१४. पकिण्णकनिपातो

[४८४] १. सालिकेदारजातकवण्णना

सम्पन्नं सालिकेदारन्ति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु गिही पोसेसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किं ते होन्ती’’ति वत्वा ‘‘मातापितरो मे, भन्ते’’ति वुत्ते ‘‘साधु भिक्खु, पोराणकपण्डिता तिरच्छाना हुत्वा सुवयोनियं निब्बत्तित्वापि जिण्णे मातापितरो कुलावके निपज्जापेत्वा मुखतुण्डकेन गोचरं आहरित्वा पोसेसु’’न्ति वत्वा अतीतं आहरि.

अतीते राजगहे मगधराजा नाम रज्जं कारेसि. तदा नगरतो पुब्बुत्तरदिसाय सालिद्दियो नाम ब्राह्मणगामो अहोसि. तस्स पुब्बुत्तरदिसाय मगधखेत्तं अत्थि, तत्थ कोसियगोत्तो नाम सालिद्दियवासी ब्राह्मणो सहस्सकरीसमत्तं खेत्तं गहेत्वा सालिं वपापेसि. उट्ठिते च पन सस्से वतिं थिरं कारेत्वा कस्सचि पण्णासकरीसमत्तं, कस्सचि सट्ठिकरीसमत्तन्ति एवं पञ्चसतकरीसमत्तं खेत्तं अत्तनो पुरिसानंयेव आरक्खणत्थाय दत्वा सेसं पञ्चसतकरीसमत्तं खेत्तं भतिं कत्वा एकस्स भतकस्स अदासि. सो तत्थ कुटिं कत्वा रत्तिन्दिवं वसति. खेत्तस्स पन पुब्बुत्तरदिसाभागे एकस्मिं सानुपब्बते महन्तं सिम्बलिवनं अत्थि, तत्थ अनेकानि सुवसतानि वसन्ति. तदा बोधिसत्तो तस्मिं सुवसङ्घे सुवरञ्ञो पुत्तो हुत्वा निब्बत्ति. सो वयप्पत्तो अभिरूपो थामसम्पन्नो सकटनाभिपमाणसरीरो अहोसि. अथस्स पिता महल्लककाले ‘‘अहं इदानि दूरं गन्तुं न सक्कोमि, त्वं इमं गणं परिहरा’’ति गणं निय्यादेसि. सो पुनदिवसतो पट्ठाय मातापितूनं गोचरत्थाय गन्तुं नादासि, सुवगणं परिहरन्तो हिमवन्तं गन्त्वा सयंजातसालिवने यावदत्थं सालिं खादित्वा आगमनकाले मातापितूनं पहोनकं गोचरं आहरित्वा मातापितरो पोसेसि.

अथस्स एकदिवसं सुवा आरोचेसुं ‘‘पुब्बे इमस्मिं काले मगधखेत्ते सालि पच्चति, इदानि किं नु खो जात’’न्ति? ‘‘तेन हि जानाथा’’ति द्वे सुवे पहिणिंसु. ते गन्त्वा मगधखेत्ते ओतरन्ता तस्स भतिया रक्खणपुरिसस्स खेत्ते ओतरित्वा सालिं खादित्वा एकं सालिसीसं आदाय सिम्बलिवनं गन्त्वा सालिसीसं महासत्तस्स पादमूले ठपेत्वा ‘‘तत्थ एवरूपो साली’’ति वदिंसु. सो पुनदिवसे सुवगणपरिवुतो तत्थ गन्त्वा तस्मिं भतकस्स खेत्ते ओतरि. सो पन पुरिसो सुवे सालिं खादन्ते दिस्वा इतो चितो च धावित्वा वारेन्तोपि वारेतुं न सक्कोति. सेसा सुवा यावदत्थं सालिं खादित्वा तुच्छमुखाव गच्छन्ति. सुवराजा पन बहूनि सालिसीसानि एकतो कत्वा तेहि परिवुतो हुत्वा आहरित्वा मातापितूनं देति. सुवा पुनदिवसतो पट्ठाय तत्थेव सालिं खादिंसु. अथ सो पुरिसो ‘‘सचे इमे अञ्ञं कतिपाहं एवं खादिस्सन्ति, किञ्चि न भविस्सति, ब्राह्मणो सालिं अग्घापेत्वा मय्हं इणं करिस्सति, गन्त्वा तस्स आरोचेस्सामी’’ति सालिमुट्ठिना सद्धिं तथारूपं पण्णाकारं गहेत्वा सालिद्दियगामं गन्त्वा ब्राह्मणं पस्सित्वा वन्दित्वा पण्णाकारं दत्वा एकमन्तं ठितो ‘‘किं, भो पुरिस, सम्पन्नं सालिखेत्त’’न्ति पुट्ठो ‘‘आम, ब्राह्मण, सम्पन्न’’न्ति वत्वा द्वे गाथा अभासि –

१. ‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे.

२. ‘‘एको च तत्थ सकुणो, यो नेसं सब्बसुन्दरो;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छती’’ति.

तत्थ सम्पन्नन्ति परिपुण्णं अवेकल्लं. सालिकेदारन्ति सालिखेत्तं. सब्बसुन्दरोति सब्बेहि कोट्ठासेहि सुन्दरो रत्ततुण्डो जिञ्जुकसन्निभअक्खि रत्तपादो तीहि रत्तराजीहि परिक्खित्तगीवो महामयूरपमाणो सो यावदत्थं सालिं खादित्वा अञ्ञं तुण्डेन गहेत्वा गच्छतीति.

ब्राह्मणो तस्स कथं सुत्वा सुवराजे सिनेहं उप्पादेत्वा खेत्तपालं पुच्छि ‘‘अम्भो पुरिस, पासं ओड्डेतुं जानासी’’ति? ‘‘आम, जानामी’’ति. अथ नं गाथाय अज्झभासि –

३. ‘‘ओड्डेन्तु वालपासानि, यथा बज्झेथ सो दिजो;

जीवञ्च नं गहेत्वान, आनयेहि ममन्तिके’’ति.

तत्थ ओड्डेन्तूति ओड्डयन्तु. वालपासानीति अस्सवालादिरज्जुमयपासानि. जीवञ्च नन्ति जीवन्तं एव नं. आनयेहीति आनेहि.

तं सुत्वा खेत्तपालो सालिं अग्घापेत्वा इणस्स अकतभावेन तुट्ठो गन्त्वा अस्सवाले वट्टेत्वा ‘‘अज्ज इमस्मिं ठाने ओतरिस्सती’’ति सुवरञ्ञो ओतरणट्ठानं सल्लक्खेत्वा पुनदिवसे पातोव चाटिपमाणं पञ्जरं कत्वा पासञ्च ओड्डेत्वा सुवानं आगमनं ओलोकेन्तो कुटियं निसीदि. सुवराजापि सुवगणपरिवुतो आगन्त्वा अलोलुप्पचारताय हिय्यो खादितट्ठाने ओड्डितपासे पादं पवेसन्तोव ओतरि. सो अत्तनो बद्धभावं ञत्वा चिन्तेसि ‘‘सचाहं इदानेव बद्धरवं रविस्सामि, ञातकामे भयतज्जिता गोचरं अग्गहेत्वाव पलायिस्सन्ति, याव एतेसं गोचरग्गहणं, ताव अधिवासेस्सामी’’ति. सो तेसं सुहितभावं ञत्वा मरणभयतज्जितो हुत्वा तिक्खत्तुं बद्धरवं रवि. अथ सब्बे ते सुवा पलायिंसु. सुवराजा ‘‘एत्तकेसु मे ञातकेसु निवत्तित्वा ओलोकेन्तो एकोपि नत्थि, किं नु खो मया पापं कत’’न्ति विलपन्तो गाथमाह –

४. ‘‘एते भुत्वा पिवित्वा च, पक्कमन्ति विहङ्गमा;

एको बद्धोस्मि पासेन, किं पापं पकतं मया’’ति.

खेत्तपालो सुवराजस्स बद्धरवं सुवानञ्च आकासे पक्खन्दनसद्दं सुत्वा ‘‘किं नु खो’’ति कुटिया ओरुय्ह पासाट्ठानं गन्त्वा सुवराजानं दिस्वा ‘‘यस्सेव मे पासो ओड्डितो, स्वेव बद्धो’’ति तुट्ठमानसो सुवराजानं पासतो मोचेत्वा द्वे पादे एकतो बन्धित्वा दळ्हं आदाय सालिद्दियगामं गन्त्वा सुवराजं ब्राह्मणस्स अदासि. ब्राह्मणो बलवसिनेहेन महासत्तं उभोहि हत्थेहि दळ्हं गहेत्वा अङ्के निसीदापेत्वा तेन सद्धिं सल्लपन्तो द्वे गाथा अभासि –

५. ‘‘उदरं नून अञ्ञेसं, सुव अच्चोदरं तव;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि.

६. ‘‘कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया;

पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसी’’ति.

तत्थ उदरं नूनाति अञ्ञेसं उदरं उदरमेव मञ्ञे, तव उदरं पन अतिउदरं. तत्थाति तस्मिं सिम्बलिवने. पूरेसीति वस्सारत्तत्थाय पूरेसि. निदाहसीति निधानं कत्वा ठपेसि, ‘‘निधीयसी’’तिपि पाठो.

तं सुत्वा सुवराजा मधुराय मनुस्सभासाय सत्तमं गाथमाह –

७. ‘‘न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति;

इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिं;

निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिया’’ति.

तत्थ इणं मुञ्चामिणं दम्मीति तव सालिं हरित्वा इणं मुञ्चामि चेव दम्मि चाति वदति. निधिम्पीति एकं तत्थ सिम्बलिवने अनुगामिकनिधिम्पि निदहामि.

अथ नं ब्राह्मणो पुच्छि –

८. ‘‘कीदिसं ते इणदानं, इणमोक्खो च कीदिसो;

निधिनिधानमक्खाहि, अथ पासा पमोक्खसी’’ति.

तत्थ इणदानन्ति इणस्स दानं. निधिनिधानन्ति निधिनो निधानं.

एवं ब्राह्मणेन पुट्ठो सुवराजा तस्स ब्याकरोन्तो चतस्सो गाथा अभासि –

९. ‘‘अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय;

ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे.

१०. ‘‘माता पिता च मे वुद्धा, जिण्णका गतयोब्बना;

तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं इणं.

११. ‘‘अञ्ञेपि तत्थ सकुणा, खीणपक्खा सुदुब्बला;

तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता.

१२. ‘‘ईदिसं मे इणदानं, इणमोक्खो च ईदिसो;

निधिनिधानमक्खामि, एवं जानाहि कोसिया’’ति.

तत्थ हातूनाति हरित्वा. तं निधिन्ति तं पुञ्ञकम्मं पण्डिता अनुगामिकनिधिं नाम कथेन्ति. निधिनिधानन्ति निधिनो निधानं, ‘‘निधाननिधि’’न्तिपि पाठो, अयमेवत्थो.

ब्राह्मणो महासत्तस्स धम्मकथं सुत्वा पसन्नचित्तो द्वे गाथा अभासि.

१३. ‘‘भद्दको वतयं पक्खी, दिजो परमधम्मिको;

एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति.

१४. ‘‘भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि;

पुनापि सुव पस्सेमु, पियं मे तव दस्सन’’न्ति.

तत्थ भुञ्ज सालिन्ति इतो पट्ठाय निब्भयो हुत्वा भुञ्जाति करीससहस्सम्पि तस्सेव निय्यादेन्तो एवमाह. पस्सेमूति अत्तनो रुचिया आगतं अञ्ञेसुपि दिवसेसु तं पस्सेय्यामाति.

एवं ब्राह्मणो महासत्तं याचित्वा पियपुत्तं विय मुदुचित्तेन ओलोकेन्तो पादतो बन्धनं मोचेत्वा सतपाकतेलेन पादे मक्खेत्वा भद्दपीठे निसीदापेत्वा कञ्चनतट्टके मधुलाजे खादापेत्वा सक्खरोदकं पायेसि. अथस्स सुवराजा ‘‘अप्पमत्तो होहि, ब्राह्मणा’’ति वत्वा ओवादं देन्तो आह –

१५. ‘‘भुत्तञ्च पीतञ्च तवस्समम्हि, रती च नो कोसिय ते सकासे;

निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सू’’ति.

तत्थ तवस्समम्हीति तव निवेसने. रतीति अभिरति.

तं सुत्वा ब्राह्मणो तुट्ठमानसो उदानं उदानेन्तो गाथमाह –

१६. ‘‘लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं दिजानं;

सुवस्स सुत्वान सुभासितानि, काहामि पुञ्ञानि अनप्पकानी’’ति.

तत्थ लक्खीति सिरीपि पुञ्ञम्पि पञ्ञापि.

महासत्तो ब्राह्मणेन अत्तनो दिन्नं करीससहस्समत्तं पटिक्खिपित्वा अट्ठकरीसमेव गण्हि. ब्राह्मणो थम्भे निखनित्वा तस्स खेत्तं निय्यादेत्वा गन्धमालादीहि पूजेत्वा खमापेत्वा ‘‘गच्छ सामि, अस्सुमुखे रोदमाने मातापितरो अस्सासेही’’ति वत्वा तं उय्योजेसि. सो तुट्ठमानसो सालिसीसं आदाय गन्त्वा मातापितूनं पुरतो निक्खिपित्वा ‘‘अम्मताता, उट्ठेथा’’ति आह. ते अस्सुमुखा रोदमाना उट्ठहिंसु, तावदेव सुवगणा सन्निपतित्वा ‘‘कथं मुत्तोसि, देवा’’ति पुच्छिंसु. सो तेसं सब्बं वित्थारतो कथेसि. कोसियोपि सुवरञ्ञो ओवादं सुत्वा ततो पट्ठाय धम्मिकसमणब्राह्मणानं महादानं पट्ठपेसि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह –

१७. ‘‘सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा;

अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चा’’ति.

तत्थ सन्तप्पयीति गहितगहितानि भाजनानि पूरेन्तो सन्तप्पेसीति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु मातापितूनं पोसनं नाम पण्डितानं वंसो’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा सुवगणा बुद्धपरिसा अहेसुं, मातापितरो महाराजकुलानि, खेत्तपालो छन्नो, ब्राह्मणो आनन्दो, सुवराजा पन अहमेव अहोसिन्ति.

सालिकेदारजातकवण्णना पठमा.

[४८५] २. चन्दकिन्नरीजातकवण्णना

उपनीयतिदं मञ्ञेति इदं सत्था कपिलवत्थुपुरं उपनिस्साय निग्रोधारामे विहरन्तो राजनिवेसने राहुलमातरं आरब्भ कथेसि. इदं पन जातकं दूरेनिदानतो पट्ठाय कथेतब्बं. सा पनेसा निदानकथा याव लट्ठिवने उरुवेलकस्सपसीहनादा अपण्णकजातके कथिता, ततो परं याव कपिलवत्थुगमना वेस्सन्तरजातके आवि भविस्सति. सत्था पन पितु निवेसने निसीदित्वा अन्तरभत्तसमये महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेत्वा कतभत्तकिच्चो ‘‘राहुलमातु निवेसने निसीदित्वा तस्सा गुणं वण्णेन्तो चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेस्सामी’’ति राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राहुलमातु निवेसनट्ठानं पायासि. तदा तस्सा सम्मुखा चत्तालीससहस्सनाटकित्थियो वसन्ति तासु खत्तियकञ्ञानंयेव नवुतिअधिकसहस्सं. सा तथागतस्स आगमनं ञत्वा ‘‘सब्बा कासावानेव निवासेन्तू’’ति तासं आरोचापेसि. ता तथा करिंसु. सत्था आगन्त्वा पञ्ञत्तासने निसीदि. अथ ता सब्बापि एकप्पहारेनेव विरविंसु, महापरिदेवसद्दो अहोसि. राहुलमातापि परिदेवित्वा सोकं विनोदेत्वा सत्थारं वन्दित्वा राजगतेन बहुमानेन सगारवेन निसीदि. राजा तस्सा गुणकथं आरभि, ‘‘भन्ते, मम सुण्हा ‘तुम्हेहि कासावानि निवत्थानी’ति सुत्वा कासावानेव निवासेसि, ‘मालादीनि परिच्चत्तानी’ति सुत्वा मालादीनि परिच्चजि, ‘भूमियं सयती’ति सुत्वा भूमिसयनाव जाता, तुम्हाकं पब्बजितकाले विधवा हुत्वा अञ्ञेहि राजूहि पेसितं पण्णाकारं न गण्हि, एवं तुम्हेसु असंहीरचित्ता एसा’’ति नानप्पकारेहि तस्सा गुणकथं कथेसि. सत्था ‘‘अनच्छरियं, महाराज, यं एसा इदानि मम पच्छिमे अत्तभावे मयि ससिनेहा असंहीरचित्ता अनञ्ञनेय्या भवेय्य. एसा तिरच्छानयोनियं निब्बत्तापि मयि असंहीरचित्ता अनञ्ञनेय्या अहोसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते महासत्तो हिमवन्तपदेसे किन्नरयोनियं निब्बत्ति, चन्दा नामस्स भरिया. ते उभोपि चन्दनामके रजतपब्बते वसिंसु. तदा बाराणसिराजा अमच्चानं रज्जं निय्यादेत्वा द्वे कासायानि निवासेत्वा सन्नद्धपञ्चावुधो एककोव हिमवन्तं पाविसि. सो मिगमंसं खादन्तो एकं खुद्दकनदिं अनुसञ्चरन्तो उद्धं अभिरुहि. चन्दपब्बतवासिनो किन्नरा वस्सारत्तसमये अनोतरित्वा पब्बतेयेव वसन्ति, निदाघसमये ओतरन्ति. तदा च सो चन्दकिन्नरो अत्तनो भरियाय सद्धिं ओतरित्वा तेसु तेसु ठानेसु गन्धे विलिम्पन्तो पुप्फरेणुं खादन्तो पुप्फपटे निवासेन्तो पारुपन्तो लतादोलाहि कीळन्तो मधुरस्सरेन गायन्तो तं खुद्दकनदिं पत्वा एकस्मिं निवत्तनट्ठाने ओतरित्वा उदके पुप्फानि विकिरित्वा उदककीळं कीळित्वा पुप्फपटे निवासेत्वा पारुपित्वा रजतपट्टवण्णाय वालुकाय पुप्फासनं पञ्ञपेत्वा एकं वेळु दण्डकं गहेत्वा सयने निसीदि. ततो चन्दकिन्नरो वेळुं वादेन्तो मधुरसद्देन गायि. चन्दकिन्नरी मुदुहत्थे नामेत्वा तस्स अविदूरे ठिता नच्चि चेव गायि च. सो राजा तेसं सद्दं सुत्वा पदसद्दं असावेन्तो सणिकं गन्त्वा पटिच्छन्ने ठत्वा ते किन्नरे दिस्वा किन्नरिया पटिबद्धचित्तो हुत्वा ‘‘तं किन्नरं विज्झित्वा जीवितक्खयं पापेत्वा इमाय सद्धिं संवासं कप्पेस्सामी’’ति ठत्वा चन्दकिन्नरं विज्झि. सो वेदनाप्पत्तो परिदेवमानो चतस्सो गाथा अभासि –

१८. ‘‘उपनीयतिदं मञ्ञे, चन्दे लोहितमद्दने;

अज्ज जहामि जीवितं, पाणा मे चन्दे निरुज्झन्ति.

१९. ‘‘ओसीदि मे दुक्खं हदयं, मे डय्हते नितम्मामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२०. ‘‘तिणमिव वनमिव मिलायामि, नदी अपरिपुण्णाव सुस्सामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२१. ‘‘वस्समिव सरे पादे, इमानि अस्सूनि वत्तरे मय्हं;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेही’’ति.

तत्थ उपनीयतीति सन्ततिविच्छेदं उपनीयति. इदन्ति जीवितं. पाणा मेति भद्दे, चन्दे मम जीवितपाणा निरुज्झन्ति. ओसीदि मेति जीवितं मे ओसीदति. नितम्मामीति अतिकिलमामि. तव चन्दियाति इदं मम दुक्खं, न नं अञ्ञेहि सोकेहि, अथ खो तव चन्दिया सोचन्तिया सोकहेतु यस्मा त्वं मम वियोगेन सोचिस्ससि, तस्माति अत्थो. तिणमिव वनमिव मिलायामीति तत्तपासाणे खित्ततिणमिव मूलछिन्नवनमिव मिलायामीति वदति. सरे पादेति यथा नाम पब्बतपादे पतितवस्सं सरित्वा अच्छिन्नधारं वत्तति.

महासत्तो इमाहि चतूहि गाथाहि परिदेवित्वा पुप्फसयने निपन्नोव सतिं विस्सज्जेत्वा परिवत्ति. राजा पतिट्ठितोव. इतरा महासत्ते परिदेवन्ते अत्तनो रतिया मत्ता हुत्वा तस्स विद्धभावं न जानाति, विसञ्ञं पन नं परिवत्तित्वा निपन्नं दिस्वा ‘‘किं नु खो मे पियसामिकस्स दुक्ख’’न्ति उपधारेन्ती पहारमुखतो पग्घरन्तं लोहितं दिस्वा पियसामिके उप्पन्नं बलवसोकं सन्धारेतुं असक्कोन्ती महासद्देन परिदेवि. राजा ‘‘किन्नरो मतो भविस्सती’’ति निक्खमित्वा अत्तानं दस्सेसि. चन्दा तं दिस्वा ‘‘इमिना मे चोरेन पियसामिको विद्धो भविस्सती’’ति कम्पमाना पलायित्वा पब्बतमत्थके ठत्वा राजानं परिभासन्ती पञ्च गाथा अभासि –

२२. ‘‘पापो खोसि राजपुत्त, यो मे इच्छितं पतिं वराकिया;

विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति.

२३. ‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२४. ‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२५. ‘‘मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव माता;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.

२६. ‘‘मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही’’ति.

तत्थ वराकियाति कपणाय. पटिमुञ्चतूति पटिलभतु फुसतु पापुणातु. मय्ह कामा हीति मय्हं कामेन.

राजा नं पञ्चहि गाथाहि परिभासित्वा पब्बतमत्थके ठितंयेव अस्सासेन्तो गाथमाह –

२७. ‘‘मा त्वं चन्दे रोदि मा सोपि, वनतिमिरमत्तक्खि;

मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभी’’ति.

तत्थ चन्देति महासत्तस्स परिदेवनकाले नामस्स सुतत्ता एवमाह. वनतिमिरमत्तक्खीति वनतिमिरपुप्फसमानअक्खि. पूजिता नारीभीति सोळसन्नं इत्थिसहस्सानं जेट्ठिका अग्गमहेसी हेस्ससि.

चन्दा तस्स वचनं सुत्वा ‘‘त्वं किं मं वदेसी’’ति सीहनादं नदन्ती अनन्तरगाथमाह –

२८. ‘‘अपि नूनहं मरिस्सं, नाहं राजपुत्त तव हेस्सं;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही’’ति.

तत्थ अपि नूनहन्ति अपि एकंसेनेव अहं मरिस्सं.

सो तस्सा वचनं सुत्वा निच्छन्दरागो हुत्वा इतरं गाथमाह –

२९. ‘‘अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तं;

तालीसतगरभोजना, अञ्ञे तं मिगा रमिस्सन्ती’’ति.

तत्थ अपि भीरुकेति भीरुजातिके. तालीसतगरभोजनाति त्वं तालीसपत्ततगरपत्तभोजना मिगी, तस्मा अञ्ञे तं मिगा रमिस्सन्ति, न त्वं राजकुलारहा, गच्छाति नं अवच, वत्वा च पन निरपेक्खो हुत्वा पक्कामि.

सा तस्स गतभावं ञत्वा ओरुय्ह महासत्तं आलिङ्गित्वा पब्बतमत्थकं आरोपेत्वा पब्बततले निपज्जापेत्वा सीसमस्स अत्तनो ऊरूसु कत्वा बलवपरिदेवं परिदेवमाना द्वादस गाथा अभासि –

३०. ‘‘ते पब्बता ता च कन्दरा, ता च गिरिगुहायो तथेव तिट्ठन्ति;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३१. ‘‘ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३२. ‘‘ते पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३३. ‘‘अच्छा सवन्ति गिरिवननदियो, कुसुमाभिकिण्णसोतायो;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३४. ‘‘नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३५. ‘‘पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३६. ‘‘तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३७. ‘‘तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३८. ‘‘सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३९. ‘‘चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४०. ‘‘यक्खगणसेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४१. ‘‘किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्स’’न्ति.

तत्थ ते पब्बताति येसु मयं एकतोव अभिरमिम्ह, इमे ते पब्बता ता च कन्दरा ता च गिरिगुहायो तथेव ठिता. तेसु अहं इदानि तं अपस्सन्ती कथं कस्सं, किं करिस्सामि, तेसु पुप्फफलपल्लवादिसोभं तं अपस्सन्ती कथं अधिवासेतुं सक्खिस्सामीति परिदेवति. पण्णसन्थताति तालीसपत्तादिगन्धपण्णसन्थरा. अच्छाति विप्पसन्नोदका. नीलानीति नीलमणिमयानि. पीतानीति सोवण्णमयानि. तम्बानीति मनोसिलमयानि. तुङ्गानीति उच्चानि तिखिणग्गानि. सेतानीति रजतमयानि. चित्रानीति सत्तरतनमिस्सकानि. यक्खगणसेवितेति भुम्मदेवताहि सेविते.

इति सा द्वादसहि गाथाहि परिदेवित्वा महासत्तस्स उरे हत्थं ठपेत्वा सन्तापभावं ञत्वा ‘‘चन्दो जीवतियेव, देवुज्झानकम्मं कत्वा जीवितमस्स दस्सामी’’ति चिन्तेत्वा ‘‘किं नु खो लोकपाला नाम नत्थि, उदाहु विप्पवुत्था, अदु मता, ते मे पियसामिकं न रक्खन्ती’’ति देवुज्झानकम्मं अकासि. तस्सा सोकवेगेन सक्कस्स आसनं उण्हं अहोसि. सक्को आवज्जेन्तो तं कारणं ञत्वा ब्राह्मणवण्णेन वेगेनेव आगन्त्वा कुण्डिकतो उदकं गहेत्वा महासत्तं आसिञ्चि. तावदेव विसं अन्तरधायि, वणो रुहि, इमस्मिं ठाने विद्धोतिपि न पञ्ञायि. महासत्तो सुखितो उट्ठासि. चन्दा पियसामिकं अरोगं दिस्वा सोमनस्सप्पत्ता सक्कस्स पादे वन्दन्ती अनन्तरगाथमाह –

४२. ‘‘वन्दे ते अयिरब्रह्मे, यो मे इच्छितं पतिं वराकिया;

अमतेन अभिसिञ्चि, समागतास्मि पियतमेना’’ति.

तत्थ अमतेनाति उदकं ‘‘अमत’’न्ति मञ्ञमाना एवमाह. पियतमेनाति पियतरेन, अयमेव वा पाठो.

सक्को तेसं ओवादमदासि ‘‘इतो पट्ठाय चन्दपब्बततो ओरुय्ह मनुस्सपथं मा गमित्थ, इधेव वसथा’’ति. एवञ्च पन वत्वा ते ओवदित्वा सकट्ठानमेव गतो. चन्दापि ‘‘किं नो सामि इमिना परिपन्थट्ठानेन, एहि चन्दपब्बतमेव गच्छामा’’ति वत्वा ओसानगाथमाह –

४३. ‘‘विचराम दानि गिरिवननदियो, कुसुमाभिकिण्णसोतायो;

नानादुमवसनायो, पियंवदा अञ्ञमञ्ञस्सा’’ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न इदानेव, पुब्बेपेसा मयि असंहीरचित्ता अनञ्ञनेय्या एवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा देवदत्तो अहोसि, सक्को अनुरुद्धो, चन्दा राहुलमाता, चन्दकिन्नरो पन अहमेव अहोसि’’न्ति.

चन्दकिन्नरीजातकवण्णना दुतिया.

[४८६] ३. महाउक्कुसजातकवण्णना

उक्का चिलाचा बन्धन्तीति इदं सत्था जेतवने विहरन्तो मित्तबन्धकउपासकं आरब्भ कथेसि. सो किर सावत्थियं परिजिण्णस्स कुलस्स पुत्तो सहायं पेसेत्वा अञ्ञतरं कुलधीतरं वारापेत्वा ‘‘अत्थि पनस्स उप्पन्नकिच्चं नित्थरणसमत्थो मित्तो वा सहायो वा’’ति वुत्ते ‘‘नत्थी’’ति वत्वा ‘‘तेन हि मित्ते ताव बन्धतू’’ति वुत्ते तस्मिं ओवादे ठत्वा पठमं ताव चतूहि दोवारिकेहि सद्धिं मेत्तिं अकासि, अथानुपुब्बेन नगरगुत्तिकगणकमहामत्तादीहि सद्धिं मेत्तिं कत्वा सेनापतिनापि उपराजेनापि सद्धिं मेत्तिं अकासि. तेहि पन सद्धिं एकतो हुत्वा रञ्ञा सद्धिं मेत्तिं अकासि. ततो असीतिया महाथेरेहि सद्धिं आनन्दत्थेरेनपि सद्धिं एकतो हुत्वा तथागतेन सद्धिं मेत्तिं अकासि. अथ नं सत्था सरणेसु च सीलेसु च पतिट्ठापेसि, राजापिस्स इस्सरियमदासि. सो मित्तबन्धकोयेवाति पाकटो जातो. अथस्स राजा महन्तं गेहं दत्वा आवाहमङ्गलं कारेसि. राजानं आदिं कत्वा महाजनो पण्णाकारे पहिणि. अथस्स भरिया रञ्ञा पहितं पण्णाकारं उपराजस्स, उपराजेन पहितं पण्णाकारं सेनापतिस्साति एतेन उपायेन सकलनगरवासिनो आबन्धित्वा गण्हि. सत्तमे दिवसे महासक्कारं कत्वा दसबलं निमन्तेत्वा पञ्चसतस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा भत्तकिच्चावसाने सत्थारा कथितं अनुमोदनं सुत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, मित्तबन्धकउपासको अत्तनो भरियं निस्साय तस्सा वचनं कत्वा सब्बेहि मेत्तिं कत्वा रञ्ञो सन्तिका महन्तं सक्कारं लभि, तथागतेन पन सद्धिं मेत्तिं कत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठिता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव सो एतं मातुगामं निस्साय महन्तं यसं सम्पत्तो, पुब्बे तिरच्छानयोनियं निब्बत्तोपि पनेस एतिस्सा वचनेन बहूहि सद्धिं मेत्तिं कत्वा पुत्तसोकतो मुत्तोयेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकच्चे पच्चन्तवासिनो यत्थ यत्थ बहुं मंसं लभन्ति, तत्थ तत्थ गामं निवासेत्वा अरञ्ञे चरित्वा मिगादयो मारेत्वा मंसं आहरित्वा पुत्तदारे पोसेन्ति. तेसं गामतो अविदूरे महाजातस्सरो अत्थि. तस्स दक्खिणपस्से एको सेनसकुणो, पच्छिमपस्से एका सेनसकुणी, उत्तरपस्से सीहो मिगराजा, पाचीनपस्से उक्कुससकुणराजा वसति. जातस्सरमज्झे पन उन्नतट्ठाने कच्छपो वसति. तदा सेनो सेनिं ‘‘भरिया मे होही’’ति वदति. अथ नं सा आह – ‘‘अत्थि पन ते कोचि मित्तो’’ति? ‘‘नत्थि भद्दे’’ति. अम्हाकं उप्पन्नं भयं वा दुक्खं वा हरणसमत्थं मित्तं वा सहायं वा लद्धुं वट्टति, मित्ते ताव गण्हाहीति. ‘‘केहि सद्धिं मेत्तिं करोमि भद्दे’’ति? पाचीनपस्से वसन्तेन उक्कुसराजेन, उत्तरपस्से सीहेन, जातस्सरमज्झे कच्छपेन सद्धिं मेत्तिं करोहीति. सो तस्सा वचनं सम्पटिच्छित्वा तथा अकासि. तदा ते उभोपि संवासं कप्पेत्वा तस्मिंयेव सरे एकस्मिं दीपके कदम्बरुक्खो अत्थि समन्ता उदकेन परिक्खित्तो, तस्मिं कुलावकं कत्वा पटिवसिंसु.

तेसं अपरभागे द्वे सकुणपोतका जायिंसु. तेसं पक्खेसु असञ्जातेसुयेव एकदिवसं ते जानपदा दिवसं अरञ्ञे चरित्वा किञ्चि अलभित्वा ‘‘न सक्का तुच्छहत्थेन घरं गन्तुं, मच्छे वा कच्छपे वा गण्हिस्सामा’’ति सरं ओतरित्वा तं दीपकं गन्त्वा तस्स कदम्बस्स मूले निपज्जित्वा मकसादीहि खज्जमाना तेसं पलापनत्थाय अरणिं मन्थेत्वा अग्गिं निब्बत्तेत्वा धूमं करिंसु. धुमो उग्गन्त्वा सकुणे पहरि, सकुणपोतका विरविंसु. जानपदा तं सुत्वा ‘‘अम्भो, सकुणपोतकानं सूयति सद्दो, उट्ठेथ उक्का बन्धथ, छाता सयितुं न सक्कोम, सकुणमंसं खादित्वाव सयिस्सामा’’ति वत्वा अग्गिं जालेत्वा उक्का बन्धिंसु. सकुणिका तेसं सद्दं सुत्वा ‘‘इमे अम्हाकं पोतके खादितुकामा, मयं एवरूपस्स भयस्स हरणत्थाय मित्ते गण्हिम्ह, सामिकं उक्कुसराजस्स सन्तिकं पेसेस्सामी’’ति चिन्तेत्वा ‘‘गच्छ, सामि, पुत्तानं नो उप्पन्नभयं उक्कुसराजस्स आरोचेही’’ति वत्वा पठमं गाथमाह –

४४. ‘‘उक्का चिलाचा बन्धन्ति दीपे, पजा ममं खादितुं पत्थयन्ति;

मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजान’’न्ति.

तत्थ चिलाचाति जानपदा. दीपेति दीपकम्हि. पजा ममन्ति मम पुत्तके. सेनकाति सेनकसकुणं नामेनालपति. ञातिब्यसनन्ति पुत्तानं ब्यसनं. दिजानन्ति अम्हाकं ञातीनं दिजानं इदं ब्यसनं उक्कुसराजस्स सन्तिकं गन्त्वा आचिक्खाहीति वदति.

सो वेगेन तस्स वसनट्ठानं गन्त्वा वस्सित्वा अत्तनो आगतभावं जानापेत्वा कतोकासो उपसङ्कमित्वा वन्दित्वा ‘‘किंकारणा आगतोसी’’ति पुट्ठो आगतकारणं दस्सेन्तो दुतियं गाथमाह –

४५. ‘‘दिजो दिजानं पवरोसि पक्खिम, उक्कुसराज सरणं तं उपेम;

पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा भव मे सुखाया’’ति.

तत्थ दिजोति त्वं दिजो चेव दिजानं पवरो च.

उक्कुसराजा ‘‘सेनक मा भायी’’ति तं अस्सासेत्वा ततियं गाथमाह –

४६. ‘‘मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना;

करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्च’’न्ति.

तत्थ काले अकालेति दिवा च रत्तिञ्च. अरियोति इध आचारअरियो अधिप्पेतो. आचारसम्पन्नो हि आचारसम्पन्नस्स किच्चं करोतेव, किमेत्थ करणीयन्ति वदति.

अथ नं पुच्छि ‘‘किं, सम्म, रुक्खं अभिरुळ्हा चिलाचा’’ति? न ताव अभिरुळ्हा, उक्कायेव बन्धन्तीति. तेन हि त्वं सीघं गन्त्वा मम सहायिकं अस्सासेत्वा ममागमनभावं आचिक्खाहीति. सो तथा अकासि. उक्कुसराजापि गन्त्वा कदम्बस्स अविदूरे चिलाचानं अभिरुहनं ओलोकेन्तो एकस्मिं रुक्खग्गे निसीदित्वा एकस्स चिलाचस्स अभिरुहनकाले तस्मिं कुलावकस्स अविदूरं अभिरुळ्हे सरे निमुज्जित्वा पक्खेहि च मुखेन च उदकं आहरित्वा उक्काय उपरि आसिञ्चि, सा निब्बायि. चिलाचा ‘‘इमञ्च सेनकसकुणपोतके चस्स खादिस्सामी’’ति ओतरित्वा पुन उक्कं जालापेत्वा अभिरुहिंसु. पुन सो उक्कं विज्झापेसि. एतेनुपायेन बद्धं बद्धं विज्झापेन्तस्सेवस्स अड्ढरत्तो जातो. सो अतिविय किलमि, हेट्ठाउदरे किलोमकं तनुतं गतं, अक्खीनि रत्तानि जातानि. तं दिस्वा सकुणी सामिकं आह – ‘‘सामि, अतिविय किलन्तो उक्कुसराजा, एतस्स थोकं विस्समनत्थाय गन्त्वा कच्छपराजस्स कथेही’’ति. सो तस्सा वचनं सुत्वा उक्कुसं उपसङ्कमित्वा गाथाय अज्झभासि –