्पति किलेसाभावेन. इमिस्सा पन गाथाय दुतियगाथा भावनानुभावप्पकासननयेन वुत्ताति वेदितब्बा. ‘‘भावनानुयोगमनुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति (अ. नि. ७.७१), अथ ख्वास्स अनुपादाय आसवेहि चित्तं विमुच्चती’’ति इदं चेत्थ सुत्तं साधकं.

४९८-५०२. रागञ्च…पे… येसु न माया…पे… न तण्हासु उपातिपन्नाति कामतण्हादीसु नाधिमुत्ता. वितरेय्याति वितरित्वा. तण्हाति रूपतण्हादिछब्बिधा. भवाभवायाति सस्सताय वा उच्छेदाय वा. अथ वा भवस्स अभवाय भवाभवाय, पुनब्भवाभिनिब्बत्तियाति वुत्तं होति. इध वा हुरं वाति इदं पन ‘‘कुहिञ्चि लोके’’ति इमस्स वित्थारवचनं.

५०४. ये वीतरागा…पे… समिताविनोति समितवन्तो, किलेसवूपसमकारिनोति अत्थो. समितावितत्ता च वीतरागा अकोपा. इध विप्पहायाति इधलोके वत्तमाने खन्धे विहाय, ततो परं येसं गमनं नत्थीति वुत्तं होति. इतो परं ‘‘ये कामे हित्वा अगहा चरन्ति, सुसञ्ञतत्ता तसरंव उज्जु’’न्ति इमम्पि गाथं केचि पठन्ति.

५०६-८. जहित्वाति हित्वा. ‘‘जहित्वाना’’तिपि पाठो, अयमेवत्थो. अत्तदीपाति अत्तनो गुणे एव अत्तनो दीपं कत्वा विचरन्ता खीणासवा वुच्चन्ति. ये हेत्थाति हकारो निपातो पदपूरणमत्ते. अयं पनत्थो – ये एत्थ खन्धायतनादिसन्ताने यथा इदं खन्धायतनादि तथा जानन्ति, यंसभावं तंसभावंयेव सञ्जानन्ति अनिच्चादिवसेन जानन्ता. अयमन्तिमा नत्थि पुनब्भवोति अयं नो अन्तिमा जाति, इदानि नत्थि पुनब्भवोति एवञ्च ये जानन्तीति.

५०९. यो वेदगूति इदानि अत्तानं सन्धाय भगवा इमं गाथमाह. तत्थ सतिमाति छसततविहारसतिया समन्नागतो. सम्बोधिपत्तोति सब्बञ्ञुतं पत्तो. सरणं बहूनन्ति बहूनं देवमनुस्सानं भयविहिंसनेन सरणभूतो.

५१०. एवं दक्खिणेय्ये सुत्वा अत्तमनो ब्राह्मणो आह – ‘‘अद्धा अमोघा’’ति. तत्थ त्वञ्हेत्थ जानासि यथा तथा इदन्ति त्वञ्हि एत्थ लोके इदं सब्बम्पि ञेय्यं यथा तथा जानासि याथावतो जानासि, यादिसं तं तादिसमेव जानासीति वुत्तं होति. तथा हि ते विदितो एस धम्मोति तथा हि ते एसा धम्मधातु सुप्पटिविद्धा, यस्सा सुप्पटिविद्धता यं यं इच्छसि, तं तं जानासीति अधिप्पायो.

५११. एवं सो ब्राह्मणो भगवन्तं पसंसित्वा दक्खिणेय्यसम्पदाय यञ्ञसम्पदं ञत्वा दायकसम्पदायपि तं छळङ्गपरिपूरं यञ्ञसम्पदं सोतुकामो ‘‘यो याचयोगो’’ति उत्तरिपञ्हं पुच्छि. तत्रायं योजना – यो याचयोगो ददं परेसं यजति, तस्स अक्खाहि मे भगवा यञ्ञसम्पदन्ति.

५१२. अथस्स भगवा द्वीहि गाथाहि अक्खासि. तत्थायं अत्थयोजना – यजस्सु माघ, यजमानो च सब्बत्थ विप्पसादेहि चित्तं, तीसुपि कालेसु चित्तं पसादेहि. एवं ते यायं –

‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;

दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा’’ति. (अ. नि. ६.३७; पे. व. ३०५) –

यञ्ञसम्पदा वुत्ता, ताय सम्पन्नो यञ्ञो भविस्सति. तत्थ सिया ‘‘कथं चित्तं पसादेतब्ब’’न्ति? दोसप्पहानेन. कथं दोसप्पहानं होति? यञ्ञारम्मणताय. अयञ्हि आरम्मणं यजमानस्स यञ्ञो एत्थ पतिट्ठाय जहाति दोसं, अयञ्हि सत्तेसु मेत्तापुब्बङ्गमेन सम्मादिट्ठिपदीपविहतमोहन्धकारेन चित्तेन यजमानस्स देय्यधम्मसङ्खातो यञ्ञो आरम्मणं होति, सो एत्थ यञ्ञे आरम्मणवसेन पवत्तिया पतिट्ठाय देय्यधम्मपच्चयं लोभं, पटिग्गाहकपच्चयं कोधं, तदुभयनिदानं मोहन्ति एवं तिविधम्पि जहाति दोसं. सो एवं भोगेसु वीतरागो, सत्तेसु च पविनेय्य दोसं तप्पहानेनेव पहीनपञ्चनीवरणो अनुक्कमेन उपचारप्पनाभेदं अपरिमाणसत्तफरणेन एकसत्ते वा अनवसेसफरणेन अप्पमाणं मेत्तं चित्तं भावेन्तो पुन भावनावेपुल्लत्थं, रत्तिन्दिवं सततं सब्बइरियापथेसु अप्पमत्तो हुत्वा तमेव मेत्तज्झानसङ्खातं सब्बा दिसा फरते अप्पमञ्ञन्ति.

५१४. अथ ब्राह्मणो तं मेत्तं ‘‘ब्रह्मलोकमग्गो अय’’न्ति अजानन्तो केवलं अत्तनो विसयातीतं मेत्ताभावनं सुत्वा सुट्ठुतरं सञ्जातसब्बञ्ञुसम्भावनो भगवति अत्तना ब्रह्मलोकाधिमुत्तत्ता ब्रह्मलोकूपपत्तिमेव च सुद्धिं मुत्तिञ्च मञ्ञमानो ब्रह्मलोकमग्गं पुच्छन्तो ‘‘को सुज्झती’’ति गाथमाह. तत्र च ब्रह्मलोकगामिं पुञ्ञं करोन्तं सन्धायाह – ‘‘को सुज्झति मुच्चती’’ति, अकरोन्तं सन्धाय ‘‘बज्झती चा’’ति. केनत्तनाति केन कारणेन. सक्खि ब्रह्मज्जदिट्ठोति ब्रह्मा अज्ज सक्खि दिट्ठो. सच्चन्ति भगवतो ब्रह्मसमत्तं आरब्भ अच्चादरेन सपथं करोति. कथं उपपज्जतीति अच्चादरेनेव पुनपि पुच्छति. जुतिमाति भगवन्तं आलपति.

तत्थ यस्मा यो भिक्खु मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा तमेव पादकं कत्वा विपस्सन्तो अरहत्तं पापुणाति, सो सुज्झति मुच्चति च, तथारूपो च ब्रह्मलोकं न गच्छति. यो पन मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा ‘‘सन्ता एसा समापत्ती’’तिआदिना नयेन तं अस्सादेति, सो बज्झति. अपरिहीनज्झानो च तेनेव झानेन ब्रह्मलोकं गच्छति, तस्मा भगवा यो सुज्झति मुच्चति च, तस्स ब्रह्मलोकगमनं अननुजानन्तो अनामसित्वाव तं पुग्गलं यो बज्झति. तस्स तेन झानेन ब्रह्मलोकगमनं दस्सेन्तो ब्राह्मणस्स सप्पायेन नयेन ‘‘यो यजती’’ति इमं गाथमाह.

५१५. तत्थ तिविधन्ति तिकालप्पसादं सन्धायाह. तेन दायकतो अङ्गत्तयं दस्सेति. आराधये दक्खिणेय्येभि तादीति तञ्च सो तादिसो तिविधसम्पत्तिसाधको पुग्गलो तिविधं यञ्ञसम्पदं दक्खिणेय्येहि खीणासवेहि साधेय्य सम्पादेय्य. इमिना पटिग्गाहकतो अङ्गत्तयं दस्सेति. एवं यजित्वा सम्मा याचयोगोति एवं मेत्तज्झानपदट्ठानभावेन छळङ्गसमन्नागतं यञ्ञं सम्मा यजित्वा सो याचयोगो तेन छळङ्गयञ्ञूपनिस्सयेन मेत्तज्झानेन उपपज्जति ब्रह्मलोकन्ति ब्रूमीति ब्राह्मणं समुस्साहेन्तो देसनं समापेसि. सेसं सब्बगाथासु उत्तानत्थमेव. इतो परञ्च पुब्बे वुत्तनयमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय माघसुत्तवण्णना निट्ठिता.