१७. पारायनत्थुतिगाथानिद्देसवण्णना

९३. इतो परं सङ्गीतिकारा देसनं थोमेन्ता ‘‘इदमवोच भगवा’’तिआदिमाहंसु. तत्थ इदमवोचाति इदं पारायनं अवोच. परिचारकसोळसानन्ति बावरिस्स परिचारकेन पिङ्गियेन सह सोळसानं, बुद्धस्स वा भगवतो परिचारकानं सोळसानन्ति परिचारकसोळसानं. ते एव च ब्राह्मणा तत्थ सोळससु दिसासु पुरतो च पच्छतो च वामपस्सतो च दक्खिणपस्सतो च छ छ योजना निसिन्ना उजुकेन द्वादसयोजनिका अहोसि. अज्झिट्ठोति याचितो.

९४-९७. अत्थमञ्ञायाति पाळिअत्थमञ्ञाय. धम्ममञ्ञायाति पाळिमञ्ञाय. पारायनन्ति एवं इमस्स धम्मपरियायस्स अधिवचनं आरोपेत्वा तेसं ब्राह्मणानं नामानि कित्तयन्तो ‘‘अजितो…पे… बुद्धसेट्ठमुपागमु’’न्ति आहंसु. तत्थ सम्पन्नचरणन्ति निब्बानपदट्ठानभूतेन पातिमोक्खसीलादिना सम्पन्नं. इसिन्ति महेसिं.

निद्देसे उपागमिंसूति समीपं गमिंसु. उपसङ्कमिंसूति अविदूरट्ठानं गमिंसु. पयिरुपासिंसूति समीपे निसीदिंसु. परिपुच्छिंसूति परिपुच्छं आहरिंसु. परिगण्हिंसूति तुलयिंसु. ‘‘चोदयिंसू’’ति केचि.

सीलाचारनिब्बत्तीति उत्तमसीलाचारनिब्बत्ति, मग्गेन निप्फन्नसीलन्ति अत्थो.

गम्भीरेति उत्तानभावपटिक्खेपवचनं. दुद्दसेति गम्भीरत्ता दुद्दसे, दुक्खेन दट्ठब्बे, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधे, दुक्खेन अवबुज्झितब्बे, न सक्का सुखेन अवबुज्झितुं. सन्तेति निब्बुते. पणीतेति अतप्पके. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरेति तक्केन न अवचरितब्बे न ओगाहितब्बे ञाणेनेव अवचरितब्बे. निपुणेति सण्हे. पण्डितवेदनीयेति सम्मा पटिपन्नेहि पण्डितेहि वेदितब्बे.

९८. तोसेसीति तुट्ठिं आपादेसि. वितोसेसीति विविधा तेसं सोमनस्सं उप्पादेसि. पसादेसीति तेसं चित्तप्पसादं अकासि. आराधेसीति आराधयि सिद्धिं पापेसि. अत्तमने अकासीति सोमनस्सवसेन सकमने अकासि.

९९. ततो परं ब्रह्मचरियमचरिंसूति मग्गब्रह्मचरियं अचरिंसु.

१०१. तस्मा पारायनन्ति तस्स पारभूतस्स निब्बानस्स आयतनन्ति वुत्तं होति.

सद्धम्मप्पज्जोतिकाय चूळनिद्देस-अट्ठकथाय

पारायनत्थुतिगाथानिद्देसवण्णना निट्ठिता.