८. हेमकमाणवसुत्तनिद्देसवण्णना
५३. अट्ठमे हेमकसुत्ते – ये मे पुब्बे वियाकंसूति ये बावरिआदयो पुब्बे मय्हं सकं लद्धिं वियाकंसु. हुरं गोतमसासनाति गोतमसासनतो पुब्बतरं. सब्बं तं तक्कवड्ढनन्ति सब्बं तं कामवितक्कादिवड्ढनं.
ये चञ्ञे तस्स आचरियाति ये च अञ्ञे तस्स बावरियस्स आचारे सिक्खापका आचरिया. ते सकं दिट्ठिन्ति ते आचरिया अत्तनो दिट्ठिं. सकं खन्तिन्ति अत्तनो खमनं. सकं रुचिन्ति अत्तनो रोचनं. वितक्कवड्ढनन्ति कामवितक्कादिवितक्कानं उप्पादनं पुनप्पुनं पवत्तनं. सङ्कप्पवड्ढनन्ति कामसङ्कप्पादीनं वड्ढनं. इमानि द्वे पदानि सब्बसङ्गाहिकवसेन वुत्तानि. इदानि कामवितक्कादिके सरूपतो दस्सेतुं ‘‘कामवितक्कवड्ढन’’न्तिआदिना नयेन नववितक्के दस्सेसि.
५४. तण्हानिग्घातनन्ति तण्हाविनासनं.
५५-६. अथस्स भगवा तं धम्मं आचिक्खन्तो ‘‘इधा’’ति गाथाद्वयमाह. तत्थ एतदञ्ञाय ये सताति एतं निब्बानं पदमच्चुतं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७; थेरगा. ६७६; कथा. ७५३) नयेन विपस्सन्ता अनुपुब्बेन जानित्वा ये कायानुपस्सनासतिआदीहि सता. दिट्ठधम्माभिनिब्बुताति विदितधम्मत्ता दिट्ठधम्मा च रागादिनिब्बानेन च अभिनिब्बुता. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इदम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि, देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय चूळनिद्देस-अट्ठकथाय
हेमकमाणवसुत्तनिद्देसवण्णना निट्ठिता.