२१. असीतिनिपातो

[५३३] १. चूळहंसजातकवण्णना

सुमुखाति इदं सत्था वेळुवने विहरन्तो आयस्मतो आनन्दस्स जीवितपरिच्चागं आरब्भ कथेसि. देवदत्तेन हि तथागतं जीविता वोरोपेतुं पयोजितेसु धनुग्गहेसु सब्बपठमं पेसितेन आगन्त्वा ‘‘नाहं, भन्ते, सक्कोमि तं भगवन्तं जीविता वोरोपेतुं, महिद्धिको सो भगवा महानुभावो’’ति वुत्ते देवदत्तो ‘‘अलं, आवुसो, मा त्वं समणं गोतमं जीविता वोरोपेहि, अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति वत्वा तथागते गिज्झकूटपब्बतस्स पच्छिमछायाय चङ्कमन्ते सयं गिज्झकूटं पब्बतं अभिरुहित्वा यन्तवेगेन महतिं सिलं पविज्झि, ‘‘इमाय सिलाय समणं गोतमं जीविता वोरोपेस्सामी’’ति. तदा द्वे पब्बतकूटा समागन्त्वा तं सिलं सम्पटिच्छिंसु. ततो पपटिका उप्पतित्वा भगवतो पादं पहरित्वा रुहिरं उप्पादेसि, बलववेदना पवत्तिंसु. जीवको तथागतस्स पादं सत्थकेन फालेत्वा दुट्ठलोहितं वमेत्वा पूतिमंसं अपनेत्वा धोवित्वा भेसज्जं आलिम्पित्वा निरोगमकासि. सत्था पुरिमसदिसमेव भिक्खुसङ्घपरिवुतो महतिया बुद्धलीलाय विचरि.

अथ नं दिस्वा देवदत्तो चिन्तेसि – ‘‘समणस्स गोतमस्स रूपसोभग्गप्पत्तं सरीरं दिस्वा कोचि मनुस्सभूतो उपसङ्कमितुं न सक्कोति, रञ्ञो खो पन नाळागिरि नाम हत्थी चण्डो फरुसो मनुस्सघातको बुद्धधम्मसङ्घगुणे न जानाति, सो तं जीवितक्खयं पापेस्सती’’ति. सो गन्त्वा रञ्ञो तमत्थं आरोचेसि. राजा ‘‘साधू’’ति सम्पटिच्छित्वा हत्थाचरियं पक्कोसापेत्वा ‘‘सम्म, स्वे नाळागिरिं मत्तं कत्वा पातोव समणेन गोतमेन पटिपन्नवीथियं विस्सज्जेही’’ति आह. देवदत्तोपि नं ‘‘अञ्ञेसु दिवसेसु हत्थी कित्तकं सुरं पिवती’’ति पुच्छित्वा ‘‘अट्ठ घटे, भन्ते’’ति वुत्ते ‘‘तेन हि स्वे त्वं तं सोळस घटे पायेत्वा समणेन गोतमेन पटिपन्नवीथियं अभिमुखं करेय्यासी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छि. राजा नगरे भेरिं चरापेसि – ‘‘स्वे नाळागिरिं मत्तं कत्वा नगरे विस्सज्जेस्सति, नागरा पातोव सब्बकिच्चानि कत्वा अन्तरवीथिं मा पटिपज्जिंसू’’ति. देवदत्तोपि राजनिवेसना ओरुय्ह हत्थिसालं गन्त्वा हत्थिगोपके आमन्तेत्वा ‘‘मयं भणे उच्चट्ठानियं नीचट्ठाने, नीचट्ठानियं वा उच्चट्ठाने कातुं समत्था, सचे वो यसेन अत्थो, स्वे पातोव नाळागिरिं तिखिणसुराय सोळस घटे पायेत्वा समणस्स गोतमस्स आगमनवेलाय तुत्ततोमरेहि विज्झित्वा कुज्झापेत्वा हत्थिसालं भिन्दापेत्वा समणेन गोतमेन पटिपन्नवीथियं अभिमुखं कत्वा समणं गोतमं जीवितक्खयं पापेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छिंसु.

सा पवत्ति सकलनगरे वित्थारिका अहोसि. बुद्धधम्मसङ्घमामका उपासका तं सुत्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, देवदत्तो रञ्ञा सद्धिं एकतो हुत्वा स्वे तुम्हेहि पटिपन्नवीथियं नाळागिरिं विस्सज्जापेस्सति, स्वे पिण्डाय अपविसित्वा इधेव होथ, मयं विहारेयेव बुद्धप्पमुखस्स भिक्खुसङ्घस्स भिक्खं दस्सामा’’ति वदिंसु. सत्थापि ‘‘स्वे पिण्डाय न पविसिस्सामी’’ति अवत्वाव ‘‘अहं स्वे नाळागिरिं दमेत्वा पाटिहारियं कत्वा तित्थिये मद्दित्वा राजगहे पिण्डाय अचरित्वाव भिक्खुसङ्घपरिवुतो नगरा निक्खमित्वा वेळुवनमेव आगमिस्सामि, राजगहवासिनोपि बहूनि भत्तभाजनानि गहेत्वा वेळुवनमेव आगमिस्सन्ति, स्वे विहारेयेव भत्तग्गं भविस्सती’’ति इमिना कारणेन तेसं अधिवासेसि. ते तथागतस्स अधिवासनं विदित्वा भत्तभाजनानि आहरित्वा ‘‘विहारेयेव दानं दस्सामा’’ति पक्कमिंसु.

सत्थापि पठमयामे धम्मं देसेत्वा मज्झिमयामे देवतानं पञ्हं विस्सज्जेत्वा पच्छिमयामस्स पठमकोट्ठासे सीहसेय्यं कप्पेत्वा दुतियकोट्ठासे फलसमापत्तिया वीतिनामेत्वा ततियकोट्ठासे महाकरुणासमापत्तिं समापज्जित्वा वुट्ठाय बोधनेय्यबन्धवे ओलोकेन्तो नाळागिरिदमने चतुरासीतिया पाणसहस्सानं धम्माभिसमयं दिस्वा विभाताय रत्तिया कतसरीरपटिजग्गनो हुत्वा आयस्मन्तं आनन्दं आमन्तेत्वा, ‘‘आनन्द, अज्ज राजगहपरिवत्तकेसु अट्ठारससु महाविहारेसु सब्बेसम्पि भिक्खूनं मयासद्धिं राजगहं पविसितुं आरोचेही’’ति आह. थेरो तथा अकासि. सब्बेपि भिक्खू वेळुवने सन्निपतिंसु. सत्था महाभिक्खुसङ्घपरिवुतो राजगहं पाविसि. अथ हत्थिमेण्डा यथानुसिट्ठं पटिपज्जिंसु, महन्तो समागमो अहोसि. सद्धासम्पन्ना मनुस्सा ‘‘अज्ज किर बुद्धनागस्स तिरच्छाननागेन सङ्गामो भविस्सति, अनूपमाय बुद्धलीलाय नाळागिरिदमनं पस्सिस्सामा’’ति पासादहम्मियगेहच्छदनादीनि अभिरुहित्वा अट्ठंसु. असद्धा पन मिच्छादिट्ठिका ‘‘अयं नाळागिरि चण्डो फरुसो मनुस्सघातको बुद्धादीनं गुणं न जानाति, सो अज्ज समणस्स गोतमस्स सुवण्णवण्णं सरीरं विद्धंसेत्वा जीवितक्खयं पापेस्सति, अज्ज पच्चामित्तस्स पिट्ठिं पस्सिस्सामा’’ति पासादादीसु अट्ठंसु.

हत्थीपि भगवन्तं आगच्छन्तं दिस्वा मनुस्से तासेन्तो गेहानि विद्धंसेन्तो सकटानि संचुण्णेन्तो सोण्डं उस्सापेत्वा पहट्ठकण्णवालो पब्बतो विय अज्झोत्थरन्तो येन भगवा तेनाभिधावि. तं आगच्छन्तं दिस्वा भिक्खू भगवन्तं एतदवोचुं – ‘‘अयं, भन्ते, नाळागिरि चण्डो फरुसो मनुस्सघातको इमं रच्छं पटिपन्नो, न खो पनायं बुद्धादिगुणं जानाति, पटिक्कमतु, भन्ते, भगवा, पटिक्कमतु सुगतो’’ति. मा, भिक्खवे, भायित्थ, पटिबलो अहं नाळागिरिं दमेतुन्ति. अथायस्मा सारिपुत्तो सत्थारं याचि – ‘‘भन्ते, पितु उप्पन्नकिच्चं नाम जेट्ठपुत्तस्स भारो, अहमेव तं दमेमी’’ति. अथ नं सत्था, ‘‘सारिपुत्त, बुद्धबलं नाम अञ्ञं, सावकबलं अञ्ञं, तिट्ठ त्व’’न्ति पटिबाहि. एवं येभुय्येन असीति महाथेरा याचिंसु. सत्था सब्बेपि पटिबाहि. अथ आयस्मा आनन्दो सत्थरि बलवसिनेहेन अधिवासेतुं असक्कोन्तो ‘‘अयं हत्थी पठमं मं मारेतू’’ति तथागतस्सत्थाय जीवितं परिच्चजित्वा गन्त्वा सत्थु पुरतो अट्ठासि. अथ नं सत्था ‘‘अपेहि, आनन्द, मा मे पुरतो अट्ठासी’’ति आह. ‘‘भन्ते, अयं हत्थी चण्डो फरुसो मनुस्सघातको कप्पुट्ठानग्गिसदिसो पठमं मं मारेत्वा पच्छा तुम्हाकं सन्तिकं आगच्छतू’’ति थेरो अवच. यावततियं वुच्चमानोपि तथेव अट्ठासि न पटिक्कमि. अथ नं भगवा इद्धिबलेन पटिक्कमापेत्वा भिक्खूनं अन्तरे ठपेसि.

तस्मिं खणे एका इत्थी नाळागिरिं दिस्वा मरणभयभीता पलायमाना अङ्केन गहितं दारकं हत्थिनो च तथागतस्स च अन्तरे छड्डेत्वा पलायि. हत्थी तं अनुबन्धित्वा निवत्तित्वा दारकस्स सन्तिकं अगमासि. तदा दारको महारवं रवि. सत्था नाळागिरिं ओदिस्सकमेत्ताय फरित्वा सुमधुरं ब्रह्मस्सरं निच्छारेत्वा ‘‘अम्भो नाळागिरि तं सोळस सुराघटे पायेत्वा मत्तं करोन्ता न ‘अञ्ञं गण्हिस्सती’ति करिंसु, ‘मं गण्हिस्सती’ति पन करिंसु, मा अकारणेन जङ्घायो किलमेन्तो विचरि, इतो एही’’ति पक्कोसि. सो सत्थु वचनं सुत्वा अक्खीनि उम्मीलेत्वा भगवतो रूपसिरिं ओलोकेत्वा पटिलद्धसंवेगो बुद्धतेजेन पच्छिन्नसुरामदो सोण्डं ओलम्बेन्तो कण्णे चालेन्तो आगन्त्वा तथागतस्स पादेसु पति. अथ नं सत्था, ‘‘नाळागिरि, त्वं तिरच्छानहत्थी, अहं बुद्धवारणो, इतो पट्ठाय मा चण्डो फरुसो मनुस्सघातको भव, सब्बसत्तेसु मेत्तचित्तं पटिलभा’’ति वत्वा दक्खिणहत्थं पसारेत्वा कुम्भे परामसित्वा –

‘‘मा कुञ्जर नागमासदो, दुक्खो हि कुञ्जर नागमासदो;

न हि नागहतस्स कुञ्जर, सुगति होति इतो परं यतो.

‘‘मा च मदो मा च पमादो, न हि पमत्ता सुगतिं वजन्ति ते;

त्वञ्ञेव तथा करिस्ससि, येन त्वं सुगतिं गमिस्ससी’’ति. (चूळव. ३४२) –

धम्मं देसेसि.

तस्स सकलसरीरं पीतिया निरन्तरं फुटं अहोसि. सचे किर तिरच्छानगतो नाभविस्सा, सोतापत्तिफलं अधिगमिस्सा. मनुस्सा तं पाटिहारियं दिस्वा उन्नदिंसु अप्फोटिंसु, सञ्जातसोमनस्सा नानाभरणानि खिपिंसु, तानि हत्थिस्स सरीरं पटिच्छादयिंसु. ततो पट्ठाय नाळागिरि धनपालको नाम जातो. तस्मिं खो पन धनपालकसमागमे चतुरासीति पाणसहस्सानि अमतं पिविंसु. सत्था धनपालकं पञ्चसु सीलेसु पतिट्ठापेसि. सो सोण्डाय भगवतो पादे पंसूनि गहेत्वा उपरि मुद्धनि आकिरित्वा पटिकुटितोव पटिक्कमित्वा दस्सनूपचारे ठितो दसबलं वन्दित्वा निवत्तित्वा हत्थिसालं पाविसि. ततो पट्ठाय दन्तसुदन्तो हुत्वा न कञ्चि विहेठेति. सत्था निप्फन्नमनोरथो ‘‘येहि यं धनं खित्तं, तेसञ्ञेव तं होतू’’ति अधिट्ठाय ‘‘अज्ज मया महन्तं पाटिहारियं कतं, इमस्मिं नगरे पिण्डाय चरणं अप्पटिरूप’’न्ति तित्थिये मद्दित्वा भिक्खुसङ्घपरिवुतो जयप्पत्तो विय खत्तियो नगरा निक्खमित्वा वेळुवनमेव गतो. नगरवासिनो बहुं अन्नपानखादनीयं आदाय विहारं गन्त्वा महादानं पवत्तयिंसु.

तं दिवसं सायन्हसमये धम्मसभं पूरेत्वा सन्निसिन्ना भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, आयस्मता आनन्देन तथागतस्सत्थाय अत्तनो जीवितं परिच्चजन्तेन दुक्करं कतं, नाळागिरिं दिस्वा सत्थारा तिक्खत्तुं पटिबाहियमानोपि नापगतो, अहो दुक्करकारको, आवुसो, आयस्मा आनन्दो’’ति. सत्था ‘‘आनन्दस्स गुणकथा पवत्तति, गन्तब्बं मया एत्था’’ति गन्धकुटितो निक्खमित्वा आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो तिरच्छानयोनियं निब्बत्तोपि ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते महिंसकरट्ठे सागलनगरे सागलो नाम राजा धम्मेन रज्जं कारेसि. तदा नगरतो अविदूरे एकस्मिं नेसादगामके अञ्ञतरो नेसादो पासेहि सकुणे बन्धित्वा नगरे विक्किणन्तो जीविकं कप्पेसि. नगरतो च अविदूरे आवट्टतो द्वादसयोजनो मानुसियो नाम पदुमसरो अहोसि पञ्चवण्णपदुमसञ्छन्नो. तत्थ नानप्पकारो सकुणसङ्घो ओतरि. सो नेसादो तत्थ अनियामेन पासे ओड्डेसि. तस्मिं काले धतरट्ठो हंसराजा छन्नवुतिहंससहस्सपरिवारो चित्तकूटपब्बते सुवण्णगुहायं वसति, सुमुखो नामस्स सेनापति अहोसि. अथेकदिवसं ततो हंसयूथा कतिपया सुवण्णहंसा मानुसियं सरं गन्त्वा पहूतगोचरे तस्मिं यथासुखं विचरित्वा सुहिता चित्तकूटं आगन्त्वा धतरट्ठस्स आरोचेसुं – ‘‘महाराज, मनुस्सपथे मानुसियो नाम पदुमसरो सम्पन्नगोचरो, तत्थ गोचरं गण्हितुं गच्छामा’’ति. सो ‘‘मनुस्सपथो नाम सासङ्को सप्पटिभयो, मा वो रुच्चित्था’’ति पटिक्खिपित्वापि तेहि पुनप्पुनं वुच्चमानो ‘‘सचे तुम्हाकं रुच्चति, गच्छामा’’ति सपरिवारो तं सरं अगमासि. सो आकासा ओतरन्तो पादं पासे पवेसेन्तोयेव ओतरि. अथस्स पासो पादं अयपट्टकेन कड्ढन्तो विय आबन्धित्वा गण्हि. अथस्स ‘‘छिन्दिस्सामि न’’न्ति आकड्ढन्तस्स पठमवारे चम्मं छिज्जि, दुतियवारे मंसं छिज्जि, ततियवारे न्हारु छिज्जि, पासो अट्ठिं आहच्च अट्ठासि, लोहितं पग्घरि, बलववेदना पवत्तिंसु.

सो चिन्तेसि – ‘‘सचाहं बद्धरवं रविस्सामि, ञातका मे उत्रस्ता हुत्वा गोचरं अग्गण्हित्वा छातज्झत्ताव पलायन्ता दुब्बलताय महासमुद्दे पतिस्सन्ती’’ति. सो वेदनं अधिवासेत्वा ञातीनं यावदत्थं चरित्वा हंसानं कीळनकाले महन्तेन सद्देन बद्धरवं रवि. तं सुत्वा ते हंसा मरणभयतज्जिता वग्गवग्गा हुत्वा चित्तकूटाभिमुखा पक्कमिंसु. तेसु पक्कन्तेसु सुमुखो हंससेनापति ‘‘कच्चि नु खो इदं भयं महाराजस्स उप्पन्नं, जानिस्सामि न’’न्ति वेगेन पक्खन्दित्वा पुरतो गच्छन्तस्स हंसगणस्स अन्तरे महासत्तं अदिस्वा मज्झिमहंसगणं विचिनि, तत्थपि अदिस्वा पच्छिमहंसगणं विचिनि, तत्थपि अदिस्वा ‘‘निस्संसयं तस्सेवेदं भयं उप्पन्न’’न्ति निवत्तित्वा आगच्छन्तो महासत्तं पासे बद्धं लोहितमक्खितं दुक्खातुरं पङ्कपिट्ठे निपन्नं दिस्वा ‘‘मा भायि, महाराज, अहं मम जीवितं परिच्चजित्वा तुम्हे पासतो मोचेस्सामी’’ति वदन्तो ओतरित्वा महासत्तं अस्सासेन्तोव पङ्कपिट्ठे निसीदि. अथ नं वीमंसन्तो महासत्तो पठमं गाथमाह –

१. ‘‘सुमुख अनुपचिनन्ता, पक्कमन्ति विहङ्गमा;

गच्छ तुवम्पि मा कङ्खि, नत्थि बद्धे सहायता’’ति.

तत्थ अनुपचिनन्ताति सिनेहेन आलयवसेन अनोलोकेन्ता. पक्कमन्तीति एते छन्नवुति हंससहस्सा ञातिविहङ्गमा मं छड्डेत्वा गच्छन्ति, त्वम्पि गच्छ, मा इध वासं आकङ्खि, एवञ्हि पासेन बद्धे मयि सहायता नाम नत्थि, न हि ते अहं इदानि किञ्चि सहायकिच्चं कातुं सक्खिस्सामि, किं ते मया निरूपकारेन, पपञ्चं अकत्वा गच्छेवाति वदति.

इतो परं –

२. ‘‘गच्छे वाहं न वा गच्छे, न तेन अमरो सियं;

सुखितं तं उपासित्वा, दुक्खितं तं कथं जहे.

३. ‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;

तदेव मरणं सेय्यो, यञ्चे जीवे तया विना.

४. ‘‘नेस धम्मो महाराज, यं तं एवं गतं जहे;

या गति तुय्हं सा मय्हं, रुच्चते विहगाधिप.

५. ‘‘का नु पासेन बद्धस्स, गति अञ्ञा महानसा;

सा कथं चेतयानस्स, मुत्तस्स तव रुच्चति.

६. ‘‘कं वा त्वं पस्ससे अत्थं, मम तुय्हञ्च पक्खिम;

ञातीनं वावसिट्ठानं, उभिन्नं जीवितक्खये.

७. ‘‘यं न कञ्चनदेपिञ्छ, अन्धेन तमसा गतं;

तादिसे सञ्चजं पाणं, कमत्थमभिजोतये.

८. ‘‘कथं नु पततं सेट्ठ, धम्मे अत्थं न बुज्झसि;

धम्मो अपचितो सन्तो, अत्थं दस्सेति पाणिनं.

९. ‘‘सोहं धम्मं अपेक्खानो, धम्मा चत्थं समुट्ठितं;

भत्तिञ्च तयि सम्पस्सं, नावकङ्खामि जीवितं.

१०. ‘‘अद्धा एसो सतं धम्मो, यो मित्तो मित्तमापदे.

न चजे जीवितस्सापि, हेतुधम्ममनुस्सरं.

११. ‘‘स्वायं धम्मो च ते चिण्णो, भत्ति च विदिता मयि;

कामं करस्सु मय्हेतं, गच्छेवानुमतो मया.

१२. ‘‘अपि त्वेवं गते काले, यं खण्डं ञातिनं मया;

तया तं बुद्धिसम्पन्नं, अस्स परमसंवुतं.

१३. ‘‘इच्चेवं मन्तयन्तानं, अरियानं अरियवुत्तिनं;

पच्चदिस्सथ नेसादो, आतुरानमिवन्तको.

१४. ‘‘ते सत्तुमभिसञ्चिक्ख, दीघरत्तं हिता दिजा;

तुण्हीमासित्थ उभयो, न सञ्चलेसुमासना.

१५. ‘‘धतरट्ठे च दिस्वान, समुड्डेन्ते ततो ततो;

अभिक्खमथ वेगेन, दिजसत्तु दिजाधिपे.

१६. ‘‘सो च वेगेनभिक्कम्म, आसज्ज परमे दिजे;

पच्चकमित्थ नेसादो, बद्धा इति विचिन्तयं.

१७. ‘‘एकंव बद्धमासीनं, अबद्धञ्च पुनापरं;

आसज्ज बद्धमासीनं, पेक्खमानमदीनवं.

१८. ‘‘ततो सो विमतोयेव, पण्डरे अज्झभासथ;

पवड्ढकाये आसीने, दिजसङ्घगणाधिपे.

१९. ‘‘यं नु पासेन महता, बद्धो न कुरुते दिसं;

अथ कस्मा अबद्धो त्वं, बली पक्खि न गच्छसि.

२०. ‘‘किं नु त्यायं दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहीयसि.

२१. ‘‘राजा मे सो दिजामित्त, सखा पाणसमो च मे;

नेव नं विजहिस्सामि, याव कालस्स परियायं.

२२. ‘‘कथं पनायं विहङ्गो, नाद्दस पासमोड्डितं;

पदञ्हेतं महन्तानं, बोद्धुमरहन्ति आपदं.

२३. ‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.

२४. ‘‘अपि त्वेव महापञ्ञ, पासा बहुविधा तता;

गुय्हमासज्ज बज्झन्ति, अथेवं जीवितक्खये’’ति. –

इमासं गाथानं सम्बन्धो पाळिनयेनेव वेदितब्बो.

तत्थ गच्छे वाति, महाराज, अहं इतो गच्छेय्यं वा न वा, नाहं तेन गमनेन वा अगमनेन वा अमरो सियं, अहञ्हि इतो गतोपि अगतोपि मरणतो अमुत्तोव, इतो पुब्बे पन सुखितं तं उपासित्वा इदानि दुक्खितं तं कथं जहेय्यन्ति वदति. मरणं वाति मम अगच्छन्तस्स वा तया सद्धिं मरणं भवेय्य, गच्छन्तस्स वा तया विना जीवितं. तेसु द्वीसु यं तया सद्धिं मरणं, तदेव मे वरं, यं तया विना जीवेय्यं, न मे तं वरन्ति अत्थो. रुच्चतेति या तव गति निप्फत्ति, साव मय्हं रुच्चति. सा कथन्ति सम्म सुमुख मम ताव दळ्हेन वालपासेन बद्धस्स परहत्थं गतस्स सा गति रुच्चतु, तव पन चेतयानस्स सचेतनस्स पञ्ञवतो मुत्तस्स कथं रुच्चति.

पक्खिमाति पक्खसम्पन्न. उभिन्नन्ति अम्हाकं द्विन्नं जीवितक्खये सति त्वं मम वा तव वा अवसिट्ठञातीनं वा कं अत्थं पस्ससि. यं नाति एत्थ न-कारो उपमाने. कञ्चनदेपिञ्छाति कञ्चनद्वेपिञ्छ, अयमेव वा पाठो, कञ्चनसदिसउभयपक्खाति अत्थो. तमसाति तमसि. गतन्ति कतं, अयमेव वा पाठो. पुरिमस्स न-कारस्स इमिना सम्बन्धो, ‘‘न कत’’न्ति कतं वियाति अत्थो. इदं वुत्तं होति – तयि पाणं चजन्तेपि अचजन्तेपि मम जीवितस्स अभावा यं तव पाणसञ्चजनं, तं अन्धेन तमसि कतं विय किञ्चिदेव रूपकम्मं अपच्चक्खगुणं, तादिसे तव अपच्चक्खगुणे पाणसञ्चजने त्वं पाणं सञ्चजन्तो कमत्थं जोतेय्यासीति.

धम्मो अपचितो सन्तोति धम्मो पूजितो मानितो समानो. अत्थं दस्सेतीति वुद्धिं दस्सेति. अपेक्खानोति अपेक्खन्तो. धम्मा चत्थन्ति धम्मतो च अत्थं समुट्ठितं पस्सन्तो. भत्तिन्ति सिनेहं. सतं धम्मोति पण्डितानं सभावो. यो मित्तोति यो मित्तो आपदासु मित्तं न चजे, तस्स अचजन्तस्स मित्तस्स एस सभावो नाम अद्धा सतं धम्मो. विदिताति पाकटा जाता. कामं करस्सूति एतं मम कामं मया इच्छितं मम वचनं करस्सु. अपि त्वेवं गते कालेति अपि तु एवं गते काले मयि इमस्मिं ठाने पासेन बद्धे. परमसंवुतन्ति परमपरिपुण्णं.

इच्चेवं मन्तयन्तानन्ति ‘‘गच्छ, न गच्छामी’’ति एवं कथेन्तानं अरियानन्ति आचारअरियानं. पच्चदिस्सथाति कासायानि निवासेत्वा रत्तमालं पिळन्धित्वा मुग्गरं आदाय आगच्छन्तो अदिस्सथ. आतुरानन्ति गिलानानं मच्चु विय. अभिसञ्चिक्खाति, भिक्खवे, ते उभोपि सत्तुं आयन्तं पस्सित्वा. हिताति दीघरत्तं अञ्ञमञ्ञस्स हिता मुदुचित्ता. न सञ्चलेसुमासनाति आसनतो न चलिंसु, यथानिसिन्नाव अहेसुं. सुमुखो पन ‘‘अयं नेसादो आगन्त्वा पहरन्तो मं पठमं पहरतू’’ति चिन्तेत्वा महासत्तं पच्छतो कत्वा निसीदि.

धतरट्ठेति हंसे. समुड्डेन्तेति मरणभयेन इतो चितो च उप्पतन्ते दिस्वा. आसज्जाति इतरे द्वे जने उपगन्त्वा. पच्चकमित्थाति ‘‘बद्धा, न बद्धा’’ति चिन्तेन्तो उपधारेन्तो अकमित्थ, वेगं हापेत्वा सणिकं अगमासि. आसज्ज बद्धमासीनन्ति बद्धं महासत्तं उपगन्त्वा निसिन्नं सुमुखं. अदीनवन्तिआदीनवमेव हुत्वा महासत्तं ओलोकेन्तं दिस्वा. विमतोति किं नु खो अबद्धो बद्धस्स सन्तिके निसिन्नो, कारणं पुच्छिस्सामीति विमतिजातो हुत्वाति अत्थो. पण्डरेति हंसे, अथ वा परिसुद्धे निम्मले, सम्पहट्ठकञ्चनवण्णेति अत्थो. पवड्ढकायेति वड्ढितकाये महासरीरे. यं नूति यं ताव एसो महापासेन बद्धो. न कुरुते दिसन्ति पलायनत्थाय एकं दिसं न भजति, तं युत्तन्ति अधिप्पायो. बलीति बलसम्पन्नो हुत्वापि. पक्खीति तं आलपति. ओहायाति छड्डेत्वा. यन्तीति सेससकुणा गच्छन्ति. अवहीयसीति ओहीयसि.

दिजामित्ताति दिजानं अमित्त. याव कालस्स परियायन्ति याव मरणस्स वारो आगच्छति. कथं पनायन्ति त्वं राजा मे सोति वदसि, राजानो च नाम पण्डिता होन्ति, इतिपि पण्डितो समानो केन कारणेन ओड्डितं पासं न अद्दस. पदं हेतन्ति यसमहत्तं वा ञाणमहत्तं वा पत्तानं अत्तनो आपदबुज्झनं नाम पदं कारणं, तस्मा ते आपदं बोद्धुमरहन्ति. पराभवोति अवड्ढि. आसज्जापीति उपगन्त्वापि न बुज्झति. तताति वितता ओड्डिता. गुय्हमासज्जाति तेसु पासेसु यो गुळ्हो पटिच्छन्नो पासो, तं आसज्ज बज्झन्ति. अथेवन्ति अथ एवं जीवितक्खये बज्झन्तेवाति अत्थो.

इति नं सो कथासल्लापेन मुदुहदयं कत्वा महासत्तस्स जीवितं याचन्तो गाथमाह –

२५. ‘‘अपि नायं तया सद्धिं, संवासस्स सुखुद्रयो;

अपि नो अनुमञ्ञासि, अपि नो जीवितं ददे’’ति.

तत्थ अपि नायन्ति अपि नु अयं. सुखुद्रयोति सुखफलो. अपि नो अनुमञ्ञासीति चित्तकूटं गन्त्वा ञातके पस्सितुं त्वं अपि नो अनुजानेय्यासि. अपि नो जीवितं ददेति अपि नो इमाय कथाय उप्पन्नविस्सासो न मारेय्यासीति.

सो तस्स मधुरकथाय बज्झित्वा गाथमाह –

२६. ‘‘न चेव मे त्वं बद्धोसि, नपि इच्छामि ते वधं;

कामं खिप्पमितो गन्त्वा, जीव त्वं अनिघो चिर’’न्ति.

ततो सुमुखो चतस्सो गाथा अभासि –

२७. ‘‘नेवाहमेतमिच्छामि, अञ्ञत्रेतस्स जीविता;

सचे एकेन तुट्ठोसि, मुञ्चेतं मञ्च भक्खय.

२८. ‘‘आरोहपरिणाहेन, तुल्यास्मा वयसा उभो;

न ते लाभेन जीवत्थि, एतेन निमिना तुवं.

२९. ‘‘तदिङ्घ समपेक्खस्सु, होतु गिद्धि तवम्हसु;

मं पुब्बे बन्ध पासेन, पच्छा मुञ्च दिजाधिपं.

३०. ‘‘तावदेव च ते लाभो, कतास्स याचनाय च;

मित्ति च धतरट्ठेहि, यावजीवाय ते सिया’’ति.

तत्थ एतन्ति यं अञ्ञत्र एतस्स जीविता मम जीवितं, एतं अहं नेव इच्छामि. तुल्यास्माति समाना होम. निमिना तुवन्ति परिवत्तेहि त्वं. तवम्हसूति तव अम्हेसु गिद्धि होतु, किं ते एतेन, मयि लोभं उप्पादेहीति वदति. तावदेवाति तत्तकोयेव. याचनाय चाति या मम याचना, साव कता अस्साति अत्थो.

इति सो ताय धम्मदेसनाय तेले पक्खित्तकप्पासपिचु विय मुदुगतहदयो महासत्तं तस्स दायं कत्वा ददन्तो आह –

३१. ‘‘पस्सन्तु नो महासङ्घा, तया मुत्तं इतो गतं;

मित्तामच्चा च भच्चा च, पुत्तदारा च बन्धवा.

३२. ‘‘न च ते तादिसा मित्ता, बहूनं इध विज्जति;

यथा त्वं धतरट्ठस्स, पाणसाधारणो सखा.

३३. ‘‘सो ते सहायं मुञ्चामि, होतु राजा तवानुगो;

कामं खिप्पमितो गन्त्वा, ञातिमज्झे विरोचथा’’ति.

तत्थ नोति निपातमत्तं. तया मुत्तन्ति इमञ्हि त्वञ्ञेव मुञ्चसि नाम, तस्मा इमं तया मुत्तं इतो चित्तकूटपब्बतं गतं महन्ता ञातिसङ्घा एते च मित्तादयो पस्सन्तु. एत्थ च बन्धवाति एकलोहितसम्बन्धा. विज्जतीति विज्जन्ति. पाणसाधारणोति साधारणपाणो अविभत्तजीविको, यथा त्वं एतस्स सखा, एतादिसा अञ्ञेसं बहूनं मित्ता नाम न विज्जन्ति. तवानुगोति एतं दुक्खितं आदाय पुरतो गच्छन्तस्स तव अयं अनुगो होतूति.

एवं वत्वा पन नेसादपुत्तो मेत्तचित्तेन महासत्तं उपसङ्कमित्वा बन्धनं छिन्दित्वा आलिङ्गित्वा सरतो निक्खामेत्वा सरतीरे तरुणदब्बतिणपिट्ठे निसीदापेत्वा पादे बन्धनपासं मुदुचित्तेन सणिकं मोचेत्वा दूरे खिपित्वा महासत्ते बलवसिनेहं पच्चुपट्ठापेत्वा मेत्तचित्तेन उदकं आदाय लोहितं धोवित्वा पुनप्पुनं परिमज्जि. तस्स मेत्तचित्तानुभावेन बोधिसत्तस्स पादे सिरा सिराहि, मंसं मंसेन, चम्मं चम्मेन घटितं, तावदेव पादो संरुळ्हो सञ्जातछविसञ्जातलोमो अहोसि अबद्धपादेन निब्बिसेसो. बोधिसत्तो सुखितो पकतिभावेनेव निसीदि. अथ सुमुखो अत्तानं निस्साय महासत्तस्स सुखितभावं दिस्वा सञ्जातसोमनस्सो नेसादस्स थुतिमकासि. तमत्थं पकासेन्तो सत्था आह –

३४. ‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

३५. ‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिप’’न्ति.

तत्थ वक्कङ्गोति वङ्कगीवो.

एवं लुद्दस्स थुतिं कत्वा सुमुखो बोधिसत्तं आह – ‘‘महाराज, इमिना अम्हाकं महाउपकारो कतो, अयञ्हि अम्हाकं वचनं अकत्वा कीळाहंसे नो कत्वा इस्सरानं देन्तो बहुं धनं लभेय्य, मारेत्वा मंसं विक्किणन्तो मूलम्पि लभेथ, अत्तनो पन जीवितं अनोलोकेत्वा अम्हाकं वचनं अकरि, इमं रञ्ञो सन्तिकं नेत्वा सुखजीवितं करोमा’’ति. महासत्तो सम्पटिच्छि. सुमुखो अत्तनो भासाय महासत्तेन सद्धिं कथेत्वा पुन मनुस्सभासाय लुद्दपुत्तं आमन्तेत्वा ‘‘सम्म, त्वं किमत्थं पासे ओड्डेसी’’ति पुच्छित्वा ‘‘धनत्थ’’न्ति वुत्ते ‘‘एवं सन्ते अम्हे आदाय नगरं पविसित्वा रञ्ञो दस्सेहि, बहुं ते धनं दापेस्सामी’’ति वत्वा आह –

३६. ‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति.

३७. ‘‘खिप्पमन्तेपुरं नेत्वा, रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

३८. ‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

३९. ‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो.

पतीतो सुमनो वित्तो, बहुं दस्सति ते धन’’न्ति.

तत्थ अनुसिक्खामीति अनुसासामि. पापन्ति लामकं. रञ्ञो दस्सेहि नो उभोति अम्हे उभोपि रञ्ञो दस्सेहि. अयं बोधिसत्तस्स पञ्ञापभावदस्सनत्थं, अत्तनो मित्तधम्मस्स आविभावनत्थं, लुद्दस्स धनलाभत्थं, रञ्ञो सीलेसु पतिट्ठापनत्थञ्चाति चतूहि कारणेहि एवमाह. धतरट्ठाति नेत्वा च पन रञ्ञो एवं आचिक्खेय्यासि, ‘‘महाराज, इमे धतरट्ठकुले जाता द्वे हंसाधिपतिनो, एतेसु अयं राजा, इतरो सेनापती’’ति. इति नं सिक्खापेसि. ‘‘पतीतो’’तिआदीनि तीणिपि तुट्ठाकारवेवचनानेव.

एवं वुत्ते लुद्दो, ‘‘सामि, मा वो राजदस्सनं रुच्चि, राजानो नाम चलचित्ता, कीळाहंसे वा वो करेय्युं मारापेय्युं वा’’ति वत्वा, ‘‘सम्म, मा भायि, अहं तादिसं कक्खळं लुद्दं लोहितपाणिं धम्मकथाय मुदुकं कत्वा मम पादेसु पातेसिं, राजानो नाम पुञ्ञवन्तो पञ्ञवन्तो च सुभासितदुब्भासितञ्ञू च, खिप्पं अम्हे रञ्ञो दस्सेही’’ति वुत्ते ‘‘तेन हि मा मय्हं कुज्झित्थ, अहं अवस्सं तुम्हाकं रुचिया नेमी’’ति वत्वा उभोपि काजं आरोपेत्वा राजकुलं गन्त्वा रञ्ञो दस्सेत्वा रञ्ञा पुट्ठो यथाभूतं आरोचेसि. तमत्थं पकासेन्तो सत्था आह –

४०. ‘‘तस्स तं वचनं सुत्वा, कम्मुना उपपादयि;

खिप्पमन्तेपुरं गन्त्वा, रञ्ञो हंसे अदस्सयि;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

४१. ‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो;

४२. ‘‘कथं पनिमे विहङ्गा, तव हत्थत्तमागता;

कथं लुद्दो महन्तानं, इस्सरे इध अज्झगा.

४३. ‘‘विहिता सन्तिमे पासा, पल्ललेसु जनाधिप;

यं यदायतनं मञ्ञे, दिजानं पाणरोधनं.

४४. ‘‘तादिसं पासमासज्ज, हंसराजा अबज्झथ;

तं अबद्धो उपासिनो, ममायं अज्झभासथ.

४५. ‘‘सुदुक्करं अनरियेभि, दहते भावमुत्तमं;

भत्तुरत्थे परक्कन्तो, धम्मयुत्तो विहङ्गमो.

४६. ‘‘अत्तनायं चजित्वान, जीवितं जीवितारहो;

अनुत्थुनन्तो आसीनो, भत्तु याचित्थ जीवितं.

४७. ‘‘तस्स तं वचनं सुत्वा, पसादमहमज्झगा;

ततो नं पामुचिं पासा, अनुञ्ञासिं सुखेन च.

४८. ‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

४९. ‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं.

५०. ‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति.

५१. ‘‘खिप्पमन्तेपुरं नेत्वा, रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

५२. ‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

५३. ‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो;

पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं.

५४. ‘‘एवमेतस्स वचना, आनीतामे उभो मया;

एत्थेव हि इमे आसुं, उभो अनुमता मया.

५५. ‘‘सोयं एवं गतो पक्खी, दिजो परमधम्मिको;

मादिसस्स हि लुद्दस्स, जनयेय्याथ मद्दवं.

५६. ‘‘उपायनञ्च ते देव, नाञ्ञं पस्सामि एदिसं;