१८. पण्णासनिपातो

[५२६] १. निळिनिकाजातकवण्णना

उद्दय्हते जनपदोति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्ब कथेसि. कथेन्तो च तं भिक्खुं ‘‘केन उक्कण्ठापितोसी’’ति पुच्छित्वा ‘‘पुराणदुतियिकाया’’ति वुत्ते ‘‘न एसा खो, भिक्खु, इदानेव तव अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय झाना परिहायित्वा महाविनासं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो उग्गहितसिप्पो इसिपब्बज्जं पब्बिजित्वा झानाभिञ्ञा निब्बत्तेत्वा हिमवन्तपदेसे वासं कप्पेसि. अलम्बुसाजातके वुत्तनयेनेव तं पटिच्च एका मिगी गब्भं पटिलभित्वा पुत्तं विजायि, ‘‘इसिसिङ्गो’’त्वेवस्स नामं अहोसि. अथ नं पिता वयप्पत्तं पब्बाजेत्वा कसिणपरिकम्मं उग्गण्हापेसि. सो नचिरस्सेव झानाभिञ्ञा उप्पादेत्वा झानसुखेन कीळि, घोरतपो परमधितिन्द्रियो अहोसि. तस्स सीलतेजेन सक्कस्स भवनं कम्पि. सक्को आवज्जेन्तो तं कारणं ञत्वा ‘‘उपायेनस्स सीलं भिन्दिस्सामी’’ति तीणि संवच्छरानि सकलकासिरट्ठे वुट्ठिं निवारेसि, रट्ठं अग्गिदड्ढं विय अहोसि. सस्से असम्पज्जमाने दुब्भिक्खपीळिता मनुस्सा सन्निपतित्वा राजङ्गणे उपक्कोसिंसु. अथ ने राजा वातपाने ठितो ‘‘किं एत’’न्ति पुच्छि. ‘‘महाराज, तीणि संवच्छरानि देवस्स अवस्सन्तत्ता सकलरट्ठं उद्दय्हति, मनुस्सा दुक्खिता, देवं वस्सापेहि, देवा’’ति. राजा सीलं समादियित्वा उपोसथं उपवसन्तोपि वस्सं वस्सापेतुं नासक्खि.

तस्मिं काले सक्को अड्ढरत्तसमये तस्स सिरिगब्भं पविसित्वा एकोभासं कत्वा वेहासे अट्ठासि. राजा तं दिस्वा ‘‘कोसि त्व’’न्ति पुच्छि. ‘‘सक्कोहमस्मी’’ति. ‘‘केनत्थेनागतोसी’’ति? ‘‘वस्सति ते, महाराज, रट्ठे देवो’’ति? ‘‘न वस्सती’’ति. ‘‘जानासि पनस्स अवस्सनकारण’’न्ति? ‘‘न जानामि, सक्का’’ति. ‘‘महाराज, हिमवन्तपदेसे इसिसिङ्गो नाम तापसो पटिवसति घोरतपो परमधितिन्द्रियो. सो निबद्धं देवे वस्सन्ते कुज्झित्वा आकासं ओलोकेसि, तस्मा देवो न वस्सती’’ति. ‘‘इदानि पनेत्थ किं कातब्ब’’न्ति? ‘‘तस्स तपे भिन्ने देवो वस्सिस्सती’’ति. ‘‘को पनस्स तपं भिन्दितुं समत्थो’’ति? ‘‘धीता ते, महाराज, निळिनिका समत्था, तं पक्कोसापेत्वा ‘असुकट्ठानं नाम गन्त्वा तापसस्स तपं भिन्दाही’ति पेसेही’’ति. एवं सो राजानं अनुसासित्वा सकट्ठानमेव अगमासि. राजा पुनदिवसे अमच्चेहि सद्धिं मन्तेत्वा धीतरं पक्कोसापेत्वा पठमं गाथमाह –

१. ‘‘उद्दय्हते जनपदो, रट्ठञ्चापि विनस्सति;

एहि निळिनिके गच्छ, तं मे ब्राह्मणमानया’’ति.

तत्थ तं मेति तं मम अनत्थकारिं ब्राह्मणं अत्तनो वसं आनेहि, किलेसरतिवसेनस्स सीलं भिन्दाहीति.

तं सुत्वा सा दुतियं गाथमाह –

२. ‘‘नाहं दुक्खक्खमा राज, नाहं अद्धानकोविदा;

कथं अहं गमिस्सामि, वनं कुञ्जरसेवित’’न्ति.

तत्थ दुक्खक्खमाति अहं, महाराज, दुक्खस्स खमा न होमि, अद्धानम्पि न जानामि, साहं कथं गमिस्सामीति.

ततो राजा द्वे गाथायो अभासि –

३. ‘‘फीतं जनपदं गन्त्वा, हत्थिना च रथेन च;

दारुसङ्घाटयानेन, एवं गच्छ निळिनिके.

४. ‘‘हत्थिअस्सरथे पत्ती, गच्छेवादाय खत्तिये;

तवेव वण्णरूपेन, वसं तमानयिस्ससी’’ति.

तत्थ दारुसङ्घाटयानेनाति, अम्म, निळिनिके न त्वं पदसा गमिस्ससि, फीतं पन सुभिक्खं खेमं अत्तनो जनपदं हत्थिवाहनेहि च रथवाहनेहि च गन्त्वा ततो परम्पि अज्झोकासे पटिच्छन्नेन वय्हादिना उदकट्ठाने नावासङ्खातेन दारुसङ्घाटयानेन गच्छ. वण्णरूपेनाति एवं अकिलममाना गन्त्वा तव वण्णेन चेव रूपसम्पदाय च तं ब्राह्मणं अत्तनो वसं आनयिस्ससीति.

एवं सो धीतरा सद्धिं अकथेतब्बम्पि रट्ठपरिपालनं निस्साय कथेसि. सापि ‘‘साधू’’ति सम्पटिच्छि. अथस्सा सब्बं दातब्बयुत्तकं दत्वा अमच्चेहि सद्धिं उय्योजेसि. अमच्चा तं आदाय पच्चन्तं पत्वा तत्थ खन्धावारं निवासापेत्वा राजधीतरं उक्खिपापेत्वा वनचरकेन देसितेन मग्गेन हिमवन्तं पविसित्वा पुब्बण्हसमये तस्स अस्समपदस्स समीपं पापुणिंसु. तस्मिं खणे बोधिसत्तो पुत्तं अस्समपदे निवासापेत्वा सयं फलाफलत्थाय अरञ्ञं पविट्ठो होति. वनचरको सयं अस्समं अगन्त्वा तस्स पन दस्सनट्ठाने ठत्वा निळिनिकाय तं दस्सेन्तो द्वे गाथा अभासि –

५. ‘‘कदलीधजपञ्ञाणो, आभुजीपरिवारितो;

एसो पदिस्सति रम्मो, इसिसिङ्गस्स अस्समो.

६. ‘‘एसो अग्गिस्स सङ्खातो, एसो धूमो पदिस्सति;

मञ्ञे नो अग्गिं हापेति, इसिसिङ्गो महिद्धिको’’ति.

तत्थ कदलीसङ्खाता धजा पञ्ञाणं अस्साति कदलीधजपञ्ञाणो. आभुजीपरिवारितोति भुजपत्तवनपरिक्खित्तो. सङ्खातोति एसो अग्गि अस्स इसिसिङ्गस्स झानेन सङ्खातो पच्चक्खगतो जलति. मञ्ञे नो अग्गिन्ति अग्गिं नो हापेति जुहति परिचरतीति मञ्ञामि.

अमच्चापि बोधिसत्तस्स अरञ्ञं पविट्ठवेलाय अस्समं परिवारेत्वा आरक्खं ठपेत्वा राजधीतरं इसिवेसं गाहापेत्वा सुवण्णचीरकेन निवासनपारुपनं कत्वा सब्बालङ्कारेहि अलङ्करित्वा तन्तुबद्धं चित्तगेण्डुकं गाहापेत्वा अस्समपदं पेसेत्वा सयं बहि रक्खन्ता अट्ठंसु. सा तेन गेण्डुकेन कीळन्ती चङ्कमकोटियं ओतरि. तस्मिं खणे इसिसिङ्गो पण्णसालद्वारे पासाणफलके निसिन्नो होति. सो तं आगच्छन्तिं दिस्वा भीततसितो उट्ठाय पण्णसालं पविसित्वा अट्ठासि. सापिस्स पण्णसालद्वारं गन्त्वा कीळियेव. सत्था तञ्च ततो उत्तरि च अत्थं पकासेन्तो तिस्सो गाथा अभासि –

७. ‘‘तञ्च दिस्वान आयन्तिं, आमुत्तमणिकुण्डलं;

इसिसिङ्गो पाविसि भीतो, अस्समं पण्णछादनं.

८. ‘‘अस्समस्स च सा द्वारे, गेण्डुकेनस्स कीळति;

विदंसयन्ती अङ्गानि, गुय्हं पकासितानि च.

९. ‘‘तञ्च दिस्वान कीळन्तिं, पण्णसालगतो जटी;

अस्समा निक्खमित्वान, इदं वचनमब्रवी’’ति.

तत्थ गेण्डुकेनस्साति अस्स इसिसिङ्गस्स अस्समद्वारे गेण्डुकेन कीळति. विदंसयन्तीति दस्सेन्ती. गुय्हं पकासितानि चाति गुय्हञ्च रहस्सङ्गं पकासितानि च पाकटानि मुखहत्थादीनि. अब्रवीति सो किर पण्णसालाय ठत्वा चिन्तेसि – ‘‘सचायं यक्खो भवेय्य, पण्णसालं पविसित्वा मं मुरुमुरापेत्वा खादेय्य, नायं यक्खो, तापसो भविस्सती’’ति अस्समा निक्खमित्वा पुच्छन्तो गाथमाह –

१०. ‘‘अम्भो को नाम सो रुक्खो, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न तं ओहाय गच्छती’’ति.

तत्थ यस्स तेवंगतं फलन्ति यस्स तव रुक्खस्स एवंगतिकं मनोरमं फलं. को नाम सो रुक्खोति चित्रगेण्डुकस्स अदिट्ठपुब्बत्ता ‘‘रुक्खफलेन तेन भवितब्ब’’न्ति मञ्ञमानो एवं पुच्छति.

अथस्स सा रुक्खं आचिक्खन्ती गाथमाह –

११. ‘‘अस्समस्स मम ब्रह्मे, समीपे गन्धमादने;

बहवो तादिसा रुक्खा, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न मं ओहाय गच्छती’’ति.

तत्थ समीपे गन्धमादनेति गन्धमादनपब्बते मम अस्समस्स समीपे. यस्स तेवंगतन्ति यस्स एवंगतं, त-कारो ब्यञ्जनसन्धिकरोति.

इति सा मुसावादं अभासि. इतरोपि सद्दहित्वा ‘‘तापसो एसो’’ति सञ्ञाय पटिसन्थारं करोन्तो गाथमाह –

१२. ‘‘एतू भवं अस्समिमं अदेतु, पज्जञ्च भक्खञ्च पटिच्छ दम्मि;

इदमासनं अत्र भवं निसीदतु, इतो भवं मूलफलानि भुञ्जतू’’ति.

तत्थ अस्समिमन्ति अस्समं इमं भवं पविसतु. अदेतूति यथासन्निहितं आहारं परिभुञ्जतु. पज्जन्ति पादब्भञ्जनं. भक्खन्ति मधुरफलाफलं. पटिच्छाति पटिग्गण्ह. इदमासनन्ति पविट्ठकाले एवमाह.

तस्सा पण्णसालं पविसित्वा कट्ठत्थरणे निसीदन्तिया सुवण्णचीरके द्विधा गते सरीरं अप्पटिच्छन्नं अहोसि. तापसो मातुगामसरीरस्स अदिट्ठपुब्बत्ता तं दिस्वा ‘‘वण्णो एसो’’ति सञ्ञाय एवमाह –

१३. ‘‘किं ते इदं ऊरूनमन्तरस्मिं, सुपिच्छितं कण्हरिवप्पकासति;

अक्खाहि मे पुच्छितो एतमत्थं, कोसे नु ते उत्तमङ्गं पविट्ठ’’न्ति.

तत्थ सुपिच्छितन्ति द्विन्नं ऊरूनं समागमकाले सुफुसितं सिप्पिपुटमुखसण्ठानं. सुभलक्खणेन हि असमन्नागताय तं ठानं आवाटधातुकं होति, समन्नागताय अब्भुन्नतं सिप्पिपुटमुखसण्ठानं. कण्हरिवप्पकासतीति उभोसु पस्सेसु काळकं विय खायति. कोसे नु ते उत्तमङ्गं पविट्ठन्ति तव उत्तमङ्गं लिङ्गसण्ठानं न पञ्ञायति, किं नु तं तव सरीरसङ्खाते कोसे पविट्ठन्ति पुच्छति.

अथ नं सा वञ्चयन्ती गाथाद्वयमाह –

१४. ‘‘अहं वने मूलफलेसनं चरं, आसादयिं अच्छं सुघोररूपं;

सो मं पतित्वा सहसाज्झपत्तो, पनुज्ज मं अब्बहि उत्तमङ्गं.

१५. ‘‘स्वायं वणो खज्जति कण्डुवायति, सब्बञ्च कालं न लभामि सातं;

पहो भवं कण्डुमिमं विनेतुं, कुरुतं भवं याचितो ब्राह्मणत्थ’’न्ति.

तत्थ आसादयिन्ति घट्टेसिं, आगच्छन्तं दिस्वा लेड्डुना पहरिन्ति अत्थो. पतित्वाति उपधावित्वा. सहसाज्झप्पत्तोति ममं सहसा अज्झप्पत्तो सम्पत्तो. पनुज्जाति अथ मं पोतेत्वा. अब्बहीति मुखेन मम उत्तमङ्गं लुञ्चित्वा पक्कामि, ततो पट्ठाय इमस्मिं ठाने वणो जातो. स्वायन्ति सो अयं ततो पट्ठाय मय्हं वणो खज्जति चेव कण्डुवञ्च करोति, तप्पच्चया साहं सब्बकालं कायिकचेतसिकसुखं न लभामि. पहोति पहु समत्थो. ब्राह्मणत्थन्ति भवं मया याचितो इमं ब्राह्मणस्स अत्थं करोतु, इदं मे दुक्खं हराहीति वदति.

सो तस्सा मुसावादं ‘‘सभावो’’ति सद्दहित्वा ‘‘सचे ते एवं सुखं होति, करिस्सामी’’ति तं पदेसं ओलोकेत्वा अनन्तरं गाथमाह –

१६. ‘‘गम्भीररूपो ते वणो सलोहितो, अपूतिको वणगन्धो महा च;

करोमि ते किञ्चि कसाययोगं, यथा भवं परमसुखी भवेय्या’’ति.

तत्थ सलोहितोति रत्तोभासो. अपूतिकोति पूतिमंसरहितो. वणगन्धोति थोकं दुग्गन्धो. कसाययोगन्ति अहं केचि रुक्खकसाये गहेत्वा तव एकं कसाययोगं करोमीति.

ततो निळिनिका गाथमाह

१७. ‘‘न मन्तयोगा न कसाययोगा, न ओसधा ब्रह्मचारि कमन्ति;

यं ते मुदु तेन विनेहि कण्डुं, यथा अहं परमसुखी भवेय्य’’न्ति.

तत्थ कमन्तीति, भो ब्रह्मचारि, इमस्मिं मम वणे नेव मन्तयोगा, न कसाययोगा, न पुप्फफलादीनि ओसधानि कमन्ति, अनेकवारं कतेहिपि तेहि एतस्स फासुकभावो न भूतपुब्बो. यं पन ते एतं मुदु अङ्गजातं, तेन घट्टियमानस्सेव तस्स कण्डु न होति, तस्मा तेन विनेहि कण्डुन्ति.

सो ‘‘सच्चं एसो भणती’’ति सल्लक्खेत्वा ‘‘मेथुनसंसग्गेन सीलं भिज्जति, झानं अन्तरधायती’’ति अजानन्तो मातुगामस्स अदिट्ठपुब्बत्ता मेथुनधम्मस्स च अजाननभावेन ‘‘भेसज्ज’’न्ति वदन्तिया ताय मेथुनं पटिसेवि. तावदेवस्स सीलं भिज्जि, झानं परिहायि. सो द्वे तयो वारे संसग्गं कत्वा किलन्तो हुत्वा निक्खमित्वा सरं ओरुय्ह न्हत्वा पटिप्पस्सद्धदरथो आगन्त्वा पण्णसालायं निसीदित्वा पुनपि तं ‘‘तापसो’’ति मञ्ञमानो वसनट्ठानं पुच्छन्तो गाथमाह –

१८. ‘‘इतो नु भोतो कतमेन अस्समो, कच्चि भवं अभिरमसि अरञ्ञे;

कच्चि नु ते मूलफलं पहूतं, कच्चि भवन्तं न विहिंसन्ति वाळा’’ति.

तत्थ कतमेनाति इतो कतमेन दिसाभागेन भोतो अस्समो. भवन्ति आलपनमेतं.

ततो निळिनिका चतस्सो गाथायो अभासि –

१९. ‘‘इतो उजुं उत्तरायं दिसायं, खेमा नदी हिमवता पभावी;

तस्सा तीरे अस्समो मय्ह रम्मो, अहो भवं अस्समं मय्हं पस्से.

२०. ‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;

समन्ततो किम्पुरिसाभिगीतं, अहो भवं अस्समं मय्हं पस्से.

२१. ‘‘ताला च मूला च फला च मेत्थ, वण्णेन गन्धेन उपेतरूपं;

तं भूमिभागेहि उपेतरूपं, अहो भवं अस्समं मय्हं पस्से.

२२. ‘‘फला च मूला च पहूतमेत्थ, वण्णेन गन्धेन रसेनुपेता;

आयन्ति च लुद्दका तं पदेसं, मा मे ततो मूलफलं अहासु’’न्ति.

तत्थ उत्तरायन्ति उत्तराय. खेमाति एवंनामिका नदी. हिमवता पभावीति हिमवन्ततो पवत्तति. अहोति पत्थनत्थे निपातो. उद्दालकाति वातघातका. किम्पुरिसाभिगीतन्ति समन्ततो परिवारेत्वा मधुरसद्देन गायन्तेहि किम्पुरिसेहि अभिगीतं. ताला च मूला च फला च मेत्थाति एत्थ मम अस्समे पासादिका तालरुक्खा च तेसञ्ञेव वण्णगन्धादिसम्पन्ना कन्दसङ्खाता मूला च फला च. पहूतमेत्थाति नानारुक्खफला च रुक्खवल्लिमूला च पहूता एत्थ. मा मे ततोति तं मम अस्समपदं सम्बहुला लुद्दका आगच्छन्ति, मया चेत्थ आहरित्वा ठपितं बहु मधुरसमूलफलाफलं अत्थि, ते मयि चिरायन्ते मूलफलाफलं हरेय्युं. ते ततो मम मूलफलाफलं मा हरिंसु, तस्मा सचेपि मया सद्धिं आगन्तुकामो, एहि, नो चे, अहं गमिस्सामीति आह.

तं सुत्वा तापसो याव पितु आगमना अधिवासापेतुं गाथमाह –

२३. ‘‘पिता ममं मूलफलेसनं गतो, इदानि आगच्छति सायकाले;

उभोव गच्छामसे अस्समं तं, याव पिता मूलफलतो एतू’’ति.

तत्थ उभोव गच्छामसेति मम पितु आरोचेत्वा उभोव गमिस्साम.

ततो सा चिन्तेसि – ‘‘अयं ताव अरञ्ञेव वड्ढितभावेन मम इत्थिभावं न जानाति, पिता पनस्स मं दिस्वाव जानित्वा ‘त्वं इध किं करोसी’ति काजकोटिया पहरित्वा सीसम्पि मे भिन्देय्य, तस्मिं अनागतेयेव मया गन्तुं वट्टति, आगमनकम्मम्पि मे निट्ठित’’न्ति. सा तस्स आगमनूपायं आचिक्खन्ती इतरं गाथमाह –

२४. ‘‘अञ्ञे बहू इसयो साधुरूपा, राजीसयो अनुमग्गे वसन्ति;

तेयेव पुच्छेसि ममस्समं तं, ते तं नयिस्सन्ति ममं सकासे’’ति.

तत्थ राजीसयोति, सम्म, मया न सक्का चिरायितुं, अञ्ञे पन साधुसभावा राजिसयो च ब्राह्मणिसयो च अनुमग्गे मम अस्सममग्गपस्से वसन्ति, अहं तेसं आचिक्खित्वा गमिस्सामि, त्वं ते पुच्छेय्यासि, ते तं मम सन्तिकं नयिस्सन्तीति.

एवं सा अत्तनो पलायनूपायं कत्वा पण्णसालतो निक्खमित्वा तं ओलोकेन्तमेव ‘‘त्वं निवत्ता’’ति वत्वा आगमनमग्गेनेव अमच्चानं सन्तिकं अगमासि. ते तं गहेत्वा खन्धावारं गन्त्वा अनुपुब्बेन बाराणसिं पापुणिंसु. सक्कोपि तं दिवसमेव तुस्सित्वा सकलरट्ठे देवं वस्सापेसि, ततो सुभिक्खं जनपदं अहोसि. इसिसिङ्गतापसस्सपि ताय पक्कन्तमत्ताय एव काये डाहो उप्पज्जि. सो कम्पन्तो पण्णसालं पविसित्वा वाकचीरं पारुपित्वा सोचन्तो निपज्जि. बोधिसत्तो सायं आगन्त्वा पुत्तं अपस्सन्तो ‘‘कहं नु खो गतो’’ति काजं ओतारेत्वा पण्णसालं पविसित्वा तं निपन्नकं दिस्वा ‘‘तात, किं करोसी’’ति पिट्ठिं परिमज्जन्तो तिस्सो गाथा अभासि –

२५. ‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो, किं नु मन्दोव झायसि.

२६. ‘‘भिन्नानि कट्ठानि हुतो च अग्गि, तपनीपि ते समिता ब्रह्मचारी;

पीठञ्च मय्हं उदकञ्च होति, रमसि तुवं ब्रह्मभूतो पुरत्था.

२७. ‘‘अभिन्नकट्ठोसि अनाभतोदको, अहापितग्गीसि असिद्धभोजनो;

न मे तुवं आलपसी ममज्ज, नट्ठं नु किं चेतसिकञ्च दुक्ख’’न्ति.

तत्थ भिन्नानीति अरञ्ञतो उद्धटानि. न हापितोति न जलितो. भिन्नानीति पुब्बे तया ममागमनवेलाय कट्ठानि उद्धटानेव होन्ति. हुतो च अग्गीति अग्गि च हुतो होति. तपनीति विसिब्बनअग्गिसङ्खाता तपनीपि ते समिताव सयमेव संविदहिताव होति. पीठन्ति मम आसनत्थाय पीठञ्च पञ्ञत्तमेव होति. उदकञ्चाति पादधोवनउदकम्पि उपट्ठापितमेव होति. ब्रह्मभूतोति तुवम्पि इतो पुरत्था सेट्ठभूतो इमस्मिं अस्समे अभिरमसि. अभिन्नकट्ठोसीति सो दानि अज्ज अनुद्धटकट्ठोसि. असिद्धभोजनोति न ते किञ्चि अम्हाकं कन्दमूलं वा पण्णं वा सेदितं. ममज्जाति, मम पुत्त, अज्ज न मे त्वं आलपसि. नट्ठं नु किन्ति किं नु ते नट्ठं वा, किं चेतसिकं वा दुक्खं, अक्खाहि मे निपन्नकारणन्ति पुच्छति.

सो पितु वचनं सुत्वा तं कारणं कथेन्तो आह –

२८. ‘‘इधागमा जटिलो ब्रह्मचारी, सुदस्सनेय्यो सुतनू विनेति;

नेवातिदीघो न पनातिरस्सो, सुकण्हकण्हच्छदनेहि भोतो.

२९. ‘‘अमस्सुजातो अपुराणवण्णी, आधाररूपञ्च पनस्स कण्ठे;

द्वे यमा गण्डा उरे सुजाता, सुवण्णतिन्दुकनिभा पभस्सरा.

३०. ‘‘मुखञ्च तस्स भुसदस्सनेय्यं, कण्णेसु लम्बन्ति च कुञ्चितग्गा;

ते जोतरे चरतो माणवस्स, सुत्तञ्च यं संयमनं जटानं.

३१. ‘‘अञ्ञा च तस्स संयमानि चतस्सो, नीला पीता लोहितिका च सेता;

ता पिंसरे चरतो माणवस्स, तिरिटिसङ्घारिव पावुसम्हि.

३२. ‘‘न मिखलं मुञ्जमयं धारेति, न सन्थरे नो पन पब्बजस्स;

ता जोतरे जघनन्तरे विलग्गा, सतेरता विज्जुरिवन्तलिक्खे.

३३. ‘‘अखीलकानि च अवण्टकानि, हेट्ठा नभ्या कटिसमोहितानि;

अघट्टिता निच्चकीळं करोन्ति, हं तात किंरुक्खफलानि तानि.

३४. ‘‘जटा च तस्स भुसदस्सनेय्या, परोसतं वेल्लितग्गा सुगन्धा;

द्वेधा सिरो साधु विभत्तरूपो, अहो नु खो मय्ह तथा जटास्सु.

३५. ‘‘यदा च सो पकिरति ता जटायो, वण्णेन गन्धेन उपेतरूपा;

नीलुप्पलं वातसमेरितंव, तथेव संवाति पनस्समो अयं.

३६. ‘‘पङ्को च तस्स भुसदस्सनेय्यो, नेतादिसो यादिसो मय्हं काये;

सो वायति एरितो मालुतेन, वनं यथा अग्गगिम्हे सुफुल्लं.

३७. ‘‘निहन्ति सो रुक्खफलं पथब्या, सुचित्तरूपं रुचिरं दस्सनेय्यं;

खित्तञ्च तस्स पुनरेहि हत्थं, हं तात किंरुक्खफलं नु खो तं.

३८. ‘‘दन्ता च तस्स भुसदस्सनेय्या, सुद्धा समा सङ्खवरूपपन्ना;

मनो पसादेन्ति विवरियमाना, न हि नून सो साकमखादि तेहि.

३९. ‘‘अकक्कसं अग्गळितं मुहुं मुदुं, उजुं अनुद्धतं अचपलमस्स भासितं;

रुदं मनुञ्ञं करवीकसुस्सरं, हदयङ्गमं रञ्जयतेव मे मनो.

४०. ‘‘बिन्दुस्सरो नातिविसट्ठवाक्यो, न नून सज्झायमतिप्पयुत्तो;

इच्छामि भो तं पुनदेव दट्ठुं, मित्तो हि मे माणवोहु पुरत्था.

४१. ‘‘सुसन्धि सब्बत्थ विमट्ठिमं वणं, पुथू सुजातं खरपत्तसन्निभं;

तेनेव मं उत्तरियान माणवो, विवरितं ऊरुं जघनेन पिळयि.

४२. ‘‘तपन्ति आभन्ति विरोचरे च, सतेरता विज्जुरिवन्तलिक्खे;

बाहा मुदू अञ्जनलोमसादिसा, विचित्रवट्टङ्गुलिकास्स सोभरे.

४३. ‘‘अकक्कसङ्गो न च दीघलोमो, नखास्स दीघा अपि लोहितग्गा;

मुदूहि बाहाहि पलिस्सजन्तो, कल्याणरूपो रमयं उपट्ठहि.

४४. ‘‘दुमस्स तूलूपनिभा पभस्सरा, सुवण्णकम्बुतलवट्टसुच्छवि;

हत्था मुदू तेहि मं सम्फुसित्वा, इतो गतो तेन मं दहन्ति तात.

४५. ‘‘न नून सो खारिविधं अहासि, न नून सो कट्ठानि सयं अभञ्जि;

न नून सो हन्ति दुमे कुठारिया, न हिस्स हत्थेसु खिलानि अत्थि.

४६. ‘‘अच्छो च खो तस्स वणं अकासि, सो मंब्रवि ‘सुखितं मं करोहि’;

ताहं करिं तेन ममासि सोख्यं, सो चब्रवि ‘सुखितोस्मी’ति ब्रह्मे.

४७. ‘‘अयञ्च ते मालुवपण्णसन्थता, विकिण्णरूपाव मया च तेन च;

किलन्तरूपा उदके रमित्वा, पुनप्पुनं पण्णकुटिं वजाम.

४८. ‘‘न मज्ज मन्ता पटिभन्ति तात, न अग्गिहुत्तं नपि यञ्ञतन्तं;

न चापि ते मूलफलानि भुञ्जे, याव न पस्सामि तं ब्रह्मचारिं.

४९. ‘‘अद्धा पजानासि तुवम्पि तात, यस्सं दिसं वसते ब्रह्मचारी;

तं मं दिसं पापय तात खिप्पं, मा ते अहं अमरिमस्समम्हि.

५०. ‘‘विचित्रफुल्लञ्हि वनं सुतं मया, दिजाभिघुट्ठं दिजसङ्घसेवितं;

तं मं वनं पापय तात खिप्पं, पुरा ते पाणं विजहामि अस्समे’’ति.

तत्थ इधागमाति, तात, इमं अस्समपदं आगतो. सुदस्सनेय्योति सुट्ठु दस्सनेय्यो. सुतनूति सुट्ठु तनुको नातिकिसो नातिथूलो. विनेतीति अत्तनो सरीरप्पभाय अस्समपदं एकोभासं विय विनेति पूरेति. सुकण्हकण्हच्छदनेहि भोतोति, तात, तस्स भोतो सुकण्हेहि कण्हच्छदनेहि भमरवण्णेहि केसेहि सुकण्हसीसं सुमज्जितमणिमयं विय खायति. अमस्सूजातोति न तावस्स मस्सु जायति, तरुणोयेव. अपुराणवण्णीति अचिरपब्बजितो. आधाररूपञ्च पनस्स कण्ठेति कण्ठे च पनस्स अम्हाकं भिक्खाभाजनट्ठपनं पत्ताधारसदिसं पिळन्धनं अत्थीति मुत्ताहारं सन्धाय वदति. गण्डाति थने सन्धायाह. उरे सुजाताति उरम्हि सुजाता. ‘‘उरतो’’तिपि पाठो. पभस्सराति पभासम्पन्ना. ‘‘पभासरे’’तिपि पाठो, ओभासन्तीति अत्थो.

भुसदस्सनेय्यन्ति अतिविय दस्सनीयं. कुञ्चितग्गाति सीहकुण्डलं सन्धाय वदति. सुत्तञ्चाति यं तस्स जटाबन्धनसुत्तं, तम्पि जोतति पभं मुञ्चति. ‘‘संयमानि चतस्सो’’ति इमिना मणिसुवण्णपवाळरजतमयानि चत्तारि पिळन्धनानि दस्सेति. ता पिंसरेति तानि पिळन्धनानि पावुसम्हि पवुट्ठे देवे तिरिटिसङ्घा विय विरवन्ति. मिखलन्ति मेखलं, अयमेव वा पाठो. इदं निवत्थकञ्चनचीरकं सन्धायाह. न सन्थरेति न वाके. इदं वुत्तं होति – तात, यथा मयं तिणमयं वा वाकमयं वा चीरकं धारेम, न तथा सो, सो पन सुवण्णचीरकं धारेतीति. अखीलकानीति अतचानि निप्पण्णानि. कटिसमोहितानीति कटियं बद्धानि. निच्चकीळं करोन्तीति अघट्टितानिपि निच्चकालं कीळायन्ति. हं, ताताति हम्भो, तात. किं रुक्खफलानि तानीति तानि तस्स माणवस्स सुत्तारुळ्हानि कटियं बद्धानि कतररुक्खफलानि नामाति मणिसङ्घाटिं सन्धायाह.

जटाति जटामण्डलाकारेन बद्धरतनमिस्सककेसवट्टियो सन्धायाह. वेल्लितग्गाति कुञ्चितग्गा. द्वेधासिरोति तस्स सीसं द्वेधा कत्वा बद्धानं जटानं वसेन सुट्ठु विभत्तरूपं. तथाति यथा तस्स माणवस्स जटा, तथा तुम्हेहि मम न बद्धा, अहो वत ममपि तथा अस्सूति पत्थेन्तो आह. उपेतरूपाति उपेतसभावा. वातसमेरितंवाति यथा नाम नीलुप्पलं वातेन समीरितं, तथेव अयं इमस्मिं वनसण्डे अस्समो संवाति. नेतादिसोति, तात, यादिसो मम काये पङ्को, नेतादिसो तस्स सरीरे. सो हि दस्सनीयो चेव सुगन्धो च. अग्गगिम्हेति वसन्तसमये.

निहन्तीति पहरति. किं रुक्खफलं नु खो तन्ति कतररुक्खस्स नु खो तं फलं. सङ्खवरूपपन्नाति सुधोतसङ्खपटिभागा. न हि नून सो साकमखादि तेहीति न नून सो माणवो मयं विय तेहि दन्तेहि रुक्खपण्णानि चेव मूलफलाफलानि च खादि. अम्हाकञ्हि तानि खादन्तानं सबला पण्णवण्णा दन्ताति दीपेति.

अकक्कसन्ति, तात, तस्स भासितं अफरुसं अगळितं, पुनप्पुनं वदन्तस्सापि मधुरताय मुहुं मुदुं, अपमुस्सताय उजुं, अविक्खित्तताय अनुद्धटं, पतिट्ठितताय अचपलं. रुदन्ति भासमानस्स सरसङ्खातं रुदम्पि मनोहरं करवीकस्स विय सुस्सरं सुमधुरं. रञ्जयतेवाति मम मनो रञ्जतियेव. बिन्दुस्सरोति पिण्डितस्सरो. माणवोहूति सो हि माणवो पुरत्था मम मित्तो अहु.

सुसन्धि सब्बत्थ विमट्ठिमं वणन्ति तात तस्स माणवस्स ऊरूनं अन्तरे एकं वणं अत्थि, तं सुसन्धि सुफुसितं सिप्पिपुटमुखसदिसं, सब्बत्थ विमट्ठं समन्ततो मट्ठं. पुथूति महन्तं. सुजातन्ति सुसण्ठितं. खरपत्तसन्निभन्ति सुपुप्फितपदुममकुळसन्निभं. उत्तरियानाति उत्तरित्वा अवत्थरित्वा. पिळयीति पीळेसि. तपन्तीति तस्स माणवस्स सरीरतो निच्छरन्ता सुवण्णवण्णरंसियो जलन्ति ओभासन्ति विरोचन्ति च. बाहाति बाहापिस्स मुदू. अञ्जनलोमसादिसाति अञ्जनसदिसेहि लोमेहि समन्नागता. विचित्रवट्टङ्गुलिकास्स सोभरेति हत्थापिस्स वरलक्खणविचित्राहि पवालङ्कुरसदिसाहि वट्टङ्गुलीहि समन्नागता सोभन्ति.

अकक्कसङ्गोति कच्छुपीळकादिरहितअङ्गपच्चङ्गो. रमयं उपट्ठहीति मं रमयन्तो उपट्ठहि परिचरि. तूलूपनिभाति मुदुभावस्स उपमा. सुवण्णकम्बुतलवट्टसुच्छवीति सुवण्णमयं आदासतलं विय वट्टा च सुच्छवि च, परिमण्डलतला चेव सुन्दरच्छवि चाति अत्थो. सम्फुसित्वाति सुट्ठु फुसित्वा अत्तनो हत्थसम्फस्सं मम सरीरे फरापेत्वा. इतो गतोति मम ओलोकेन्तस्सेव इतो गतो. तेन मं दहन्तीति तेन तस्स हत्थसम्फस्सेन इदानि मं दहन्ति. तथा हि तस्स गतकालतो पट्ठाय मम सरीरे डाहो उट्ठितो, तेनम्हि दोमनस्सप्पत्तो निपन्नोति.

न नून सो खारिविधन्ति, तात, नून सो माणवो न खारिभारं उक्खिपित्वा विचरि. खिलानीति किलानि, ‘‘अयमेव वा पाठो. सोख्यन्ति सुखं. मालुवपण्णसन्थता विकिण्णरूपावाति, तात, अयं तव मालुवपण्णसन्थता अज्ज मया च तेन च अञ्ञमञ्ञं परामसनालिङ्गनवसेन परिवत्तन्तेहि विकिण्णा विय आकुलब्याकुला जाता. पुनप्पुनं पण्णकुटिं वजामाति, तात, अहञ्च सो च अभिरमित्वा किलन्तरूपा पण्णसालतो निक्खमित्वा उदकं पविसित्वा रमित्वा विगतदरथा पुनप्पुनं इममेव कुटिं पविसामाति वदति.

न मज्ज मन्ताति अज्ज मम तस्स गतकालतो पट्ठाय नेव मन्ता पटिभन्ति न उपट्ठहन्ति न रुच्चन्ति. न अग्गिहुत्तं नपि यञ्ञतन्तन्ति महाब्रह्मुनो आराधनत्थाय कत्तब्बहोमविधूपनादियञ्ञकिरियापि मे न पटिभाति न उपट्ठाति न रुच्चति. न चापि तेति तया आभतमूलफलाफलानिपि न भुञ्जामि. यस्सं दिसन्ति यस्सं दिसायं. वनन्ति तस्स माणवस्स अस्समं परिवारेत्वा ठितवनन्ति.

तस्सेवं विलपन्तस्स तं विलापं सुत्वा महासत्तो ‘‘एकाय इत्थिया इमस्स सीलं भिन्नं भविस्सती’’ति ञत्वा तं ओवदन्तो छ गाथायो अभासि –

५१. ‘‘इमस्माहं जोतिरसे वनम्हि, गन्धब्बदेवच्छरसङ्घसेविते;